३४ परिवारविधिः

परिवारविधिं वक्ष्ये श‍ृणु कौशिक सुव्रत ।
परिवारविमानानां मानं गर्भगृहार्धकम् ॥ ३४.१॥
[तत्त्रिभागे च मानं वा पादबाह्यं प्रकल्पयेत् ।
त्रिचतुःपञ्चषट्सप्तहस्तैर्वा हर्म्यविस्तरम् ॥]

तत्रभागः प्रकर्तव्यो यथा युक्तिवशाद्बुधैः । (सर्वैरङ्गैः प्रकर्तव्यः येथा)
प्रासादमण्डपसभा शालाकारार्धयोग्यकम् ॥ ३४.२॥

एकद्वित्रितलं कुर्यात् परिवारालये बुधः ।
परिवारामरोत्सेधाः प्रतिमालक्षणोक्तवत् ॥ ३४.३॥

सर्वलक्षणसंयुक्तं स्थानकासनमेव च ।
शिवं विष्णुं विधातारं विघ्नेशं गुहमेव च ॥ ३४.४॥

पञ्चमूर्तिं विजानीयादेवमेव विचक्षणः ।
एते सर्वे सुराः प्रोक्ताः सर्वकारणकारणम् ॥ ३४.५॥

विश्वरक्षकरा ह्येते तस्मात् सेव्या सुरोत्तमैः ।
एतस्मात् परिवारात्तु सर्वदेवसुरोत्तमाः ॥ ३४.६॥

अष्टौ तु द्वादश पुनः परिवारस्तु षोडश ।
द्वात्रिंशत्परिवारांश्च वक्ष्येऽहं श‍ृणु कौशिक ॥ ३४.७॥

गेहे नवपदं कृत्वा मध्यभागाद्बहिःक्रमात् ।
प्राङ्मुखे तु गजं स्थाप्य वह्नौ शास्तारमेव च ॥ ३४.८॥

यमे पितामहं सप्तमातरो निरृते पुनः ।
ज्येष्ठादेवीं जलेशे च वायौ दुर्गां प्रतिष्ठयेत् ॥ ३४.९॥

सोमे वै क्षेत्रकं प्रोक्तमैशान्यान्तु सुमित्रकम् ।
अष्टौ त परिवारास्स्युरथद्वादश कथ्यते ॥ ३४.१०॥

पञ्चपञ्चपदं कृत्वा मध्ये नवपदाद्बहिः ।
गजं विधिमगस्त्यं च नारदं च चतुर्दिशि ॥ ३४.११॥

पश्चात्सूर्यपदे वह्नौ यमे रक्षसि वारुणे ।
वायौ सौम्ये तथैशान्ये क्रमादेतान् प्रतिष्ठयेत् ॥ ३४.१२॥

सूर्यः शास्ता यमश्चैव मातरो वरुणस्तथा ।
दुर्गाश्रीदसुमित्राश्च द्वादशैते प्रकीर्तिताः ॥ ३४.१३॥

षट्कषट्कपदं कृत्वा तन्मध्ये षोडशाद्बहिः ।
गजं विधिमगस्त्यञ्च नारदञ्च चतुर्दिशि ॥ ३४.१४॥

ऐशे जयन्ते भानौ च वह्नौ च विदधे पदे ।
भृङ्गो रूपो नैरृते च शेषो वायुपदे पुनः ॥ ३४.१५॥

मुख्याश्चाभ्युदिते भागे सुमित्रं शशिभास्करौ ।
शास्तारञ्च महालक्ष्मीं भारतीं सप्तमातरम् ॥ ३४.१६॥

शुक्रं बृहस्पतिं दुर्गां दितिदेवीं तथादितिम् ।
स्थापयेत्क्रमशो विद्वानेते षोडशदेवताः ॥ ३४.१७॥

सप्तसप्तपदं कृत्वा मध्ये नवपदाद्बहिः ।
सावित्रेन्द्रजयेरुद्रजये चैवापवत्सकः ॥ ३४.१८॥

श्रियं भूमिं तथा ज्येष्ठां भारतीं च प्रतिष्ठयेत् ।
आर्ये च वास्त्वधिपते मित्रे चैव तु धारयेत् ॥ ३४.१९॥

गजेन्द्रं च विधातारमगस्त्यं नारदं मुनिम् ।
ईशे चैव तु पर्जन्ये महेन्द्रे भास्करे पदे ॥ ३४.२०॥

सौम्येऽन्तरिक्षे वह्नौ च पूष्णि पश्चाद् ग्रहक्षते ।
यमे गन्धर्वमृगये पितृदौवारिके पदे ॥ ३४.२१॥

पुष्पदन्तश्च वरुणे सुरे यक्षे समीरणे ।
नागे भल्लाटके सोमे दितिभागे तथा दितौ ॥ ३४.२२॥

पदेष्वेतेषु मतिमानीशानं चन्द्रमेव च ।
सुदेहञ्च सुरेशञ्च सुमुखञ्च दिवाकरम् ॥ ३४.२३॥

वह्निं बृहस्पतिं चैव शास्तारं यममेव च ।
भृङ्गिणं सप्तमातॄश्च निरृतिं वासुकिं तथा ॥ ३४.२४॥

अष्टवारं वारुणं च भृङ्गी दक्षप्रजापतिम् ।
वायुं दुर्गां वीरभद्रं धनदञ्च सुमित्रकम् ॥ ३४.२५॥

शुक्रं च स्थापयेदेतान् द्वात्रिंशत्परिवारकात् ।
त्रिप्रकारे तथा पञ्च प्राकारेऽप्येवमेव हि ॥ ३४.२६॥

