३५ करणलक्षणविधिः

वक्ष्येऽहं मुनिशार्दूल करणानां तु लक्षणम् ।
यागांशकानि सर्वाणि करणानि प्रचक्षते ॥ ३५.१॥

अरणीस्रुक्स्रुवं चैव तोरणं चैव मङ्गलम् ।
दशायुधविधिं पश्चात् कूर्मासनविधिं पुनः ॥ ३५.२॥

खट्वाया लक्षणं पश्चात् लूखलं मुसलं तथा ।
शिबिकालक्षणं चैव डोलाया लक्षणं परम् ॥ ३५.३॥

दीपमालाविधिं पश्चात् पुष्पाधारस्य लक्षणम् ।
भेरीं च समिधं चैव परिधिर्दर्भलक्षणम् ॥ ३५.४॥

कूर्चञ्च विष्टरं पश्चात् समकूर्चस्य लक्षणम् ।
परिस्तरणमेवन्तु दर्भमालाविधिं पुनः ॥ ३५.५॥

प्रोक्षणीं कूर्चमेवन्तु पवित्रस्य तु लक्षणम् ।
पाद्यपात्रविधिं पश्चात् अर्घ्याचमनपात्रकम् ॥ ३५.६॥

अर्घ्यपात्रविधिं चैव तत्पात्रस्य तु लक्षणम् । (चैव गन्धपात्रस्य लक्षणं)
पुष्पाद्यार्घ्यपात्रञ्च प्रणीतापात्रलक्षणम् ॥ ३५.७॥

प्रोक्षणीपात्रमेवन्तु स्कन्दकुम्भस्य लक्षणम् ।
वर्धनीलक्षणं पश्चात् कुम्भानां लक्षणं पुनः ॥ ३५.८॥

कलशानां शरावाणां कुण्डिकायाश्च लक्षणम् ।
हविः पात्रविधिं पश्चादुपदंशस्य पात्रकम् ॥ ३५.९॥

विधानलक्षणं दर्वी स्थालिकायास्तु लक्षणम् ।
वितानञ्च पताकाश्च क्षुद्रध्वजविधानकम् ॥ ३५.१०॥

छत्रपिच्छं चामरञ्च मयूरव्यजनं तथा ।
दुकूलस्य धनं पश्चादुष्णीषं चोत्तरीयकम् ॥ ३५.११॥

वस्त्राणां लक्षणं पश्चाच्छयनानाञ्च लक्षणम् ।
उपधानं ततो कक्षिं प्रच्छन्नपटलक्षणम् ॥ ३५.१२॥

धूपपात्रविधिं चैव धूपघण्टाविधानकम् ।
दीपपात्रविधिं चैव पात्रं नीराजनस्य तु ॥ ३५.१३॥

महाघण्टादर्पणञ्च क्रमशः श‍ृणु सुव्रत ।
अश्वत्थं वा शमीं वाऽपि गृहीत्वारणिमाचरेत् ॥ ३५.१४॥

दशपञ्चाङ्गुलायामा चतुरङ्गुलविस्तृता ।
षडङ्गुलघना प्रोक्ता दीर्घाह्नासश्च वारणिः ॥ ३५.१५॥ (प्रोक्ता दीर्घाग्रा दृढवारणीः)

प्रथमस्य तरोर्नाहं पञ्चाङ्गुलमुदाहृतम् ।
द्वाविंशदङ्गुलं दैर्घ्यं कीलं स्यादायताग्रके ॥ ३५.१६॥

युगाङ्गुलेन मूले तु कीलं स्वेनैव कारयेत् ।
प्रथमस्याग्रके मूले त्वधः पट्टेन वेष्टयेत् ॥ ३५.१७॥

सप्ताङ्गुलं तु विस्तारं तदर्धं घनमुच्यते । (सप्ताङ्गुलं तत्)
उभयोः पार्श्वयोश्चैव मुष्टिरष्टाङ्गुलं भवेत् ॥ ३५.१८॥

पञ्चाङ्गुलपरीणाहं सर्वत्रैव सुदन्तकम् । (सर्वत्रैव सुवृत्तकं)
दशपञ्चाङ्गुलायामं त्रिवृत् गोपालरज्जुकम् ॥ ३५.१९॥

तन्तुना वाथ कर्तव्यं कनिष्ठाङ्गुलिनाहकम् ।
अरणीलक्षणं प्रोक्तं स्रुक्स्रुवस्य विधिं श‍ृणु ॥ ३५.२०॥

अश्वत्थेन तु शम्या वा खादिरेणाथवा पुनः ।
याज्ञिकैर्दारुभिः कुर्यात् स्रुक्स्रुवौ लक्षणाविमौ ॥ ३५.२१॥

तस्य सारणितो ग्राह्य द्विधाकृत्वाथ शिल्पिभिः ।
तत्पार्श्वे बिलिमाख्यातं त्वष्टा च निर्वृणं दृढम् ॥ ३५.२२॥

द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलं सुविस्तृतम् ।
तद्घनं वेदमात्रं स्यात् एव मापाद्य तत्र वै ॥ ३५.२३॥ (एव पादञ्च)

मध्यसूत्रं प्रसार्यादौ मुखायामं षडङ्गुलम् ।
अग्रभागं त्रिभागैकं मुखविस्तारमेव च ॥ ३५.२४॥

यवत्रयप्रमाणेन पट्टिकामुखपार्श्वयोः ।
यवमानेन निम्नं स्यान्मुखं सर्वमशेषतः ॥ ३५.२५॥

पक्षाङ्गुले गलायामं विस्तारं भूतमात्रकम् ।
सप्ताङ्गुलायता वेदीं विस्तारं तत्समं भवेत् ॥ ३५.२६॥

बिलं सुवृत्तं मध्ये स्यादङ्गुलायतमानतः ।
तद्विस्तारसमं गर्तं सुवृत्तं बिलमुच्यते ॥ ३५.२७॥

षट्टिका बिलबाह्ये तु यवमानधनान्विता ।
बाह्ये वसुदलं पद्मं यवनिम्नं विचित्रकम् ॥ ३५.२८॥

वेदिकायास्तु परितः पट्टिका त्रियवा घनाः ।
बिलादर्शमुखात् खाता कनिष्ठाङ्गुलमानतः ॥ ३५.२९॥

तारेणवाऽथ ताम्रेण नालं कृत्वा तु योजंयेत् ।
पक्षाङ्गुलप्रमाणेन पद्मागारन्तु गण्डिका ॥ ३५.३०॥

गण्डिकैकाङ्गुला वृत्ता तन्नाहञ्च द्विमात्रकम् ।
रव्यङ्गुलेन दण्डोच्चं तस्यार्धं नाहमुच्यते ॥ ३५.३१॥

तन्मूलैकाङ्गुलाकारामङ्गुलद्वयमात्रतः ।
धर्माङ्गुलात्तु नाहं स्यात्तस्याधस्तात्तु पादयुक् ॥ ३५.३२॥

वेदिकायास्त्वधःपद्मं पद्माकारं सकर्णिकम् ।
गजोष्ठसदृशाकारं तस्य पृष्ठाकृतिर्भवेत् ॥ ३५.३३॥

एवं सङ्ग्राह्य तच्छेषं परित्यज्य दृढं तथा ।
स्रुग्लक्षणमिदं प्रोक्तं स्रुवो लक्षणमुच्यते ॥ ३५.३४॥

द्वाविंशदङ्गुलं दैर्ध्यं दण्डनाहं षडङ्गुलम् ।
मूलाद्ग्रीवान्तकं यावत् त्र्यङ्गुलं ग्रीवनाहकम् ॥ ३५.३५॥ (मूलाद्ग्रीवान्तरं)

मूलपञ्चाग्रनाहं स्यात् द्विबिलं नासिकाकृतिः ।
पूरितङ्कर्षकार्धेन बिलमानं प्रचक्षते ॥ ३५.३६॥

