४१ महावल्लीदेवसेनास्थापनविधिः

महावल्लीदेवसेनास्थापनं श‍ृणु सुव्रत ।
स्कन्दस्य दक्षिणे वामे शक्तिगेहं प्रकल्पयेत् ॥ ४१.१॥

सर्वसम्पत्करं पुण्यं सर्वमङ्गलकारकम् ।
स्कन्दस्य कर्णसीमान्तं बाहुसीमान्तमेव वा ॥ ४१.२॥

स्तनसीमान्तमुत्तुङ्गमुत्तमं मध्यमाधमम् ।
मध्यमं दशतालेन मानोन्मानादि कारयेत् ॥ ४१.३॥

सर्वलक्षणसम्पूर्णं स्निग्धगात्रं सुयौवनम् ।
लोहजं शैलजं चैव दारुजं मृण्मयं तु वा ॥ ४१.४॥

आयादिशुद्धसंयुक्तं सर्वाभरणभूषितम् ।
कुञ्चितं समपादं तु सव्यपादं प्रलम्बितम् ॥ ४१.५॥

पद्मधृत् वामहस्तं च दक्षहस्तं प्रलम्बितम् ।
श्यामवर्णं विशालाङ्गं महावल्लीस्वरूपकम् ॥ ४१.६॥

वामपादस्थितं चैव सव्यपादं तु कुञ्चितम् ।
पद्मधृत् सव्यहस्तं च वामहस्तं प्रलम्बितम् ॥ ४१.७॥

रक्तवर्णं विशालाक्षं देवसेनास्वरूपकम् ।
एवं सङ्कल्प्य मतिमान् प्रतिष्ठामाचरेत्ततः ॥ ४१.८॥

उत्तरायणकाले तु शुक्लपक्षे शुभे दिने ।
तिथिवारादिभिर्युक्ते सुलग्ने चैव कारयेत् ॥ ४१.९॥

प्रसादस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् ।
दशाङ्गतालमायामं षोडशस्तभ्भसंयुतम् ॥ ४१.१०॥

पङ्क्तित्रयसमायुक्तं चतुर्द्वारसमन्वितम् ।
तत्त्रिभागैकतो मध्ये वेदीदर्पणसन्निभाम् ॥ ४१.११॥

कुण्डानि च चतुर्दिक्षु पद्माकाराणि कारयेत् ।
प्रधानकुण्डमैशान्ये योन्याकारं प्रकल्पयेत् ॥ ४१.१२॥

एकांशं योनिकुण्डं स्यात् वेदिपूर्वं विधीयते ।
मेखलात्रयसंयुक्तं नाभियुक् योनिनैव च ॥ ४१.१३॥

तदर्धमायतं कुर्यात्तद्वामे स्नानमण्डपम् ।
तन्मध्ये वेदिकां कुर्यात्तालमात्रसमायतम् ॥ ४१.१४॥

स्थण्डिलं वेदिकोर्ध्वे तु तिलतण्डुलशालिभिः ।
कृत्वा सम्प्रोक्ष्य चास्त्रेण बेरं तत्रैव विन्यसेत् ॥ ४१.१५॥

शैलजे रत्नविन्यासं प्रतिष्ठाकाल एव च ।
दक्षिणे च महावल्लीं देवसेनां तदुत्तरे ॥ ४१.१६॥

न्यस्त्वाऽथ रत्नविन्यासं कारयेद्विधिपूर्वकम् ।
यथा दृढतरं सम्यक् कारयेच्छिल्पिना बुधः ॥ ४१.१७॥

नयनोन्मीलनं कुर्यात् नेत्रयुग्मयुते दिने ।
स्वर्णसूचीप्रहाराभ्यां दृष्टिमण्डलमालिखेत् ॥ ४१.१८॥

कृष्णमण्डलमालिख्य ज्योतिर्मण्डलमालिखेत् ।
विसृज्य शिल्पिनं धीमान् स्वर्णदूर्वाङ्कुरैरपि ॥ ४१.१९॥

नेत्रद्वारं विलिख्याथ नेत्रमुद्रां प्रदर्शयेत् ।
मधुवाता ऋतायेति तर्पयेन्मधुना दृशम् ॥ ४१.२०॥

