अतः परं प्रवक्ष्यामि मासपूजाविधिक्रमम् ।
चैत्रे दमनकं प्रोक्तं वैशाखे गन्धपूजनम् ॥ ३९.१॥
ज्येष्ठमासे फलैः पूजा क्षीरेणाषाढ मासके ।
श्रावणे शर्करापूजा पूर्वैः प्रोष्ठपदेऽर्चना ॥ ३९.२॥
अश्विन्यामन्नपूजा च कार्तिक्यां दीपरोहणम् ।
घृतेन मार्गशीर्षे च क्षौद्रेण पुष्यमासके ॥ ३९.३॥
घृतकम्बलकं माघे फाल्गुने दधिपूजनम् ।
मासपूजां विनान्यैश्च पूजनैर्निष्फलं भवेत् ॥ ३९.४॥
प्रजावृद्धिकरं नॄणां राज्ञां विजयवर्धनम् ।
न कुर्याच्चेत्तु मोहेन सर्वदोषकरं भवेत् ॥ ३९.५॥
तस्मात्सर्वप्रयत्नेन कर्तव्यं मासपूजनम् ।
नित्यपूजावसाने तु नैमित्तिकमथाचरेत् ॥ ३९.६॥
चैत्रमासपूजा -
चैत्रेषु षष्ठ्यां सप्तम्यां त्रयोदश्यां तु वार्चयेत् ।
कौशिक उवाच-
न ज्ञातं मदनोत्पत्तिस्तां वदस्व महेश्वर ॥ ३९.७॥
ईश्वर उवाच-
पुरा देव्यै मया प्रोक्तं मदनोत्पत्तिकारणम् ।
महर्षे श्रूयतां तेषां श्रोतॄणां पापनाशनम् ॥ ३९.८॥
मया पुरा दग्धकामो अन्यैर्यत्र पुनर्ददेत् ।
रतिप्रीतिसमत्वेन गुहेन नयनाम्बुना ॥ ३९.९॥
तत्र स्थाने समुत्पन्ना दिव्या दमनमञ्जरी ।
तत्र तद्गन्धमाघ्राय सिद्धसाध्या दिवौकसः ॥ ३९.१०॥
सर्वे देवाश्च मुनयो हृष्टा नृत्यन्ति सर्वदा ।
परस्परं चिन्तयन्तो ब्रह्माद्या प्रापुरत्र वै ॥ ३९.११॥
गुहाय शक्रः प्रणमत् ब्रह्माणमिदमब्रवीत् ।
किमिदं त्वतिसौरभ्यं तद्वदस्व प्रभो ततः ॥ ३९.१२॥
ततः प्रोवाच हृष्टात्मा ब्रह्मा सुरपतिं प्रति ।
पुरा दग्धोऽथ देवेन दीप्तो यत्र मनोभवः ॥ ३९.१३॥
तत्रोत्पन्ना वनाच्चित्रा दमनी कापि कन्दली ।
यथानङ्गस्तथा सा तु जगदानन्ददायिनी ॥ ३९.१४॥
सर्वेषामपि देवानां हृष्टं दमनपूजनम् ।
ब्रह्मेत्युक्त्वा पुरं प्रायात् दिवं सर्वे ययुस्ततः ॥ ३९.१५॥
कुमारस्य महत्प्रीतिर्दान्तं हि मुनिपुङ्गव ।
पूर्वोक्तायां तिथौ विप्र सुमुहूर्ते सुलग्नके ॥ ३९.१६॥
गत्वारामं तु दमनं प्रोक्षयेदस्त्रमन्त्रतः ।
हरप्रसादात् सञ्जातो दमनत्वं पुरा किल ॥ ३९.१७॥
सुब्रह्मण्यार्चनायैव नेतव्योऽसि प्रसीद मे ।
एवं दमनमामन्त्र्य सङ्ग्राह्य सदनं व्रजेत् ॥ ३९.१८॥
देवाग्रे स्थण्डिलं कृत्वा तावत्तद्बद्धमालिकाम् ।
कृतनित्यविधिः पश्चात् कुण्डे वा स्थण्डिलेऽपि वा ॥ ३९.१९॥
विधिनाग्निं समुत्पाद्य समृद्धं तु हुताशने ।
पलाशसमिधानाज्यलाजान् सक्तुतिलानि च ॥ ३९.२०॥
मूर्तिं चैवाङ्गमन्त्रैश्च स्कन्दसूक्तेन होमयेत् ।
त्रिसप्तकृत्वा सम्पातां तथैव जुहुयात्गुरुः ॥ ३९.२१॥
ततो नित्यावसाने तु स्नपनं कल्पयेद्बुधः ।
अभ्यर्च्य गन्धपुष्पाद्यैर्निवेद्यान्तं क्रमाद्ददेत् ॥ ३९.२२॥
मुखवासं च ताम्बूलं गुहाय च हृदा ददेत् ।
हिमतोयेन सम्मिश्रैर्धूपयेत्तु गुरुः पुनः ॥ ३९.२३॥
ततः पुष्पग्रहं कार्यं नानापुष्पैः सुशोभनैः ।
दमनमालां च पात्रस्थां वाहयित्वा द्विजेन तु ॥ ३९.२४॥
सर्वातोद्यसमायुक्तं कृत्वा धामप्रदक्षिणम् ।
द्वारेशानर्च्य देवाग्रे दामं न्यस्त्वासनोपरि ॥ ३९.२५॥
आसनावरणादीनि सम्पूज्य च यथाविधि ।
मूर्धादिपादपर्यन्तं दामैर्भूष्य विशेद् गुरुः ॥ ३९.२६॥
सैकत्रिंशत्कलान्यासं मातृकामपि विन्यसेत् ।
प्रभूतहविषं दद्यात् यथावित्तानुसारतः ॥ ३९.२७॥
विज्ञापयेद्गुरुः पश्चात् वाञ्छितार्थफलप्रदम् ।
न्यूनं वाप्यतिरिक्तं वा भगवन् यन्मया कृतम् ॥ ३९.२८॥
सर्वं तदस्तु सम्पूर्ण महासेन कृपाम्बुधे ।
रात्रौ दाम विसृज्याय स्कन्दसूक्तेन पूजयेत् ॥ ३९.२९॥
स्नपनं तत्र कर्तव्यं प्रभूतहविषं ददेत् ।
दान्तं निवेदितं सर्वं सुमित्राय प्रदापयेत् ॥ ३९.३०॥
अकृत्वैवं विधानेन देशिको दोषभाग्भवेत् ।
तदन्तेचोत्सवं कुर्यात्सर्वालङ्कारशोभितम् ॥ ३९.३१॥
प्रतिसंवत्सरं दान्तं कारयेदुत्सवोत्तमम् ।
अश्वमेधफलं भुङ्क्त्वा सोऽन्ते स्कन्दपुरं व्रजेत् ॥ ३९.३२॥
दमनारोहणं प्रोक्तं शृणु शीतोपचारकम् ।
इति चैत्रमासपूजाविधिः ।
वैशाखमासापूजाविधि ।
वैशाखे तु विशाखर्क्षे कुर्याच्छीतोपचारकम् ।
नित्यपूजावसाने तु नैमित्तिकमथाचरेत् ॥ ३९.३३॥
नवभिस्तु घटैः शुद्धैः शीतोदैः स्नपनान्वितैः ।
नानागन्धैः समोपेतैः स्नापयेदसुरान्तकम् ॥ ३९.३४॥
कर्पूरकुङ्कुमोपेतैर्हिमाम्बुयुतचन्दनैः ।
मूर्धादिपादपर्यन्तमालिलिम्बेन्मुखं विना ॥ ३९.३५॥
सौरभ्यपुष्पैर्विविधैस्तत्क्षणप्रतिबोधितैः ।
यथा निरन्तरं विप्र तथैवाच्छादयेद्गुहम् ॥ ३९.३६॥
कृष्णागरुभवैर्धूपैर्मृष्टैराजप्रकल्पितैः ।
कर्पूरवर्तिभिर्दीपैः पायसैः प्रचुरैरपि ॥ ३९.३७॥
जपैर्वेदस्वरैर्गीतैर्वाद्यैः सूक्तैर्मनोहरैः ।
वीणावेणुरवैस्तोत्रैर्नमस्कारप्रदक्षिणैः ॥ ३९.३८॥
पूजयेत्प्रत्यहं स्कन्दं भक्त्या सप्तदिनावधि ।
एवं यः कुरुते मर्त्यः पुत्रपौत्रविवर्धनम् ॥ ३९.३९॥
यान्यान् कामयते कामान् तांस्तान् ध्रुवमवाप्नुयात् ।
वैशाखपूजनं प्रोक्तं वसन्तोत्सवमुच्यते ॥ ३९.४०॥
इति वैशाखमासपूजाविधिः ।
वसन्तोत्सवविधिः ।
चैत्रे वैशाखमासे तु शुक्लषष्ठ्यां समाचरेत् ।
प्रतिसंवत्सरं कुर्यात् सर्वलोकहिताय वै ॥ ३९.४१॥
शुक्लपक्षे शुभर्क्षे च सुमुहूर्ते सुवारके ।
पूर्वेद्युरङ्कुराण्यर्प्य कौतुकं बन्धयेन्निशि ॥ ३९.४२॥
स्नपनं कल्प्य देवेशं पूर्वोक्तविधिनार्चयेत् ।
वसन्तं तु भवेच्छुद्धैर्दिव्यगन्धैर्मनोहरैः ॥ ३९.४३॥
नानापुष्पैश्च दामैश्च कुर्यात् पुष्पग्रहं बुधः ।
पुष्पमालाञ्च पत्रेषु निक्षिप्य कवचेन तु ॥ ३९.४४॥
देवाग्रे स्थण्डिलं कृत्वा हृदा सम्प्रोक्ष्य चास्त्रतः ।
अर्चयेद्धूपदीपं च कृत्वा धाम प्रदक्षिणम् ॥ ३९.४५॥
ततो मालां समुद्धृत्य शङ्खदुन्दुभिनिःस्वनैः ।
विन्यसेत् स्कन्दमन्त्रेण मूलबेरस्य मूर्धनि ॥ ३९.४६॥
कृत्वागरुप्रधूपं च दीपं चैव प्रदापयेत् ।
स्नाप्यचोत्सवबेरं तु भूषयेद्भूषणार्हकैः ॥ ३९.४७॥
स्वर्णराजतताम्राद्यैर्डोलां कल्प्य विधानतः ।
कूटपञ्चरसंयुक्तां सर्वालङ्कारशोभिताम् ॥ ३९.४८॥