पुष्कलाधः प्रकर्तव्यो गण्डिका द्वियवोन्नता ।
दक्षिणेन करेणैव या वक्रानामिकाङ्गुलिः ॥ ३५.३७॥

अङ्गुष्ठस्य तु पार्श्वोर्ध्वे तर्जनीमध्यमाङ्गुलिः ।
सङ्गताप्युच्छ्रिता बद्धा कनिष्ठाङ्गुलिरुछ्रिता ॥ ३५.३८॥

दक्षिणेन करेणैव स्रुवेणैकेन होमयेत् ।
स्रुक्बिलं सर्पिषा तत्र पूरयित्वा बिलोपरि ॥ ३५.३९॥

स्रुवाग्रेण तु मन्त्रेण पुटास्यञ्चविधाय च ।
उत्थानौ तु करौ कृत्वा वेणुबन्धन्तु कारयेत् ॥ ३५.४०॥

उछ्रितौ तर्जनीद्वे च कनिष्ठौ द्वौ तथैव च ।
वक्राङ्गुष्ठो स्रुवौ ग्राह्य द्वाभ्यां पूर्णाहुतिं हुनेत् ॥ ३५.४१॥

लक्षणं स्रुक्स्रुवस्यैवं श‍ृणु तोरणलक्षणम् ।
ध्वजदण्डार्हकैर्वृक्षैरन्तः सौरस्तु याज्ञिकैः ॥ ३५.४२॥

भूतहस्तसमुत्सेधमुत्सेधार्धं विशालकम् ।
करप्रमाणं शूलस्य दीर्घनाहं रसाङ्गुलम् ॥ ३५.४३॥

कन्यसं तोरणं प्रोक्तं वक्ष्यतेतः परं क्रमात् ।
भूतहस्तं समारभ्य नवहस्तान्तकं क्रमात् ॥ ३५.४४॥

तलमध्यन्तु तद्दैर्घ्यं तेषामर्धैकविस्तृतम् ।
तोरणानाञ्च सर्वेषां शूलं वै हस्तमात्रकम् ॥ ३५.४५॥

तस्मात्पक्षाङ्गुलाधिक्यात् तेषां नाहं प्रचक्षते ।
नवधा तोरणं प्रोक्तमष्टमङ्गलमुच्यते ॥ ३५.४६॥

याज्ञिकं वृक्षमादाय कारयेल्लक्षणान्वितम् ।
षोडशाङ्गुलमायामं विस्तारन्तु तदर्धकम् ॥ ३५.४७॥

पद्मासनमधस्तात्तु विस्तारार्धेन कारयेत् ।
श्रीवत्सं चामरं युग्मं दर्पणं स्वस्तिकं गजम् ॥ ३५.४८॥

पूर्णकुम्भञ्चमायूरं दीपं स्यादष्टमङ्गलम् ।
मङ्गलाष्टौ द्विधा प्रोक्तमस्त्राणां लक्षणं श‍ृणु ॥ ३५.४९॥

वज्रं शक्तिञ्च दण्डञ्च खड्गं पाशं तथाङ्कुशम् ।
गदा त्रिशूलं पद्मञ्च चक्रञ्चेति दशायुधम् ॥ ३५.५०॥

हैमराजतताम्रैर्वा अयसापादपेन वा ।
एतेष्वेकेन कर्तव्यं सर्वलक्षणसंयुतम् ॥ ३५.५१॥

षोडशाङ्गुलमायामं षडङ्गुलविशालकम् ।
तदर्धं घनमेवोक्तं निर्ब्रणं सुदृढं ऋजुम् ॥ ३५.५२॥

चतुरङ्गुलमूलेन मध्यमे गण्डिकात्रयम् ।
गण्डिकायाश्च नाहन्तु प्रत्येकं द्वादशाङ्गुलम् ॥ ३५.५३॥

कृत्वाङगुलप्रमाणेन कृत्यं कृत्वा तदग्रके ।
अर्धाङ्गुलमाणेन पत्रतारं प्रकीर्तितम् ॥ ३५.५४॥

पक्षत्रयद्वयं कुर्यात् अर्धचन्द्राकृतिर्यथा ।
मध्यपत्रमृजुं प्रोक्तं पत्रतारं यवद्वयम् ॥ ३५.५५॥

पत्रतारेण मूलेन पादायामं प्रकीर्तितम् ।
द्विगुणं मध्यपादस्य पादायामं महामुने ॥ ३५.५६॥

अर्धाङ्गुलप्रमाणेन पत्राणां तु प्रकल्पयेत् । (तु घनं भवेत्)
शेषं दण्डमिति प्रोक्तं नाहं तस्य नवाङ्गुलम् ॥ ३५.५७॥

एवं त्रिशूलं तस्याधस्तद्वच्छूलं प्रकीर्तितम् ।
वज्रस्य लक्षणं प्रोक्तं शक्तिलक्षणमुच्यते ॥ ३५.५८॥

द्विकराङ्गुलमायामं विस्तारं चतुरङ्गुलम् ।
तदर्धं तु घनं मध्ये गण्डिका चतुरङ्गुलम् ॥ ३५.५९॥

तदूर्ध्वे तदधः कुर्यात् त्र्यङ्गुलं मध्यपत्रवत् ।
शक्तिलक्षणमेवं स्यात् दण्डलक्षणमुच्यते ॥ ३५.६०॥

कलाङ्गुलसमायामं मूले वेदाङ्गुलेरितम् ।
गण्डिकां कारयेत् तस्य विस्तारं चतुरङ्गुलम् ॥ ३५.६१॥

कृत्वाङ्गुलं भवेन्मुष्टि तन्नाहं कौशिकाङ्गुलम् ।
कृत्वाङ्गुलं तु विस्तारं तस्योर्ध्वे गण्डिकाङ्गुलम् ॥ ३५.६२॥

ऊर्ध्वं रसाङ्गुलं तारमधस्तात्तु युगाङ्गुलम् ।
क्रमेण कृशतां कुर्यात् विस्तारार्धेन विस्तृतम् ॥ ३५.६३॥

नाहन्तु दण्डमेवं स्यात् खड्गलक्षणमुच्यते ।
षोडशाङ्गुलमायाममश्विन्यङ्गुलविस्तृतम् ॥ ३५.६४॥

मध्येनैव तु तन्मध्ये पृष्ठे त्वश्रन्तु कारयेत ।
कञ्चुकन्तु षडङ्गुल्यं तद्विस्तारं यवद्वयम् ॥ ३५.६५॥

युगाङ्गुलेन कर्णन्तु तस्य नाहं गुणाङ्गुलम् ।
अर्धाङ्गुलन्तु फलका विस्तारं त्रियवं घनम् ॥ ३५.६६॥

पुष्पमर्धाङ्गुलं ज्ञेयं शेषं युक्त्या प्रकल्पयेत् ।
खड्गलक्षणमेवं स्यात् पाशलक्षणमुच्यते ॥ ३५.६७॥

अयामं पूर्ववत् कृत्वा फलद्वयकृताङ्गुलिः ।
रसाङ्गुलन्तु विस्तारं परस्परनिरीक्षितौ ॥ ३५.६८॥

वेदाङ्गुलन्तु तन्नाहं तदूर्ध्वे द्वादशाङ्गुलम् ।
द्वयमर्धन्तु नाहं स्यात् कृशतः कृशमूलतः ॥ ३५.६९॥

पाशस्य लक्षणं प्रोक्तं श‍ृणुष्वाङ्कुशलक्षणम् ।
मूलाङ्गुलसमायामं तन्नाहन्तु षडङ्गुलम् ॥ ३५.७०॥

अग्रेऽङगुलेन मुकुलं मन्वङ्गुलप्रमाणकम् ।
तरुणेन्दुसमाकारं मुकुलाधः सुयोजयेत् ॥ ३५.७१॥