घृतं मिमिक्षेति मन्त्रेण घृतेनैव तु तर्पयेत् ।
आप्यायस्वेति मन्त्रेण क्षीरेणैव तु तर्पयेत् ॥ ४१.२१॥

सुवर्णं रजतं ताम्रं कांस्यं मध्वाज्यपात्रकम् ।
प्रस्थं प्रस्थेन सम्पूर्णं सर्वेषां कांस्यमेव च ॥ ४१.२२॥

गोर्धेनुहव्यमन्त्रेण सवत्सां गां प्रदर्शयेत् ।
ब्रह्मजज्ञानमन्त्रेण ब्राह्मणानपि दर्शयेत् ॥ ४१.२३॥

प्रच्छन्नपटमावर्ज्य जनान् सर्वान् प्रदर्शयेत् ।
अष्टमृत्सलिलेन व पञ्चत्ववसलिलेन च ॥ ४१.२४॥

कारयेत्प्रतिमाशुद्धिं शुद्धिश्शुद्धिरिति ब्रुवन् ।
आपोहिष्ठामयेनेति पवमानैश्च पञ्चभिः ॥ ४१.२५॥

सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ।
स्वस्तिवाचसमश्चेति सन्निवेश्य यथा बलम् ॥ ४१.२६॥

ग्रामप्रदक्षिणं कुर्यात् सर्वभक्तजनैः सहः ।
ततो जलाशयं प्राप्य तीरे समतले शुभे ॥ ४१.२७॥

प्रोक्षयेदस्त्रमन्त्रेण बेरं तत्रैव विन्यसेत् ।
कूर्चं शिरसि बध्वा तु वस्त्रयुग्मेन वेष्टयेत् ॥ ४१.२८॥

जलमध्ये प्रपायुक्तं कृत्वा पीठद्वयेन्यसेत् ।
ऋगाद्यध्ययनं कुर्वन् द्विजैः प्रागादिदिक्षु च ॥ ४१.२९॥

एकरात्रं द्विरात्रं वा त्रिरात्रमपि वासयेत् ।
यागशालां गुरुर्गत्वा प्राक्षयेदस्त्रमन्त्रतः ॥ ४१.३०॥

दर्भमाल्यैरलङ्कृत्य वितानस्तम्भवेष्टनैः ।
पुण्याहप्रोक्षणं कुर्यात् स्थण्डिलं वेदिकोपरि ॥ ४१.३१॥

अष्टद्रोणैः शालिभिश्च तदर्धैस्तण्डुलैरपि ।
तदर्धैश्च तिलैश्चैव कृत्वा पद्मस्य मालिकाम् ॥ ४१.३२॥

दर्भैरास्त्रीर्यशयनमण्डलाद्यैः प्रकल्पयेत् ।
पर्यग्निकरणं कुर्यात् वास्तुहोमेन वह्निना ॥ ४१.३३॥

प्रक्षिप्य विकिरान् मन्त्री मण्डपं शुद्धिमाचरेत् ।
जलादुत्तीर्य शक्ती द्वे स्नानवेद्युपरिन्यसेत् ॥ ४१.३४॥

कर्तव्यं प्रतिमाशुद्धिं पवमानमुदीरयन् ।
महावल्लीं देवसेनां कौतुकं बन्धयेत् बुधः ॥ ४१.३५॥

शयने शाययेद्देवीं प्राक्शिरश्चोर्ध्ववक्त्रकम् ।
नववस्त्रेण सञ्छाद्य गन्धपुष्पादिनार्चयेत् ॥ ४१.३६॥

द्रोणतोयेन सम्पूर्णं सकूर्चं सापिधानकम् ।
हेमवस्त्रसमायुक्तं गन्धाद्यैः परिपूरितम् ॥ ४१.३७॥

वर्धनीद्वयमादाय शिरोभागे निधापयेत् ।
तदर्धमात्रवर्धन्याः प्रागाद्यष्टौ न्यसेततः ॥ ४१.३८॥

दक्षिणस्थितवर्धन्यां महावल्लीं स्वबीजतः ।
उत्तरस्थितवर्धन्यां देवसेनां स्वबीजतः ॥ ४१.३९॥

आवाह्य गन्धपुष्पाद्यैस्तदङ्गानि च पूजयेत् ।
उषा च प्रत्युषा चैव सती च सत्वती तथा ॥ ४१.४०॥