डोलामारोप्य देवेशं शक्तिद्वयसमायुतम् ।
वाद्यैर्गीतश्चै नृत्तैश्च स्तोत्रर्वेदपुराणकैः ॥ ३९.४९॥
डोलाक्रीडां ततः कृत्वा देवस्याचमनं ददेत् ।
नालिकेरोदकं चैव पानकं विविधं तथा ॥ ३९.५०॥
अपूपान् विविधांश्चैव पायसैर्व्यञ्जनैर्युतम् ।
मुद्गान्नं कृसरान्नं च गुलान्नं सूपसंयुतम् ॥ ३९.५१॥
प्रियङ्गुपिष्टं मधुमत् वल्लिकन्दं सपक्कम् ।
नालिकेराम्बुपनसं फलपुण्ड्रेक्षुदण्डकैः ॥ ३९.५२॥
दद्याद्विधानतस्तत्र ताम्बूलमपि दापयेत् ।
सर्वातोद्यसमायुक्तं नानाच्छत्रसमावृतम् ॥ ३९.५३॥
नानाध्वजसमोपेतं चामरैर्व्यञ्जनैर्युतम् ।
ग्रामप्रदक्षिणं कुर्यात् राजचिह्नैः समस्तकैः ॥ ३९.५४॥
परिवेषं क्रमाद्गत्वा मन्दीभूते दिवाकरे ।
पल्लवैर्मञ्जरीभिश्च फलैः पुष्पैः समृद्धिकैः ॥ ३९.५५॥
आस्थानमण्डपोपेते सर्वालङ्कारसंयुते ।
नृत्तगीतादिसंयुक्ते जलवापीसमीपके ॥ ३९.५६॥
देवोद्याने नदे चैव सर्वालङ्कारसंयुते ।
अकुर्वंश्च जलक्रीडान् धारायन्त्रैर्गुणोत्तमाः ॥ ३९.५७॥
केचित् स्वर्णमयैः शृङ्गैः रौप्यताम्रविनिर्मितैः ।
स्त्रियश्चाप्सरसः सर्वा नरा गन्धर्वकिनराः ॥ ३९.५८॥
एवं कृत्वा जलक्रीडां मण्डपे देवमानयेत् ।
स्नपनं कल्प्य विधिना पूजयेदुपचारकैः ॥ ३९.५९॥
देवः समागतं स्तुत्वा वसनं कुसुमायुधम् ।
नीलदूर्वाङ्कुरश्याममतिसौन्दर्यशोभितम् ॥ ३९.६०॥
रतिप्रीत्युभयोर्मध्ये पुष्पसायकचापधृत् ।
पुष्पमण्डलमध्ये तु रम्योद्याने समर्चयेत् ॥ ३९.६१॥
ॐ नमः पञ्चबाणाय जगदाह्लादकारिणे ।
मन्मथाय जगन्नेत्रे रतिप्रीतिप्रियाय च ॥ ३९.६२॥
पुण्डरीकाक्षपुत्राय नमस्ते मीनकेतवे ।
मन्मथाय पदं पूर्वं विद्महे तदनन्तरम् ॥ ३९.६३॥
कामदेवाय संयुक्तं धीमहीति पदं ततः ।
तन्नोऽनङ्गपदस्यान्ते प्रयोक्तव्यं प्रचोदयात् ॥ ३९.६४॥
चतुर्विंशाक्षरीप्रोक्ता गायत्री मदनस्य तु ।
दक्ष शैवलपिण्डेन रतिं पूर्वं समर्चयेत् ॥ ३९.६५॥
मञ्जर्या सहकारस्य वामे प्रीतिं प्रपूजयेत् ।
प्रणवेन धनुर्बाणं तच्छिलीमुखपङ्कजम् ॥ ३९.६६॥
वसन्तं वनराजिं च गन्धपुष्पादिभिर्यजेत् ।
वस्त्रेण वेष्ट्य नैवेद्यं पायसं तु निवेदयेत् ॥ ३९.६७॥
ताम्बूलं दापयेत् पश्चात् तोषयेत्तान् विशेषतः ।
तस्माद्वसन्तमूर्तिं च रतिकामसमन्वितम् ॥ ३९.६८॥
देवाय दर्शयेद्विद्वान् फलैः पुष्पोपहारकैः ।
इक्षुदण्डैश्च गन्धैश्च ताम्बूलैश्च मनोहरैः ॥ ३९.६९॥
नानादीपशतैर्गेहं रात्रौ देवालयं व्रजेत् ।
प्रभूतहविषं दद्यात् यथाविभवविस्तरम् ॥ ३९.७०॥
ताम्बूलं दापयेत् पश्चात् धूपदीपं हृदा ददेत् ।
शुद्धैरन्नैश्च विविधैरपरैर्वा महामुने ॥ ३९.७१॥
जपैर्वेदस्वरैर्गीतैर्वाद्यैर्नृत्तैर्मनोहरैः ।
वीणावेणुवरैस्तोत्रैर्नमस्कारैः प्रदक्षिणैः ॥ ३९.७२॥
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्रुयात् ।
यान् यान् कामयते मर्त्यस्तांस्तान् ध्रुवमवाप्नुयात् ॥ ३९.७३॥
वसन्तोत्सवमाख्यातं ज्येष्ठमासार्चनं शृणु ॥ ३९.७४॥
इति वसन्तोत्सवपूजाविधिः ।
ज्येष्ठमासपूजाविधिः ।
ज्येष्ठमासे मूलर्क्षे पूजयेत् स्वादुभिः फलैः ।
कदली पनसाम्रोत्थैर्नलिकेरफलैरपि ॥ ३९.७५॥
शर्करामधुसंयुक्तैर्यथाविभवविस्तरम् ।
नवभाण्डे समाहृत्य न्यस्त्वाग्रे प्रोक्ष्य चास्त्रतः ॥ ३९.७६॥
सङ्कल्पमपि पुण्याहं वाचयित्वा द्विजोत्तमैः ।
आधाराधेयपूजान्ते पवमानमुदीरयन् ॥ ३९.७७॥
यामार्धं वा तदर्धं वा पठेत्तन्मूलतोऽपि वा ।
स्कन्दसूक्तेन मतिमान् शीतोष्णैरभिषेचयेत् ॥ ३९.७८॥
वस्त्रैर्गन्धः सुमाल्यैश्च भूषणैर्भूषयेद्गुहम् ।
हिमतोयाक्तकल्हारैःनैरन्तर्यापि भूषयेत् ॥ ३९.७९॥
पञ्चावरणपूजाञ्च कुर्यादपि विशेषतः ।
पायसं गुहसंयुक्तं ताम्बूलमपि दापयेत् ॥ ३९.८०॥
त्रिसन्ध्यमर्चयेदेवं सर्वकामस्य सिद्धये ।
ज्येष्ठमासार्चनं प्रोक्तमाषाढे पूजनं शृणु ॥ ३९.८१॥
इति ज्येष्ठमासपूजाविधिः ।
आषाढमासपूजाविधिः ।
पूर्वफल्गुनि नक्षत्रे चाषाढे मासपूजनम् ।
कौतुकं बन्धयेद्रात्रौ देवदेव्यौ च मन्त्रवित् ॥ ३९.८२॥
प्रभाते ब्रह्मचारिभ्यो यज्ञसूत्राणि दापयेत् ।
हरिद्रां चैव कन्याभ्यो दक्षिणा सहितं बुधः ॥ ३९.८३॥
प्रीतये देवदेवीनां मद्भक्तेभ्यो विधानतः ।
मुद्गाङ्कुरं सलवणं देव्योः पादे समर्पयेत् ॥ ३९.८४॥
ग्रामप्रदक्षिणं कुर्यात् सर्वसम्पत्कराय च ।
जलतीरं समागम्य यथाविभवविस्तरम् ॥ ३९.८५॥
पोतोपरि समारुह्य देवदेव्यौ च भक्तिमान् ।
युवतीभिश्च युवभिर्जलक्रीडां विधाय च ॥ ३९.८६॥
यामं वापि तदर्धं वा तदर्धं वा समाचरेत् ।
प्रविश्य भवनं पश्चात् प्रभूतहविषं ददेत् ॥ ३९.८७॥
ब्राह्मणान् भोजयेद्विद्वान् दीनानाथांश्च भोजयेत् ।
इति आषाढमासपूजाविधिः ।
क्षीरपूजाविधिः ।
पूर्वाषाढे तु तन्मासे श्रवणे वा गुणान्विते ।
पूर्णिमायां तु वाऽषाढे कुर्यात्क्षीराभिषेचनम् ॥ ३९.८८॥
गवां वृद्धिकरं सर्वसस्यवृद्धिकरं शुभम् ।
गोक्षीरं ग्राह्य धारोष्णं नवभाण्डेषु पूरयेत् ॥ ३९.८९॥
शालिभिस्तण्डुलं कृत्वा विन्यसेत् क्षीरकुम्भकम् ।
उत्तमं दशभारं तु मध्यमं तु तदर्धकम् ॥ ३९.९०॥
तदर्धमधमं ज्ञेयं तदर्धमधमाधमम् ।
अस्त्रमन्त्रेण सम्प्रोक्ष्य ब्रह्माङ्गैरपि पूजयेत् ॥ ३९.९१॥
धूपदीपं ततो दत्वा पयोभिः स्नापयेद्गुहम् ।
आप्यायस्वेति मन्त्रेण स्कन्दसूक्तेन मन्त्रतः ॥ ३९.९२॥
कुमारमानेति मन्त्रेण मूलब्रह्मषडङ्गकैः ।
क्षीरैश्च शुद्धतोयैश्च स्नाप्याभ्यर्च्य यथाविधिः ॥ ३९.९३॥
प्रभूतहविषं दत्वा ब्राह्मणानपि भोजयेत् ।
एवं यः कुरुतेमर्त्यः स पुण्यफलमाप्नुयात् ॥ ३९.९४॥
अनुक्त मन्यतो ग्राह्यमधिकं नैव दूप्यते ।
क्षीरपूजाविधिः प्रोक्तः पवित्रारोपणं शृणु ॥ ३९.९५॥
इति क्षीरपूजाविधिः ।
पवित्रारोपणविधिः ।
आषाढादित्रयोपेता श्रेष्ठमध्यमकन्यसाः ।
आश्विनीकृत्तिकामासावथवा सम्प्रकीर्तितौ ॥ ३९.९६॥
पूर्वपक्षे चतुर्दश्यामाषाढे मासि कारयेत् ।