एवमङ्कुशमाख्यातं गदालक्षणमुच्यते ।
षोडशाङ्गुलमायाममष्टाश्रन्तु गदाकृतिः ॥ ३५.७२॥

गण्डिकैकाङ्गुलं मूले मुष्टिस्तु चतुरङ्गुलम् ।
तदूर्ध्वे गण्डिकाङ्गुल्यं तदा शेषं प्रकीर्तितम् ॥ ३५.७३॥

गदाया लक्षणं प्रोक्तं श‍ृणु शूलस्य लक्षणम् ।
षोडशाङ्गुलमायामं विस्तारन्तु षडङ्गुलम् ॥ ३५.७४॥

वेदाङ्गुलघनं प्रोक्तं वज्रशूलविधानतः ।
शूललक्षणमेवं स्यात् श‍ृणु पद्मस्य लक्षणम् ॥ ३५.७५॥

षडङ्गुलं तु मुकुलं तन्नालं त्र्यङ्गुलं भवेत् ।
दलाष्टकसमायुक्तं नालायामं दशाङ्गुलम् ॥ ३५.७६॥

रसाङ्गुलं तु तन्नाहमेवं पद्मस्य लक्षणम् ।
चक्रस्य लक्षणं वक्ष्ये श‍ृणु कौशिक सुव्रत ॥ ३५.७७॥

आयामं पूर्ववत् प्रोक्तमष्टाङ्गुलसुविस्तृतम् ।
मध्ये नाभसमायुक्तं षोडशारसमायुतम् ॥ ३५.७८॥

एकाङ्गुलविशालेन परितः पत्रमुच्यते ।
मूर्ध्नि पार्श्वे तु कर्तव्यं ज्वलतान्तं विशेषतः ॥ ३५.७९॥

दण्डं तु शूलवत्कार्यं प्रोक्तं चक्रस्य लक्षणम् ।
एवं दशायुधं प्रोक्तं कूर्मासनविधिं श‍ृणु ॥ ३५.८०॥

रुद्राङ्गुलसुविस्तारं तदर्धेनैव कारयेत् ।
श्रुत्यङ्गुलं घनं प्रोक्तं मूर्ध्नि भूताङ्गुलं भवेत् ॥ ३५.८१॥

सप्ताङ्गुलेन तन्नाहं माताङ्गुलेन कारयेत् ।
कूर्मासनमिदं प्रोक्तं खट्वाया लक्षणं श‍ृणु ॥ ३५.८२॥

चतुर्विंशाङ्गुलं पादं श्रेष्ठं मानाङ्गुलं भवेत् ।
मध्यमं षोडशाङ्गुल्यमधमं द्वादशाङ्गुलम् ॥ ३५.८३॥

विंशत्यङ्गुलमानेन श्रेष्ठं पादस्य नाहकम् ।
मध्यमस्याधमस्यैव द्विद्व्यङ्गुलविहीनकम् ॥ ३५.८४॥

मूलपादस्य विस्तारं शेषं युक्त्या प्रकल्पयेत् ।
शुभाङ्घ्रिकरपादं वा मृगेन्द्राभाङ्घ्रिरेव च ॥ ३५.८५॥

षट्त्रिंशदङ्गुलायामं तारद्विगुणमुत्तमम् ।
कौशिकाङ्गुलविस्तारं गुलिकान्यङ्गुलायतम् ॥ ३५.८६॥

ईलितारं त्रिधा कृत्वा मध्यभागेन पट्टिका ।
कुर्यात्कपोतकं बाह्ये पट्टिका द्वियवेन तु ॥ ३५.८७॥

अधः शूलस्य पत्रारै रक्तहारैव पिष्टयेत् ।
ईलिकाभ्यन्तरे चैव विन्यस्ता धातुना गला ॥ ३५.८८॥

सुषिरेष्वद्भुतानां तु नाराचं योजयेद्बुधः ।
नाराचैश्च समायुक्तं कक्ष्या सङ्घर्षयेत् पुनः ॥ ३५.८९॥

खट्वालक्षणमेवोक्तं लूखलस्य विधिं श‍ृणु ।
विंशत्यङ्गुलमायाममुत्तमं परिकीर्तितम् ॥ ३५.९०॥

अष्टादशाङ्गुलं मध्यं कन्यसं तु कलाङ्गुलम् ।
आयामं त्रिगुणं कृत्वा तन्नाहं तु विधीयते ॥ ३५.९१॥

चतुर्धा विभजेत्तारं त्रिभागं गर्तमुच्यते ।
उत्सेधात्यर्धमानेन ग्रीवामूलस्य नाहकम् ॥ ३५.९२॥

ओष्ठं पक्षाङ्गुलं प्रोक्तं मानस्य च विशेषतः ।
पादं पादाङ्गुलाहीनं मध्यमस्याधमस्य तु ॥ ३५.९३॥

लूखलस्यैवमाख्यातं मुसलस्य विधिं श‍ृणु ।
सार्धत्रितालमधमं युगतालं तु मध्यमम् ॥ ३५.९४॥

उत्तमं भूततालं तु मुन्यष्टनवमात्रकम् ।
कन्यसादिपरीणाहं वृत्तं स्यात् पर्वतः समम् ॥ ३५.९५॥

अधस्सार्धाङ्गुलेनैव वेष्टयेन्मूलके दृढम् ।
एवं तु मुसलं प्रोक्तं शिबिकालक्षणं श‍ृणु ॥ ३५.९६॥

दारुसारमयेनैव मानाङ्गुल्येन कारयेत् ।
षट्त्रिंशदङ्गुलन्तारं कन्यसस्य प्रकीर्तितम् ॥ ३५.९७॥

अष्टचत्वारिमध्यं स्यात् षष्ठ्यङ्गुलमथोत्तमम् ।
विस्तारं द्विगुणं यामं पादोनद्विगुणं तु वा ॥ ३५.९८॥

ईलिकायां तु विस्तारं श्रेष्ठस्य द्व्यङ्गुलं भवेत् ।
अङ्गुलाङ्गुलहीनेन मध्यमस्य च यस्य तु ॥ ३५.९९॥

तस्यार्धं द्विशतं प्रोक्तं मीलिकायां द्विजोत्तम ।
ईलितारं त्रिधा कृत्वा मध्यभागेन पट्टिका ॥ ३५.१००॥

भागेनैकेन तद्बाह्ये कारयेत्तु कपोतकम् ।
आयाममष्टधा कृत्वा भागं स्याद्भित्तिपादकम् ॥ ३५.१०१॥

कुम्भञ्च वलयं चैव वृत्तकं चारुहीनकम् ।
ईलिकामध्ययोर्मध्ये चतुरश्रं कृतं तथा ॥ ३५.१०२॥

एकैकांशेन चोर्ध्वाया पट्टिकाद्वयमेव वा ।
मध्यमे तु द्विभागेन फलका चक्रशोभितम् ॥ ३५.१०३॥

ईलिकैर्जालकैश्चैव फलकैर्गुलकैरपि ।
नानापल्लिसमायुक्तं नानाक्रीडा समायुतम् ॥ ३५.१०४॥

तत्पूर्वमभितस्तेरुत्सेधाष्टाङ्गुलं भवेत् ।
सिंहद्वयसमायुक्तं तदूर्ध्वे मकरास्यकम् ॥ ३५.१०५॥

बलाकासदृशं पादं तत्र सप्ताङ्गुलोन्नतम् ।
अधः पट्टैश्च नाराचैर्दृढं कृत्वा द्विधा मतः ॥ ३५.१०६॥

वेणिकावेष्टनं वाऽपि फलकाबन्धनं नयेत् ।
शिबिकालक्षणं प्रोक्तं डोलालक्षणमुच्यते ॥ ३५.१०७॥

