सर्वमङ्गलमाङ्गल्यं प्रवक्ष्याम्यङ्कुरार्पणम् ।
अङ्कुरं नयेत्कर्म तत्कर्म निष्फलं भवेत् ॥ ४०.१॥
तस्मान्मङ्गलकर्मदौ कारयेदङ्कुरार्पणम् ।
अयुगेऽह्निप्रकर्तव्यं कर्मणः पूर्वतो निशि ॥ ४०.२॥
पालिकाघटिकांश्चैव शरावञ्च त्रिधा भवेत् ।
ईशविष्णुविरिञ्चिश्व तेषामेवाधिपाः स्मृताः ॥ ४०.३॥
सौवर्णं राजतं ताम्रं कांस्यं वा मृण्मयन्तु वा ।
शरावाणि च सङ्ग्राह्य पिष्टेनैव विमर्शयेत् ॥ ४०.४॥
कालं छिन्नं च सुषिरं भेदच्छेदं जलीमुखम् ।
निर्दग्धञ्च पुराणञ्च वर्जयेत्तु प्रयत्नतः ॥ ४०.५॥
अश्वत्थं बिल्वपत्रैश्च तन्मध्ये बन्धयेद्दृढम् ।
पालिकाभ्यन्तरं दर्भैर्निर्च्छिद्रं कारयेद्बुधः ॥ ४०.६॥
गोशकृच्चूर्णसहितैर्मृद्भिः सर्वाणि पूर्य च ।
प्रत्येक च करे ग्राह्य वाहयित्वाथ भक्तकैः ॥ ४०.७॥
सुमित्रं चास्त्रराजं च सर्वातोद्यसमायुतम् ।
ग्रामप्रदक्षिणं कृत्वा मृत्सङ्ग्रहणमाचरेत् ॥ ४०.८॥
उत्तमं प्रागुदीची स्यात् मध्यमं पश्चिमं स्मृतम् ।
अधमं दक्षिणं प्रोक्तं मृत्सग्रहणकर्मणि ॥ ४०.९॥
पुष्पारामे च नद्यां वा तडागे बिल्वमूलके ।
आलये चैव निश्चित्य गत्वा शुद्धभुवस्थलम् ॥ ४०.१०॥
अस्त्रेण प्रोक्ष्य तद्देशं प्रीणयेद्भुवि नायकम् ।
पुण्याहं वाचयेत्तत्र गायत्र्या प्रोक्ष्य देशिकः ॥ ४०.११॥
भूपुरं तत्र संलिख्य भूबीजेनार्चयेत् भुवम् ।
सालङ्कृतं खनित्रं च विन्यस्यास्त्रण पूजयेत् ॥ ४०.१२॥
धूपदीपं ततो दत्वा मृदं सङ्ग्राह्य देशिकः ।
गन्धद्वारेति मन्त्रेण स्थालिकायां गृहेन्मृदम् ॥ ४०.१३॥
संरक्ष्यास्त्रेण सञ्छाद्य गणिकाभिस्तु वाहयेत् ।
तध्यवभ्रं च चतुः शालिबीजैः सम्पूज्य देशिकः ॥ ४०.१४॥
प्रविशेदालयं पश्चादङ्कुरार्पणमाचरेत् ।
प्रासादस्याग्रके वाऽपि दक्षिणे चोत्तरेऽपि वा ॥ ४०.१५॥
गोमयालेपिते शुद्धे मण्डपे समलङ्कृते ।
प्राक्सूत्रं पञ्चसूत्रं स्यादुदक्सूत्रं तथैव च ॥ ४०.१६॥
मध्ये चतुष्पदं त्यक्त्वा स्थण्डिलं तत्र कल्पयेत् ।
ससूत्रं सापिधानं च द्रोणोदकप्रपूरितम् ॥ ४०.१७॥
कुम्भं न्यस्त्वार्चयेत् सोममोषधीशं महामुने ।
शरावं पालिकां चैव घटिकां च यथाक्रमम् ॥ ४०.१८॥
शरावादि क्रमान् न्यस्त्वा हृदयेन तु मन्त्रतः ।
सङ्गृह्य तन्मृदं चैव पालिकादीनि पूरयेत् ॥ ४०.१९॥
मध्ये ग्रन्थिं पवित्रं च तेषां मध्ये न्यसेद् बुधः ।
वैवस्वतो विवस्वांश्च रविर्मार्ताण्डभास्करः ॥ ४०.२०॥