इतरेषु च मासेषु पक्षयोरुभयोरपि ॥ ३९.९७॥
चतुर्दश्यां च षष्ठ्यां वा पूर्णिमायां च कारयेत् ।
कृत्तिकादीपतः पश्चात् नैव कार्यं पवित्रकम् ॥ ३९.९८॥
शुक्लपक्षे गृहस्थानां यतीनां तु द्विपक्षयोः ।
भोगमोक्षप्रदं साक्षात् पवित्रारोपणं मुने ॥ ३९.९९॥
संवत्सरकृतं पापं नाशयत्यस्य पूजनात् ।
प्रायश्चित्तमकुर्वाणा ब्राह्मणाः शुद्धिमाप्नुयुः ॥ ३९.१००॥
प्रत्यहं वाङ्मनः कायकृतानि कलुषानि च ।
तेभ्यः पवित्रं कुरुते तस्मादेतत् पवित्रकम् ॥ ३९.१०१॥
सौवर्णैरजतैः सूत्रैः पट्टोर्णैः सूत्रकैरपि ।
कार्पासजभवैरन्यैर्मौञ्जिभिर्दर्भसम्भवैः ॥ ३९.१०२॥
वल्कलोत्थैश्च सूत्रैश्च नवभिर्गुणितैः शुभैः ।
द्विजातिकृतकार्पास सूत्रैः शुभ्रैरनिन्दितैः ॥ ३९.१०३॥
रोमादिशोध्यतोयेन प्रक्षाल्य प्रोक्ष्य चास्त्रतः ।
शुष्कं कृत्वा हृदा सम्यक् पवित्रं कारयेत्सुधीः ॥ ३९.१०४॥
शक्तयस्तु शकुन्याद्या नवसूत्राधिदेवताः ।
अष्टोत्तरशतैः सूत्रैः कुर्यात् स्कन्दावतारकम् ॥ ३९.१०५॥
उत्तमं बेरदैर्घ्यं स्यान्मध्यमं बाहुमात्रकम् ।
अधमं तु शिरोवेष्टं पवित्रं मुनिपुङ्गव ॥ ३९.१०६॥
षट्कं मूर्ध्नि प्रकर्तव्यं षण्मूर्तिमनुरूपकम् ।
पीठे स्पर्शनकं षट्कं बाह्यमाला तथैव च ॥ ३९.१०७॥
अष्टोत्तरशतं सूत्रमुत्तमं परिचक्षते ।
तदर्धें मध्यमं ज्ञेयं कन्यसं तु तदर्धकम् ॥ ३९.१०८॥
शतं वाऽपि तदर्धं वा पवित्रं कारयेत्सुधीः ।
एकैकया तु संवृद्ध्या तन्तवो द्वादशात्मिकाम् ॥ ३९.१०९॥
नीचाल्पमध्यमं श्रेष्ठमुत्तमादित्रयं तथा ।
ग्रन्थयस्तन्तुसङ्ख्या स्यात् कूलगर्भं नवं मता ॥ ३९.११०॥
यथेष्टग्रन्थयो वाऽपि समाः सर्वशतांसिताः ।
एकद्वित्र्यङ्गुला वाऽपि ग्रन्थिमानमिहोच्यते ॥ ३९.१११॥
ग्रन्थयो वेष्टदेशेषु विधातव्यं विचक्षणैः ।
कुर्यात् पवित्रं शक्तीनां कण्ठादाजानुमात्रकम् ॥ ३९.११२॥
मयूरगजयोः सूत्रं तन्मस्तकपदावधि ।
समानेनात्मनः कुर्यात् पवित्रं कुम्भसङ्ख्यया ॥ ३९.११३॥
क्रमागमज्ञशिष्याणामात्मवत् समुदीरितम् ।
रक्तचन्दनकाश्मीरगैरिकागरुचन्दनैः ॥ ३९.११४॥
कुष्ठकर्पूरसम्मिश्रं हरिद्राकृष्णगन्धकैः ।
रञ्जयेद्धृदेयेनैव रक्तसूत्रादिभिस्तु वा ॥ ३९.११५॥
अन्तः शालागजस्थानप्रासादान्मूलवेश्मनाम् ।
षट्सूत्रस्यैव कर्तव्यं तन्तुना सम्प्रशस्यते ॥ ३९.११६॥
एवं सङ्कल्य पूर्वेद्युरधिवासनमाचरेत् ।
प्रासादस्याग्रके वाऽपि दक्षिणे पश्चिमेऽपि वा ॥ ३९.११७॥
कल्पिते मण्डपे वाऽपि पूर्वोक्तस्यैव कल्पितम् ।
वितानदर्भमालादिफलपल्लवशोभिते ॥ ३९.११८॥
मध्ये वेदिसमायुक्ते नवपञ्चैककुण्डके ।
तत्सङ्ख्यास्थण्डिलोपेते वेदिकारहितेऽपि वा ॥ ३९.११९॥
स्थण्डिलं शालिभिः कुर्यादष्टद्रोणैर्यथाविधि ।
स्कन्दकुम्भं च वर्धन्यौ परितश्चाष्टकुम्भकैः ॥ ३९.१२०॥
स्थाप्य सम्यग् वितानाद्यैर्भूषयित्वाऽथ मण्डपम् ।
कृतनित्यविधिः सौरपूजा शुद्धमना गुरुः ॥ ३९.१२१॥
पुण्याहप्रोक्षणं कृत्वा प्रकीर्य विकिरानपि ।
मण्डपार्चनमार्गेण सर्वान् देवान् समर्चयेत् ॥ ३९.१२२॥
मध्ये स्कन्दं समावाह्य महावल्लीं च दक्षिणे ।
देवसेनां तथा वामे जयन्ताद्यान् समावृते ॥ ३९.१२३॥
स्थण्डिलं पश्चिमे कूर्यात् रक्तषड्दलपद्मयुक् ।
तस्मिन् कुम्भं विदध्यार्च्य प्राप्यानुज्ञां ततो गुरुः ॥ ३९.१२४॥
द्वारेशानर्चयेद् देवसमीपे स्वासने स्थितः ।
आसनार्चनमारभ्य कुर्यादावाहनान्तकम् ॥ ३९.१२५॥
गव्यैः पञ्चामृतैः स्नाप्य विशेषस्नपनेन च ।
पञ्चावरणमार्गेण गन्धपुष्पादिनार्चयेत् ॥ ३९.१२६॥
सैकत्रिंशत्कलान्यासं विधिना कारयेद्बुधः ।
भक्ष्यभोज्यान्नपानादिप्रभूतहविषं ददेत् ॥ ३९.१२७॥
कौतुकं बन्धयित्वा तु गत्वा कुण्डान्तिकं गुरुः ।
अग्निकार्योक्तमार्गेण स्विष्टान्तं होममाचरेत् ॥ ३९.१२८॥
समिदन्नांश्च लाजांश्च सर्षपं शालिभिस्तिलैः ।
सक्तुवेणुयवैश्चैव मुद्गमाषप्रियङ्गुभिः ॥ ३९.१२९॥
पलाशखदिराश्वत्थवटैः प्रागादिदिक्षु च ।
शमीखादिरमायूरप्लक्षोऽग्न्यादिविदिक्षु च ॥ ३९.१३०॥
प्रधानम्य पलाशेन शतं वाऽपि तदर्धकम् ।
स्कन्दमूलेन स ब्रह्मा मूर्तिमन्त्रैः षडङ्गकैः ॥ ३९.१३१॥
हुत्वाऽथ स्कन्दसूक्तेन षण्मन्त्रेण रसाहुतिः ।
ततः कुमारमानेति मन्त्रेणैव तथा हुनेत् ॥ ३९.१३२॥
एवं प्रधानकुण्डं स्यात्तदर्धेन तदर्धकम् ।
स्थालीपाकं ततः कृत्वा तद्धृदा विभजेत्त्रिधा ॥ ३९.१३३॥
गुहांशमग्निभागं च मध्वाज्याभ्यां च मिश्रितम् ।
कुर्यादात्मीयभागन्तु लवणेन घृतेन वा ॥ ३९.१३४॥
हृदा देवांशमभ्यर्च्य तमादाय गुहान्तिकम् ।
गत्वा निवेद्य देवाय नीत्वा विज्ञाप्य मन्त्रवित् ॥ ३९.१३५॥
दन्तकाष्ठञ्च तैलञ्च पूर्वे तत्पुरुषं स्मरन् ।
दक्षिणे दण्डकौपीनं बहुरूपेण मन्त्रतः ॥ ३९.१३६॥
कमण्डल्वक्षमालाञ्च पश्चिमे सद्यमन्त्रतः ।
वामे ज्ञानञ्च भस्मानि दर्पणं वाममन्त्रतः ॥ ३९.१३७॥
ऐशान्यां पादुकानाञ्च ताम्बूलं त्वीशमन्त्रतः ।
स्थण्डिले सूत्रनिकटे परितश्चापि साधयेत् ॥ ३९.१३८॥
पवित्राणि च तन्मध्ये पात्रे स्थाप्य शुभाणुना ।
अस्त्रेण प्रोक्षितं सम्यगवकुण्ठ्य हृदार्चनम् ॥ ३९.१३९॥
धेनुमुद्रामृतीभूतं स्कन्दाङ्गैर्मनुभिर्यजेत् ।
मण्डले वेदिकोर्ध्वे तु पवित्रस्याशुचासनम् ॥ ३९.१४०॥
मृगाजिनादिना चापि स्थापयेत्पावकान्तिके ।
संवत्सरकृतं पापं यदसाक्षिणमव्ययम् ॥ ३९.१४१॥
प्रायश्चित्तार्थमेतस्य पवित्रत्वं त्वां नमाम्यहम् ।
इदं मन्त्रं समुच्चार्य पवित्राण्यधिवासयेत् ॥ ३९.१४२॥
सुब्रह्मण्यं स्मरन् ब्रह्मा षडङ्गैर्मूलमन्त्रतः ।
ददेवह्निस्थदेवाय तृतीयांशं चरुं गुरुः ॥ ३९.१४३॥
त्रिसप्तकृत्वा सम्पातं तथैव जुहुयात्ततः ।
चरुशेषं हुतं हुत्वा रात्रिशेषं व्यपोह्य च ॥ ३९.१४४॥
ततः प्रभाते सुस्नातः स्नानसन्ध्यानुतर्पणम् ।
समाचम्य कृतन्यासं सामान्यार्घ्यकरो गुरुः ॥ ३९.१४५॥
कृत्वा नित्यविधिः सम्यगाचार्यो मन्त्रवित्तमः ।