पादोर्ध्वे विन्यसेद्धीमान् मण्डपाकृतिमेव च ।
अश्वश्चैव मयूरश्च गजसारथ्यकर्मणे ॥ ३५.१०८॥

नानाचान्यानि सर्वाणि रथवत् कारयेत्क्रमात् ।
डोलाया लक्षणं प्रोक्तं दीपमालाविधिं श‍ृणु ॥ ३५.१०९॥

अयसा वाऽथ ताम्रेण दारुभिर्दीपमालिका ।
द्वारेष्टं द्वारवत्कुर्यात् कुबेरश्रीप्रभाकृतिः ॥ ३५.११०॥

कारयेदन्यदेशे तु द्वारमानप्रमाणतः ।
सुस्निग्धान् सुदृढान् कृत्वा स्कन्धान् वेलाङ्गुलायतात् ॥ ३५.१११॥

त्रिभागैकं न्यसेद्दण्डे भूताङ्गुलमथान्तरम् ।
दीपमालाविधिः प्रोक्तः पुष्पमालाविधिं श‍ृणु ॥ ३५.११२॥

अशोकासननिम्बाश्च मधूकपनसासनाः ।
खदिरः शिशुपाश्चाम्रचन्दनश्चम्पकः शुभाः ॥ ३५.११३॥

अष्टतारप्रमाणेन विस्तारद्विगुणायतम् ।
वेदपादसमायुक्तं द्वादशाङ्गुलदैर्घ्यकम् ॥ ३५.११४॥

घनमष्टाङ्गुलं प्रोक्तं हित्युत्सेधं कृताङ्गुलम् ।
दर्पणोदरसङ्काशं कुर्यान्मानाङ्गुलेन तु ॥ ३५.११५॥

पुष्पाधारमिदं प्रोक्तं भेरिकालक्षणं श‍ृणु ।
आयामं युगतालं स्यात् नाहं भूतयवं भवेत् ॥ ३५.११६॥

रव्यङ्गुलं मुनिश्रेष्ठ मुखतारं प्रचक्षते ।
आरं घातसुवृत्तं स्याद्घनमर्धाङ्गुलं भवेत् ॥ ३५.११७॥

उभयोः पार्श्वयोर्वक्रं द्वयपट्टेन वेष्टयेत् ।
सप्तकीलसमायुक्तमाकारेण तु कारयेत् ॥ ३५.११८॥

भेरीलक्षणमाख्यातं समिधां लक्षणं श‍ृणु ।
द्वादशाङ्गुलमायामं कनिष्ठाङ्गुलनाहकम् ॥ ३५.११९॥

सार्द्रं सत्वसमाच्छेदसप्ररोहमनिन्दितम् ।
अवक्रं निर्व्रणं शुद्धं ब्राह्मणैरावृतं शुभम् ॥ ३५.१२०॥

मूलेन मूलसंयुक्तमग्रेणाग्रसमायुतम् ।
समिधां लक्षणं प्रोक्तं परिधेर्लक्षणं श‍ृणु ॥ ३५.१२१॥

आयामं परिधीनां तु सवेदांशदशाङ्गुलम् ।
वीथ्यङ्गुलपरीणाहमपर्णमव्रणं समम् ॥ ३५.१२२॥

प्रोक्तं तु यत् समित्तेन परिधीध्मानि सङ्ग्रहेत् ।
परिधिर्लक्षणं प्रोक्तं दर्भाणां लक्षणं श‍ृणु ॥ ३५.१२३॥

स्त्रीपुन्नपुंसकाकारास्त्रिविधाः समुदाहृताः ।
मृदुः श्यामः स्त्रियः प्रोक्तास्त्रीणां कर्मसु योजयेत् ॥ ३५.१२४॥

ईषत्पक्षसमायुक्ता स्थिराः पुंलिङ्गका स्मृताः ।
पुङ्क्रियासु तथा योग्या स्थिराः कोमलवर्जिताः ॥ ३५.१२५॥

नपुंसका इति ख्याता न ग्राह्याः सर्वकर्मसु ।
सुच्छिन्नाग्रा सुभिन्नाग्रा खण्डिताः परिवर्जयेत् ॥ ३५.१२६॥

मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम् ।
समं पुंलिङ्गमित्युक्तं विश्वामित्र महामुने ॥ ३५.१२७॥

दर्भाणां लक्षणं प्रोक्तं कूर्चानां लक्षणं श‍ृणु ।
उत्तमं नवदर्भेस्तु सप्तदर्भैस्तु मध्यमम् ॥ ३५.१२८॥

कन्यसं पञ्चदर्भैस्तु ग्रन्थिरेकाङ्गुलं भवेत् ।
दक्षिणावर्तकं ग्रन्थिकूर्चाग्रं चतुरङ्गुलम् ॥ ३५.१२९॥

ग्रन्थ्यधस्तात्तदायामं रुद्रधर्मं नवाङ्गुलम् ।
कूर्चानां लक्षणं प्रोक्तं विष्टरस्य विधिं श‍ृणु ॥ ३५.१३०॥

सप्तदर्भसमायुक्तं ग्रन्थितं सव्यमार्गतः ।
रत्न्यङ्गुलं भवेन्मूलं ग्रन्थिरेकाङ्गुलं मतम् ॥ ३५.१३१॥

विष्टरस्य विधिः प्रोक्तो लम्बकूर्चविधिं श‍ृणु ।
एकविंशतिदर्भैश्च ग्रन्थिरेकाङ्गुलं भवेत् ॥ ३५.१३२॥

ग्रन्थितद्दक्षिणावर्तं कूर्चाग्रं चतुरङ्गुलम् ।
मूर्ध्नादिपादपर्यन्तं लम्बितं यज्ञदायकम् ॥ ३५.१३३॥

लम्बकूर्चविधिः प्रोक्ता परिस्तरणमुच्यते ।
धर्मदर्भसमायुक्तं ग्रन्थिः पक्षाङ्गुलं भवेत् ॥ ३५.१३४॥

वेदाङ्गुलं तदग्रं स्यात् षट्त्रिंशदङ्गुलायतम् ।
परिस्तरणमाख्यातं दर्भमालाविधिं श‍ृणु ॥ ३५.१३५॥

भूतवेदाग्निदर्भैर्वा व्योमहस्तं प्रलम्बितम् ।
कनिष्ठिकाङ्गुला नाहं रज्जुं कुर्यान्मनोरमैः ॥ ३५.१३६॥

दर्भमालाविधिः प्रोक्ता प्रोक्षणीकूर्चमुच्यते ।
सप्तविंशतिदर्भैश्च कलाङ्गुलसमायुतम् ॥ ३५.१३७॥

व्योमाङ्गुलं भवेद्ग्रन्थिरग्रं वेदाङ्गुलं भवेत् ।
वेणी वा विष्टरं वाऽथ प्रोक्षणीकूर्चमीरितम् ॥ ३५.१३८॥

पवित्रलक्षणं वक्ष्ये श‍ृण कौशिक सुव्रत ।
कुशकाशपटीराश्च सुवर्णैस्त्रिभिरेव वा ॥ ३५.१३९॥

एकीकृत्याग्रतो दर्भानलूनमग्रमुद्रितम् ।
षोडशाङ्गुलमायाममावर्तं वा समन्ततः ॥ ३५.१४०॥

त्रिगुणीकृत्य रज्ज्वग्रं ग्रन्थिरेकाङ्गुलं भवेत् ।
दक्षिणावर्तं कर्तव्यं तदग्रं चतुरङ्गुलम् ॥ ३५.१४१॥

अनामिकाया योक्तव्यमुभयोर्हस्तयोरपि ।
सपवित्रकरेणैव कुर्यादाचमनक्रिया ॥ ३५.१४२॥

नोच्छिन्नं तत् पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् ।
सौवर्णं चेत् पवित्रं स्यादाज्येनोत्क्षपणेन तु ॥ ३५.१४३॥

