पादुकाप्रोक्षणं वक्ष्ये शृणु कौशिक सुव्रत ।
अनुग्रहाय मर्त्यानां पापनाशार्थमेव च ॥ ३६.१॥
भजनोत्सेधयात्रायां पूजनार्थं प्रवक्ष्यते । (भजनोत्सवयात्रायां)
ध्रुवं च स्नपनं चैव बलिबेरञ्च कौतुकम् ॥ ३६.२॥
उत्सवं यानबेरञ्च चलबेरञ्च पञ्चधा ।
एतेषां पादमानेषु यदिष्टं तत्त्प्रगृह्यताम् ॥ ३६.३॥
त्रिमात्राद्यर्धवृद्ध्या तु सप्ताङ्गुलसमावधि ।
नवमानमिदं प्रोक्तं कन्यसादित्रयं त्रयम् ॥ ३६.४॥
आयामस्यार्धमुदितं पादुकाग्रस्य विस्तरम् ।
षडष्टांशेन मध्यान्तमायामं युगभागकैः ॥ ३६.५॥
एकभागं भवेदष्टगुणांशे द्व्यंशकं घनम् ।
शेषमूर्ध्वदलं प्रोक्तं युक्त्यैव परिकल्पयेत् ॥ ३६.६॥
अङ्गुष्ठोच्चतलोत्थस्य चतुर्भागं त्रिभागकम् ।
चतुरंशे युगांशं तु नालशेषं तु पूर्ववत् ॥ ३६.७॥
अङ्गुष्ठोच्चसमं पुष्पं विस्तारं मुकुलान्वितम् ।
पुष्पोन्नते त्रिभागैकं मुकुलङ्कारयेद् द्विज ॥ ३६.८॥
उत्तमं काञ्चनेनैव मध्यमं रजतेन तु ।
ताम्रेणैवाधमं प्रोक्तं कांसाद्येनाधमाधमम् ॥ ३६.९॥
पादुकाश्च यथाशोभं तथा युक्त्या प्रकल्पयेत् ।
एवं लक्षणमाख्यातं प्रोक्षणञ्च ततः शृणु ॥ ३६.१०॥
पुण्यर्क्षतिथिवारे च मण्डपस्यैव मध्यमे ।
पुण्याहं वाचयेत्तत्र प्रोक्षयित्वास्त्रमन्त्रतः ॥ ३६.११॥
स्थण्डिलं कल्पयेद्विद्वान् तिलतण्डुलशालिभिः ।
नववस्त्रमथास्तीर्य पादुकां पञ्चगव्यकैः ॥ ३६.१२॥
क्षालयित्वाष्टमृद्भिस्तु शुद्धोदैः स्कन्दमन्त्रतः ।
परिस्तीर्य तया दर्भर्हृदयेन तु मन्त्रतः ॥ ३६.१३॥
वस्त्रोपरिन्यसेद्धीमान् पादुकां वर्ममन्त्रतः ।
नववस्त्रेण सञ्छाद्य पादुकाग्रे यथाविधि ॥ ३६.१४॥
मयूरकुम्भं संस्थाप्य परितोऽष्टघटान्न्यसेत् ।
ससूत्रान् सापिधानांश्च सवस्त्रान् वारिपूरितान् ॥ ३६.१५॥
सकूर्चान् सहिरण्यांश्च कल्पयेत्कल्पवित्तमः ।
मयूरबीजमावाह्य मध्यकुम्भे समर्पयेत् ॥ ३६.१६॥
इन्द्रादिलोकपालांश्च पूर्वाद्यष्टघटे यजेत् ।
धेनुमुद्रां प्रदर्श्याथ तत्पृष्ठे सिकतैः कृतैः ॥ ३६.१७॥
स्थण्डिलं विधिवत्कृत्वा होमद्रव्याणि गृह्य च ।
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ३६.१८॥
समिदाज्यचरून् लाजान् तिलान्सद्यादिमन्त्रतः ।
होमयेत्तु विशेषेण प्रत्येकं पञ्चविंशतिः ॥ ३६.१९॥
मयूरमूलमन्त्रेण घृतेनाष्टोत्तरं शतम् ।
सर्वद्रव्यसमायुक्तं हव्यवाहे च होमयेत् ॥ ३६.२०॥
प्रभाते सुमुहूर्ते तु कुम्भान्यभ्यर्च्य मन्त्रवित् ।
जयादिरभ्याधानञ्च राष्टभृच्च क्रमाद्धुनेत् ॥ ३६.२१॥
आचर्यं पूजयेत्कर्ता वस्त्रभूषणकाञ्चनैः ।
मयूरबीजमन्त्रेण कुम्भान्तात् पादुकाद्वये ॥ ३६.२२॥
न्यसेदिन्द्रादिबीजानि तयोः पूर्वादिषु न्यसेत् ।
तत्तत्कुम्भस्थतोयेन तत्तद्देशेऽभिषेचयेत् ॥ ३६.२३॥
मयूरमन्त्रादभ्यर्च्य मुद्गान्तं दापयेत्सुधीः ।
एवं यः कुरुते मर्त्यः सर्वान्कामानवाप्नुयात् ॥ ३६.२४॥
इति श्रीकुमारतन्त्रे पादुकाप्रोक्षणविधिर्नाम षट्त्रिंशः पटलः ।