महाभिषेकं वक्ष्येऽहं स्कन्दस्य शृणु कौशिक ।
धर्मार्थकाममोक्षार्थं शान्तिकं पौष्टिकं शुभम् ॥ ४५.१॥
आयुः श्रीवर्धनं पुण्यं सर्वव्याधिविनाशनम् ।
रिपुक्षयं राज्यलाभं बालानां वृद्धिकारकम् ॥ ४५.२॥
एकाहञ्च त्रयाहञ्च पञ्चाहं त्वभिषेचयेत् ।
कृत्तिकायां विशाखायां षष्ठ्यां वाङ्गारवारके ॥ ४५.३॥
यजमानस्य नक्षत्रे शुभयोगे शुभावहम् ।
रिपुक्षयार्थं पञ्चाहं त्र्यधाहं सर्वकामदम् ॥ ४५.४॥
एकाहं रोगनाशार्थं कारयेन्मुनिपुङ्गव ।
पूर्वेद्युरङ्कुरान् पाद्यं कौतुकं बन्धयेत्ततः ॥ ४५.५॥
क्षीराभिषेचनं कृत्वा पायसन्तु निवेदयेत् ।
निर्वाणदीपं तद्रात्रौ गोघृतेनैव कारयेत् ॥ ४५.६॥
प्रातस्नानादिकं कृत्वा शिष्यैश्चैव गुरुस्ततः ।
गोमयालेपनं कृत्वा पुण्याहं प्रोक्षणं ततः ॥ ४५.७॥
जलभाण्डानि कलशान् पाद्याचमनपात्रकम् ।
पटलीसमहाकारं सर्वलक्षणसंयुतम् ॥ ४५.८॥
अस्त्रेण क्षाल्यतोयैश्च न्यसेद्दत्वासनोपरि ।
निरीक्ष्य हृदयेनैव प्रोक्षयेत्पुरुषेण च ॥ ४५.९॥
ताडनं हुम्फडन्तास्त्रैर्दर्शनं सद्यममन्त्रतः ।
नेत्रेणोन्मीलनं कुर्यात्कवचेनावकुण्ठनम् ॥ ४५.१०॥
वस्त्रपूतैश्च तोयैश्च जलभाण्डानि पूरयेत् ।
एलालवङ्गकर्पूरगन्धपुष्पजलान्वितैः ॥ ४५.११॥
पञ्चाङ्गभूषणैर्युक्तं शिष्यैः सह गुरुस्ततः ।
अङ्गन्यासकरन्यासमन्तर्यागं समाचरेत् ॥ ४५.१२॥
प्राणप्रकृतियोगन्तु ज्ञात्वा कर्मसमाचरेत् ।
वर्धनीकुम्भकलशान् सूत्रेणैव तु वेष्टयेत् ॥ ४५.१३॥
देवाग्रे वाऽपि वर्तव्यं मण्डपे स्नपनादिकम् ।
शालिभिस्तण्डुलन्तत्र कल्पयेन्मुनिसत्तम ॥ ४५.१४॥
कारयेद्विधिना पञ्चविंशतिस्नपनं कुरु ।
स्कन्दकुम्भं न्यसेन्मध्ये तत्पार्श्वे वर्धनीद्वयम् ॥ ४५.१५॥
पाद्यमाचमनं चार्घ्यं वस्त्रयुग्गन्धतैलकम् ।
तिलकुम्भञ्च नीवारं प्रथमावरणे न्यसेत् ॥ ४५.१६॥
द्वितीयावरणे विद्वान् पूर्वादिषु प्रकल्पयेत् ।
मधुकेक्षुगुलं पश्चादुशीरं चन्दनन्तथा ॥ ४५.१७॥
तक्कोलं सर्वगन्धञ्च जातिं चैव मरुं तथा ।
कल्हारञ्च कदम्बञ्च मल्लिकाद्रोणमेव च ॥ ४५.१८॥
बीजलक्ष्मीप्रदानञ्च कैतकं पुष्पमेव च ।
एतत् षोडशकं द्रव्यमभ्यर्च्य स्वर्णतोयकम् ॥ ४५.१९॥
स्कन्दं शक्तिद्वयं मध्ये विद्येशान् प्रथमावृतौ ।
दिक्पालान् वसूंश्चापि द्वितीयावरणे न्यसेत् ॥ ४५.२०॥
तत्पश्चिमदिशि स्थाप्य पञ्चगव्यं विधानतः ।