पदमध्ययुतं कुड्यं यूतं वाऽथ प्रकल्पयेत् ।
यत्र द्वारन्तु चत्वारि विजानन्स्थापयेद्बुधः ॥ ३४.२७॥

ते हर्म्याभिमुखास्सर्वे स्थाप्या दन्तिपदेषु च ।
देवताभिमुखो दन्ति नवाभिमुख एव च ॥ ३४.२८॥

गजेन्द्रस्याग्रतः कुर्यात् प्रासादाप्रमाणतः ।
ध्वजस्थाने तदग्रे तु तन्नीत्वा शक्तिगेहकम् ॥ ३४.२९॥

देवताभिमुखां शक्तिं कल्पयेत्कल्पवित्तमः ।
एकद्वित्रिकरव्यामोत्सेधः स्याद्बलिपीठकम् ॥ ३४.३०॥

गोपुरात्तु बहिःपीठं प्रासादार्धेन भागकम् ।
तत्समं वा त्रिपादं वा बलिपीठं प्रकल्पयेत् ॥ ३४.३१॥

पीठोत्सेधे षोडशांशे जन्म एकेन कारयेत् ।
चतुरंशेन जगतीं कुमुदञ्च त्रिभागतः ॥ ३४.३२॥

तस्योर्ध्वे कम्बुमेकेन कुण्डं कुर्यात्त्रिभागतः ।
एकेन चोपकम्पन्तु महापट्टिद्विभागतः ॥ ३४.३३॥

ऊर्ध्वे वा जनमेकेन तुङ्गमेवमुदीरितम् ।
वाजनार्धविशालेन महापद्मविशालकम् ॥ ३४.३४॥

ऊर्ध्वपद्मं तदर्धेन तत्त्रिभागैकमानतः ।
कर्णिकां तस्य मध्ये तु कल्पयेत्कल्पवित्तमः ॥ ३४.३५॥

एते गजाथ सर्वेषां गोपुराभ्यन्तरेऽपि वा ।
बहिर्वा स्थापनीयास्ते मध्ये सूत्रस्य वामतः ॥ ३४.३६॥

पञ्चानामपि सालानामग्रे पैशाचपीठकम् ।
द्वारपालं ततो वक्ष्ये श‍ृणुष्व मुनिपुङ्गव ॥ ३४.३७॥

गुहस्य गर्भगेहस्य चतुर्दिक् द्वाररक्षकाः ।
जयाश्च विजया रक्षा कृपा सत्यविचक्षणाः ॥ ३४.३८॥

अभया कामरूपाश्च खड्गखेटकपाणयः ।
रक्तवर्णा विभूषाढ्या रक्तरूपापराधमाः ॥ ३४.३९॥

श्यामकुङ्कुमसङ्काशौ द्विभुजौ वा चतुर्भुजौ ।
वज्रशक्तिधरौ चैव गदायुधधरौ स्मृतौ ॥ ३४.४०॥

खड्गखेटकधारौ वा मुद्रा विस्मयसंयुताः ।
महामण्डपिकाद्वातर्स्थौ विजयो जय इत्यपि ॥ ३४.४१॥

वीरबाहुर्वीरसेनो वीरश्च वीरकञ्चुकः ।
वोरकेतुर्महावीरो वीरमौलिश्च वीर्यवान् ॥ ३४.४२॥

इमे प्रथमसालस्य पूर्वादिद्वारपालकाः ।
पद्मश्चैव महापद्मः सुपद्मः पद्मलोचनः ॥ ३४.४३॥

पद्मगः पद्मकेतुश्च पद्माभः पद्मवर्णकः ।
अन्तर्द्वारे चतुर्दिक्षु द्वारपालाष्टका इमे ॥ ३४.४४॥

निकुम्भः कुम्भकर्णश्च कुम्भः कुम्भोदरस्तथा ।
कुम्भनासा कुम्भपृष्ठः कुम्भास्यः कुम्भगण्डकः ॥ ३४.४५॥

मध्यद्वारचतुर्दिक्ष द्वारपालाष्टका इमे ।
वक्रदन्तो वक्रदृष्टिर्वक्राङ्गो वक्रवर्णकः ॥ ३४.४६॥

वक्रनासो वक्रकर्णो वक्रास्यो वक्रशीर्षकः ।
महामध्यादिपूर्वादि द्वारेषु द्वारपालकाः ॥ ३४.४७॥

शक्तिवज्रधरास्सर्वे सर्वाभरणभूषिताः ।
श्यामकुङ्कुमसङ्काशा पीतकृष्णा भयङ्कराः ॥ ३४.४८॥

द्विभुजौ वा चतुर्बहुः सर्वे खेटकधारिणः ।
मुद्रा विस्मयहस्ताश्च तुङ्गाश्च विकृताननाः ॥ ३४.४९॥

एते सर्वे महाभागाः कुमारगणदेवताः ।
यत्र देवस्य तु मुखं तत्र बुध्वा समर्चयेत् ॥ ३४.५०॥

परिवारदेवता एते विश्वामित्र महामुने ।
अहं चोमा च शास्ता च वात्सल्यत्वान्महामुने ॥ ३४.५१॥

कुमारो यत्र वसति वसामस्तत्र नित्यशः ।
तस्मात्सर्वान् प्रतिष्ठाप्य पूजयेत् षण्मुखालये ।
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ ३४.५२॥

इति श्रीकुमारतन्त्रे परिवारविधिर्नाम चतुस्त्रिंशः पटलः ।