तैलाभ्यङ्गं प्रवक्ष्यामि शृणु कौशिक सुव्रत ।
सर्वरोगविनाशार्थं गुहं तैलेन लेपयेत् ॥ ३८.१॥
सर्वकालेषु कर्तव्यमेके वा नित्यपूजने ।
मासादौ पञ्चदश्यां वा सोमाङ्गारकवारके ॥ ३८.२॥
कृत्तिकायां विशाखायां प्रोक्षणे नैमित्तिके पुनः ।
उत्सवाद्यन्तकाले च काम्ये नैमित्तिके पुनः ॥ ३८.३॥
एवमादिषु कार्येषु तैलाभ्यङ्गं प्रचक्षते ।
शैलजे मृण्मये चैव दारुजेऽभ्यङ्गमुत्तमम् ॥ ३८.४॥
स्वर्णबेरे भित्तिचित्रे दर्पणेन विचक्षणः ।
रत्नजे लोहजे कुर्यात्प्रोक्षयेद्दारुमूर्धनि ॥ ३८.५॥
नवीनतिलतैलञ्च पुष्पगन्धैः सुयोजयेत् ।
स्वर्णपात्रे तु रजते कांसपात्रे च मृण्मये ॥ ३८.६॥
शुद्धपात्रेण गृह्णीयात् तैलं वस्त्रेण शोधितम् ।
निरीक्ष्य मूलमन्त्रेण प्रोक्ष्य चास्त्रेण मन्त्रतः ॥ ३८.७॥
तेन मन्त्रेण सन्ताड्य कवचेनावकुण्ठयेत् ।
धेनुमुद्रां हृदा दत्वा विन्यस्य गुहसन्निधौ ॥ ३८.८॥
सङ्कल्पमपि पुण्याहं वाचयित्वा विचक्षणः ।
धूपदीपं हृदा दत्वा पाद्यमाचमनं तथा ॥ ३८.९॥
तेनैव दन्तकाष्ठञ्च तन्मन्त्रेणैव दर्पणम् ।
ताम्बूलं तेन मन्त्रेण पश्चादभ्यङ्गमाचरेत् ॥ ३८.१०॥
प्रच्छन्नपटमावेष्ट्य वस्त्रादीनि विपोह्य च ।
मूलबिन्दुसमादाय कूर्चेनास्त्रेण मन्त्रतः ॥ ३८.११॥
प्रोक्ष्य बेरस्य शिरसि गुरुर्दक्षिणहस्ततः ।
मूर्धादिपादपर्यन्तमभ्यङ्गनपि पीठकम् ॥ ३८.१२॥
तैलं हृदयमन्त्रेण लेपयेच्छुद्धवस्त्रतः ।
नमस्कृत्वा क्षमस्वेति शक्तिपूर्वं विचिन्तयेत् ॥ ३८.१३॥
पिष्टं वामेन मन्त्रेण सर्वाङ्गमपि लेपयेत् ।
स्नाप्य पश्चादघोरेण तथैवामलकैर्गुरुः ॥ ३८.१४॥
हरिद्रं वक्त्रमन्त्रोण शुद्धाद्भिरभिषेचयेत् ।
अर्चनोक्तविधानेन तदूर्ध्वं कर्मकारयेत् ॥ ३८.१५॥
भक्तेभ्यः परिचारेभ्यो दापयेत् तैलकं क्रमात् ।
ताम्बूलं दापयेत् पश्चादाचार्यमपि तोषयेत् ॥ ३८.१६॥
अम्लेन लोहबेराणि शुद्धिं कृत्वैवमर्चयेत् ।
एवं यः कुरुते मर्त्यो सर्वान् कामनवाप्नुयात् ॥ ३८.१७॥
इति श्रीकुमारतन्त्रे तैलाभ्यङ्गविधिर्नामाष्टत्रिंशः पटलः ।