नाभेरनामिकायास्तु कुर्याद् वृत्तं समं यथा ।
पवित्रस्य विधिः पोक्ता पाद्यपात्रविधिं श‍ृणु ॥ ३५.१४४॥

सौवर्णमुत्तमं प्रोक्तं मध्यमं रजतं भवेत् ।
अधमं ताम्रकांस्यं स्यान्मृन्मयञ्चाधमाधमम् ॥ ३५.१४५॥

तारे मूलाङ्गुलं ज्ञेयमुत्सेधं तु युगाङ्गुलम् ।
तत्पृष्ठेऽङ्घ्रिसमायुक्तं चतुरङ्गुलमानतः ॥ ३५.१४६॥

अर्धेनाधिकया युक्तं वेदाङ्गुलसमायुतम् ।
पाद्यपात्रं समाख्यातं श‍ृण्वाचमनपात्रकम् ॥ ३५.१४७॥

आदित्याङ्गुलमानेन कुक्षिविस्तारमुच्यते ।
अष्टत्रिंशतिमात्रेण नाहं कुक्षेस्तु मध्यमम् ॥ ३५.१४८॥

अग्न्यङ्गुलं गलोत्सेधं मार्गं व्योमाङ्गुलं भवेत् ।
आस्यतारं त्रिमात्रं तु पार्श्वे घ्राणसमायुतम् ॥ ३५.१४९॥

पक्षाङ्गुलसमायामं रन्ध्र कनिष्ठिकासमम् ।
आर्धार्धाङ्गुलमानेन पादं कुर्यात्तु पृष्ठके ॥ ३५.१५०॥

यदाचमनपात्रं तदर्ध्यपात्रमथ श‍ृणु ।
अर्ध्यपात्रं मया प्रोक्तं पालिकालक्षणं श‍ृणु ॥ ३५.१५१॥

पालिकाष्टादशाङ्गुल्यमुच्चं मात्राङ्गुलेन तु ।
पालिकामुखविस्तारं षोडशाङ्गुलमुच्यते ॥ ३५.१५२॥

तदर्धं पादविस्तारं रसभागैककोष्ठकम् ।
विस्तारस्य त्रिभागैकं वर्तितं बिलमुच्यते ॥ ३५.१५३॥

एवं पात्रक्रमं प्रोक्तं शेषं दण्डं प्रकल्पयेत् ।
विस्तारस्य त्रिभागैक दण्डविस्तारमुच्यते ॥ ३५.१५४॥

पालिकालक्षणं प्रोक्तं घटिकालक्षणं श‍ृणु ।
घटिकाघटविस्तारमष्टाङ्गुलमुदाहृतम् ॥ ३५.१५५॥

पालिकापात्रवत्कुर्यात् दण्डं वै चतुरङ्गुलम् ।
पञ्चवक्त्रसमायुक्तं घटिकां कारयेद्बुधः ॥ ३५.१५६॥

घटिकालक्षणं प्रोक्तं शरावमधुनोच्यते ।
शरावमुखविस्तारमादित्याङ्गुलमुच्यते ॥ ३५.१५७॥

तदर्धं पादविस्तारमुत्सेधं वसुमात्रकम् ।
नाहं स्यात् पालिकादीनां विस्तारार्धेन वर्धितम् ॥ ३५.१५८॥

कालं भिन्नं च सुषिरं भेदं छेदं मलीनकम् ।
निर्दग्धं च पुराणं च विशेषेण विवर्जयेत् ॥ ३५.१५९॥

शरावलक्षणं प्रोक्तं गन्धपात्रं ततः श‍ृणु ।
अष्टाङ्गुलं तद्विस्तारं वेदाङ्गुलसमुच्छ्रयम् ॥ ३५.१६०॥

गन्धपात्रं समाख्यातं पुण्यपात्रमथ श‍ृणु ।
विंशत्यङ्गुलमायामं वस्वङ्गुलसमुच्छ्रयम् ॥ ३५.१६१॥

नालं पञ्चाङ्गुलं कुर्यादुभयोः पार्श्वयोरपि ।
तन्मानं पादविस्तारं पिधानकवचान्वितम् ॥ ३५.१६२॥

द्रव्यालाभे मुनिश्रेष्ठ वस्त्रेणैव तु कारयेत् ।
पुष्पपात्रं समाख्यातमाज्यपात्रविधिं श‍ृणु ॥ ३५.१६३॥

वेदाङ्गुलसमुत्सेधं विस्तारन्तुषडङ्गुलम् ।
अर्धाङ्गुलेन तस्योष्ठमेतद्धि घृतपात्रकम् ॥ ३५.१६४॥

घृतस्य पात्रमेवं स्यात् प्रणीतापात्रमुच्यते ।
पञ्चावृताङ्गुलन्तारं सार्धाग्न्यङ्गुलमुच्छ्रयम् ॥ ३५.१६५॥

प्रणीतापात्रमेवं स्यात् प्रोक्षणीपात्रमुच्यते ।
पञ्चाङ्गुलन्तु विस्तारं रुद्राङ्गुलसमुच्छ्रयम् ॥ ३५.१६६॥

प्रोक्षणीपात्रमेवं स्यात् स्कन्दकुम्भविधिं श‍ृणु ।
त्रीण्यङ्गुलप्रविस्तारं रुद्राङ्गुलसमुन्नतम् ॥ ३५.१६७॥

आस्यं वेदाङ्गुलं ज्ञेयं कर्णायामं तथाङ्गुलम् ।
व्योममेकाङ्गुलं प्रोक्तमर्धाङ्गुलन्तु निर्गमम् ॥ ३५.१६८॥

गले त्रिरेखा कर्तव्या पक्वबिम्बफलप्रभम् ।
कलङ्करहितं स्निग्धं मर्वदोषविवर्जितम् ॥ ३५.१६९॥

स्कन्दकुम्भमिति प्रोक्तं वर्धनीलक्षणं श‍ृणु ।
रन्ध्राङ्गुलप्रविस्तारं वर्धनीजठरस्य तु ॥ ३५.१७०॥

अब्ध्यङगुलसमुत्सेधं वक्त्रमग्न्यङ्गुलं मतम् ।
अश्विन्यङ्गुलमोष्ठं स्यात् पार्श्वे नालाङ्कुरायतम् ॥ ३५.१७१॥

उत्पलाकृतिवत्कार्यं सार्धाङ्गुलप्रमाणतः ।
अर्धाङ्गुलोच्छ्रयं ग्रीवमङ्गुलीयोष्ठनिर्गमम् ॥ ३५.१७२॥

वर्धनीलक्षणं प्रोक्तं कुम्भानां लक्षणं श‍ृणु ।
रुद्राङ्गुप्रविस्तारमोष्ठं व्योमाङ्गुलं भवेत् ॥ ३५.१७३॥

सार्धाङ्गुलं गलोत्सेधं त्रियवं तस्य निर्गमम् ।
कुन्भानां लक्षणं प्रोक्तं कलशानां ततः श‍ृणु ॥ ३५.१७४॥

सप्ताङ्गुलप्रविस्तारमुत्सेधं चतुरङ्गुलम् ।
ग्रीवमर्धाङ्गुलोत्सेधमोष्ठं तत्त्सममेव तु ॥ ३५.१७५॥

त्र्यङ्गुलञ्चास्यविस्तारं यवमोष्ठस्य निर्गमम् ।
शेषं युक्त्या प्रकर्तव्यं पक्वबिम्बफलोपमम् ॥ ३५.१७६॥

कलशस्य विधिः प्रोक्ता कुण्डिकालक्षणं श‍ृणु ।
वेदाङ्गुलं तद्विस्तारं दैर्घ्यमग्न्यङ्गुलं भवेत् ॥ ३५.१७७॥

सार्धाङ्गुलं तस्य तारं मध्यमर्धाङ्गुलं भवेत् ।
पादाङ्गुलं गलोत्सेधं पार्श्वे घ्राणसमन्वितम् ॥ ३५.१७८॥