द्वारं द्वाराधिपानिष्ट्वा गत्वा कुम्भान्तिकं गुरुः ॥ ३९.१४६॥
सास्त्रान् दिक्पालकान् कुम्भान् पूर्वं कृत्वा समर्चयेत् ।
कुण्डाधिदेवतान् पूज्य परिषिच्य यथाक्रमम् ॥ ३९.१४७॥
स्कन्दमूलेन सब्रह्ममूर्तिमन्त्रैः षडङ्गकैः ।
मण्डलस्थगुहेनैव पावकस्थगुरुं तथा ॥ ३९.१४८॥
नाडीसन्धानमार्गेण योजयेद् भावयेद् गुहम् ।
यान्येतानि पवित्राणि भगवान् संस्कृतानि च ॥ ३९.१४९॥
अर्चयामि घटस्थाय गुहायाध्येषयेदिति ।
समय रक्षणामस्मै षट्पवित्राणि देशिकः ॥ ३९.१५०॥
एकैकं शक्तिवर्धन्यौ जयन्तादिभ्य एव च ।
द्वारेशेभ्यो दिगीशेभ्यो दद्याद् गन्धपवित्रकम् ॥ ३९.१५१॥
तत्तन्नामचतुर्थ्यन्तैः प्रतिगृह्णेति दापयेत् ।
यागशालागजस्थानं प्रासादपचनालयम् ॥ ३९.१५२॥
द्वारकान् सूत्रषट्केण वर्मणा परिवेष्टयेत् ।
द्वारं पूर्ववदभ्यर्च्य गर्भगेहं प्रविश्य च ॥ ३९.१५३॥
दन्तकाष्ठं च तैलं च ताम्बूलं हृदयेन च ।
उपचारक्रमणैव युक्त्यादद्याद् क्रमाद् गुरुः ॥ ३९.१५४॥
आधाराधेयपूजां च कुर्यादपि विशेषतः ।
विशेषस्नपनोपेतं यथाविभवविस्तरम् ॥ ३९.१५५॥
आमन्त्रणपवित्रान्तं सुधामुद्राप्ररोपितम् ।
गुहायारोप्य तन्मूर्ध्नि रेचकेण गुहार्चना ॥ ३९.१५६॥
आमन्त्रणात्मकं कर्म पठेद् देवेशसन्निधौ ।
नमस्ते विधिवच्छिद्र पुराणेश मखं प्रति ॥ ३९.१५७॥
प्रभावान्मन्त्रयामि त्वां तदिच्छावाप्तिकारणम् ।
तत्सिद्धिमनुजानीहि यतः शरवणोद्भव ॥ ३९.१५८॥
सर्वदा सर्वथा स्वामिन् नमस्तेऽस्तु प्रसीद मे ।
जप्त्वा निवेद्य देवाय नमस्कृत्वा समापयेत् ॥ ३९.१५९॥
षट्पवित्राणि मतिमान् मूर्तिमन्त्रैः प्रदापयेत् ।
स्कन्दमूलेन मन्त्रेण दद्यात् स्कन्दावतारकम् ॥ ३९.१६०॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं च यत् कृतम् ।
जपहोमार्चनाहीनं कृतं नित्यं मया तव ॥ ३९.१६१॥
कृतं सावित्रिहीनं च तत्पूरय विधानतः ।
त्वया पवित्रितं सर्वं जगदेतच्चराचरम् ॥ ३९.१६२॥
तथाप्यत्र पवित्राणि दापयामि त्वदाज्ञया ।
निवेद्य देवदेवाय नमस्कुर्याद् विशेषतः ॥ ३९.१६३॥
शक्तिद्वये पवित्रे द्वे दद्यात् तत्तद्धृदाधुना ।
दिगीशपरिवारेभ्यो देवेभ्यस्त्वेकमेककम् ॥ ३९.१६४॥
सुमित्रक्षेत्रपालेभ्यो दद्याद् गन्धपवित्रकम् ।
प्रायश्चित्तं ततः कुर्यादस्त्रेणैव शताहुतिः ॥ ३९.१६५॥
सिद्धान्तपुस्तके दद्यात् स्वगुरोश्च पवित्रकम् ।
प्रभूतहविषं दद्यात् यथाविभवविस्तरम् ॥ ३९.१६६॥
ब्राह्मणान् भोजयेत् पश्चात् दीनानाथांश्च भोजयेत् ।
उत्तमं दशनिष्कं स्यात् मध्यमं तु तदर्धकम् ॥ ३९.१६७॥
तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा ।
मूर्तिपानां तदर्धं स्यात् जापकानां तदर्धकम् ॥ ३९.१६८॥
अत्रोपकरणं सर्वं देशिकाय प्रदापयेत् ।
पवित्राणि च दर्भांश्च वस्त्राण्याभरणानि च ॥ ३९.१६९॥
पुनः पुनः प्रयोक्तव्यं पूतान्येतानि सर्वदा ।
मण्डलस्थं घटं चैव वह्निस्थं नित्यमर्चयेत् ॥ ३९.१७०॥
अर्धमासं च सप्तर्क्ष पञ्चाहं वा त्रयाहकम् ।
एवं पवित्रं पूजां च प्रकुर्यात्तु दिनं प्रति ॥ ३९.१७१॥
मन्त्रतर्पणकर्मान्तं कृत्वा निष्कृतिमाचरेत् ।
अस्त्रेणैव शतं पश्चात् पूर्णां वै चित्ररूपिणीम् ॥ ३९.१७२॥
लक्षञ्चाघोरमावर्त्य चाज्यहोमं समाचरेत् ।
भसितं दर्शयित्वाथ वह्निस्थं योजयेद् गृहम् ॥ ३९.१७३॥
वह्नेर्मन्त्रं च सहृत्य नीत्वा तं द्वादशान्तके ।
हृदये सन्निवेश्याग्निं विसृज्योद्वास्य विष्टरान् ॥ ३९.१७४॥
परिधिं च बलिं दद्यात् समाचम्य गुरुः शुचिः ।
स्कन्दकुम्भे च वर्धन्यौ मन्त्रान् संहृत्य योजयेत् ॥ ३९.१७५॥
दिक्पालानस्त्रसहितान् द्वारपालांश्च संस्थितान् ।
अर्घ्यं तन्नित्यपूजाङ्गं पुज्याद्यैः परिकल्पयेत् ॥ ३९.१७६॥
रव्यन्तं संविसृज्याथ पवित्राणि षडाननात् ।
आदाय च सुमित्राय सर्वाण्येतानि दापयेत् ॥ ३९.१७७॥
पवित्रं नित्यपूजाङ्गं पुष्पाद्यैः परिकल्पयेत् ।
एवं यः कुरुते मर्त्यः पवित्रोत्सवमुक्तमम् ॥ ३९.१७८॥
मुच्यते ब्रह्महत्यायाः किं पुनश्चोपपातकैः ।
सर्वान् कामानिहप्राप्य सोऽन्ते स्कन्दपुरं व्रजेत् ॥ ३९.१७९॥
पवित्रारोपणं प्रोक्तं शृणु श्रावणपूजनम् ॥ ३९.१८०॥
इति पवित्रारोपणविधिः ।
श्रावणपूजाविधिः ।
श्रावणे तु श्रविष्ठान्तं तद्दिनात्पूर्वरात्रके ।
कौतुकं बन्धयेद्देवं पायसान्नं निवेदयेत् ॥ ३९.१८१॥
प्रातः सन्ध्यावसाने तु यथाविभवविस्तरम् ।
स्नपनं कल्प्य सम्पूज्य कुङ्कुमेनैव लेपयेत् ॥ ३९.१८२॥
नववस्त्रेण संवेष्ट्य भूषयेद्भूषणार्हकैः ।
बन्धूकपुष्पदामैश्च नैरन्तर्यं विभूषयेत् ॥ ३९.१८३॥
शर्करायाः शतप्रस्थं तदर्धं वा तदर्धकम् ।
पात्रे निधाय मतिमान् षण्मुखाय निवेदयेत् ॥ ३९.१८४॥
प्रभूतहविषं दद्यात्ताम्बूलञ्च निवेदयेत् ।
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ।
प्रोक्तं श्रावणपूजाञ्च शृणु भाद्रपदार्चनाम् ॥ ३९.१८५॥
इति श्रावणपूजाविधिः ।
भाद्रपदमासपूजाविधिः ।
पूर्वाषाढे तु नक्षत्रे मासि भाद्रपदे यजेत् ।
कुसुमैः केतकैश्चैव शतैर्वाऽपि तदर्धकैः ॥ ३९.१८६॥
सक्तुलाजतिलोपेतैः सहस्रप्रस्थमुत्तमम् ।
तदर्धं मध्यमं पिष्टं कन्यसंस्यात्तदर्धकम् ॥ ३९.१८७॥
अपूपं सर्पिषा कृत्वा पूरयेत्तु घटे घटे ।
श्रीसूक्तैर्वेष्टयित्वाथ कूर्चं न्यस्त्वा विचक्षणः ॥ ३९.१८८॥
विशेषस्नपनैः स्नाप्य प्रभूतहविषं ददेत् ।
कदलीपनसैर्युक्तानपूपांश्च विशेषतः ॥ ३९.१८९॥
ताम्बूलञ्च हृदा दत्वा प्रार्थयेदर्थमीप्सितम् ।
एवं यः कुरुते मर्त्यः सर्वपापैः प्रमुच्यते ॥ ३९.१९०॥
प्रोक्तं भाद्रपदे पूजाप्यश्विनीपूजनं शृणु ।
इति भाद्रपदमासपूजाविधिः ।
आश्वयुजमासपूजाविधिः ।
अश्विन्यामाश्विजे मासे प्रीणयेदन्नपूजनात् ।
विशेषस्नपनात्पूज्य भूषयेद्भूषणार्हकैः ॥ ३९.१९१॥
लक्ष्मीपुष्पैश्च कुसुमैरुत्पलैः पूजयेद्गुहम् ।
शुद्धान्नं पायसं मुद्गं गुलान्नं कृसरान्नकम् ॥ ३९.१९२॥
