३० आद्येष्टकाविधिः

आद्येष्टकाविधिं वक्ष्ये श‍ृणु कौशिक सुव्रत ।
गर्भोपरि निधायात्राऽवटे प्रथमेष्टकाम् ॥ ३०.१॥

गर्भाधस्तात्तु वा स्थाप्य श्वभ्रे पञ्चद्वयांशके ।
यद्यत्स्थानन्तु गर्भस्य तत्रस्था प्रथमेष्टका ॥ ३०.२॥

मुद्गञ्च धान्यलोहैश्च धातुरत्नौषधादिभिः ।
गन्धैश्च विविधैर्बीजैर्विन्यसेत्प्रथमेष्टकाम् ॥ ३०.३॥

शिलामया शिलागेहे इष्टका त्विष्टकागृहे ।
गर्भभाजनभूस्तारा विस्तारद्विगुणा मता ॥ ३०.४॥

विस्तारार्धघनामासत् हर्म्येषु चतुरिष्टका ।
अष्टौ च द्वादशस्थाप्य मध्यमेऽप्युत्तरे गृहे ॥ ३०.५॥

ऋजुदीर्घाङ्गुलन्यासं द्विसङ्ख्यानसि विन्यसेत् ।
असमाङ्गुलरेखावत् पद्मरेखा नपुंसकम् ॥ ३०.६॥

ऋता तत्र यथापूर्वं तथैव स्थापनेष्टकाम् ।
सर्वलक्षणसंयुक्तां रक्तवर्णा ततः शुभाम् ॥ ३०.७॥

इष्टकां क्षालयेदद्भिः प्रोक्षयेदस्त्रमन्त्रतः ।
मण्डपे स्थण्डिलं कल्प्य तिलतण्डुलशालिभिः ॥ ३०.८॥

तन्मध्ये पद्ममालिख्य न्यसेत्तस्योपरीष्टकाम् ।
यकारादिवकारान्तं प्रणवेन समन्विताम् ॥ ३०.९॥

शालिपिष्टरसेनैव लिखित्वाच्छाद्य वस्त्रतः ।
गन्धपुष्पादिनाभ्यर्च्य मूलमन्त्रेण देशिकः ॥ ३०.१०॥

कुण्डे वा स्थण्डिले वाऽपि होमयेन्मुनिपुङ्गव ।
स्विष्टकृत्त्स्विष्टमग्नेति पूर्वान्तु शिरसा हुनेत् ॥ ३०.११॥

प्रभाते स्थापयेद्विद्वान् गर्भोर्ध्वे प्रथमेष्टकाम् ।
दक्षिणायनकाले तु सुमुहूर्ते सुलग्नके ॥ ३०.१२॥

वह्निराक्षसवाय्वीशकोणेषु चतुरिष्टकाम् ।
क्रमशः स्थापयेद्विद्वान्सर्वकामार्थसिद्धये ॥ ३०.१३॥

आलस्येनाथ मोहेन कुर्याच्चेत्तु गृहादिकाम् ।
आद्येष्टकां विना विप्र दारिद्रं तत्र तिष्ठति ।
तस्मात्सर्वप्रयत्नेन कर्तव्या प्रथमेष्टका ॥ ३०.१४॥

इति श्रीकुमारतन्त्रे आद्येष्टकाविधिर्नाम त्रिंशः पटलः ।