व्योमाङ्गुलप्रमाणेन पादमोष्ठे प्रकल्पयेत् ।
कुण्डिकालक्षणं प्रोक्तं हविःपात्रविधिं श‍ृणु ॥ ३५.१७९॥

तस्य कुक्षेस्तु विस्तारं धर्माङ्गुलमुदाहृतम् ।
अष्टाङ्गुलसमुत्सेधं कर्णोत्सेधमथाङ्गुलम् ॥ ३५.१८०॥

कर्णव्योमाङ्गुलं प्रोक्तमास्यतारं रसाङ्गुलम् ।
शेषं युक्त्या प्रकर्तव्यं तत्पचेदाढकं मुने ॥ ३५.१८१॥

यावत्पचेच्छिवद्रोणं तावन्मात्रं प्रकल्पयेत् ।
हविःपात्रविधिः प्रोक्तं उपदंशस्य पात्रकम् ॥ ३५.१८२॥

उदरस्य प्रविस्तारमष्टाङ्गुलमुदाहृतम् ।
युगाङ्गुलसमुत्सेधं कण्ठमेकाङ्गुलं भवेत् ॥ ३५.१८३॥

आस्यतारं षडङ्गुल्यमोष्ठमेकाङ्गुलं भवेत् ।
एतत्स्यादुपदंशाय पिधानस्य विधिं श‍ृणु ॥ ३५.१८४॥

पाद्यस्य तारं यावत्तु तावत्कुर्यात्पिधानकम् ।
पिधानस्य विधिः प्रोक्ता दर्व्या लक्षणमुच्यते ॥ ३५.१८५॥

द्वादशाङ्गुलमायामं तद्दैर्घ्यं पञ्चधा भवेत् ।
अत्यर्धांशेन पुच्छांशात् पक्षांशेनाग्रमुच्यते ॥ ३५.१८६॥

त्र्यङ्गुलं पुच्छतारं वा वक्त्रतारं शराङ्गुलम् ।
व्योमाङ्गुलप्रमाणेन मध्यतारं विधीयते ॥ ३५.१८७॥

अर्धाङ्गुलन्तु हीनं स्यान्मध्यमस्य तु चैव हि ।
दर्व्या लक्षणमाख्यातं स्थालिकालक्षणं श‍ृणु ॥ ३५.१८८॥

कन्यसं कांस्यसम्भूतं राजतं मध्यमं भवेत् ।
हैमजं चोत्तमं प्रोक्तं वृत्ताकारं सुशोभनम् ॥ ३५.१८९॥

द्वादशाङ्गुलमारभ्य द्वित्र्यङ्गुलविवर्धनात् ।
षट्त्रिंशदङ्गुलान्तं च कन्यसादित्रयं त्रयम् ॥ ३५.१९०॥

तद्द्वयं चोष्ठविस्तारमुत्सेधं तत्समं भवेत् ।
वेत्रं यवद्वये तु स्यात् अधमस्याधमस्य तु ॥ ३५.१९१॥

यवैकेन विवृद्ध्या तु यावद्दशयवान्तिकम् ।
स्थालिकानां नवानाञ्च वेत्रोत्सेधं प्रकीर्तितम् ॥ ३५.१९२॥

कांस्यादुक्तं मध्यमानं विंशदूर्ध्वशतं पलम् ।
स्वर्णेन रजतेनैव यथालाभं प्रकल्पयेत् ॥ ३५.१९३॥

स्थालिकालक्षणं प्रोक्तं त्रिपादीलक्षणं श‍ृणु ।
चतुर्थाच्छङ्खपादी च बलिपादी त्रिपादिका ॥ ३५.१९४॥

यावन्मानं तु पीठोच्चं तावदुच्चत्रिपादिकम् ।
कर्तव्यं स्थालिकापादं लक्षणेन विशेषतः ॥ ३५.१९५॥

उच्चं युगाङ्गुलं ज्ञेयं तच्चतुर्गुणमायतम् ।
ईषत् त्रिभङ्गिकापादं पक्षाङ्गुलं तु नाहकम् ॥ ३५.१९६॥

मृगराट्पादवन्मूले वक्त्रपादानि कीर्तिताः ।
शराङ्गुलन्तु विस्तारमुत्सेधं पर्वताङ्गुलम् ॥ ३५.१९७॥

अग्निपादसमायुक्तं त्रिवर्गाङ्गुष्ठनाहकम् ।
शरावाकृतिवन्मूले शेषं युक्त्या प्रकल्पयेत् ॥ ३५.१९८॥

त्रिपादीलक्षणं प्रोक्तं पाद्याधारविधिं श‍ृणु ।
चतुरङ्गुलमायामं पत्रद्वयसमन्वितम् ॥ ३५.१९९॥

तस्याधः सिंहपादं च शेषं युक्त्या प्रकल्पयेत् ।
पात्रं निधाय तस्योर्ध्वे तस्मिन् पात्रादिकं ददेत् ॥ ३५.२००॥

पाद्यमचमनाधारविधिं श‍ृणु महामुने ।
कलाङ्गुलसमायामं मुखवारसमं भवेत् ॥ ३५.२०१॥

ओष्ठमेकाङ्गुलं प्रोक्तं धुत्तूरकुसुमोपमम् ।
ऊर्ध्वकायमिदं प्रोक्तं दण्डायामं नवाङ्गुलम् ॥ ३५.२०२॥

अग्न्यङ्गुलं तु विस्तारं द्विगुणं पादविस्तरम् ।
गण्डिकात्रयसंयुक्तं दण्डं कुर्याद्विचक्षणः ॥ ३५.२०३॥

न वर्जयेत् तले तस्मिन् पात्रे त्वाचमनोदकम् ।
प्रोक्तमाचमनाधारं जलाधारविधिं श‍ृणु ॥ ३५.२०४॥

चतुर्विंशत् त्रयं तु स्याद्विस्तारमुदरस्य तु ।
विंशदङ्गुलमुत्सेधमास्यातारं कलाङ्गुलम् ॥ ३५.२०५॥

ओष्ठं पक्षाङ्गुलं ज्ञेयं तस्याधस्तात् त्रिरेखया ।
यवत्रयप्रमाणेन कुर्यादुदरबन्धनम् ॥ ३५.२०६॥

विस्तारमुदयं सर्वमेवं क्रमेण कारयेत् ।
पाद्यपात्राणि सर्वाणि कुर्यान्मानाङ्गुलेन तु ॥ ३५.२०७॥

जलधारविधिः प्रोक्ता रङ्गस्य च विधिं श‍ृणु ।
क्षौमपट्टैर्दुकूलैर्वा कुर्यात् कार्पासशाटिभिः ॥ ३५.२०८॥

दशवक्त्रयुतं वाऽपि रविवक्त्रयुतं तु वा ।
रन्ध्रवस्त्रयुतं वाऽपि चास्यरज्जुसमन्वितम् ॥ ३५.२०९॥

महावास्तुसमायुक्तं नानारूपसमायुतम् ।
एवं तु रङ्गमाख्यातं स्तम्भवेष्टनमुच्यते ॥ ३५.२१०॥

गात्रमानसमं वस्त्रं पद्माकारे परं मतम् ।
एकवर्णेन युक्तं वा निश्छिद्रं तेन वेष्टयेत् ॥ ३५.२११॥

स्तम्भवेष्टनमाख्यातं वितानमधुनोच्यते ।
पङ्क्तिमानसमायामं विस्तारमपि तत्समम् ॥ ३५.२१२॥

पद्माकारं विधातव्यं नानारूपयुतं तु वा ।
दुकूलं पट्टदेवाङ्गैः कुर्यात् कार्पासकेन वा ॥ ३५.२१३॥