नीवारान्नं प्रियङ्ग्वन्नं दध्यन्नं वैणवान्नकम् ।
श्यामाकान्नं च नव्यञ्च मध्वन्नं घृतान्नकम् ॥ ३९.१९३॥
माषान्नं चव मुद्गान्नं गोधूमान्नञ्च षोडश ।
एतैश्चैव द्विरष्टाद्यैः प्रीणयेत्तु षडाननम् ॥ ३९.१९४॥
फल्गुन्यामेव तन्मासे प्रकुर्यात् पार्वतीव्रतम् ।
तत्पूर्वे तु महावल्लीं देवसेनां महामुने ॥ ३९.१९५॥
स्वर्णसूत्रेण विधिना कौतुकं बन्धयेन्निशि ।
ततः प्रभाते कन्याभ्यः स्नानाङ्गं दापयेत्सुधीः ॥ ३९.१९६॥
स्नातेभ्यो वसनं गन्धं दाम चापि विशेषतः ।
नवभारादिभारान्तमुत्तमादित्रयं त्रयम् ॥ ३९.१९७॥
पात्रस्थान्साङ्कुरान्मुद्गान् तण्डुलान् सोपदंशकान् ।
दापयित्वा तु शक्तिभ्यां विधिना यन्त्रवित्तमः ॥ ३९.१९८॥
मूलदेव्यौ समभ्यर्च्य विशेषस्नपनेन च ।
यात्रादेव्यौ कृते स्नाते नवशाटीपरिच्छदे ॥ ३९.१९९॥
शुद्धनैवेद्यसन्तुष्टे गन्धस्रग्दामभूषिते ।
पयोघृतधरे कृत्वा दिनशेषं नयेत्क्रमात् ॥ ३९.२००॥
कृत्वा च पेषणीपूजां याम्यायां पावकेऽपि वा ।
तत्रामलकपिष्टेन रजन्याऽपि सुगन्धिना ॥ ३९.२०१॥
संस्थाप्य पेषणीं कृत्वा सप्तधान्यकृताश्रयाम् ।
गन्धैरालिप्य वस्त्रेण नवेनाच्छाद्यसासनाम् ॥ ३९.२०२॥
ध्यात्वाथ पेषणीं गौरीं समभ्यर्च्य यथाविधि ।
नैवेद्यं सोपदंशञ्च दत्वा स्त्रीभिः प्रसादितम् ॥ ३९.२०३॥
ग्रामप्रदक्षिणं कृत्वा देवदेव्यौ च भक्तितः ।
सर्वालङ्कारसंयुक्तं पाददीपैः समन्वितम् ॥ ३९.२०४॥
तत्काले दापयेन्मुद्गाङ्कुरं लवणसंयुतम् ।
वीथ्यां वीथ्यां जनेभ्यश्च व्यञ्जनं तण्डुलान्वितम् ॥ ३९.२०५॥
आलयं तु प्रविश्याथ परिवेषक्रमान्नयेत् ।
शिष्योपाध्यायसंयुक्तान् सिद्धान्ताध्ययनं जपेत् ॥ ३९.२०६॥
ऋग्यजुः सामगाथर्वा वेदाङ्गं च पृथक्पृथक् ।
शिवधर्मपुराणानि सेतिहासानि तत्समम् ॥ ३९.२०७॥
काव्यञ्च शब्दशास्त्रञ्च ज्योतिश्शास्त्रं ततः परम् ।
आयुर्वेदं द्राविडञ्च श्रावयेत्प्रीणयेद्गुहम् ॥ ३९.२०८॥
ब्राह्मणान्भोजयेत्तत्र वैदिकान् शिवभक्तकान् ।
कन्याश्च ब्रह्मचरींश्च दीनानाथांश्च भोजयेत् ॥ ३९.२०९॥
विधानमेतत्कर्तव्यं देव्याः सन्तुष्टकारणम् ।
एवं यः कुरुते मर्त्यः सर्वान्कामानवाप्नुयात् ॥ ३९.२१०॥
अश्विनीपूजनं प्रोक्तं कृत्तिकापूजनं शृणु ।
इत्याश्विजमासपूजाविधिः ।
कार्तिकमासपूजाविधिः ।
ब्राह्मणा यजुसूक्तैश्च भूभुजाः कुक्कुटैरपि ।
वैश्याः कर्पूरखण्डैश्च शूद्राद्याः फलपुष्पकैः ॥ ३९.२११॥
कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् ।
सप्तजन्मभवेद्विप्रो धनाढ्यो वेदपारगः ॥ ३९.२१२॥
कार्तिक्यां कृत्तिकापर्वयोगे वृषलग्नके ।
श्रद्धया कार्तिकेयाय यः कुर्याद्धृतदीपिकाम् ॥ ३९.२१३॥
तस्य पुण्यमसङ्ख्येयं विश्वामित्र महामुने ।
कृत्तिकापर्वयुक्तेनालाभे पर्वणि सम्मतम् ॥ ३९.२१४॥
रोहिण्यां वा भरण्यां वा दीपं पर्वणि कारयेत् ।
अपर्वणिकृतं दीपं राजराष्ट्रं विनश्यति ॥ ३९.२१५॥
पर्वद्वये तु सम्प्राप्ते पूर्वं त्यक्त्वा परं ग्रहेत् ।
पूर्णायां खण्डितायां तु द्वयोर्नाड्याधिकं ग्रहेत् ॥ ३९.२१६॥
रवेरस्तमनात्पूर्वे पादयामाद्विधानतः ।
कालस्तदूर्ध्वे यामार्धपर्यन्तं दीपकर्मणि ॥ ३९.२१७॥
नक्षत्रवृद्ध्या संस्पृष्टे तत्कालान्ते समाचरेत् ।
यल्लग्ने विषसंस्पृष्टे तल्लग्नं परिवर्जयेत् ॥ ३९.२१८॥
विषस्य परपूर्वे तु घटिकाद्वयतः शुभम् ।
कर्तुरष्टमराश्यादिलक्षदोषनिरूपणम् ॥ ३९.२१९॥
विष्टिवैनाशिकर्क्षादिप्रोक्षणं नात्र सम्मतम् ।
पर्वयुक्तमयुक्तं वा नक्षत्रं तु प्रधानकम् ॥ ३९.२२०॥
एवं परीक्ष्य मतिमान् कृत्तिकादीपमाचरेत् ।
पूर्वेद्युः कौतुकं बध्वा स्नाप्यचोत्सवबेरकम् ॥ ३९.२२१॥
मङ्गलाङ्कुरमन्त्रैश्च कुर्याद्विध्युक्तमार्गतः ।
दीपारोहणकालस्य पूर्वे स्वामिनमर्चयेत् ॥ ३९.२२२॥
मूलबेरमलङ्कृत्य भूषयेद्भूषणार्हकैः ।
नीलोत्पलैश्च कमलैः पट्टिकैः पुष्पकैर्यजेत् ॥ ३९.२२३॥
प्रभूतहविषं दत्वा ताम्बूलं दापयेत्ततः ।
आलये मण्डपे वाऽपि यागमण्डप एव च ॥ ३९.२२४(१)॥
शिवाग्निं तत्र सम्पूज्य गुहं साङ्गं समर्चयेत् ।
समिदाज्येन चरुणा दीपैः कार्पासबीजकैः ॥ ३९.२२४(२)॥
क्षीरेण शतमर्धं वा तदर्धं वा हुनेत्सुधीः ।
स्कन्दमूलेन मन्त्रेण दशांशाञ्जुहुयात्ततः ॥ ३९.२२५॥
स्कन्दसूत्रं मन्त्रषट्कैर्द्रव्यषट्कैर्हुनेत्क्रमात् ।
कुमारमेति मन्त्रेण प्रतिद्रव्यं हुनेक्ततः ॥ ३९.२२६॥
पूर्णाहुतिं ततो हुत्वा शिवाग्निं च विसर्जयेत् ।
तदग्नौ दीपमारोप्य कृत्तिकादीपमाचरेत् ॥ ३९.२२७॥
नारिकेलशमिस्तालपनसासनखादिराः ।
चम्पको देवदारुश्च मधुकः सालवृक्षकः ॥ ३९.२२८॥
दीपदण्डद्रुमाः प्रोक्ताः कारयेल्लक्षणान्वितम् ।
अलाभे तु बहिः स्थाने वृक्षयोग्यद्रुमं ग्रहेत् ॥ ३९.२२९॥
ध्वजदण्डोक्तमार्गेण दीपदण्डं प्रकल्पयेत् ।
त्रितालं स्तम्भनाहं स्यादृजुं शुद्धसमन्वितम् ॥ ३९.२३०॥
नवकीलं समारभ्य व्योमकीलविवर्धनात् ।
सप्तविंशतिकीलान्तं रोहणार्थं सुयोजयेत् ॥ ३९.२३१॥
द्वादशाङ्गुलकारस्य व्योमाङ्गुलविवर्धनात् ।
द्वाविंशदङ्गुलान्तं स्याद्दण्डात्कीलंविनिर्गतः ॥ ३९.२३२॥
द्व्यङ्गुलात्पादवृद्ध्यादि षडङ्गुलसमावधि ।
विस्तारं तद्घनं ज्ञेयं निर्गमादर्धमात्रकम् ॥ ३९.२३३॥
दण्डप्रोक्तञ्च कीलानां सुदृढं कल्पयेद्बुधः ।
लोहचक्रं तदूर्ध्वे तु व्योममूलं त्रिपादवत् ॥ ३९.२३४॥
सुदृढं स्थापयेत्पात्रं धारणायां महामुने ।
दारूद्भवानि चक्राणि प्रतिकूलं सुयोजयेत् ॥ ३९.२३५॥
न्यस्तव्याश्चक्रवद्दीपं स्तम्भमूलात्पृथक्पृथक् ।
दीपिका प्रतिचक्रञ्च रसद्वादशषोडश ॥ ३९.२३६॥
सहस्रदीपयुक्तं वा शतदीपयुतं तु वा ।
स्थापयेद्दीपदण्डांश्च मालाकारेण वास्तुनः ॥ ३९.२३७॥
तोरणाकारतो वाऽपि वृत्ताकारेण वाथवा ।
प्रासादस्यैव परितश्चतुर्दिक्षु विशेषतः ॥ ३९.२३८॥
कूटाकाराणि कृत्वाथ चतुर्गात्रयुतानि च ।
