सुमित्रस्थापनं वक्ष्ये शृणु कौशिक सुव्रत ।
उक्त्वैव जननं पूर्वे प्रतिष्ठां च ततः परम् ॥ ४२.१॥
वसिष्ठगोत्रो स्वर्णाक्ष पुत्रः काशीपुरे वसन् ।
त्रिजन्मसु पुरा स्कन्दं समभ्यर्च्य यथाविधि ॥ ४२.२॥
सुमित्र इति सेनान्या प्रोक्तः प्रीतेन देवलः ।
सुब्रह्मण्यस्य सामीप्ये गाणपत्यमवाप्तवान् ॥ ४२.३॥
मूलबेरार्थमत्यर्धं पञ्चांशं द्व्यर्धमेव च ।
पञ्चाशं मुनिभागे च द्वात्रिंशे द्व्यंशमेव वा ॥ ४२.४॥
उत्तमं नवतालेन सुमित्रं कारयेद्बुधः ।
द्विनेत्रं द्विभुजं रक्तं सुवक्त्रं च सुयौवनम् ॥ ४२.५॥
दक्षिणे शक्तिहस्तं च वामं च कटिबन्धनम् ।
अलकं ज्योतिसंयुक्तं दंष्ट्रिणं रुचिराननम् ॥ ४२.६॥
करण्डमकुटं वाऽपि जटामकुटमेव वा ।
हस्तौ मुकुलवद्बद्धौ दक्षिणं शक्तिसंयुतम् ॥ ४२.७॥
सर्वाभरणसंयुक्तमासनस्थानकं तु वा ।
यज्ञोपवीतसंयुक्तं पद्मपीठोपरिस्थितम् ॥ ४२.८॥
इत्थं रूपं सुमित्रस्य गुहेन विहितं पुरा ।
लोहेन शिलया चैव कारयेन्मुनिपुङ्गव ॥ ४२.९॥
प्रासादार्धं तदर्धं वाप्यैशान्ये तस्य गेहकम् ।
एवं सङ्कल्प्य मतिमान् स्थापनं सम्यगाचरेत् ॥ ४२.१०॥
षान्तं षष्ठस्वरोपेतं सुमित्रस्यैव बीजकम् ।
उत्तरायणकाले तु शुक्लपक्षे शुभेदिने ॥ ४२.११॥
प्रासादस्याग्रके वाऽपि पश्चिमे चोत्तरेपि वा ।
षोडशद्वादशस्तम्भयुक्तं मण्डपमाचरेत् ॥ ४२.१२॥
कृत्वाऽथ वेदिकामध्ये तत्त्रिभागैकभागेतः ।
चतुरश्रं चतुर्दिक्षु प्रधानं तु षडश्रकम् ॥ ४२.१३॥
नाभियोनिसमायुक्तं सर्वलक्षणसंयुतम् ।
मण्डपं समलङ्कृत्य वितानस्तम्भवेष्टनैः ॥ ४२.१४॥
दर्भमालासमायुक्तं दशायुधसमायुतम् ।
उत्तरे स्नानवेदिं तु तदर्धेनैव कारयेत् ॥ ४२.१५॥
रत्नन्यासं यथान्यायं सुदृढं कारयेद्बुधः ।
नयनोन्मीलनं कुर्यान्नेत्रयुग्मदिने शुभे ॥ ४२.१६॥
बेरशुद्धिं ततः कृत्वा कुर्याद्ग्रामप्रदक्षिणम् ।
एकरात्रं त्रिरात्रं वा जले चैवाधिवासयेत् ॥ ४२.१७॥
स्थण्डिलं वेदिकोर्ध्वे तु कल्पयेच्छालितण्डुलैः ।
शयनं कल्पयेद्विद्वानण्डजाद्यैरनुक्रमात् ॥ ४२.१८॥
जलादुत्तीर्य विमलतुङ्गवेद्युपरिन्यसेत् ।
अष्टमृत्सलिलैर्विद्वान् तल्लिङ्गेनाभिषेचयेत् ॥ ४२.१९॥
कौतुकं बन्धयित्वाथ गन्धमाल्यैर्विभूषयेत् ।
शयने शाययेद्बिम्बं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ ४२.२०॥
नववस्त्रद्वयेनैव छादयेत्तु सुमित्रकम् ।
षट्सूत्रं सापिधानञ्च सवस्त्रं हेमसंयुतम् ॥ ४२.२१॥
सुमित्रस्य शिरोभागे स्थापयेत्कुम्भमुत्तमम् ।
तस्मिन् सुमित्रमावाह्य स्वबीजं साङ्गमुच्चरेत् ॥ ४२.२२॥
अभितः कलशानष्टौ न्यसेत् प्रागाद्यनुक्रमात् ।
इन्द्रादिलोकपालांश्च स्वस्वनामभिरर्चयेत् ॥ ४२.२३॥
अर्चयित्वा सुगन्धांश्च नैवेद्यं दापयेत्ततः ।
वास्तुहोमं ततः कृत्वा पर्यग्निकरणं ततः ॥ ४२.२४॥
समिदाज्य चरुं लाजं सक्तुचैव तिलानपि ।
मुद्गं सुमित्रमूलेन षडङ्गेनैव होमयेत् ॥ ४२.२५॥
तदर्धं वा तदर्धं वा द्रव्यान्ते व्याहृतिं हुनेत् ।
स्पृष्ट्वा स्पृष्ट्वा विशेषेण हृदापूर्णाहुतिं हुनेत् ॥ ४२.२६॥
प्रातः स्नात्वा तु विधिवत्कृतनित्यविधिर्गुरुः ।
प्राक् शिरोऽर्पणकं कुर्यात् हेमदूर्वाङ्कुराक्षतैः ॥ ४२.२७॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ।
स्नानवेद्यां चलं बेरमचलं मानुषे पदे ॥ ४२.२८॥
संस्थाप्य स्थापयेद्विद्वानष्टमृत्सलिलेन च ।
आपोहिष्ठेति मन्त्रेण पावमानेन वा पुनः ॥ ४२.२९॥
अभ्यसेत् षडक्षरं न्यासं ब्रह्माङ्गानि ततः परम् ।
कुम्भमादाय मतिमान् कृत्वा धामप्रदक्षिणम् ॥ ४२.३०॥
बेराग्रे स्थण्डिले न्यस्त्वा सुमुहूर्ते सुलग्नकै ।
कुम्भाद्बीजं समादाय बेरस्य हृदि विन्यसेत् ॥ ४२.३१॥
प्राणप्रतिष्ठकां कुर्यात् यथाविधि समाहितः ।
अर्चयेद्गन्धपुष्पाद्यर्धूपदीपैः प्रदापयेत् ॥ ४२.३२॥
आचार्यं पूजयेत्पश्चात् वस्त्रहेमाङ्गुलीयकैः ।
उत्तमं दशनिष्कन्तु मध्यमन्तु तदर्धकम् ॥ ४२.३३॥
तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा ।
ब्राह्मणान् भोजयेत्पश्चाच्छिवभक्तांश्च वैदिकान् ।
एवं यः कुरुते मर्त्यः सर्वपापैः प्रमुच्यते ॥ ४२.३४॥
इति श्रीकुमारतन्त्रे सुमित्रस्थापनविधिर्नामद्विचत्वारिंशत्पटलः ॥