स्वधा विश्वमुखी चैव सुराध्यक्षा सरस्वती ।
देवसेना महावल्ल्योरेताश्चैवाष्टमूर्तयः ॥ ४१.४१॥

वराम्बुजकरा स्थूला स्वस्वनामाभिरर्चयेत् ।
धूपदीपं ततो दत्त्वा पायसं तु निवेदयेत् ॥ ४१.४२॥

द्वारद्वाराधिपानिष्ट्वा सास्त्रान् दिक्पालकानपि ।
अग्निकार्योक्तमार्गेण नामकर्मान्तमाचरेत् ॥ ४१.४३॥

कुण्डमध्ये यजेद्देवीं तत्र मूलाङ्गमन्त्रकैः ।
पलाशखादिराश्वत्थवटाः पूर्वादिदिक्षु च ॥ ४१.४४॥

प्रधानस्य पलाशः स्यात् समिधः सम्प्रकीर्तितः ।
समिदाज्य चरूंश्चैव लाजसक्तुतिलानि च ॥ ४१.४५॥

सर्षपं माषमुद्गं च प्रियङगुमधुपायसम् ।
मूलसद्यादि चास्त्रान्तर्मन्त्रैर्होमं समाचरेत् ॥ ४१.४६॥

द्रव्यान्ते व्याहृतीर्हुत्वा स्पृष्ट्वा स्पृष्ट्वा हुनेद्गुरुः ।
शतमर्धं तदर्धं वा देवीभ्यां प्रतिहोमयेत् ॥ ४१.४७॥

देवसेनामहावल्ल्योः गायत्र्या हविषा हुनेत् ।
गौरीमिमाय मन्त्रेण द्वादशाहुतिमाचरेत् ॥ ४१.४८॥

दिशास्वध्ययनं कुर्यात् चतुर्वेदान् द्विजोत्तमैः ।
स्विष्टकृच्च हुनेत्तेन मूलात्पूर्णाहुतिं हुनेत् ॥ ४१.४९॥

प्रातः स्नानादिकं कृत्वा सन्ध्यानुष्ठानकर्म च ।
औपासनञ्च कृत्वाथ मण्डपं प्रविशेद्गुरुः ॥ ४१.५०॥

पादौ प्रक्षाल्य चाचम्य बेरपूजां विधाय च ।
सामान्यार्घ्यकरो मन्त्री द्वारद्वाराधिपान् यजेत् ॥ ४१.५१॥

विशेषार्घ्यं ततः कल्प्य तेनैव प्रोक्ष्य वर्धनीम् ।
प्राग्वदभ्यर्च्य वर्धन्यैर्गन्धपुष्पादिभिर्गुरुः ॥ ४१.५२॥

कुण्डाधिदेवान् सम्पूज्य परिषिच्य यथाविधि ।
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ४१.५३॥

वह्नेर्देव्यौ समादाय वर्धन्योर्विन्यसेत् पृथक् ।
शयनात् बिम्बमुत्थाप्य तत्तद्धृदयमन्त्रतः ॥ ४१.५४॥

स्नानवेद्युपरिन्यस्त्त्वा पूजयेद्बिल्वतोयकैः ।
स्कन्दसूक्तेन मन्त्रेण ततो गौरी मिमेति च ॥ ४१.५५॥

दुर्गान्देवीति मन्त्रेण गायत्र्याभ्यर्च्य धूपयेत् ।
वस्त्राभरणमालाद्यैरलङ्कृत्य विशेषतः ॥ ४१.५६॥

सुलग्ने सुमुहूर्ते च यजमानानुकूलके ।
स्थापयेत्तु महावल्लीं स्कन्ददक्षिणपार्श्वके ॥ ४१.५७॥

वामपार्श्वे महासेनां स्थापयेत्तु यथा दृढम् ।
किञ्चिद् गुहाभिवक्त्रे च स्थाप्य शिल्पिनमुत्सृजेत् ॥ ४१.५८॥

शान्तिकुम्भजलेनैव प्रोक्षयेन्मुनिपुङ्गव ।
वर्धनीद्वयमादाय कृत्वा धामप्रदक्षिणम् ॥ ४१.५९॥