कूटबन्धेषु सर्वत्र पात्राणि न्यस्य कारयेत् ॥ ३९.२३९॥
पुण्याहप्रोक्षणं कृत्वा दण्डं पूर्वेऽपि वासयेत् ।
बलिपीठाग्रके वाऽपि ध्वजदण्डाग्रकेऽपि वा ॥ ३९.२४०॥
यथा दृढतरं स्थाप्य पूरयेच्छुद्धवालुकैः ।
वेदिमूले प्रकर्तव्यं वृत्तं वा चतुरश्रकम् ॥ ३९.२४१॥
त्रिहस्तमात्रविस्तीर्णमेकहस्तोन्नता शुभा ।
गोमयालेपनं कृत्वा शालिपिष्टैर्विचित्रयेत् ॥ ३९.२४२॥
नवेन युग्मवस्त्रेण दण्डमूलं प्रवेष्टयत् ।
पालिकाद्यैरलङ्कृत्य पुण्याहं वाचयेद्बुधः ॥ ३९.२४३॥
अस्त्रेण प्रोक्ष्य तद्दण्डं प्रणवेन तु पूजयेत् ।
स्तम्भयानं यथा तद्वद्दीपं कुर्यान्मनोरमम् ॥ ३९.२४४॥
कार्पासबीजैर्मतिमान्निच्छिद्रेणैव साधनम् ।
पोट्टलीकं ततो बध्वा घृतमात्रे निधाय च ॥ ३९.२४५॥
अष्टप्रस्थं घृतेनैव तदर्धेनैव पूरयेत् ।
सौवर्णं राजतं ताम्रं मृण्मयं वाऽथ पात्रकम् ॥ ३९.२४६॥
देवाग्रे मण्डलं कृत्वा शालिपिष्टैर्विचित्रयेत् ।
शालिभिर्विकिरेत्तत्र दर्भैश्चैव परिस्तरेत् ॥ ३९.२४७॥
तन्मध्ये विन्यसेत्पात्रं हृदयेन तु मन्त्रतः ।
दीपयेत्प्राङ्मुखो मन्त्री स्कन्दमूलमनुस्मरन् ॥ ३९.२४८॥
एवं त्रिधा पञ्चधा वा शरावे पात्रमाचरेत् ।
ब्रह्मसूक्तैश्च मन्त्रैर्वा गन्धपुष्पादिनार्चयेत् ॥ ३९.२४९॥
धूपदीपं ततो दत्वा हृदयेन तु मन्त्रतः ।
दीपानारोप्य हस्तैर्वा वाहयित्वा शिवद्विजैः ॥ ३९.२५०॥
सर्वातोद्यसमायुक्तं कृत्वा ग्रामप्रदक्षिणम् ।
गृहस्थो वा ब्रह्मचारी वा दीपं सङ्ग्राह्य पाणिना ॥ ३९.२५१॥
अघोरास्त्रेण मन्त्रेण दीपदण्डेऽधिरोपयेत् ।
सर्वातोद्यसमायुक्तं जयशब्दसमन्वितम् ॥ ३९.२५२॥
सर्वैर्हरहरेत्युक्त्वा दीपदण्डेऽधिरोपयेत् ।
प्राङ्मुखोदङ्मुखो वाऽपि दीपं मन्त्रेण विन्यसेत् ॥ ३९.२५३॥
प्रासादे गोपुरे शालपरिवारालयोर्ध्वके ।
प्रासादाभ्यन्तरे सर्वे पाकस्थानेन तु मण्डपे ॥ ३९.२५४॥
वापीकूपतटाकेषु सर्वत्रैव प्रदीपयेत् ।
स्नात्वा चोत्सवबेरन्तु समलङ्कृत्य भूषणैः ॥ ३९.२५५॥
ग्रामप्रदक्षिणं कृत्वा सर्वातोद्यसमन्वितम् ।
आलयन्तु प्रविश्याथ मूलबेरं समर्चयेत् ॥ ३९.२५६॥
स्नपनं कारयेत् तत्र सहस्रादिषु शक्तितः ।
पृथुकान् दापयेद्विद्वान् नालिकेरफलान्वितान् ॥ ३९.२५७॥
मरीचिजीरकोपेतान् नालिकेरैश्च संयुतान् ।
दद्यात्पृथुकलाजांश्च गुलसारसमन्वितान् ॥ ३९.२५८॥
प्रभूतहविषं दत्वा ताम्बूलमपि दापयेत् ।
प्रतिसंवत्सरं ह्येवं कर्तव्यं फलकाङ्क्षिभिः ॥ ३९.२५९॥
लाजान् पृथुकलाजांश्च पृथुकान् व्यञ्जनैर्युतान् ।
निवेदयेद्गुहस्यैवं पवित्र पापनाशनम् ॥ ३९.२६०॥
यो भक्षयेत्ततो भक्त्या अग्निष्टोमफलं लभेत् ।
एवं यः कुरुते मर्त्यः स मुक्तः सर्वपातकैः ॥ ३९.२६१॥
सर्वान् कामानिह प्राप्य सोऽन्ते स्कन्दपुरं व्रजेत् ।
कृत्तिकादीपनं प्रोक्तं धनुर्मासार्चनं शृणु ॥ ३९.२६२॥
इति कार्तिकमासपूजाविधिः ।
धनुर्मासपूजा ।
मण्डपं समलङ्कृत्य मुक्तादामैश्च वस्त्रकैः ।
गृहद्वाराणि सर्वाणि एवमाद्यैरलङ्करेत् ॥ ३९.२६३॥
शुद्धतोयेन संस्नाप्य प्रियङ्ग्वन्नं निवेद्य च ।
सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ ३९.२६४॥
धनुर्मासस्य मर्त्यानां प्रत्यूषः काल उच्यते ।
तस्मात्समाधिरात्र्यन्ते पूजयेच्छङ्करात्मजम् ॥ ३९.२६५॥
एकवारं धनुर्मासे भक्त्या यः पूजयेद्गुहम् ।
वर्षद्वयञ्च पूजायाः फलं प्राप्नोत्यसंशयः ॥ ३९.२६६॥
शृङ्गिबेरसहस्रार्धं व्यञ्जनैः सममुच्यते ।
तत्समं दधि विप्रेन्द्र धनुर्मासस्य पूजने ॥ ३९.२६७॥
अर्धरात्रात्परे तत्र जलसङ्ग्रहणं मतम् ।
पुष्पसङ्ग्रहणं विप्र पूर्वेद्युरह उच्यते ॥ ३९.२६८॥
नीलोत्पलञ्च कमलं तुलसीबिल्वपत्रकम् ।
एकाहोषितदोषाणि न दोषं तैः सुपूजयेत् ॥ ३९.२६९॥
पूजाकालस्य पूर्वे तु सुस्नाताचमनो गुरुः ।
पादौ प्रक्षाल्याचम्य भस्मधारणविग्रहः ॥ ३९.२७०॥
द्वारं सम्पूज्य विधिना मन्त्रकायः शिवद्विजः ।
विशेषार्घ्यं ततो कल्प्य रात्र्यन्तं पूजयेद्गुहम् ॥ ३९.२७१॥
स्कन्दमूर्त्यङ्गमन्त्रैश्च स्कन्दसूक्तेन मन्त्रतः ।
ततः कुमारमातेति स्कन्दगायत्रिया यतः ॥ ३९.२७२॥
श्रीरुद्रचमकाद्यञ्च पूजयेद्गन्धतोयकैः ।
धौतवस्त्रैरलङ्कृत्य भूषयेद्भूषणार्हकैः ॥ ३९.२७३॥
कर्पूरकुङ्कुमोपेतं रक्तगन्धं च लेपयेत् ।
नीलोत्पलारविन्दैश्च पूजयेत्तु विशेषतः ॥ ३९.२७४॥
आसनावरणादीनि सम्पूज्य विधिना ततः ।
नवभारादिभारान्तमुत्तमादित्रयं त्रयम् ॥ ३९.२७५॥
तण्डुलं स्यात् तदर्धेन यथाविभवविस्तरम् ।
शुद्धान्नमेवं कर्तव्यं शृङ्गिबेरदधिप्लुतम् ॥ ३९.२७६॥
कन्दमूलफलोपेतं गुलखण्डसमन्वितम् ।
नालिकेरफलैर्युक्तं मधुसूपसमन्वितम् ॥ ३९.२७७॥
निवेदयेद्धृदा मन्त्री ताम्बूलमपि दापयेत् ।
नानाधूपैश्च दीपैश्च ततो नीराजनैरपि ॥ ३९.२७८॥
वाद्यैर्गीतैश्च नृत्तैश्च जपैः स्तोत्रैः प्रदक्षिणैः ।
नमस्कारैश्चमतिमान् प्रीणयेदसुरान्तकम् ॥ ३९.२७९॥
एवं यः कुरुते मर्त्यः सप्तजन्मद्विजो भवेत् ।
सर्वान् कामानिह प्राप्य तदन्ते मुक्तिमाप्नुयात् ।
धनुर्मासार्चनं प्रोक्तमार्द्रापूजाविधिं शृणु ॥ ३९.२८०॥
इति धनुर्मासापूजाविधिः ।
आर्द्रापूजा ।
तस्मिन् मासे तथार्द्रायां घृतेन स्नापयेद् गुहम् ।
पर्वयुक्तमयुक्तं वा नक्षत्र तु प्रधानकम् ॥ ३९.२८१॥
खण्डिते सति नक्षत्रे द्वयोस्तावधिकं भवेत् ।
समर्थेनापरं ग्राह्यं पूर्वमङ्गलकारकम् ॥ ३९.२८२॥
एकमासे द्विनक्षत्रे सम्प्राप्ते त्वपरं वरम् ।
पूर्वमुत्सवबेरञ्च ततः कौतुकबेरकम् ॥ ३९.२८३॥
पूर्वेद्युः कौतुकं बध्वा देवीभ्यां सह मन्त्रवित् ।
कदलीपूगपनसलिकुचाद्युद्भवैः फलैः ॥ ३९.२८४॥
मण्डपं समलङ्कृत्य मुक्तादामैश्च वस्त्रकैः ।
गृहद्वाराणि सर्वाणि एवमाद्यैरलङ्करेत् ॥ ३९.२८५॥
शुद्धतोयेन संस्नाप्य प्रियङ्ग्वन्नं निवेद्य च ।
सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ ३९.२८६॥
ग्रामप्रदक्षिणं कुर्यात् प्रातरुत्सवबेरकम् ।
