३२ मूर्ध्नेष्टिकाविधिः

श‍ृणुष्व मुनिशार्दूल वक्ष्ये मूर्ध्नेष्टिकाविधिम् ।
प्रासादमूर्ध्ना विधिना प्राप्य मूलेष्टकाः शुभाः ॥ ३२.१॥

इष्टकास्ताश्चतस्रः स्युस्तासां लक्षणमुच्यते ।
शिलागृहे शिलारूपा इष्टका इष्टकागृहे ॥ ३२.२॥

इष्टकाभिश्च भूमिश्रे षोडशाङ्गुलमायता ।
तदूर्ध्वे तारसंयुक्ता तस्यार्धघनसंयुता ॥ ३२.३॥

इष्टकायाममध्ये वा षोडशाङ्गुलविस्तृताः ।
तदर्धघनसंयुक्ता द्वयार्धार्धाङ्गुलक्षया ॥ ३२.४॥

कालमित्रे प्रधानादि ज्ञात्वा तु ग्रहमूलकम् ।
स्तूपिदण्डेन संयुक्तं कुर्यान्मूर्ध्नेष्टकास्तथा ॥ ३२.५॥

स्तूपिदण्डोचिता वृक्षा खदिरासनशिशुपाः ।
सालचन्दनवृक्षाश्च तिन्त्रिणीसारमेव च ॥ ३२.६॥

प्रासादपादतुल्यं वा तद्विष्कम्पसमं तु वा ।
तद्वत्तुङ्गगुणांशैकमूले तु चतुरश्रकम् ॥ ३२.७॥

तदूर्ध्वांशद्वयं वृत्तं कुर्यादनुकृशं यथा ।
अग्रे व्योमाङ्गुलानाह मेयं कृत्वा तदर्धकम् ॥ ३२.८॥

ततः पादं प्रयुञ्जीत तत्तले त्रिगुणायतम् ।
विस्तारार्धघनोपेतं तद्दृढं सुदृढं तथा ॥ ३२.९॥

लोहेन कारयेद्विद्वान् स्थूपिदण्डं विशेषतः ।
क्षालयित्वाम्भसा सम्यक् प्रोक्षयेदस्त्रमन्त्रतः ॥ ३२.१०॥

यकारादिवकारान्तमिष्टकासु चतुर्ष्वपि ।
विलिखेद्धातुरागेण पिष्टनैव सितेन वा ॥ ३२.११॥

पुण्याहं वाचयित्वाथ कौतुकं बन्धयेत्सुधीः ।
सुवर्णं रजतं वाऽपि क्षौमं कार्पासकन्तु वा ॥ ३२.१२॥

मण्डपं चाधिवासार्थं कारयेल्लक्षणान्वितम् ।
कृत्वा नवपदं तत्र तन्मध्ये वेदिकायुतम् ॥ ३२.१३॥

तालमात्रसमुत्सधात् दर्पणोदरसन्निभम् ।
वेदिकायाश्चतुर्दिक्षु कुण्डे वा स्थण्डिलेऽपि वा ॥ ३२.१४॥

चतुरश्राणि कुण्डानि सर्वाणि परिकल्पयेत् ।
चतुरर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ ३२.१५॥

आशाध्वजसमायुक्तं वितानैरुपशोभितम् ।
दर्भमालासमायुक्तमष्टमङ्गलसंयुतम् ॥ ३२.१६॥

मङ्गलाङ्कुरसंयुक्तं बहूपस्कारशोभितम् ।
गोमयालेपनं कृत्वा पुण्याहं वाचयेत्ततः ॥ ३२.१७॥

वास्तुहोमं प्रकुर्वीत पर्यग्निकरणं ततः ।
तन्मध्ये स्थण्डिलं कृत्वा श्वेततण्डुलशालिभिः ॥ ३२.१८॥

पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ।
इष्टिकां विन्यसेन्मध्ये वस्त्रेणाच्छाद्य देशिकः ॥ ३२.१९॥