स्थण्डिलं पश्चिमं तस्य कल्प्य पञ्चामृतम्बुधः ॥ ४५.२१॥
क्षीरन्तु मध्यमे स्थाप्य गोमूत्रं पूर्व एव च ।
आग्नेये गोमयं न्यस्त्वा याम्ये दधि महामुने ॥ ४५.२२॥
आज्यं निरृतिदेशे तु पश्चिमे मधु विन्यसेत् ।
फलसारन्तु वायव्ये सौम्ये स्यादिक्षुसारकम् ॥ ४५.२३॥
ऐशान्यां नालिकेरञ्च नवद्रव्यनिहोच्यते ।
प्रस्थमर्धं तदर्धञ्च प्रस्थं कुडुपमेव च ॥ ४५.२४॥
कुडुपञ्च चतुःप्रस्थं प्रस्थं त्रिःप्रस्थमेव च ।
एवं क्षीरादिसङ्कल्प्य प्रोक्षयेदस्त्रमन्त्रतः ॥ ४५.२५॥
अभ्यङ्गञ्च ततः कृत्वा पञ्चगव्याभिषेचनम् ।
आधाराधेयपूजाञ्च कुर्यादावाहनाष्टकम् ॥ ४५.२६॥
पञ्चामृतादिसम्पूज्य स्नपनेन ततः परम् ।
पूजयेत्स्कन्दमूलेन ब्रह्ममूर्त्यङ्गमन्त्रतः ॥ ४५.२७॥
स्कन्दसूक्तेन मन्त्रज्ञः कुमारायेति मन्त्रतः ।
अयं कुमारमन्त्रेण माते कुमारमन्त्रतः ॥ ४५.२८॥
मालामन्त्रेण मतिमान् रुद्रसूक्तेन तत्परम् ।
श्रीरुद्रचमकाभ्याञ्च पुरुषसूक्तन तत्परम् ॥ ४५.२९॥
षड्वारं मन्त्रितैर्मन्त्रैः स्नापयेत्पञ्चशान्तिकैः ।
वस्त्रोपवीतगन्धञ्च सर्वाण्याभरणानि च ॥ ४५.३०॥
दत्वाथ मन्त्रवित्कुर्यात्पञ्चावरणपूजनम् ।
विन्यसेन्मातृकान्यासं सैकत्रिंशत्कला मता ॥ ४५.३१॥
तत्काले पुष्पदामैश्च सर्वत्रैव प्रकल्पयेत् ।
प्रभूतहविषं दत्वा यथाविभवविस्तरम् ॥ ४५.३२॥
सर्वोपदेशसंयुक्तं नानापुष्पसमन्वितम् ।
नानाफलसमोपेतमाज्यपूर्णदधिप्लुतम् ॥ ४५.३३॥
पानीयं मुखवासञ्च ताम्बूलञ्च विशेषतः ।
धूपदीपादिकं दत्वा गुहाग्निञ्च नयेत्ततः ॥ ४५.३४॥
श्यामवृक्षसमिद्भिश्च वरुणं सर्पिषा हुनेत् ।
षडक्षरेण मन्त्रेण प्रत्येकं द्विसहस्रकम् ॥ ४५.३५॥
अङ्गमन्त्रैर्दशांशं तु पूर्णाहुतिसमाचरेत् ।
स्विष्टकृच्च जयादिञ्च सर्वकामार्थसिद्धये ॥ ४५.३६॥
स्वर्णपुष्पैश्च दानैश्च वाद्यैर्गीतैश्च नर्तनैः ।
जपैः प्रदक्षिणैः स्तात्रैर्नमस्कारैश्च भक्तितः ॥ ४५.३७॥
प्रीणयित्वा महासेनं प्रार्थयेदर्थमीप्सितम् ।
यान् यान् कामयते कामान् तांस्तान् सत्यमवाप्नुयात् ॥ ४५.३८॥
आचार्यं पूजयेत्कर्ता गोभूमीधान्यकाञ्चनैः ।
वस्त्रहेमाङ्गुलीयैश्च दासीदासैश्च भक्तितः ।
कुमारं गण्डरोगस्य नाशार्थमपि कारयेत् ॥ ४५.३९॥
इति श्रीकुमारतन्त्रे महाभिषेकविधिर्नाम पञ्चचत्वारिंशत्पटलः ।