परिवारनिवेशारर्थं रक्षार्थं शोभनार्थकम् ।
प्राकारं परितः कृत्वा शिल्पेष्टिकयापि वा ॥ ३३.१॥ (परितः कुर्यात्)
मूलप्रासादविस्तारं तदर्धं वा विचक्षणः ।
दण्डमित्यत्र सङ्कल्प्य तद्दण्डेनैव कल्पयेत् ॥ ३३.२॥
मूलप्रासादपार्श्वे तु दण्डेनैकेन मानतः ।
अन्तर्निर्मलं कुर्यात् पार्श्वेषु च महामतिः ॥ ३३.३॥
द्विद्विदण्डविवृध्या तु दण्डभारस्य विस्तृतम् ।
तत्पार्श्वेषु त्रिदण्डेन प्रत्याहारं प्रकल्पयेत् ॥ ३३.४॥
तस्य पार्श्वेषु मतिमान् चतुर्दण्डेन मानतः ।
महामर्यादिकं कुर्यात् तत्पार्श्वेषु द्विजोत्तम ॥ ३३.५॥
पञ्चदण्डविवृद्ध्या तु पञ्चप्राकारमुच्यते ।
चतुरश्रकमेकेन मुखायाम प्रचक्षते ॥ ३३.६॥
पादाधिक्यमथात्यर्थपादोनद्विगुणन्तु वा ।
द्विगुणं द्विगुणार्धं वा त्रिगुणं वा चतुर्गुणम् ॥ ३३.७॥
मुखायाममिति प्रोक्तं प्राकाराणां विशेषतः ।
सालं क्षुद्राल्पहर्म्याणामन्यमानेन कथ्यते ॥ ३३.८॥
स्तूप्या सार्धं प्रमाणेन प्रथमं सालमीरितम् ।
द्विप्रकारं द्विहस्तैश्च त्रिसालः पञ्चहस्तकः ॥ ३३.९॥
तस्मात्सप्तकरैरेव चतुर्थं सालमीरितम् ।
नवहस्तन्तु परितः तत्समं पञ्चसालकः ॥ ३३.१०॥
मध्यमानं सतारार्थं प्रथमं सालमीरितम् ।
तस्मात्पञ्चकरैरेव द्वितीयं सालमीरितम् ॥ ३३.११॥
सप्तहस्तं त्रितालं स्यात् नवहस्तैश्चतुर्थकम् ।
रुद्रहस्तेन कर्तव्यं पञ्चमं सालमेव च ॥ ३३.१२॥
उत्तमानां सताराख्ये प्रथमं सालमीरितम् ।
तस्मात्सर्वकरेणैव प्राकारञ्च द्वितीयकम् ॥ ३३.१३॥
नवहस्तैस्त्रितालं स्यात् रुद्रहस्तैस्तु तालकम् ।
त्रयोदशकरेणैव पञ्चमं सालमीरितम् ॥ ३३.१४॥
एवं क्षुदाल्पमध्यानामुत्तमानां विधीयते ।
एतेन द्विप्रकर्तव्यं पूर्वोक्तेन क्रमेण वा ॥ ३३.१५॥
प्राकारः परितः कुर्यात् मुखायामञ्च पूर्वकम् ।
भित्यन्तरस्य मानेन भित्तिमध्येन वा पुनः ॥ ३३.१६॥
बाह्ये तु नवतालं स्यात् मानसे मानवित्तमः ।
अस्य प्राकारभित्तेश्च विष्कम्भं सार्धहस्तकम् ॥ ३३.१७॥
तस्मात् त्रयाङ्गुलाधिक्याद्द्विहस्ताञ्च यथाक्रमम् ।
पञ्चानामपि सालानां भित्तिविष्कम्भमीरितम् ॥ ३३.१८॥
तत्तद्विष्कम्भमानञ्च त्रिगुणा च चतुर्गुणा ।
प्राकारोदयमुद्दिष्टं स्वात्मांशेनाग्रविस्तरम् ॥ ३३.१९॥
उत्तरार्धोच्छ्रितं वाऽपि कुम्भमध्यं ततोच्छ्रितम् ।
क्षुद्राल्पानां तु सालानां भित्तिहस्तप्रमाणकम् ॥ ३३.२०॥
सार्धहस्तावधिर्यावत् वर्धयेत्पूर्ववत्क्रमात् ।
यथायोग्यमलङ्कारं तथैव परिकल्पयेत् ॥ ३३.२१॥
ऋजुभित्तियुतं वाऽपि बुद्बुदार्धेन्दुशीर्षकम् ।
छत्राकारधरो वाऽपि प्राकारं परिकल्पयेत् ॥ ३३.२२॥
भित्तिन्याससमं वाऽपि पादार्धाधिकमेव वा ।
शीर्षोत्तुङ्गन्तु सालानामेतेषामन्तरालकम् ॥ ३३.२३॥
एकद्वित्रितलैर्युक्तं कुर्यादावृतिमण्डपम् ।
मानान्तं बाह्यभित्युच्चं यथाक्रमं तलान्तकम् ॥ ३३.२४॥
मूलसद्मोत्तरार्धं वा प्रस्तारं तत्तथापि वा ।
खण्डहर्म्योत्तरार्धं वा शिखरोन्नतमेव वा ॥ ३३.२५॥
उभयोः सालरूपं वा कल्पयेत्सालशीर्षके ।
यथेष्टदिक्षु सालेषु द्वारं युक्त्या प्रकल्पयेत् ॥ ३३.२६॥
गोपुरं तत्र तत्रैव कल्पयेद्विधिपूर्वकम् ।
अन्तर्हारे तथाचान्ये वह्नौ स्याद्धव्यकोष्ठकम् ॥ ३३.२७॥
प्रासादस्य द्विपार्श्वे तु देवसेना च वल्लिकम् ।
वह्निगोपुरयोर्मध्ये धनधान्यालयं भवेत् ॥ ३३.२८॥
याम्ये तुजिनशाला च पुष्पमण्डपमेव च ।
नैरृत्यामस्त्रशाला च वाहनावासमेव च ॥ ३३.२९॥
वारुणे वायवे चैव शयनस्थानमीरितम् ।
आस्थानमण्डपं सौम्ये तत्र पूर्वकृतालयम् ॥ ३३.३०॥
ऐशान्ये यागशालां तु वापीकूपं तु तत्र वै ।
ऐशगोपुरयोर्मध्ये वाद्यस्थानं द्विजोत्तम ॥ ३३.३१॥
एवं यः कुरुते मर्त्यः सर्वपापैः प्रमुच्यते ।
अथैवं तारयेत्पूर्वान् त्रिसप्तकुलजानपि ॥ ३३.३२॥
सर्वान्कामानिह प्राप्य पुत्रपौत्रादिसंयुतः ।
जन्मैकविंशतिं विप्र साम्राज्यं समवाप्नुयात् ।
स्कन्दलोकं ततः प्राप्य स्कन्देन सह मादते ॥ ३३.३३॥
इति श्रीकुमारतन्त्रे प्राकारलक्षणविधिर्नाम त्रयस्त्रिंशः पटलः ।