रथप्रतिष्ठां वक्ष्येऽहं तल्लक्षणपुरः सरम् ।
रथोऽनेकविधः प्रोक्तः सलक्षणविभेदतः ॥ ४४.१॥
विजयं चैव कान्तञ्च श्रीकेशश्च विशालकम् ।
निभद्रं श्रीविशालञ्च भद्रं भद्रविशालकम् ॥ ४४.२॥
एवमष्टविधं प्रोक्तं विश्वामित्र महामुने ।
त्रिचक्रात् दशचक्रान्तं विजयादि यथाक्रमम् ॥ ४४.३॥
त्रिविधस्य समारभ्य षट् षडङ्गुलवर्धनात् ।
निष्कम्पकावसानन्तु त्रिपञ्चाङ्घ्रिविशालकम् ॥ ४४.४॥
चक्रतारत्रिभागैकं पञ्चभागाद्विभागकम् ।
षड्भागे तु त्रिभागञ्च मध्ये कुक्षिविशालकम् ॥ ४४.५॥
कुक्षिद्विलक्षणं तारं चतुर्भागैकमेव च ।
पञ्चमांशैकभागञ्च तन्मध्ये नाभिविस्तृतम् ॥ ४४.६॥
अथवाङ्गुलमानेन नाभेर्मानं प्रचक्षते ।
चतुरङ्गुलमारभ्य चैकाङ्गुलविवर्धनात् ॥ ४४.७॥
एकादशाङ्गुलान्तं स्यादष्टाधानादि विस्तृतम् ।
चित्रवृत्तं यथा नाभेश्चाक्षाग्रस्य प्रवेशनम् ॥ ४४.८॥
वृक्षैकेन विना चक्रं कारयेद्बहुवृक्षकैः ।
त्रिद्रव्यैर्योजयेच्चक्रं पञ्चद्रव्येण वा मतम् ॥ ४४.९॥
दारुकीलेन युञ्जीयादधः पट्टेन बन्धयेत् ।
द्रारुपट्टिकया युक्तं यथाबलवशं तथा ॥ ४४.१०॥
भारबाह्यन्तरं चक्रं युक्त्या युञ्जीत बुद्धिमान् ।
सपादकिष्कुमारभ्य षट्पडङ्गुलिवर्धयेत् ॥ ४४.११॥
भारस्य रुद्रकिष्कं तत् चत्वारिंशत्प्रमाणकम् ।
भारबाह्येतरे मध्ये त्रिविधं मानमूहयेत् ॥ ४४.१२॥
भारञ्च त्रिचतुःपञ्चसप्तमं मुनिसत्तम ।
वेदाङ्गुलादिरुद्रान्तं भारतारं धनं क्रमात् ॥ ४४.१३॥
भारतारसमायामं सपादं सार्धमेव च ।
पादोशद्विगुणायारं द्विगुणायाममेव च ॥ ४४.१४॥
सपादद्विगुणायामं द्विगुणार्धमथापि वा ।
त्रिपादद्विगुणं वाऽपि त्रिगुणं भारमायतम् ॥ ४४.१५॥
एवं नवविधं प्रोक्तमिष्टायामं परिग्रहेत् ।
तद्भारञ्च ललाटे च पट्टिका योजयेद्दृढम् ॥ ४४.१६॥
भारस्यार्धं विशालोच्चं तस्याधो चोपधारकम् ।
उपधानादयो देशे चाक्षं तिर्यक् समुन्नयेत् ॥ ४४.१७॥
षड्वितस्तिसमारभ्य एकैकाङ्गुलवर्धनात् ।
त्रयोदशवितस्त्यन्तमक्षयाममुदाहृतम् ॥ ४४.१८॥
अक्षस्याधो शिखां कुर्यादायसा वा स्वदारुणा ।
दण्डाग्रे चक्रवास्याधः कीलेनैव तु योजयेत् ॥ ४४.१९॥
भारस्योपरिदेशे तु शक्तिं कुर्यान्नवाङ्गुलम् ।
मध्यभारो मुखे चोर्ध्वे द्वित्रिहस्तोन्नतं तु वा ॥ ४४.२०॥
उपधानादधस्तात्तु कुलीराङ्घ्र्यक्षवेशनम् ।
षडङ्गुलसमारभ्य द्वित्र्यङ्गुलविवर्धनात् ॥ ४४.२१॥
एकहस्तावसानान्तमधः पट्टेन बन्धयेत् ।
यथेष्टञ्च स्मृतं नालं चक्राग्रे मुकुलान्वितम् ॥ ४४.२२॥
तन्मूले ग्राहकं भूष्यं मुष्टिबन्धादिबन्धितम् ।
भारोर्ध्वे तु ततः कुर्यात् पालिकां चोपपीठकम् ॥ ४४.२३॥
तत्तुङ्गं पञ्चमात्रान्तं व्यक्तिकं चाष्टमानकम् ।
पालिकोपरि मध्ये तु चोन्नतिश्चतुरश्रकम् ॥ ४४.२४॥
वितस्त्यैकं समारभ्य षट् षडङ्गुलवर्धनात् ।
सार्धद्विहस्तपर्यन्तं दारुवर्गोदयं क्रमात् ॥ ४४.२५॥
