३७ आत्मार्थयजनविधिः

आत्मार्थयजनं वक्ष्ये श‍ृणुष्व मुनिपुङ्गव ।
ये ये ग्रहाः समुच्चानि तेषामिष्टप्रदं शुभम् ॥ ३७.१॥

धर्मार्थकाममोक्षार्थमात्मार्थयजनं स्मृतम् ।
स्कन्दपूजां विना पुंसां पुत्रवृद्धिः कथं भवेत् ॥ ३७.२॥

प्रतिमां त पटे वाऽपि मण्डले स्थण्डिलेऽपि वा ।
जले वा हृदये वाऽपि नित्यं सम्पूजयेद्गुहम् ॥ ३७.३॥

एकाङ्गुलादिभूतान्तमात्मार्थमिति कीर्तितम् ।
मात्राङ्गुलेन कर्तव्यं यजमानं चरस्य तु ॥ ३७.४॥

आयादिशुभवर्गाणि यवैर्वाथ परीक्षयेत् ।
उत्तमं काञ्चनेनैव मध्यमं रजतेन तु ॥ ३७.५॥

शिलाया वाऽथ ताम्रेण कन्यसं परिकीर्तितम् ।
मृन्मयं दारुजं चैव न ग्राह्यन्तु गृहार्चने ॥ ३७.६॥

आसनं स्थानकं वाऽपि वाहनादिकमेव च ।
प्रतिमालक्षणोक्तेन मार्गेणैव प्रकल्पयेत् ॥ ३७.७॥

शिल्पिहस्तात्समादाय सम्यग्बिम्बं परीक्षयेत् ।
समदृष्टिप्रसन्नास्यं स्वस्वरूपं शुभावहम् ॥ ३७.८॥

ऊर्ध्वदृष्टिमधोदृष्टिं तिर्यग्दृष्टिं विवर्जयेत् ।
ऊर्ध्वदृष्टिः प्रजानाशमधोदृष्टिर्धनक्षयम् ॥ ३७.९॥

तिर्यग्दृष्टिर्यशोनाशं तस्मात् भाग्यं समेक्षणम् । (तस्मात् ग्राह्यं)
अप्रतिष्ठितबेरस्य पूजनं सर्वदोषकृत् ॥ ३७.१०॥

बिम्बं मन्त्रमयं कृत्वा तस्मिन्नेवं प्रपूजयेत् । (कृत्वा तस्मिन्देवं)
स्नपनं शान्तिके यस्य अग्रे ….. मतम् ॥ ३७.११॥

उत्तरायणकाले तु कृष्णपक्षे विशेषतः । (तु शुक्लपक्षे)
पुण्यर्क्षतिथिवारेषु पुण्यलग्ने सुशोभने ॥ ३७.१२॥

प्राप्तये सर्वकामानां प्रतिष्ठोत्सव मुच्यते । (प्रतिष्ठोत्सव माचरेत्)
प्रतिष्ठादिवसापूर्वं पञ्चमे सप्तमेऽपि वा ॥ ३७.१३॥

स्वसूत्रोक्तप्रकारेण कारयेदङ्कुरार्पणम् ।
प्रतिष्ठादिवसापूर्वे सायाह्ने नियतः शुचिः ॥ ३७.१४॥

मन्त्रेण सा प्रकर्तव्या रत्नन्यासविधानतः ।
नयनोन्मीलनं कुर्यात् नेत्रयुग्मयुते दिने ॥ ३७.१५॥

पञ्चगव्यैश्च मतिमान् पञ्चत्वक्सलिलैरपि ।
अष्टमृत्सलिलैश्चैव क्षालयेत् पवमानतः ॥ ३७.१६॥

पञ्चब्रह्मषडङ्गैश्च बिम्बशुद्धिं समाचरेत् ।
तीर्थदेशं नयेद्देवं स्वस्तिसूक्तमुदीरयन् ॥ ३७.१७॥

लम्बकूर्चं ततो बध्वा वस्त्रयुग्मेन वेष्टयेत् ।
जलाधिवासनं कुर्यात् प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ ३७.१८॥

