३१ प्रासादलक्षणविधिः

अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् ।
हस्तमानेन कर्तव्यं प्रासादं मुनिपुङ्गव ॥ ३१.१॥

मानमात्राङ्गुलं मूलं बेराङ्गुलमिति त्रिधा ।
तेषु मानाङ्गुलं ग्राह्यं ग्रस्ते हस्तं वदाम्यहम् ॥ ३१.२॥

किष्कुहस्त इति प्रोक्तं तच्चतुर्विंशमङ्गुलम् ।
प्राजापत्यं पञ्चविंशदङ्गुलं परिकीर्तितम् ॥ ३१.३॥

षड्विंशतिधनुर्मुक्तिः सप्तविंशद्धनुर्ग्रहम् ।
चतुर्विंशेषु हस्तेषु प्राजापत्येन हस्ततः ॥ ३१.४॥

देवतायतनं कार्यं वास्तुशास्त्रविशारदैः ।
द्विहस्ताद्दशहस्तान्तं भवत्येकतलस्य तु ॥ ३१.५॥

भूतादिमनुहस्तान्तं द्वितलस्य विशालतः ।
त्रितलं सप्तहस्तादि षोडशान्तं प्रकीर्तितम् ॥ ३१.६॥

तथैवं मुनिशार्दूल त्रयोदशकरादि च ।
द्वाविंशद्धस्तपर्यन्तं चतुर्भूमेरुदाहृतम् ॥ ३१.७॥

पञ्चदशकरायामहीनं क्षुद्रविमानकम् । (पञ्चाशत्करायामहीनं)
तेषां तुङ्गं प्रवक्ष्यामि श‍ृणु कौशिक सुव्रत ॥ ३१.८॥

व्यासे सप्तकृतम्पङ्क्तितुङ्गनाम्ना तु शान्तिकम् ।
अत्यर्थं पौष्टिकं ज्ञेयं पञ्चमेऽष्टौ जयप्रदम् ॥ ३१.९॥

अद्भुतं सतिपातञ्च द्विगुणं सर्वकामिकम् ।
द्विगुणादधिकं पादे अर्धोच्चं सर्वकामिकम् ॥ ३१.१०॥

सप्तपाद्यष्टपङ्क्त्यादि यावत्सप्त तु हस्ततः ।
द्विद्विहस्तविवृद्ध्यादि सप्तविंशतिभेदकम् ॥ ३१.११॥

वेदादिद्वादशान्तानां तालानां धामविस्तृतम् । (देवादिद्वादशान्तानां)
प्रत्येकं त्रित्रिमानं स्यादुत्तमाद्युत्तमक्रमैः ॥ ३१.१२॥

त्रयोविंशश्चतुर्विशकराच्छक्तिकरान्तकम् ।
त्रित्रिहस्तविवृद्ध्या तु सप्तविंशतिहस्तकम् ॥ ३१.१३॥

तेषां ग्रहाणामुत्तुङ्गमुत्तमाद्युत्तमक्रमैः ।
त्रयोदशचतुष्पङ्क्तिहस्तं षट्षष्टिकावधि ॥ ३१.१४॥

द्विद्विहस्तविवृद्ध्या तु सप्तविंशत्प्रमाणकम् ।
देवादिद्वादशान्तानां तालानां हर्म्यविस्तृतम् ॥ ३१.१५॥

सप्तदशाष्टपङ्क्त्यादि षण्णवत्यन्तहस्तकम् ।
त्रित्रिहस्तविवृद्ध्या तु त्रिनवोत्तुङ्गमीरितम् ॥ ३१.१६॥

मध्यक्रमे विमानानामुत्तमादित्रयस्त्रयः ।
इदं पङ्क्तिसमारभ्य द्विद्विहस्तविवर्धनात् ॥ ३१.१७॥

षट्पञ्चाशतिहस्तान्तं चतुर्विंशत्प्रमाणकम् ।
भूतादिद्वादशान्तानां तालानां हर्म्यविस्तरम् ॥ ३१.१८॥

सप्तदशाष्टपङ्क्त्यादि सप्ताशीतिकरान्तकम् ।
त्रित्रिहस्तविवृद्ध्या तु चतुर्विंशतितुङ्गकम् ॥ ३१.१९॥

अल्पक्रमे विमानान्तमुत्तमादित्रयं त्रयम् ।
विस्तारं स्तम्भतो बाह्ये जन्मात् स्तूप्यन्तनुत्तमम् ॥ ३१.२०॥

