गर्भन्यासविधिं वक्ष्ये शृणुष्व मुनिपुङ्गव ।
प्रासादे मण्डपे चैव प्राकारे गोपुरे तथा ॥ २९.१॥
परिवारालये शस्तं विन्यसेत्सपदे सुधीः ।
सर्वत्राद्येष्टकामेव गर्भन्यासमिति स्मृतम् ॥ २९.२॥
प्रासादे पादुकोर्ध्वे च पट्टिकोपरि विन्यसेत् ।
मण्डपेषु च सर्वेषु दक्षिणे स्तम्भमूलके ॥ २९.३॥
द्वारदक्षिणभित्तौ वा दक्षिणस्तम्भमूलके ।
सभायामं विशालाय दक्षिणस्तम्भमूलके ॥ २९.४॥
यद्वास्तु गर्भसंयुक्तं वस्तु तत्सम्पदं पदम् ।
तदर्धभाजनं कार्यं सर्वलक्षणसंयुतम् ॥ २९.५॥
सौवर्णं राजतं ताम्रं कांस्यं वा गर्भभाजनम् ।
पदासमन्तु विस्तारं भाजनस्य महामुने ॥ २९.६॥
षट्सप्ताष्टाङ्गुला वाऽपि हीनं मध्यममुत्तमम् ।
चतुर्वणं समं कुर्यात् विस्तारेण समोपमम् ॥ २९.७॥
चतुर्भागैकहीनं वा त्रिभागैकविहीनकम् ।
तत्तदग्न्यंशमानेन पिधानं तम्य कारयेत् ॥ २९.८॥
यवमात्रन्तु विस्तारं तयोर्भित्ति समम्भवेत् ।
पञ्चविंशतिकोष्ठं वा नवकोष्ठयुतन्तु वा ॥ २९.९॥
कोष्ठभित्तिसमुत्सेधं बाह्यात्पादविहीनकम् ।
तद्विस्तारं तदर्धं स्यात्सर्वदोषविवर्जितम् ॥ २९.१०॥
गर्भमस्त्रेण सङ्क्षाल्य हृदाभ्युक्ष्य च तत्सुधीः ।
प्रासादाग्रे द्विपार्श्वे च मण्डपं कल्प्य भूषयेत् ॥ २९.११॥
भूतषट्कं मुनिश्रेष्ठ कन्यसादि क्रमेण तु ।
तन्मध्ये वेदिकां कुर्यात् रत्निमात्रसमुच्छ्रयाम् ॥ २९.१२॥
चतुर्दिक्षु च कुण्डानि चतुरश्राणि कल्पयेत् ।
स्थण्डिलं वाऽपि सर्वत्र कल्पयेत्कल्पवितमः ॥ २९.१३॥
वेद्यूर्ध्वे स्थण्डिलं कुर्यात्तिलतण्डुलशालिभिः ।
तत्र पद्मं समालिख्य साष्टपत्रं सकर्णिकम् ॥ २९.१४॥
विन्यसेद्धृदयेनैव तन्मध्ये गर्भभाजनम् ।
तेषु कोणेषु सर्वेषु मध्ये कूटाक्षरं न्यसेत् ॥ २९.१५॥
यकारादिहकारान्तं परितोऽष्टासु विन्यसेत् ।
तद्बाह्यकोष्ठे पूर्वादि विन्यसेत् षोडशस्वरान् ॥ २९.१६॥
माणिक्कं स्यान्मरकतं नीले स्फटिकमेव च ।
पूर्वादिषु चतुर्दिक्षु वैडूर्यं मौक्तिकं पुनः ॥ २९.१७॥
पुष्परागं प्रवालञ्च वह्निकोणादिषु न्यसेत् ।
पारदं धातुरागञ्च गैरिकञ्च मनः शिलाम् ॥ २९.१८॥
अञ्जनं हरितालञ्च माक्षिकञ्चाद्भुतं तथा ।
सौराष्ट्रं विन्यसेत्तेषां पूर्वादिषु गुरूत्तमः ॥ २९.१९॥
काञ्चनं रजतं ताम्रमारकूटमपि त्रपु ।