उपपीठादिपादाढ्यं सर्वालङ्कारसंयुतम् ।
तदूर्ध्वे रथमानस्य लक्षणं वक्ष्यतेऽधुना ॥ ४४.२६॥
भारारञ्च समारभ्य सार्धाधिकमेव वा ।
वितस्त्येकं समारभ्य त्रित्र्यङ्गुलवर्धनात् ॥ ४४.२७॥
त्रिवितस्त्यन्तमुद्दिष्टं नवधा भारविस्तरम् ।
तद्बहिर्भद्रयुक्तं चेत्तन्मानेनैव कारयेत् ॥ ४४.२८॥
एकद्वित्रितलोपेतं तालाधिष्ठानवेदिवत् ।
वितस्त्येकं समारभ्य द्वित्र्यङ्गुलविवर्धनात् ॥ ४४.२९॥
अष्टाविंशाङ्गुलान्तञ्च नवाधिष्ठानतुङ्गकम् ।
सैकात्क्रमाङ्गुलारभ्य द्वित्र्यङ्गुलविवर्धनात् ॥ ४४.३०॥
नवविंशतिमात्रान्तं प्रत्येकं च यथा भवेत् ।
एवं तलोदयं प्रोक्तं चैकादित्रितलान्तिकम् ॥ ४४.३१॥
एकादिनवतालान्तं भारतोर्ध्वं प्रकल्पयेत् ।
एकादिचोर्ध्ववेदीनां पीठमानं प्रवेशयेत् ॥ ४४.३२॥
वितस्त्येकं समारभ्य द्वित्र्यङ्गुलविवर्धनात् ।
एकहस्तावसानन्तु पञ्चधा तालवेशनम् ॥ ४४.३३॥
एकनेत्रं त्रिनेत्रं वा द्विमुखं वा चतुर्मुखम् ।
एवमेवं रथाः सर्वे भद्रदेशे मुखं मतम् ॥ ४४.३४॥
भारं भारोपधानञ्च भारोपरि च चाङ्घ्रिकम् ।
दारुवर्गसमायुक्तं भद्रहीनं त्रिचक्रयुक् ॥ ४४.३५॥
नाम्ना विजयमित्युक्तं विश्वामित्र महामुने ।
चतुश्चक्रसमायुक्तं दारुवर्गसमन्वितम् ॥ ४४.३६॥
चतुरश्रमेकतालं रथं कान्तमिति स्मृतम् ।
चक्रं पञ्चसमायुक्तं चैकं तद्वितलन्तु वा ॥ ४४.३७॥
श्रीकेशं नामतः प्रोक्तं प्रसारिततलं क्रमात् ।
ततश्चक्रस्य चैकं चेद्विशालमितिकोर्तितम् ॥ ४४.३८॥
तदेकपृष्ठभद्रं चेत् श्रीभूतमिति कथ्यते ।
पुरतः पार्श्वयोर्भद्रं नाम्ना तत्त्रिविशालकम् ॥ ४४.३९॥
द्वे चतुर्भद्रयुक्तं चेद्भद्रमित्यभिधीयते ।
रसादिदशचक्रान्तं संयुक्तं त्रितलान्वितम् ॥ ४४.४०॥
चतुर्मुखं रथं प्रोक्तं नाम्ना भद्रविशालकम् ।
प्रासादवलयं कुर्यात् कूटशालादिमण्डितम् ॥ ४४.४१॥
यथा तलं यथा शोभं तदा युञ्जीत वर्धनम् ।
अधिकं सोच्चपट्टैश्च योजनीयं विचक्षणः ॥ ४४.४२॥
सुवर्णभारताम्रेश्च तद्रव्या द्वादशान्तं यथा बलम् ।
तलेषु भद्रसंयुक्तं वा चोर्ध्वे चतुरश्रकम् ॥ ४४.४३॥
वेदिकोपरि सर्वत्र पादादिस्तूपिकान्तरम् ।
एकतोऽनेकतालं वा पादोर्ध्वे द्वितलं भवेत् ॥ ४४.४४॥
शालाकूटं विना वाऽपि वैकास्यैकतलन्तुवा ।
नानावर्णैश्च वस्त्रैश्च स्तम्भादूर्ध्वमलङ्करेत् ॥ ४४.४५॥
नानाध्वजसमोपेतं नानादामैश्च चामरैः ।
ऊर्ध्ववेद्युपरिष्टात्तु सिंहरूपाङ्घ्रिकासनम् ॥ ४४.४६॥
नित्ये नैमित्तिके वाऽपि कुर्यादासनमुत्तमम् ।
अथवा वेदिकाधारं देवासनमुदीरितम् ॥ ४४.४७॥
आयादिशुभवर्गाढ्यं सर्वालङ्कारसंयुतम् ।
दारुवर्गेषु सर्वत्र कुर्यात्स्कन्दविनोदनम् ॥ ४४.४८॥
रथमेवञ्च सम्पाद्य प्रतिष्ठां सम्प्रकारयेत् ।
सर्वमासे प्रकर्तव्यं शुक्लपक्षे शुभे दिने ॥ ४४.४९॥
तैलाभ्यङ्गं रथं कृत्वा शुद्धोदैरभिषेचयेत् ।