दारुपीठे जलान्तस्थे स्कन्दगायत्रिमन्त्रतः ।
रक्षायै लोकपालांश्च पूर्वादिक्रमशोऽर्चयेत् ॥ ३७.१९॥

श्रीरुद्रं चमकं चैव पञ्चशान्ति तथैव च ।
स्कन्दसूक्तं चतुर्दिक्षु कुर्यादध्ययनं तथा ॥ ३७.२०॥

जलाद्बिम्बं समुद्धृत्य प्रतिष्ठास्थानमाचरेत् ।
पुण्याहं वाचयित्वैव गव्यैः प्रोक्ष्य भुविस्थलम् ॥ ३७.२१॥

स्थण्डिलं तत्र सङ्कल्प्य तिलतण्डुलशालिभिः ।
पलाशोदुम्बराश्वत्थपत्रैर्दर्भैः परिस्तरेत् ॥ ३७.२२॥

बेरञ्च कौतुकं बध्वा नैवेद्यमपि दापयेत् ।
बिम्बञ्च नववस्त्रेण प्रत्येकं परिवेष्ट्य च ॥ ३७.२३॥

शयने शाययेददेवं प्राक्शिरश्चोर्ध्ववक्त्रकम् ।
देवसेनामहावल्लीं शाययित्वा यथाविधि ॥ ३७.२४॥

मातृकां बिन्दुसहितं मूर्धादिक्रमशो न्यसेत् ।
नैरृते वास्तुनाथेभ्यो नमस्कृत्य लिखेद्बुधः ॥ ३७.२५॥

प्रक्षिप्य विष्टरान् पश्चात्सामान्यार्घ्यं प्रकल्पयेत् ।
द्वाराणि द्वारपालांश्च लोकेशानायुधानि च ॥ ३७.२६॥

प्रतिष्ठोक्तविधानेन तत्तद्दिक्षु समर्चयेत् ।
वेदिका दक्षिणे भागेऽप्युत्तरामुखमास्थितः ॥ ३७.२७॥

भूतशुद्धिं ततः कुर्यादन्तर्यजनमाचरेत् ।
विशेषार्घ्यं प्रकल्प्यात्र सम्भारान् प्रोक्षयेऽस्त्रतः ॥ ३७.२८॥

आम्रपल्लवकूर्चाढ्यं द्रोणोदपरिपूरितम् ।
सापिधानं सरत्नं च सर्वलक्षणसंयुतम् ॥ ३७.२९॥

कुम्भं देवशिरोभागे धान्यासने प्रकल्पयेत् ।
वर्धनीद्वितये न्यस्य तस्य दक्षिणवामयोः ॥ ३७.३०॥

परितः कलशानष्टौ स्थापयित्वा यथाविधि ।
सुब्रह्मण्यं ततो मध्ये पार्श्वयोः शक्तिकाद्वयम् ॥ ३७.३१॥

जयन्ताद्यष्टविद्येशान् पूर्वादिकलशेषु च ।
पूर्वोक्तविधिनावाह्य समभ्यर्च्य यथाविधि ॥ ३७.३२॥

तत्पूर्वे स्थण्डिलं कृत्वा होमद्रव्याणि गृह्य च ।
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ३७.३३॥

पलाशसमिधानाज्यं लाजक्षीरगुलैरपि ।
स्कन्दस्य मूलमन्त्रण होमयेत्पञ्चविंशतिः ॥ ३७.३४॥

पञ्चब्रह्मसर्ववक्त्रयुतैः षण्मूर्तिमन्त्रतः ।
प्रतिद्रव्यं ततो हुत्वा द्रव्यान्ते व्याहृतिं हुनेत् ॥ ३७.३५॥

जगद्भुवादिषण्मन्त्रैः स्कन्दगायत्रिमन्त्रतः ।
तत आचारमानेति द्रव्यं प्रतिहुनेत्ततः ॥ ३७.३६॥

शक्तिद्वयस्य मूलेन सर्पिषा पञ्चविंशतिः ।
सर्वद्रव्यसमायुक्तं तस्य मूलेन होमयेत् ॥ ३७.३७॥

