अतः परं प्रवक्ष्यामि गजस्थापनमुत्तमम् ।
गजं वा स्वमयूरं वा स्थापनीयं गुहाग्रतः ॥ ४३.१॥
अन्तरावरणे प्रोक्ता देवाभिमुखमासनम् ।
त्रिविधं स्थानकं प्रोक्तं शैलं लोहसुधामयम् ॥ ४३.२॥
लोहजं शैलजं बेरं स्थानकं परिचक्षते ।
सुधामयन्तु कर्तव्यं शयनं मुनिपुङ्गव ॥ ४३.३॥
उत्तमं लोहजं प्रोक्तं शैलजं मध्यमं भवेत् ।
सुधामयं कनिष्ठंस्यात्फलं कर्तुः प्रचक्षते ॥ ४३.४॥
द्वारोत्सेधं चतुर्थांशमर्धपादोनमेव च ।
समं वा द्विगुणं वाऽपि त्रिगुणं वा विशेषतः ॥ ४३.५॥
षट्तालेन तु कर्तव्यं पञ्चतालेन वा मतम् ।
ऐरावतकुले जातं श्वेतरूपं महाबलम् ॥ ४३.६॥
चतुःशृङ्गं द्विशृङ्गं वा गजलक्षणसंयुतम् ।
मयूरमुत्तमं पूर्वं प्रोक्तं तद्वत्समाचरेत् ॥ ४३.७॥
चतुर्द्वारसमायुक्तं शिखरेण समन्वितम् ।
गजस्यायतनं प्रोक्तं पीठाग्रे परिकल्पयेत् ॥ ४३.८॥
प्रासादाग्रेऽथपूर्वे वा दक्षिणे चोत्तरेऽपि वा ।
पञ्चादिनवहस्तान्तं मण्डपस्य विशालकम् ॥ ४३.९॥
षोडशस्तम्भसंयुक्तं चतुस्तोरणसंयुतम् ।
तन्मध्ये वेदिकां कुर्यादुपवेदिसमन्वितम् ॥ ४३.१०॥
तत्पूर्वे कुण्डमेकन्तु चतुरश्रं प्रकल्पयेत् ।
अङ्कुरार्पणमादौ तु रत्नन्यासं ततः परम् ॥ ४३.११॥
नयनोन्मीलनं बेरशुद्धिं ग्रामप्रदक्षिणम् ।
जलाधिवासनं पश्चात् शयनं विधिना पुरः ॥ ४३.१२॥
शयने शाययेद्बेरं प्राक्शिरोत्तरवक्त्रकम् ।
कौतुकं बन्धयेत्कण्ठे नैवेद्यं दापयेत्ततः ॥ ४३.१३॥
कुम्भं तस्य शिरोभागे सर्वोपकरणान्वितम् ।
न्यस्त्वा गजं समावाह्य गजमूलेन मन्त्रवित् ॥ ४३.१४॥
परितः कलशाष्टेषु लोकपालान् समर्चयेत् ।
त्रिखण्डकल्पनां कृत्वा जानुकण्ठशिरोऽवधि ॥ ४३.१५॥
गजात्मविद्यासशिवतत्त्वं सेश्वरमर्चयेत् ।
शिवाग्निं विधिना कृत्वा ततो होमं समाचरेत् ॥ ४३.१६॥
अश्वत्थकं शमीवृक्षं घृतलाजोदनैस्तिलैः ।
यवैर्माषैश्च जुहुयात् गजमूलषडङ्गकैः ॥ ४३.१७॥
गजगायत्रिणा चैव सहस्रन्तु तदर्धकम् ।
प्रतिद्रव्यं हृदेनैव द्रव्यान्ते व्याहृतिं हुनेत् ॥ ४३.१८॥
ब्रह्ममूर्त्यङ्गमन्त्रैश्च होमयेन्मन्त्रवित्तमः ।
प्रातः स्नात्वाथ विधिवत् कृतनित्यविधिर्गुरुः ॥ ४३.१९॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ।
पूर्णाहुतिञ्च शिरसा कृत्वाग्निञ्च विसर्जयेत् ॥ ४३.२०॥
शयनाद्गजमुत्थाप्य स्थाप्य तद्गेहमध्यमे ।
कुम्भाद्बीजं गजशृङ्गे विन्यसेन्न्यासपूर्वकम् ॥ ४३.२१॥
गन्धपुष्पादिनाभ्यर्च्य मुद्गान्नं दापयेद्गुरुः ।
ब्राह्मणान् भोजयेत्पश्चात् वित्तशाढ्यं न कारयेत् ॥ ४३.२२॥
प्रदक्षिणे तु मतिमान् गजयुक्तं समाचरेत् ।
परिवारामरान् सर्वान् युक्तं वाऽथ विमुक्तकम् ।
एवं यः कुरुते मर्त्यः सर्वान् कामानवाप्नुयात् ॥ ४३.२३॥
इति श्रीकुमारतन्त्रे गजस्थापनविधिर्नाम त्रिचत्वारिंशत्पटलः ।