तत्तदग्रे तु विन्यस्य वर्धनीद्वयमेव च ।
प्रत्येकमक्षरन्यासं कारयेद् विधिना बुधः ॥ ४१.६०॥

पूर्वमेव महावल्लीं देवसेनां ततः परम् ।
वर्धन्योर्बीजमादाय विन्यसेत् स्वस्वचूचुके ॥ ४१.६१॥

वर्धनीसलिलैः पूज्य कुर्यात् प्राणप्रतिष्ठिकाम् ।
वर्धन्यष्टाम्बुभिः पीठे प्रागादिष्वभिषेचयेत् ॥ ४१.६२॥

गन्धपुष्पादिनाभ्यर्च्य प्रभूतहविषं ददेत् ।
प्रायश्चित्तार्थमस्त्रेण शतमष्टोत्तरं हुनेत् ॥ ४१.६३॥

आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकैः ।
यागोपकरणं सर्वं देशिकाय प्रदापयेत् ॥ ४१.६४॥

उत्तमं दशनिष्कं तु मध्यमं तु तदर्धकम् ।
तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा ॥ ४१.६५॥

निष्कद्वयेन मतिमान् मूर्तिमान् सम्प्रपूजयेत् ।
जापकान् वास्तुहोतारं शिल्पिनं प्रीणयेत् ततः ॥ ४१.६६॥

ब्राह्मणान् भोजयेत् पश्चात् दीनानाथांश्च भोजयेत् ।
ततः स्कन्दस्य देव्योश्च कुर्यादुद्वाह कर्म च ॥ ४१.६७॥

मालिकां दापयेत् तेषां मालां हस्तैः परस्परम् ।
महावल्ली पिता कृष्णो देवसेना गुरुर्वृषा ॥ ४१.६८॥

एताभ्यां कारयेन्मन्त्री विध्युक्तं सर्वकर्म च ।
तेषां प्रक्षाल्य पादौ च वस्त्रैः स्वैर्मन्त्रशास्त्रवित् ॥ ४१.६९॥

स्वसूक्तेनैव मतिमान् कर्म वैवाहिकं चरेत् ।
शक्तिद्वयं समासाद्य प्रत्येकं मन्त्रवाससा ॥ ४१.७०॥

चतुर्मुखः पुरोधाश्च दातारौ कृष्णवज्रिणौ ।
मङ्गल्यतन्तुनानेन माङ्गल्यं कारयेद् बुधः ॥ ४१.७१॥

स्वसूक्तेन विधानेन कर्म वैवाहिकं हुनेत् ।
महावल्ल्यायुतः कामो वसन्ते देवसेनया ॥ ४१.७२॥

एताभ्यां लाजदानं च कुर्याल्लाजान् स्वमन्त्रतः ।
जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ४१.७३॥

पूर्णाहुतिं ततः कुर्यात् मूलमन्त्रेण मन्त्रवित् ।
ताम्बूलं दापयेत् तत्र जनेभ्यश्च यथाक्रमम् ॥ ४१.७४॥

शुद्धान्नं पायसं मौद्गं गुलान्नं च तिलान्नकम् ।
प्रियङ्ग्वन्नं च मधुना सूपापूपैः फलैः सह ॥ ४१.७५॥

दत्वा देवाय देवीभ्यां ब्राह्मणानपि भोजयेत् ।
चन्द्रार्कतारकं यावत् मन्त्रादिशक्तिभिः सह ॥ ४१.७६॥

युवाभ्यां स्वेच्छया देव्यौ स्थातव्यमिह मन्दिरे ।
इति विज्ञाप्य नत्वाथ प्रार्थयेदर्थमीप्सितम् ॥ ४१.७७॥

चतुर्थे दिवसे पश्चात् पञ्चमेऽहनि वा पुनः ।
शेषहोमं स्वसूत्रेण कारयेन्मुनिपुङ्गव ॥ ४१.७८॥

स्नपनं कारयेदन्ते यथाविभवविस्तरम् ।
एवं यः कुरुते मर्त्यः पुत्रपौत्रकलत्रकैः ॥

सर्वान् कामानिह प्राप्य देहान्ते मुक्तिमाप्नुयात् ॥ ४१.७९॥

इति श्रीकुमारतन्त्रे महावल्लीदेवसेनास्थापनविधिर्नाम
एकचत्वारिंशत्पटलः ।