वितानलक्षणं प्रोक्तं पताकालक्षणं श‍ृणु ।
विंशदङ्गुलविस्तारमायामं त्रिंशदङ्गुलम् ॥ ३५.२१४॥

विस्तारेण समं पुच्छं तस्यार्धं शिखरं भवेत् ।
चतुःपुच्छं त्रिपुच्छं वा पुच्छद्वयमथापि वा ॥ ३५.२१५॥

पार्श्वे कलियुगायुक्तं पोत्रत्रयसमावृतम् ।
नवाष्टसप्तहस्तं वा शेषं ध्वजवदीरितम् ॥ ३५.२१६॥

ध्वजलक्षणमाख्यातं क्षुद्रध्वजविधिं श‍ृणु ।
पादाङ्गुलं तु विस्तारं द्वादशाङ्गुलदैर्घ्यकम् ॥ ३५.२१७॥

वेत्रद्वयसमायुक्तं शेषं कुर्यात्तु केतुवत् ।
शिखरो रज्जुसंयुक्तं वेणुदण्डं प्रलम्बयेत् ॥ ३५.२१८॥

ध्वजानां लक्षणं प्रोक्तं छत्रलक्षणमुच्यते ।
चतुर्मुखप्रविस्तारं समवृत्तमधोमुखम् ॥ ३५.२१९॥

आधारं वैणवेनैव तन्तुभिर्वर्धयेत् क्रमात् ।
वस्त्रेण वेष्टयेत्सर्वं मुक्तादामैश्च रत्नकैः ॥ ३५.२२०॥

मकुटैः स्वर्णपट्टैश्च भूषयेद् भूषणार्हकैः ।
उत्तमं रत्नखचितं दुकूलाद्यैस्तु मध्यमम् ॥ ३५.२२१॥

वस्त्रेणेवाधमं प्रोक्तं तालपत्रं महामुने ।
बाणाग्निरसतालैर्वा नालायामं प्रकीर्तितम् ॥ ३५.२२२॥

छत्रलक्षणमाख्यातं पिञ्च्छलक्षणमुच्यते ।
मयूरपिञ्च्छैः कर्तव्यं विस्तारं त्रियवं भवेत् ॥ ३५.२२३॥

वस्त्रेण वेष्टयेत् सर्वं पुनः पिञ्च्छेन वेष्टयेत् ।
आधारमयसा कृत्वा हैमेन मकुटं तथा ॥ ३५.२२४॥

शेषं युक्त्या प्रकर्तव्यं नालं स्याच्छत्रनालकम् ।
पिञ्च्छलक्षणमेवोक्तं चामरस्य विधिं श‍ृणु ॥ ३५.२२५॥

स्वर्णेन रजतेनैव दन्तिदन्तेन दारुणा ।
शुल्बेन वाऽथ मतिमान् दण्डं कुर्यान्महामुने ॥ ३५.२२६॥

चतुर्विंशदङ्गुलायामं दण्डनाहं शराङ्गुलम् ।
नानापङ्क्तिसमायुक्तं नानागण्डिसमायुतम् ॥ ३५.२२७॥

चमरीवालसंयुक्तं यथाशोभं तु कारयेत् ।
चामरस्य विधिः प्रोक्ता मयूरव्यजनं श‍ृणु ॥ ३५.२२८॥

दण्डं तु पूर्ववत् प्रोक्तं शिखिपिञ्च्छं तु योजयेत् ।
अलङ्कारेण मतिमान् शेषं युक्त्या प्रकल्पयेत् ॥ ३५.२२९॥

मयूरव्यजनं प्रोक्तं दुकूलव्यजनं श‍ृणु ।
षोडशाङ्गुलविस्तारं वैणवेनैव वर्तुलम् ॥ ३५.२३०॥

क्षौमदेवाङ्गपट्टैर्वा दुकूलेनाथ वेष्टयेत् ।
त्रियङ्गुलं दण्डनाहं षट्त्रिंशदङ्गुलायतम् ॥ ३५.२३१॥

नानातन्तुसमायुक्तं दण्डमात्रं विचित्रयेत् ।
दण्डाग्रं तु यथा कृत्वा शेषं युक्त्या प्रकल्पयेत् ॥ ३५.२३२॥

दुकूलव्यजनं प्रोक्तं उष्णीषस्य विधिं श‍ृणु ।
सप्तषट्पञ्चहस्तांशं पञ्चपाकैकविस्तृतम् ॥ ३५.२३३॥

सुश्लक्ष्णं सुदृशं सूक्ष्मं शिरोरोमविवर्जितम् ।
शिरसा चिबुकेनैव कर्णाभ्यामपि वेष्टयेत् ॥ ३५.२३४॥

पुच्छं वै वामकर्णान्ते वेष्टयेत्तु प्रदक्षिणम् ।
एवं संवेष्टय मतिमान् शेषं शिरसि वेष्टयेत् ॥ ३५.२३५॥

उष्णीषविधिराख्यात उत्तरीयविधिं श‍ृणु ।
बाणहस्तायतं वाऽपि वेदहस्तायतं तु वा ॥ ३५.२३६॥

तालमात्रं प्रविस्तारं बन्धयेत्तु द्विपुच्छकम् ।
यज्ञोपवीतवद्बध्वा उत्तरीयं विशेषतः ॥ ३५.२३७॥

यजने स्थापने चाग्निकार्ये शैवोत्सवे जपे ।
उष्णीषमुत्तरीयञ्च धारयेद्देशिकोत्तमः ॥ ३५.२३८॥

उत्तरीयलक्षणं प्रोक्तं वस्त्रलक्षणमुच्यते ।
देवाङ्गक्षौमकं वाऽपि नेत्रं कार्पासजन्तु वा ॥ ३५.२३९॥

उत्तमं मनुहस्तं स्याद्रविहस्तन्तु मध्यमम् ।
अधमं दशहस्तं स्यात् पञ्चतालन्तु विस्तृतम् ॥ ३५.२४०॥

उत्तमं रक्तवर्णं स्यादलाभेऽन्यत्प्रगृह्यताम् ।
स्निग्धं सुश्लक्ष्णकं नव्यं सिरारोमविवर्जितम् ॥ ३५.२४१॥

जीर्णन्तु वह्निदग्धन्तु वर्जयेदाखुदष्टकम् ।
वस्त्रलक्षणमित्येवं स्यात्पञ्चशयनं श‍ृणु ॥ ३५.२४२॥

चर्मजं रोमजं चैवमुण्डजञ्चाण्डजं पुनः ।
वामजं चैव पञ्चैते शयनं सम्प्रकल्पयेत् ॥ ३५.२४३॥

खट्वाया मञ्चविस्तीर्णमायामन्तु सुविस्तृतम् ।
उत्सेधकं हस्तमात्रं प्रावृणीं व्याघ्रचर्मणा ॥ ३५.२४४॥

पूरितं तूलिकेनैव चर्मजं चेति कीर्तितम् ।
आयामं पूर्ववत्कुर्याद्द्रोमैः कृष्णमृगोद्भवैः ॥ ३५.२४५॥

सम्पूरितञ्च यत्तल्पं रोमजं चेति कीर्तितम् ।
पूर्वोक्तलक्षणोपेतं वस्त्रेणावरणं तथा ॥ ३५.२४६॥

शल्मली तूलसम्पूर्णं मुण्डजं चेति कीर्तितम् ।
पूर्वोक्तलक्षणोपेतं देवाङ्गैः पञ्चरं मतम् ॥ ३५.२४७॥

हंसरोमेण सम्पूर्णमण्डजं परिकीर्तितम् ।
सुश्लक्ष्णं सुसितं सूक्ष्मं कार्पासेनैव कल्पितम् ॥ ३५.२४८॥

उपरिस्तरणं यत्तत् वामजं चेतिकीर्तितम् ।
उपर्युपरिकर्तव्यं तत्पञ्चशयनं स्मृतम् ॥ ३५.२४९॥