रात्रिशेषं व्यपोह्याथ प्रातः स्नात्वा गुरूत्तमः ।
अनुष्ठानविधिं ज्ञात्वा प्रतिष्ठास्थानमेत्य च ॥ ३७.३८॥

द्वारपूजादिकं कृत्वा कुम्भान्यभ्यर्च्य मन्त्रवित् ।
प्रायश्चित्तार्थमस्त्रेण घृतेनैव शतं हुनेत् ॥ ३७.३९॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः ।
शयनाद्बिम्बमुत्थाप्य गव्यैः पञ्चामृतैरपि ॥ ३७.४०॥

शुद्धाद्भिरभिषिच्याशु भूषयेद्भूषणार्हकैः ।
शिरोवदनहृत्कुक्षिगुह्यपादद्वयेप्रदः ॥ ३७.४१॥

पञ्चब्रह्मसर्ववक्त्रयुक्तः षण्मूर्तिमेव च ।
विन्यस्य च षडङ्गानि स्वस्वदेशेषु विन्यसेत् ॥ ३७.४२॥

न्यस्त्वाथ मातृकान्यासं मूर्धादिक्रमशो बुधः ।
कुम्भबीजं समादाय बेरस्य हृदि विन्यसेत् ॥ ३७.४३॥

मूलमन्त्रेण मतिमान् कुम्भाद्भिरभिषेचयेत् ।
वर्धन्योर्बीजमादाय न्यसेत् स्वस्वस्तनाग्रके ॥ ३७.४४॥

तत्तत्करकतोयेन स्वबीजेनाभिषेचयेत् ।
विद्येशकुम्भान् पूर्वादिपद्मपीठेऽभिषेचयेत् ॥ ३७.४५॥

वस्त्राभरणमाल्याद्यैरर्चयेत्तु हृदा बुधः ।
महाहविर्निवेद्याथ ताम्बूलमपि दापयेत् ॥ ३७.४६॥

प्रार्थयित्वा नमस्कृत्य ब्राह्मणान् भोजयेत्ततः ।
आचार्यं पूजयेत्तत्र वित्तशाढ्यं न कारयेत् ॥ ३७.४७॥

प्रतिष्ठाविधिरित्युक्तं पूजाविधिमथ श‍ृणु ।
आचार्यहस्तमादाय बेरकर्ता प्रपूजयेत् ॥ ३७.४८॥

एककालं द्विकालं वा त्रिकालं वा दिनं प्रति ।
पूजास्थानं नवेनैव गोमयेनानुलिप्य च ॥ ३७.४९॥

गन्धपुष्पजलादीनि पूजाद्रव्याणि गृह्य च ।
सौरपूजां पुरा कृत्वा चोत्तराभिमुखस्थितः ॥ ३७.५०॥

भस्मनिक्षिप्य बिधिना रुद्राक्षमपि धारयेत् ।
षण्मूर्तिहितं पञ्चब्रह्मभिः पञ्चमन्त्रकः ॥ ३७.५१॥

शिरोवदनहृत्कुक्षिगुह्यपादद्वये न्यसेत् ।
अङ्गान्यङ्गेषु विन्यस्य प्रणवार्घ्यं प्रकल्पयेत् ॥ ३७.५२॥

विस्तीर्णपीठे मतिमान् पूर्वास्यः परमानयेत् ।
पूर्वद्वारं तु सञ्चिन्त्य द्वारदेवान् प्रपूजयेत् ॥ ३७.५३॥

वास्तुनाथं च नैरृर्त्यामैशान्यां स्वगुरून् यजेत् ।
आत्मशुद्धिं ततः कुर्यादन्तर्यजनमारभेत् ॥ ३७.५४॥

विशेषार्घ्यं प्रकल्प्याथ द्रव्यशुद्धिं समाचरेत् ।
स्कन्दमन्त्रैः समावाह्य सोऽहम्भावेन पूजयेत् ॥ ३७.५५॥

पूजापर्युषितं सर्वं सुमित्राय प्रदापयेत् ।
पूजापीठे दलास्तीर्णं वामहस्ततलेऽपि वा ॥ ३७.५६॥