दण्डोर्ध्वे कूर्चमाबध्वा मूले वस्त्रेण वेष्टयेत् ।
इष्टिकां परिविन्यस्य कान्तेन मधुनार्चयेत् ॥ ३२.२०॥

स्थापयेच्च ततः कुम्भान् सर्वलक्षणसंयुतान् ।
ससूत्रान् सापिधानांश्च सवस्त्रान्वारिपूरितान् ॥ ३२.२१॥

मध्यादीशानपर्यन्तं विन्यसेन्नवकुम्भकान् ।
तेषु मध्ये गुहं चेष्ट्वा दिक्पालान्परितो यजेत् ॥ ३२.२२॥

अग्निकार्योक्तमार्गेण होमं कृत्वा विचक्षणः ।
पुरुषं पूर्वकुण्डे च दक्षिणेऽघोरमेव च ॥ ३२.२३॥

सद्योजातं तु वरुणे वामदेवं तथोत्तरे ।
गन्धाद्यैरर्चयेद्धीमान् तत्तन्मन्त्रमनुस्मरन् ॥ ३२.२४॥

पलाशखादिराश्वत्थवटाः पूर्वादिदिक्षु च ।
समिदाज्यचरूंश्चैव लाजसक्तुतिलं तथा ॥ ३२.२५॥

दधिक्षीरगुलं चैव प्रत्येकन्तु शताहुतिः ।
मूलेन च षडङ्गेन स्कन्दगायत्रिमन्त्रतः ॥ ३२.२६॥

अयं कुमारमन्त्रेण होमयेन्मुनिपुङ्गव ।
द्रव्यान्ते कीलकं स्पृष्ट्वा व्याहृतिर्जुहुयात्ततः ॥ ३२.२७॥

आज्येनाघोरमन्त्रेण सर्वत्रापि शताहुतिः ।
ततः कुम्भस्थितानां तु प्रत्येकं षोडशाहुतिः ॥ ३२.२८॥

रात्रिशेषं व्यपोह्याथ गुरुः प्रातः समुत्थितः ।
कृतनित्यविधिस्तत्र सोष्णीषस्सोत्तरीयकः ॥ ३२.२९॥

कुम्भानभ्यर्च्य विधिना पूर्णान्तु शिरसा हुनेत् ।
सुमुहूर्ते सुलग्ने तु सर्वदोषविवर्जिते ॥ ३२.३०॥

पूजितो यजमानेन गोभूमिधनकाञ्चनैः ।
सन्तुष्टहोतृदैवज्ञशिल्पिभिः सह देशिकः ॥ ३२.३१॥

उत्थाप्य चेष्टिकां कीलं यजमानादिभिः सुधीः ।
सर्वातोद्यसमायुक्तं कृत्वा धामप्रदक्षिणम् ॥ ३२.३२॥

आरोप्योपरि तन्मूर्ध्नि रन्ध्रं निरन्ध्रकं तथा ।
वैडूर्यं स्फटिकं मुक्ता वज्रं वै पुष्परागकम् ॥ ३२.३३॥

मध्यादीशानपर्यन्तं स्कन्दलोकेशबीजकम् ।
विन्यस्यैव शकुन्यादिनवशक्तिर्यजेद्बुधः ॥ ३२.३४॥

तस्योर्ध्वे कीलकं न्यस्त्वा शिखरार्धप्रमाणकम् ।
तन्मन्त्रकं समुच्चार्य दत्वा दत्वा तु निश्चलम् ॥ ३२.३५॥

स्थापितान् नवकुम्भांश्च समानीय यथाक्रमम् ।
तत्कीलपरितश्चापि प्रोक्षयेत्सर्वमन्त्रतः ॥ ३२.३६॥

स्तूप्यंशमूर्ध्वतः कृत्वा शेषं तत्र प्रयोजयेत् ।
एवं यः कुरुते मर्त्यः सर्वलोकानवाप्य च ।
देहान्ते गणपो भूत्वा स्कन्दलोके महीयते ॥ ३२.३७॥

इति श्रीकुमारतन्त्रे मूर्ध्नेष्टिकाविधिर्नाम द्वात्रिंशः पटलः ।