आख्यातं पञ्चशयनमुपधानविधिं श‍ृणु ।
षट्त्रिंशदङ्गुलायामं नाहं तत्त्त्रिङ्गुणं भवेत् ॥ ३५.२५०॥

हंसरोमेण सम्पूर्णं देवाङ्गेन तु पञ्चरम् ।
कार्पाससम्भवेनैव कुर्यादुपरि वेष्टनम् ॥ ३५.२५१॥

उपधानं पाणिपद्भ्यां यथायुक्तं प्रकल्पयेत् ।
उपधानविधिः प्रोक्ता कक्ष्या लक्षणमुच्यते ॥ ३५.२५२॥

अग्न्यङ्गुलन्तु विस्तारमश्विन्यङ्गुलमेव च ।
कार्पासेनैव कर्तव्यं यावत्खट्वा प्रवेष्टनम् ॥ ३५.२५३॥

कक्ष्या लक्षणमाख्यातं प्रच्छन्नपटमुच्यते ।
द्वारयामसमं दीर्घं विस्तारद्वारविस्तृतम् ॥ ३५.२५४॥

द्वारमानेन कर्तव्यं पदव्याधारदण्ङकम् ।
शक्तिं मयूरयूथञ्च लाञ्छनस्य तु चैव हि ॥ ३५.२५५॥

प्रच्छन्नपटमाख्यातं धूपपात्रविधिं श‍ृणु ।
हैमेन राजतेनैव ताम्रेण त्रपुणाऽथवा ॥ ३५.२५६॥

वेदाङ्गुलन्तु विस्तारं पात्रोत्सेधं तदर्धकम् ।
ओष्ठमर्धाङ्गुलं प्रोक्तं बाह्ये पद्मदलान्वितम् ॥ ३५.२५७॥

ग्रीवस्यादौ द्विपादन्तु पादायामं द्विमात्रकम् ।
अब्ध्यङ्गुलसमायामं नाहं पक्षाङ्गुलं भवेत् ॥ ३५.२५८॥

दण्डपुच्छं पञ्चपादं कारयेदिति पूर्ववत् ।
पक्षाङ्गुलन्तु विस्तारं नानावल्लिसमन्वितम् ॥ ३५.२५९॥

अग्न्यङ्गुलं पिधानोच्चमनेकं सुषिरान्वितम् ।
कारयेन्मुकुलाकारं शेषं बुद्ध्या प्रकल्पयेत् ॥ ३५.२६०॥

धूपपात्रविधिः प्रोक्ता धूपघण्टाविधिं श‍ृणु ।
बाणाङ्गुलन्तु विस्तारमुत्सेधं तत्समं भवेत् ॥ ३५.२६१॥

त्रियवञ्चोष्ठविस्तारं तन्निर्यूहञ्चतुर्गुणम् ।
उपपट्टिकया युक्तं मात्रेण शिखरान्वितम् ॥ ३५.२६२॥

चतुर्यवङ्गलोत्सेधं जिह्वा वेदाङ्गुलायुतम् ।
घण्टायामञ्च तन्नाहं विस्तारेणैव वर्णितम् ॥ ३५.२६३॥

अग्न्यङ्गुलेन दण्डोच्चं नाहं तत्सममेव वा ।
दण्डस्याग्रे गजं वाऽपि वज्रं वा शक्तिमेव वा ॥ ३५.२६४॥

मूलं वा मकुटं वाऽपि नलिनं तस्य कल्पयेत् ।
शेषं युक्त्या प्रकर्तव्यं शुद्धकांस्येन सुव्रत ॥ ३५.२६५॥

कृत्वा नैवेद्य काले तु बलिकाले विशेषतः ।
धूपदीपप्रदाने च होमकाले च घोषयेत् ॥ ३५.२६६॥

धूपघण्टाविधिः प्रोक्ता दीपपात्रविधिं श‍ृणु ।
धूपपात्रवदाकारं विशेषात् किञ्चिदस्ति हि ॥ ३५.२६७॥

अग्न्यङ्गुलप्रविस्तारमायामन्तु शराङ्गुलम् ।
अश्वत्थपत्रवत्त्कुर्यात् ओष्ठोच्चं त्रियवं भवेत् ॥ ३५.२६८॥

मध्यं नाभिसमायुक्तं मुकुलं चैव कल्पयेत् ।
तदेकं दोपपात्रं स्यात् पञ्चदीपयुतन्तु वा ॥ ३५.२६९॥

दीपपात्रविधिः प्रोक्ता वक्ष्ये नीराजनस्य तु ।
सौवर्णं राजतं ताम्रं श्रेष्ठं मध्यकनिष्ठकम् ॥ ३५.२७०॥

षट्त्रिंशदङ्गुलायामं वृत्ताकारमनुत्तमम् ।
तस्मात्षडङ्गुलं हीनं मध्यमं पात्रमिष्यते ॥ ३५.२७१॥

हस्तमात्रप्रविस्तारं कन्यसं पात्रमिष्यते ।
कर्णिकाञ्च त्रिभागैकं तत्पञ्चांशैकमुच्छ्रयम् ॥ ३५.२७२॥

यवद्वयविशालेन परितः पट्टिका तथा ।
उत्सेधं तत्समं ज्ञेयं तद्बाह्येऽष्टदलं भवेत् ॥ ३५.२७३॥

ओष्ठन्तु परितः कुर्यात् कर्णिकोच्छ्रयमानतः ।
एवं कृत्वा मुनिश्रेष्ठ पूर्णचन्द्रसमप्रभम् ॥ ३५.२७४॥

युगाङ्गुलसमुत्सेधं दीपाधारं घटोपमम् ।
अश्विन्यङ्गुलमायामं घटवत्तस्य कोर्तितम् ॥ ३५.२७५॥

प्रोक्तं पक्षाङ्गुलं रन्ध्रं कर्णिकामध्यमं युतम् ।
दीपाधारमथाष्टाश्रं योजयेत्तु दलं प्रति ॥ ३५.२७६॥

रन्ध्राधारशताधारमेकाधारमथापि वा ।
मध्ये चैव महेशास्युर्दीपाधाराणि कल्पयेत् ॥ ३५.२७७॥

अग्न्यङ्गुलोच्चमानेन पृष्ठे पादं प्रकल्पयेत् ।
पात्रं नीराजनायेदं महाघण्टाविधिं श‍ृणु ॥ ३५.२७८॥

शुद्धकांस्येन कर्तव्यं विस्तारं पर्वताङ्गुलम् ।
सुषिरेण समायुक्तं चतुर्वर्णसमायुतम् ॥ ३५.२७९॥

तारार्धवर्धनं नाहं जिह्वारन्ध्राङ्गुलायतम् ।
शिखरं वलयोपेतं शेषं युक्त्या प्रकल्पयेत् ॥ ३५.२८०॥

महाघण्टाविधिः प्रोक्ता दर्पणस्य विधिं श‍ृणु ।
त्रिद्व्यङ्गुलप्रविस्तारं पूर्णचन्द्राकृतिर्भवेत् ॥ ३५.२८१॥

नालं वस्वङ्गुलं ज्ञेयं पादं वेदाङ्गुलं भवेत् ।
नानापट्टिकसंयुक्तं शुद्धकांस्येन कारयेत् ॥ ३५.२८२॥

एतद् विस्तारमुदितं विस्तारार्धेन वर्धयेत् ।
उत्तमं दर्पणस्यैवमर्धपञ्चाङ्गुलान्तकम् ॥ ३५.२८३॥

नवमानं प्रकर्तव्यमुत्तमादित्रयं त्रयम् ।
दर्पणस्य विधिः प्रोक्ता विश्वामित्र महामुने ॥ ३५.२८४॥

इति श्रीकुमारतन्त्रे करणलक्षणविधिर्नाम पञ्चत्रिंशः पटलः ।