कांस्यं सीसमयश्चैव पित्तलञ्च तथा न्यसेत् ॥ २९.२०॥
एवं नवसु कोष्ठेषु विन्यस्य च महामुने ।
शालिकोद्रवनीवारप्रियङ्गुतिलसर्षपान् ॥ २९.२१॥
यववेणुकुलुत्थञ्च तथा निष्पावमाढकम् ।
गोधूमं माषमुद्गञ्च श्यामकं कुष्ठ षोडश ॥ २९.२२॥
पूर्वादिषु क्रमान्न्यस्त्वा पद्ममुत्पलमेव च ।
बदरी मुसलञ्चापि रात्रिं ह्रीबेरमेव च ॥ २९.२३॥
उशीरञ्च कुशेरुञ्च दिक्षु पूर्वादिषु न्यसेत् ।
विष्णुक्रान्तिं सहादेवीं गोक्षीरं बिल्वमेव च ॥ २९.२४॥
शमीपत्रमपामार्गं कदम्बञ्च विदिक्षु च ।
पर्वते च नदीतीरे वल्मीके कर्कटावटे ॥ २९.२५॥
दन्तिदन्ते वृषे शृङ्गे सस्यक्षेत्रे तडागके ।
हलोदुम्बरमूले च दशमृद्ग्राह्य बुद्धिमान् ॥ २९.२६॥
पूर्वादिषु च कोष्ठेषु सर्वेष्वत्र क्रमान्न्यसेत् ।
चतुर्दिक्षु स्वस्तिकाक्षमालां शक्तिञ्च कुक्कुटम् ॥ २९.२७॥
मयूरं वा सुवर्णेन मध्यमे गजमेव च ।
एवं सम्पूज्य विधिवत् प्रतिकोष्ठं तदक्षरैः ॥ २९.२८॥
विधाय च विधानेन फणीन्द्रं शेषमर्चयेत् ।
रक्तसूत्रं ततो बध्वा नववस्त्रेण वेष्टयेत् ॥ २९.२९॥
ततो होमं प्रकर्तव्यमग्निकार्योक्तमार्गतः ।
स्कन्दस्य मूलमन्त्रेण पलाशसमिधा हुनेत् ॥ २९.३०॥
आज्यं चरुं तथा लाजं तिलं सर्षपमेव च ।
यवं चैव षडङ्गेन जुहुयान्मुनिपुङ्गव ॥ २९.३१॥
शतमर्धं तदर्धं वा होमयेन्मन्त्रवित्तमः ।
सर्वद्रव्यावसाने तु तत्तन्मन्त्रेण संस्पृशेत् ॥ २९.३२॥
गर्भभाण्डं द्विजश्रेष्ठ फणीन्द्राय निवेदयेत् ।
हविस्सर्वोपदंशाद्यं पूर्णां मूलेन होमयेत् ॥ २९.३३॥
सुमुहूर्ते सुलग्ने तु शान्तात्मा देशिकः शुचिः ।
सर्वातोद्यसमायुक्तं सर्वमङ्गलसंयुतम् ॥ २९.३४॥
गर्भभाजनमुत्थाप्य प्रोक्तस्थाने समावटे ।
विन्यस्य मूलमन्त्रेण सर्वद्रव्यसमायुतम् ॥ २९.३५॥
शिल्पिना कारयेत्कर्म यथा दृढतरन्तथा ।
अलाभे गर्भगोले तु दक्षिणावर्तशङ्खकैः ॥ २९.३६॥
दले वा भाजनं सर्वं वस्तु निक्षिप्य कौशिक ।
सर्वकर्म यथा पूर्वं कृत्वा तद्विन्यसेद्बुधः ॥ २९.३७॥
रात्रौ गर्भमहन्येव स्थापयेत्प्रथमेष्टकाम् ।
दक्षिणां गुरवे दद्यात्तोषयेच्छिल्पिना तथा ।
शुभेप्सिभिः प्रकर्तव्यं गर्भन्यासं विधानतः ॥ २९.३८॥
इति श्रीकुमारतन्त्रे गर्भन्यासविधिर्नाम एकोनत्रिंशः पटलः ।