पञ्चगव्येन सम्प्रोक्ष्य पुण्याहप्रोक्षणं तथा ॥ ४४.५०॥
अस्त्रेणार्घ्यजलेनैव प्रोक्ष्य गन्धादिनार्चयेत् ।
कौतुकं बन्धयेत् पद्मं मुखे तु हृदयेन तु ॥ ४४.५१॥
वस्त्रैराच्छाद्य तद्देशं तत्त्वतत्त्वेश्वरं न्यसेत् ।
मूर्तिमूर्तीश्वरोपेतं यथाविधि समर्चयेत् ॥ ४४.५२॥
दक्षिणेषु च चक्रेषु यजेत्कुर्याद्दिशां पतिम् ।
इन्द्रमक्षेषु भारेषु यजेदाधारशक्तिकाम् ॥ ४४.५३॥
उपपीठे गजं न्यस्त्वा तदूर्ध्वेऽनन्तमर्चयेत् ।
गन्धस्तम्भेषु सर्वेषु धर्माधर्मादि विन्यसेत् ॥ ४४.५४॥
देवासनेऽधच्छदने मूर्ध्वच्छदनमूर्ध्वतः ।
कर्णिका नवशक्तीश्च सुब्रह्मण्यासनं तथा ॥ ४४.५५॥
जयन्ताद्यष्टविद्येशा रथाधिपतयः स्मृताः ।
मयूरः शिखिराशीशाः सेनानी स्तूपिनायकाः ॥ ४४.५६॥
रथाग्रे पार्श्वयोर्वापि मण्डपं कल्पयेत्सुधीः ।
षोडशस्तम्भसंयुक्तं मध्ये वेदिसमन्वितम् ॥ ४४.५७॥
सर्वालङ्कारसंयुक्तं गोमयालिप्तभूतलम् ।
कुण्डानि परितः कृत्वा नव पञ्चैकमेव वा ॥ ४४.५८॥
प्रधानन्तु षडश्रं स्यात्सर्वलक्षणसंयुतम् ।
वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ ४४.५९॥
कूर्चादि सहितं तस्य तत्तत्कुम्भान् न्यसेततः ।
तत्र वध्ये गुहं पूर्वे भानुमिन्दुं तथानले ॥ ४४.६०॥
दक्षिणे दृढमाधारं शक्तिं निरृतिगोचरे ।
गजं मयूरं वरुणे वायव्येन तमर्चयेत् ॥ ४४.६१॥
धर्मादि चोत्तरे शेषमीशाने गोचरे तथा ।
गन्धाद्यैरर्चयित्वाथ होमकर्मसमाचरेत् ॥ ४४.६२॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
गुहं साम्बं प्रधानान्तमष्टमूर्तिपरेषु च ॥ ४४.६३॥
अर्चयेदेककुण्डेषु गुहमूर्तिञ्च तत्र वै ।
पालाशोदुम्बरोश्वत्थ वटाः पूर्वादिदिक्षु च ॥ ४४.६४॥
शम्यपामार्गमायूरंवुशयेव विदिक्षु च ।
प्रधाने तु पलाशत्स्यात्समिधः सम्प्रकीर्तितः ॥ ४४.६५॥
समिधाज्यान्नलाजेश्च तिलैश्चैव प्रियङ्गुभिः ।
स्कन्दमूलेन चाङ्गैश्च होमयेत्तु यथाक्रमम् ॥ ४४.६६॥
शतमर्धं तदर्धं वा जुहुयाद्देशिकोत्तमः ।
पूर्णां हुत्वा द्वितीयेऽह्नि यागेशानर्च्य देशिकः ॥ ४४.६७॥
स्नात्वा शुक्लाम्बरधरः शुचिर्भूत्वा समाहितः ।
मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ॥ ४४.६८॥
तत्तत्कुम्भस्थतोयेन तत्तद्देवान् ततस्थले ।
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ ४४.६९॥
कुम्भानुद्धृत्य शिरसा पूरयेत्तु यथाक्रमम् ।
अनुक्तमन्यतो ग्राह्यमधिकं नैवदोषभाक् ॥ ४४.७०॥
देशिकस्य तु यच्चित्तं देवानान्तुष्टिकारकम् ।
मूर्तिधारास्तु दैवज्ञादधिकं तोषयेत्ततः ॥ ४४.७१॥
एवं यः कुरुते मर्त्यः स पुण्याङ्गतिमाप्नुयात् ।
इहैव पुत्रधनवान् प्राप्नुयाद्वाञ्छितं फलम् ।
सोऽन्तेप्सरगणैः सेव्यो विमानं सर्वकामिकम् ॥ ४४.७२॥
इति श्रीकुमारतन्त्रे रथप्रतिष्ठाविधिर्नामचतुश्चत्वारिंशत्पटलः ।