लोकप्रकाशकश्चैव लोकसाक्षित्रिविक्रमः ।
आदित्यश्चैव सूर्यश्च अंशुमाली दिवाकरः ॥ ४०.२१॥
दिशैता द्वादशादित्यानीशानादियथाक्रमम् ।
आसनैर्मूर्तिमूलैर्वा पूजयेत् स्वस्वनामभिः ॥ ४०.२२॥
तिलसर्षपनिष्पावमापमुद्गं चणं तथा ।
कुलुत्थं शाल्यपामार्ग श्यामाकां च प्रियङ्गवम् ॥ ४०.२३॥
यवद्वादशधान्यानि क्षीरोक्षानि च वापयेत् ।
या जाता इति मन्त्रेण ओषधीमभिमन्त्र्य च ॥ ४०.२४॥
यथान्यायं समभ्यर्च्य धूपदीपं प्रदापयेत् ।
पायसं शशिने द्वादशादित्येभ्यः प्रदापयेत् ॥ ४०.२५॥
दत्वा तेभ्यश्च ताम्बूलं जनेभ्यो दापयेत्ततः ।
हृदयेन तु मन्त्रेण गुरुर्बीजादिवापयेत् ॥ ४०.२६॥
तत्रस्था ब्राह्मणाः शैवशङ्करादि यथाक्रमम् ।
हृदास्त्रेण विधायात्र सेचयेत्कुम्भतोयकैः ॥ ४०.२७॥
यावत्कर्मादिकं तावत् सुगुप्तान्यङ्कुराणि तु ।
अङ्कुरं चोर्ध्वग चैव पूण चेत्तु शुभावहम् ॥ ४०.२८॥
अपूर्णानि च कुब्जानि वक्रतिर्यगतानि च ।
श्यामलानि च शू यानि मूषिकभक्षितानि वै ॥ ४०.२९॥
अङ्कुराण्यशुभान्यत्र तद्दोषशमनाय च ।
अस्त्रेणैव शतं जप्त्वा घृतेनैव शतं हुनेत् ॥ ४०.३०॥
ग्रामप्रदक्षिणं कुर्यात् तीर्थाङ्कुरमनिन्दितम् ।
अङ्कुराणि च कर्मान्ते पयसाऽप्लाव्य बुद्धिमान् ॥ ४०.३१॥
वाहयित्वा विधानज्ञस्सन्त्यजेत्तु जलाशये ।
चतुर्विंशतिपक्षे तु प्रत्येकं चाष्टकं ग्रहेत् ॥ ४०.३२॥
प्राक्सूत्रं वसुसूत्रं स्यादुदवसूत्रं तथैव च ।
मध्ये व्योमपदं ग्राह्य लोपयेदभितोऽष्टकम् ॥ ४०.३३॥
त्रिकोणाभ्यन्तरे मूर्त्या चतुर्दिक्षुक्रमाद्बुधः ।
द्वारार्थञ्च महाशासु पदमेकं परित्यजेत् ॥ ४०.३४॥
स्थण्डिलं कारयेत्तत्र तिलतण्डुलशालिभिः ।
तस्य मध्ये लिखेत्पद्मं साष्टपत्र सकर्णिकम् ॥ ४०.३५॥
स्थापयेत्कर्णिकामध्ये चन्द्रकुम्भं नवं शुभम् ।
पालिके द्वे न्यसेद्धीमान् द्वाराणां पार्श्वयोर्बुधः ॥ ४०.३६॥
विन्यसेद्घटिके द्वे च कोणेष्वेवं पदद्वये ।
शेषेषु च शरावाणि स्थापयेद्धृदयेन तु ॥ ४०.३७॥
पूजयित्वा यथान्यायं भागान्दिक्पालकान्वसून् ।
वस्त्रेणाच्छाद्य परितः दर्भैश्चैव परिस्तरेत् ॥ ४०.३८॥
शेषं पूर्ववदुद्दिष्टं विश्वामित्र महामुने ।
कर्मणामभिवृद्ध्यर्थं कर्माङ्गं मङ्गलाङ्कुरम् ॥
एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ॥ ४०.३९॥
इति श्रीकुमारतन्त्रे अङ्कुरार्पणविधिर्नामचत्वारिंशत्पटलः ।