गवामाज्यं ततो विद्वान् नवं शुद्धमनिन्दितम् ॥ ३९.२८७॥
आनीय रात्रौ तत्त्वज्ञः स्नापयेन्मूलबेरकम् ।
शिवत्रयं सार्धभारं भारं भारार्धभारकम् ॥ ३९.२८८॥
द्वयभारस्त्रिभारञ्च षड्भारं चाष्टभारकम् ।
दशभारं स्मृतं ज्ञेयम्मुत्तमादित्रयं त्रयम् ॥ ३९.२८९॥
देवाग्रे स्थण्डिलं कुर्यात् समद्रोणैश्च शालिभिः ।
तदर्धैस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि ॥ ३९.२९०॥
परिस्तीर्य ततो दर्भैराज्यपात्राणि विन्यसेत् ।
पुण्याहप्रोक्षणं कृत्वा स्कन्दमन्त्रैः समर्चयेत् ॥ ३९.२९१॥
धूपदीपं ततो दत्त्वा द्वारपूजां विधाय च ।
आधाराधेयपूर्वं च कृत्वा नित्यावसानके ॥ ३९.२९२॥
स्कन्दमूलेन मन्त्रेण षडङ्गाद्यङ्गमन्त्रतः ।
स्कन्दमूलेन मतिमान् कुमारमेव मन्त्रतः ॥ ३९.२९३॥
घृतेन मूलमन्त्रेण चास्त्रेण परिमार्ज्य च ।
पिष्टामलकपिण्याकैर्घर्षयेद् धृतनुत्तये ॥ ३९.२९४॥
श्रीरुद्रचमकाभ्याञ्च स्कन्दसूक्तेन मन्त्रवित् ।
मन्दोष्णैर्गन्धतोयैश्च स्नाप्य वस्त्रेणमार्जयेत् ॥ ३९.२९५॥
वस्त्राभरणमालादीन् गुरुर्दत्वा हृदाणुना ।
आसनावरणादीनि पूजयेन्मुनिपुङ्गव ॥ ३९.२९६॥
नीलोत्पलोत्थैः पुष्पैश्च नैरन्तर्यं विभूषयेत् ।
स्नाप्य कौतुकबेरञ्च भूषयेद्भूषणार्हकैः ॥ ३९.२९७॥
नैवेद्यं दापयेत्पश्चात् सर्वव्यञ्जनसंयुतम् ।
ताम्बूलञ्च ततो दत्वाकृष्णगन्धेन लेपयेत् ॥ ३९.२९८॥
ग्रामप्रदक्षिणं नित्यं वीथिं कृत्वालयं विशेत् ।
आलयस्याग्रके वाऽपि सौम्ये वा जनतुष्टये ॥ ३९.२९९॥
डोलारोहं ततः कुर्यात् बलिबेरं विशेषतः ।
डोलारोहं प्रकर्तव्यं प्रभाते चार्धरात्रके ॥ ३९.३००॥
सुवर्णरौप्य लोहैर्वा दारुणात्वथ शिल्पिभिः ।
सर्वलक्षणसंयुक्तं स्थाप्य स्तम्भद्वयं तथा ॥ ३९.३०१॥
तयोरूर्ध्वे कलां योज्य डोलां तस्मिन् प्रलम्बयेत् ।
चतुर्हस्तसमोपेतामथवा द्विभुजान्विताम् ॥ ३९.३०२॥
अधस्तात् फलकं योज्य सर्वालङ्कारसंयुताम् ।
डोलां सम्प्रोक्ष्य चास्त्रेण सर्वालङ्कारसंयुताम् ॥ ३९.३०३॥
फलकोर्ध्वे न्यसेद्देवं शक्तिद्वयसमन्वितम् ।
नैवेद्यं चैव पानीयं ताम्बूलमपि दापयेत् ॥ ३९.३०४॥
धूपदीपौ ततो दत्वा दत्वा भस्मानि मन्त्रवित् ।
वाद्यगीतैश्चनृत्तैश्च स्तोत्रः सन्तोषयेद्गुहम् ॥ ३९.३०५॥
नीराजनं ततो दत्वा प्रविशेदालयं सुधीः ।
प्रभूतहविषं दत्वा ब्राह्मणानपि भोजयेत् ॥ ३९.३०६॥
गुहस्नानार्थमम्भश्च गङ्गातोयसमं भवेत् ।
गुहपादोदकं पीत्वा सर्वयज्ञफलं भवेत् ॥ ३९.३०७॥
एवं यः कुरुते मर्त्यः सर्वान् कामानवाप्नुयात् ।
आर्द्रापूजाविधिः प्रोक्ता पुष्यमासार्चनं शृणु ॥ ३९.३०८॥
इत्यार्द्रापूजाविधिः ।
पुष्यमासपूजा ।
पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम् ।
सर्वव्याधिविनाशं च विजयप्रदकारणम् ॥ ३९.३०९॥
आर्द्राऋक्षविधानेन ऋक्षं निश्चित्य मन्त्रवित् ।
वस्त्रपूतं नवं शुद्धं कृमिदोषविवर्जितम् ॥ ३९.३१०॥
क्षौद्रमादाय मतिमान् शुद्धपात्रे प्रपूरयेत् ।
अष्टप्रस्थादिविप्रेन्द्र यावन्मानं शिवान्तकम् ॥ ३९.३११॥
शिववृद्ध्या नवं मानं कन्यसादित्रयं मतम् ।
देवाग्रे स्थण्डिलं कृत्वा क्षौद्रपात्राणि विन्यसेत् ॥ ३९.३१२॥
पुण्याहं वाचयित्वाथ प्रोक्षयेदस्त्रमन्त्रतः ।
स्कन्दसूक्तेन मन्त्रज्ञः कुमारमेति मन्त्रतः ॥ ३९.३१३॥
मूलब्रह्मषडङ्गैश्च कुर्यात् क्षौद्राभिषेचनम् ।
वस्त्राभरणमालादीन् दापयेत् हृदाणुना ॥ ३९.३१४॥
नीलोत्पलैश्च पद्मश्च नैरन्तर्यं विभूषयेत् ।
प्रभूतहविषं दत्त्वा ब्राह्मणानपि भोजयेत् ॥ ३९.३१५॥
एवं यः कुरुते मर्त्यः सर्वान् कामानवाप्नुयात् ।
पुष्यमासविधिः प्रोक्ता माघमासविधिं शृणु ॥ ३९.३१६॥
इति पुष्यमासपूजाविधिः ।
माघमासपूजा ।
माधमासे मखऋक्षे पूजयेद्धृतकम्बलम् ।
भूपतिर्जयदं सौम्यं प्राणिनां रोगनाशनम् ॥ ३९.३१७॥
आर्द्राप्रोक्तविधानेन नक्षत्रं ग्राह्यमुत्तमम् ।
उत्तमं कपिलासर्षिः स्वर्णवर्णगवामपि ॥ ३९.३१८॥
निरोमं नूतनं शुद्धं क्षीरं कीटादिवर्जितम् ।
तोयैः पात्राणि सम्पूर्य वारुणं बीजमुच्चरन् ॥ ३९.३१९॥
निधाय पात्रं पात्रेषु पिण्डं कृत्वा तदाज्यकम् ।
कुङ्कुमागरूसंयुक्तं शुद्धपात्रे निधापयेत् ॥ ३९.३२०॥
देवाग्रे स्थण्डिलोर्ध्वे तु पुण्याहप्रोक्षणान्वितम् ।
घृतपात्राणि विन्यस्य ब्रह्ममूर्त्यङ्गमन्त्रकैः ॥ ३९.३२१॥
पुष्पैरभ्यर्च्य मतिमान् धूपदीपौ हृदा ददेत् ।
कवचेनावकुण्ठ्यापि प्रातर्मध्याह्न एव वा ॥ ३९.३२२॥
विशेषेणार्च्य सेनान्यमासनावरणैः सह ।
मूर्धादिपादपर्यन्तमालिप्य च स पीठकम् ॥ ३९.३२३॥
गन्धैर्लिप्यापरं नीत्वा कम्बलेन च वेष्टयेत् ।
महाहविर्निवेद्याथ ताम्बूलमपि दापयेत् ॥ ३९.३२४॥
सन्ध्यान्ते वा परेद्युर्वा कौतुकाद्यं विसृज्य च ।
विशेषस्नपनं कुर्यात् यथाविसविधिसविस्तरम् ॥ ३९.३२५॥
एवं यः कुरुते मर्त्यः सर्वरोगात् प्रमुच्यते ।
माघपूजाविधिः प्रोक्ता शिवरात्रिविधिं शृणु ॥ ३९.३२६॥
इति माघमासपूजाविधिः ।
शिवरात्रिपूजा ।
तन्मासे कृष्णपक्षे तु विद्यते या चतुर्दशी ।
तद्रात्रिः शिवरात्रिः स्यात् सर्वपुण्यशुभावहा ॥ ३९.३२७॥
रात्रौ यामद्वयादर्वाक् घटिकैकामहानिशी ।
तत्स्याच्चतुर्दशी यस्मात्तद्रात्रं शिवरात्रकम् ॥ ३९.३२८॥
मुख्या त्रयोदशीमिश्रा पर्वमिश्राऽधमाधमा ।
मध्यमा शिवरात्रिः स्यादहोरात्रं चतुर्दशी ॥ ३९.३२९॥
तस्यां पूज्यो महादेवः ब्राह्मगोहितकाङ्क्षिभिः ।
ईश्वरोवाच-
कौशिकेदं शतं सत्यं मत्पूजायाश्चतुर्गुणम् ॥ ३९.३३०॥
अप्येकदन्तसेनान्योः पूजया तोषयाम्यहम् ।
तस्मात् सर्वप्रयत्नेन तद्रात्रौ पूजयेद्गुहम् ॥ ३९.३३१॥
स्नात्वा नित्यविधिं कृत्वा कुर्याच्छुद्धोपवासकम् ।
देवेशं गन्धतैलेन पिष्टाद्यैरपि मन्त्रवित् ॥ ३९.३३२॥
गव्यैः पञ्चामृतश्चैव प्रतियामं विशेषतः ।
विल्वोदैः शुद्धतोयैश्च गन्धोदैः शुद्धतोयकैः ॥ ३९.३३३॥
चन्दनागरुकर्पूरकुङ्कुमैश्च क्रमेण तु ।