बेरं निवेश्य शुद्धाद्भिः स्नापयेदस्त्रमन्त्रतः ।
आधाराख्यमनन्तं च धर्माद्याङ्घ्रिचतुष्टयम् ॥ ३७.५७॥

अधर्मादिचतुष्पादमथोर्ध्वच्छदनद्वयम् ।
कन्दादीनि शकुन्यादि मण्डलत्रितयं यजेत् ॥ ३७.५८॥

पृथिव्यादिप्रकृत्यन्तं सुब्रह्मण्यासनं यजेत् ।
भानुमध्ये तु शिवयोर्मध्यगं संस्मरन् बुधः ॥ ३७.५९॥

तस्मिन् मूर्तिं समादाय मूलेनावाहयेत्सुधीः ।
स्थापनं चीशमन्त्रेण सन्निधानं तु पूरुषात् ॥ ३७.६०॥

सन्निरोधमघोरेण स्वागतं वाममन्त्रतः ।
दिग्बन्धमस्त्रमन्त्रेण कवचेनावकुण्ठनम् ॥ ३७.६१॥

अमृतीकरणं सद्योजातेनैव तु मन्त्रतः ।
स्वामिन्सर्वजगन्नाथ यावत्पूजावसानकम् ॥ ३७.६२॥

तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ।
इदं मन्त्रं समुच्चार्य पद्ममुद्रा महाख्यकम् ॥ ३७.६३॥

षण्मुखं दर्शयित्वाथ पाद्यमाचमनार्घ्यकम् ।
दत्त्वाभिषेचयेदद्भिरब्धिगैर्न तु मन्त्रतः ॥ ३७.६४॥

ततः कुमारमानेति चण्डापि स्कन्दसूक्ततः ।
मूलब्रह्मषडङ्गैश्च गायत्र्याचाभिषेचयेत् ॥ ३७.६५॥

सूक्ष्मवस्त्रं ततो दत्वा भूषयेद्भूषणार्हकैः ।
मनोरथार्घ्यं दत्वाथ दण्डभङ्गी समुच्चरेत् ॥ ३७.६६॥

वक्त्रभङ्गीमपोह्याथ पञ्चावरणमर्चयेत् ।
धेनुपद्मत्रिशूलं च मकरस्रङ्नमस्कृताम् ॥ ३७.६७॥

प्रदर्शयेद्धूपदीपं नैवेद्यमपि दापयेत् ।
पानीयमपि ताम्बूलमुखवाससमन्वितम् ॥ ३७.६८॥

धूपं धूरसि मन्त्रेण दीपमुद्दीप्य मन्त्रतः ।
श्रियै जातेति मन्त्रेण नीराजनमतः परम् ॥ ३७.६९॥

बृहत्सामेति मन्त्रेण भस्मं दत्वा गुहाय च ।
जगद्भुवेति मन्त्रेण पुष्पाञ्जलिमतः परम् ॥ ३७.७०॥

मूलमन्त्रं शतं जप्त्वा ब्रह्माङ्गानां दशांशकम् ।
स्तोत्रप्रदक्षिणाभीष्टप्रार्थनां चैव कारयेत् ॥ ३७.७१॥

साधु वाऽसाधु वा कर्म यद्यदाचरितं मया ।
तत्सर्वं देवदेवेश गृहाणाराधनं परम् ॥ ३७.७२॥

मन्त्रेणानेन देवाय दापयेच्चुलुकोदकम् ।
न्यूनातिरिक्तं यत् कर्म तत्क्षमस्व मया कृतम् ॥ ३७.७३॥

प्रियाभीष्टो हि भगवान् पुनरागमनाय च ।
पश्चात्सुमित्रपूजां च कुर्यादपि विशेषतः ।
एवं यः कुरुते मर्त्यः स्कन्दसामीप्यमाप्नुयात् ॥ ३७.७४॥

इति श्रीकुमारतन्त्रे आत्मार्थयजनविधिर्नाम सप्तत्रिंशः पटलः ।