अथवा शिखरान्तं वा विमानानां समुन्नतिम् ।
सप्तत्या हस्तविस्तारात् शतहस्तसनुच्छ्रयात् ॥ ३१.२१॥

विनष्टत्वंशकं मानं सर्वथापि च वर्जयेत् ।
तेषु तेष्वष्टमानेन गर्भगेहं प्रशस्यते ॥ ३१.२२॥

व्यासायामं समूहेषु वल्मशुद्ध समीक्षते ।
वसुद्वाराग्निभिर्हित्वा रविपङ्क्त्याष्टभिर्भवेत् ॥ ३१.२३॥

आयव्ययञ्च योनिस्स्याद् वसुभिर्गुणिते पुनः ।
हृत्वा च सप्तविंशद्भिः शेषमक्षफल पुनः ॥ ३१.२४॥

नाभेः सप्तहृतं पारं त्रिंशद्व्याप्ते तिथिर्वदेत् ।
आयाधिकं शुभैर्युक्तं कल्पयेत्कल्पवित्तमः ॥ ३१.२५॥

वेश्मतारे त्रिभागैकं पञ्चभागे गुणांशकम् ।
सप्तभागे चतुर्थांशं नवांशे पञ्चभागकम् ॥ ३१.२६॥

रुद्रांशे सप्तभागञ्च त्रयोदशसु सप्त च ।
पक्षपक्षसु भागञ्च सप्तदर्शनधावकम् ॥ ३१.२७॥ (भागञ्च दशविभागकं)

गेहार्धं गर्भगेहस्य उक्तं मध्यविशालकम् ।
गर्भगेहचतुर्थांशं मध्ये द्वारविशालकम् ॥ ३१.२८॥

विस्तारद्विगुणोत्सेधं यथेष्टं दिशि कल्पयेत् ।
अग्रतो मण्डपं कुर्यात् गर्भगेहसमेन वा ॥ ३१.२९॥

त्रिपादं वा तदर्धं वा तदेव ह्यर्धमण्डपम् ।
त्रिपादेपादमध्येऽर्धं त्वन्तरालं विधीयते ॥ ३१.३०॥

महामण्डपमेतेषां समायामं तदग्रतः ।
चतुर्थञ्चाथ हीनं वा महामण्डपविस्तृतम् ॥ ३१.३१॥

द्वारोत्सेधार्धविस्तारमुत्तमद्वारमुच्यते ।
तदुत्सेधगुणांशैकं हीनं मध्यममुच्यते ॥ ३१.३२॥

अधमं द्वादशं हीनं स्याच्छिखागतविस्तरम् ।
ऊर्ध्वोदुम्बरमध्ये तु वामपार्श्वे च दक्षिणे ॥ ३१.३३॥

श्रियं सरस्वतीं चैव विघ्नेशं कारयेद् बुधः ।
पार्श्वेषु द्वारदेशेषु द्वारपालौ प्रतिष्ठयेत् ॥ ३१.३४॥

प्रासादभित्तिकोष्ठेषु दक्षिणोदङ्प्रतीचिषु ।
सुब्रह्मण्यं गुहं चैव पश्चिमे स्कन्दसंस्थितम् ॥ ३१.३५॥

स्कन्दस्य मण्डपे पार्श्वे दक्षिणे तु विनायकम् ।
दुर्गां चैवोत्तरे भागे स्थानकासनमेव वा ॥ ३१.३६॥

आसमन्तात्तथोपेतं रूपाण्यपि विधीयते ।
एवं मूलतले प्रोक्तमुपर्युपरि वक्ष्यते ॥ ३१.३७॥

पुरन्दरं न्यसेत्पार्श्वे सुब्रह्मण्यञ्च दक्षिणे ।
पश्चिमे वरुणञ्चापि स्कन्दं वा विन्यसेद् बुधः ॥ ३१.३८॥

उत्तरे तु विधातारं गुहं वा धनदन्तु वा ।
एवं दीर्घतलं पार्श्वे पङ्क्तितले मरुद्गणान् ॥ ३१.३९॥

तलेऽमराः सुरान् सिद्धान् गन्धर्वादिमुनीश्वरान् ।
ग्रीवाधस्ताद् वृतेरूर्ध्वे कोणे कोणेऽपि विन्यसेत् ॥ ३१.४०॥