मल्लिकोत्पलपुष्पैश्च जातिपुष्पैश्च बिल्वकैः ॥ ३९.३३४॥
सुवर्णभूषणै रत्नैः प्रवालैर्मौक्तिकैरपि ।
पायसैः कृसरान्नैश्च यवान्नैश्च गुलान्नकैः ॥ ३९.३३५॥
व्यञ्जनाज्यपयः पूर्णैः प्रतियामं समाहितम् ।
रम्भाफलेक्षुदण्डैश्च ताम्बूलमपि दापयेत् ॥ ३९.३३६॥
मूलेन स्कन्दसूक्तेन ब्रह्ममूर्त्यङ्गमन्त्रवित् ।
श्रीरुद्रं चमकेनैव प्रतियामं सुपूजयेत् ॥ ३९.३३७॥
घृतवतिसुदीपांश्च दीपयेत्तोषयेद्गुहम् ।
जपैः स्तोत्रैः प्रदक्षिण्यैर्नमस्कारैर्महामुने ॥ ३९.३३८॥
रात्रिं जागरतो नीत्वा प्रातःस्नानादिकर्म च ।
कृत्वा देवं समभ्यर्च्य प्रभूतहविषं ददेत् ॥ ३९.३३९॥
ब्राह्मणान् शिवभक्तांश्च दीनानाथांश्च भोजयेत् ।
यथाशक्तिसुवर्णादि तेभ्यो दानं प्रयच्छताम् ॥ ३९.३४०॥
एवं यः कुरुते मर्त्यः विमुक्तः सर्वपातकैः ।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः ॥ ३९.३४१॥
शिवरात्र्यर्चनं प्रोक्तं शृणु फाल्गुनपूजनम् ।
इति शिवरात्रिपूजाविधिः ।
फाल्गुनमासपूजा ।
फाल्गुने मासि विधिना पूजेदुत्तरफाल्गुने ।
बालानाञ्च पशूनाञ्च वर्धन्ते मुनिसत्तमाः ॥ ३९.३४२॥
स्नात्वा गोपः पटाद्वक्त्रं बध्वा दुग्ध्वा गवां पयः ।
देवागारेऽग्निना तप्त्वा दधि कृत्वा पिधानयुक् ॥ ३९.३४३॥
घृतस्योक्तप्रमाणेषु यथालाभं प्रगृह्य च ।
देवाग्रे स्थण्डिले न्यस्त्वा पुण्याहप्रोक्षणं चरेत् ॥ ३९.३४४॥
पुष्पैरभ्यर्च्य मूलेन ब्रह्ममूर्त्यङ्गमन्त्रकैः ।
धूपदीपं ततो दत्वा मध्याह्ने पूजयेद्गुहम् ॥ ३९.३४५॥
गव्यैः पञ्चामृतैः स्नात्वा स्कन्दमूलेन मन्त्रवित् ।
ततः कुमारमातेति मन्त्रेण दधिपूजनम् ॥ ३९.३४६॥
ततो दधिक्राविण्णेति मन्त्रेणैवाभिषेचयेत् ।
वस्त्रैर्गन्धैश्च पुष्पैश्च भूषणैर्भूषणार्हकैः ॥ ३९.३४७॥
कर्णिकारभवैः पुष्पैर्नैरन्तर्यं विभूषयेत् ।
प्रभूतहविषं दत्वा ब्राह्मणान् भोजयेत्ततः ॥ ३९.३४८॥
एवं यः कुरुते मर्त्यः समृद्धः पशुमान् भवेत् ।
प्रोक्तं फाल्गुनपूजा च नवनैवेद्यमुच्यते ॥ ३९.३४९॥
इति फाल्गुनमासपूजाविधिः ।
नवनैवेद्यम् ।
सर्वसस्याभिवृद्ध्यर्थं सर्वप्राणिसुखावहम् ।
प्रीणयेन्नवनैवेद्य विधिना पार्वतीसुतम् ॥ ३९.३५०॥
आषाढकन्यकामासे मार्गशीर्षश्च माघकः ।
एते त्वशोभना वर्ज्याः शेषमासाः शुभाः स्मृताः ॥ ३९.३५१॥
गर्हितं कृष्णपक्षं स्यात् शुक्लपक्षे समाचरेत् ।
सप्तमी च द्वितीया च तृतीया पञ्चमी शुभाः ॥ ३९.३५२॥
पूषा मखा च सावित्री श्रविष्ठा वसवस्तथा ।
विशाखा च वारुणं मूलं सौम्यं चैव प्रजापतिः ॥ ३९.३५३॥
शुभान्न्येतानिऋक्षाणिवर्ज्यान्न्यन्न्यानिसुव्रत ।
वर्जनीयास्तथामीनमेषकर्कटवृश्चिकाः ॥ ३९.३५४॥
अन्याश्चशुभादाप्रोक्तास्तेषाम्पापंविवर्जयेत् ।
शुक्रश्चसोमदेवेढ्य वाराश्रेष्ठतमास्म्रुताः ॥ ३९.३५५॥
द्रेकाणदर्शणंहोरा शुभांशाश्शुभदम्भवेत् ।
सुमुहूर्तांसुनिश्चित्य पूरवेपाण्डरमर्पयेत् ॥ ३९.३५६॥
सर्वातोद्यसमायुक्तं छत्रध्वजसमाकुलम् ।
धूपदीपसमायुक्तं पालकादिसमन्वितम् ॥ ३९.३५७॥
सुमित्रशक्तिसहितं नानाभक्तजनैयुतम् ।
पूर्वस्यामुत्तरस्यांवा सस्यक्षेत्रम्प्रविश्यच ॥ ३९.३५८॥
दद्ध्यन्नंवागुलान्नं वादिग्देवानां बलिङ्क्षिपेत् ।
शाल्यानवपक्वलमान् सङ्ग्रह्यास्त्रेणमन्त्रतः ॥ ३९.३५९॥
शूकभारान्समावाह्य प्रविशेदालयन्ततः ।
स्नात्वाचोत्सवबेरन्तु भूषयेत्भूषणार्हकैः ॥ ३९.३६०॥
तत्कालसम्भवैः पुष्पैर्नीपपुष्पैर्विशेषतः ।
सर्वतोद्यसमायुक्तं छत्रध्वजसमायुतम् ॥ ३९.३६१॥
शूकभारसमायुक्तं व्रीहिभारसमायुतम् ।
नानाविधफलैर्युक्तं नानाधान्यसमन्वितम् ॥ ३९.३६२॥
इक्षुशाखार्द्रशाखाभिर्निशिशाखासमायुतम् ।
क्रमुकैस्तिलशाखाश्चमरीचीलवणैर्युतम् ॥ ३९.३६३॥
नालीकेराम्रपनसगुलखण्डैस्समन्वितम् ।
दद्ध्याज्यतैलकुम्भैश्चमुद्गभिन्नघटैर्नवैः ॥ ३९.३६४॥
नानापुष्पसमायुक्तं विप्रादिजनसेवितम् ।
उत्सवस्वामिनं विद्वान् कुर्याद्ग्रामप्रदक्षिणम् ॥ ३९.३६५॥
प्रविश्यभवनन्तत्रस्वस्थानेस्थाप्यदेवताम् ।
मण्टपङ्गोमयेनैव लेपयित्वा विभूषयेत् ॥ ३९.३६६॥ (मण्डप)
पुण्याहतोयैसम्प्रूक्ष्यतरङ्गेणैवभूषयेत् ।
तस्योर्द्ध्वविन्यसेच्छूकभारणेतान् पृथक् पृथक् ॥ ३९.३६७॥
देवेशानुज्ञाशूकान् जनेभ्योदापयेत्सुधीः ।
नवशालियुतन्त्वेक शालीभारमनिन्दितम् ॥ ३९.३६८॥
आदित्यरस्मिभिस्तप्तान् धान्यान्मुसललूखलैः ।
देवस्यमण्टपेशुद्धेशालिपिष्टैरलङ्कृते ॥ ३९.३६९॥ (मण्डपे)
शालिभिस्थण्डिलङ्कृत्वा पद्ममष्टदलंलुखेत् ।
परिस्तीर्यततोदर्भैः प्रोक्षयेदस्त्रमन्त्रतः ॥ ३९.३७०॥
लूकलन्मुसलन्तत्र विन्यस्यहृदयाणुना ।
नववस्त्रेणसंवेष्ट्य समभ्यर्च्ययथाविधि ॥ ३९.३७१॥
प्रहृत्य मुसलेनैव बीजमुख्येन देशिकः ।
चतुर्वर्णोद्भवैस्स्त्रीभिः कुट्टयेत्तदनन्तरम् ॥ ३९.३७२॥
तुषान् विपोह्य शूर्पेस्तु कणकम्बुं च वर्जयेत् ।
भारादिनवभारान्तं कन्यसादित्रयं त्रयम् ॥ ३९.३७३॥
प्रक्षाल्य तण्डुलं शोध्य नालिकेरगुलान्वितम् ।
मरीचिजीरकोपेतमिक्षुखण्डसमन्वितम् ॥ ३९.३७४॥
वस्त्राण्यास्तीर्य देवाग्रे शुद्धिं कृत्वा यथारूचि ।
रम्भापत्राणि तस्योर्ध्वे संस्तीर्य प्रोक्ष्य चास्त्रतः ॥ ३९.३७५॥
तण्डुलं पूरयेत् तत्र गुलान्नं व्यञ्जनैर्युतम् ।
कन्दमूलफलोपेतं यथाविभवविस्तरम् ॥ ३९.३७६॥
शङ्खदुन्दुभिनिर्वाषैर्वेदध्वनिसमायुतम् ।
हृदयेन तु मन्त्रेण सुब्रह्मण्याय दापयेत् ॥ ३९.३७७॥
परिवारामराणाञ्च दापयेत्तदनन्तरम् ।
परिवारबलिं दत्वा महापीठान्तमेव च ॥ ३९.३७८॥
नवपूगफलैर्युक्तं ताम्बूलं दापयेत्ततः ।
निवेदितन्तु यत्सर्वं सुमित्राय प्रदापयेत् ॥ ३९.३७९॥
विप्रादिसर्वभक्तेभ्यस्तण्डुलं दापयेत्क्रमात् ।
ब्राह्मणान् भोजयेत्पश्चात् दीनानाथांश्च भोजयेत् ॥
आत्मनो हितमाकाङ्क्षन् य एवं विधिमाचरेत् ॥ ३९.३८०॥
इति श्रीकुमारतन्त्रे मासपूजाविधिर्नाम एकोनचत्वारिंशः पटलः ।