नागरं द्राविडं चैव वेसरञ्च कृतामतम् ।
चतुरश्रं साधनाश्रं नागराद्यङ्गमेव च ॥ ३१.४१॥

अष्टाश्रञ्च षडश्रञ्च तदायामयुतन्तु वा ।
द्राविडं व्योमनिर्दिष्टमधिवेसरमुच्यते ॥ ३१.४२॥

एकञ्च द्वेकनेत्रैकं तत्तन्मूलार्धकन्धरम् ।
प्रस्तरं पादशिष्टानामेकभूतिवितानकम् ॥ ३१.४३॥

त्रिषुवत्पञ्चचैकद्वे वेदानर्धैकभागतः ।
अधिष्ठानाङ्घ्रिमञ्चाङ्घ्रिप्रस्तरं वेदिकागलम् ॥ ३१.४४॥

शिखरं स्तूपिका कुर्यात् भागमंशे द्विभूमिकम् ।
महर्षे भवने तुङ्गे चतुर्विंशतिभाजिते ॥ ३१.४५॥

द्वयवेदिद्विभागैश्च पादोनञ्चतुरश्रतः ।
एकार्धं चैकभागैकं सैकभागार्धभागेकम् ॥ ३१.४६॥

एकं द्व्यर्धैकभागैश्च पादाधारञ्च पादकम् ।
प्रस्तारं त्रिप्रस्तरञ्च पादप्रस्तरवेदिकम् ॥ ३१.४७॥

गलञ्च शिखरं कुम्भं त्रितले तु यथा क्रमम् ।
एकद्वित्रिचतु पञ्चषट्पङ्क्ते तु तले मतम् ॥ ३१.४८॥

भूतषट् सप्तभित्तिश्च द्वितले कल्पयेद् बुधः ।
द्वितले सप्तदिग्द्वारदशाङ्गैः कुम्भभित्तयः ॥ ३१.४९॥

एवं भित्तिविधं प्रोक्तं युक्त्या युञ्जीतः बुद्धिमान् ।
उपपीठादि वर्गाणामलङ्काराणि यानि च ॥ ३१.५०॥

विस्तारञ्च पुरा विप्र मया च कथितं तव ।
तन्मार्गेण प्रकर्तव्यं सर्वलक्षणसंयुतम् ॥ ३१.५१॥

अधिष्ठानादिवर्गाढ्यं शिलाकूटादिशोभितम् ।
क्षुद्रनाडी महानाडी हंसमालाविमण्डितम् ॥ ३१.५२॥

सर्वालङ्कारसंयुक्तं यथोक्ताप्रतिमैर्युतम् ।
अलङ्कारैश्च नामानि वक्ष्येऽहं वैजयन्तिकम् ॥ ३१.५३॥

श्रीभोगं श्रीविशालञ्च स्वस्तिबन्धन्तथैव च ।
श्रीकरं हस्तिपृष्ठञ्च स्कन्दकूटञ्च केसरम् ॥ ३१.५४॥

एवमेव तले नाम द्वितले नाम वक्ष्यते ।
स्वस्तिकञ्चातिसौन्दर्यं कैलासं पर्वतन्तथा ॥ ३१.५५॥

स्वस्तिबन्धञ्च कल्याणं पञ्चाधं विष्णुकान्तकम् ।
सुमङ्गलञ्च गम्यारं हस्तपृष्ठं मनोहरम् ॥ ३१.५६॥

तथैवेश्वरकान्तञ्च वृत्तकौबेरकान्तकम् ।
द्वितलं पक्षनामानि एतानि बहुभूमिषु ॥ ३१.५७॥

एतेष्वष्टौ यथायोग्यं प्रासादं कल्पयेद् बुधः ।
सुस्निग्धं सुदृढं कुर्यात् वित्तशाठयं न कारयेत् ॥ ३१.५८॥

एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ।
असौ तु कुरुते पूर्वान् त्रिसप्तकुलजान् ध्रुवम् ॥ ३१.५९॥

सर्वान्कामानिह प्राप्य युगानामेकसप्ततिः ।
मोदते चाप्सरगणैर्विमाने सर्वकामिके ॥ ३१.६०॥

पुण्यभूमिं ततः प्राप्य पुत्रपौत्रविवर्धनम् ।
एकविंशत्कुलं विप्र साम्राज्यं समवाप्नुयात् ॥ ३१.६१॥

इति श्रीकुमारतन्त्रे प्रासादलक्षणविधिर्नाम एकत्रिंशः पटलः ।