२८ शक्त्यस्त्रस्थापनविधिः

अतः परं प्रवक्ष्यामि शक्त्यस्त्रस्थापनं श‍ृणु ।
असुराणां विनाशाय सुराणां रक्षणाय च ॥ २८.१॥

सर्वलोकहितार्थाय सर्वरक्षाकराय च ।
आदिशक्तेः समुद्भूतं शक्त्यस्त्रं विश्ववन्दितम् ॥ २८.२॥

पत्रत्रयं विजानीयादिच्छाज्ञानक्रियात्मकम् ।
इच्छाशक्तिरूर्ध्वपत्रं ज्ञानशक्तिस्तु मध्यमम् ॥ २८.३॥

अधःपत्रं क्रियाशक्तिरूपं शक्त्यायुधस्य च ।
त्रयो गुणास्त्रयो देवास्त्रितत्त्वं च त्रयोऽग्नयः ॥ २८.४॥

त्रयो वेदा वसन्त्यत्र शक्तिपत्रत्रये द्विज ।
शक्तित्रयं कथं राज्ञां भवेच्छक्त्यर्चनं विना ॥ २८.५॥

सर्वदेवैः स्थितं साक्षात् सर्वदेवात्मकं परम् ।
सर्वे देवाः प्रियं यान्ति शक्त्यायुधसमर्चनात् ॥ २८.६॥

तस्मात्सर्वप्रयत्नेन शक्तिं संस्थाप्य पूजयेत् ।
स्वर्णराजततामैर्वाऽप्यायसेन शिलाऽपि वा ॥ २८.७॥

गर्भगेहसमोत्तुङ्गमुत्तमं समुदाहृतम् । (गर्भद्वारःसमोत्तुङ्गमुत्तमं)
अष्टभागैकहीनन्तु मध्यमं मुनिपुङ्गव ॥ २८.८॥

सप्तांशहीनमधमं रत्निमात्रादथोच्यते ।
उत्तमं वेदरत्नि स्यात् त्रिरत्निर्मध्यमं भवेत् ॥ २८.९॥

द्विरत्निमात्रमधमं शक्त्युत्सेधं प्रचक्षते । (शक्त्युत्सेधं प्रशस्थते)
शक्तिं कृत्वा तदुत्सेधं पञ्चषण्मात्रकावधि ॥ २८.१०॥ (शतं कृत्वा)

भागैकं योजयेद्धीमान् यावत्तस्य शुभोदयम् ।
लौकिकं चेति शक्त्यस्त्रं द्विविधं च महामुने ॥ २८.११॥

भूपालवास्तुकर्तृणामानुकूल्यन्तु यौगिकम् ।
एतेषामेव राष्ट्रस्य चानुकूल्यन्तु लौकिकम् ॥ २८.१२॥
(यौगिकं लौकिकं चेति शक्त्यस्त्रं द्विविधं स्मृतं)

विमाने यौगिकं कुर्यात् यजेत्सर्वत्र लौकिकम् ।
आयामे भूतभागैकं पत्रायामं प्रशस्यते ॥ २८.१३॥

पत्रायामं त्रिधाभज्य पत्रत्रयं प्रकल्पयेत् । (पत्रत्रयं विकल्पनात्)
आयामसदृशव्यासं द्वादशांशोनमेव वा ॥ २८.१४॥

नवाष्टांशैकहीनं वा पत्राणि चतुरश्रकम् ।
पार्श्वे कोणानि कर्तव्यमग्रं तीक्ष्णं प्रकल्पयेत् ॥ २८.१५॥

पत्रतारे दशांशैकं पत्रस्य घनमीरितम् ।
तद्घनार्धं च पार्श्वञ्च निशितं वा प्रकल्पयेत् ॥ २८.१६॥

पत्रतारस्य पञ्चाशं सन्धितारं द्विजोत्तम ।
उपर्युपरि पत्राणि ऋज्वाकाराणि कल्पयेत् ॥ २८.१७॥

मध्यपत्रे द्विपार्श्वे तु षड्दलं पद्ममालिखेत् ।
अथवाष्टदलं वाऽपि चतुर्दलमथापि वा ॥ २८.१८॥

पत्राणां पादमूले तु कुर्याद्वै कुण्डलीकृतम् ।
तस्याधः फलकां कुर्यात् पत्राणां चापि मात्रतः ॥ २८.१९॥ (पत्राणां अर्ध)

तत्तारं नवधा भज्य व्योमांशं फलकायतम् ।
द्व्यंशेनाब्जन्तु तस्याधः कोणेऽप्यश्वत्थपत्रवत् ॥ २८.२०॥

कर्तव्या फलकान्त्वेवं तदधः कल्पयेद्दलम् ।
फलकायास्तु विस्तारं विभजेत्तु तथांशकम् ॥ २८.२१॥

एकांशं दलविस्तारमुत्सेधं तत्समं भवेत् ।
फलकार्धं घटाकारमुत्सेधं स्यात्तदर्धकम् ॥ २८.२२॥

तस्यार्धं कण्ठधारेण कुम्भं कुर्याद्द्विजोत्तम ।
पादोनकुम्भधारेण तस्याधस्तटिका भवेत् ॥ २८.२३॥

घटवत्तटिकामानं तन्मानं युगभाजिते ।
एकभागं ततः कुर्यात् तत्प्रमाणेन हीरिका ॥ २८.२४॥ (भागान्तरं ततः)

हीरिकाथ प्रकर्तव्यं मेषदण्डमिहोच्यते ।
ताटिकायास्तु विस्तारं चतुर्भागं त्रिभागिकम् ॥ २८.२५॥

दारुदण्डस्य विस्तारं तदर्धं लोहदण्डकम् ।
दण्डमूले तु पद्मं स्यात् विस्तार फलकासमम् ॥ २८.२६॥

तदर्धं मानमित्युक्तं तन्मानस्य गुहात्मके । (तन्मानं गुणभाजिते)
एकांशं पट्टिका ज्ञेया शेषांशेन कुशेशयम् ॥ २८.२७॥

वृत्तं वा चतुरश्रं वा कारयेत्तु कुशेशयम् ।
हीरिका सममानेन पद्मोर्ध्वे पट्टिकां सुधीः ॥ २८.२८॥

दण्डं सर्वत्र वृत्तं स्यात् ऋज्ज्वाकारमनिन्दितम् ।
शूलयोग्येषु वृक्षेषु शक्तिदण्डं प्रगृह्य च ॥ २८.२९॥

सर्वलक्षणसंयुक्तं शक्त्यायुधं प्रकल्पयेत् ।
एवं लक्षणमाख्यातं प्रतिष्ठां श‍ृणु सुव्रत ॥ २८.३०॥

उत्तरायणकाले तु शुक्लपक्षे शुभेदिने ।
प्रतिष्ठादिनपूर्वे तु कारयेदङ्कुरार्पणम् ॥ २८.३१॥

चक्षुरुन्मीलनं चोक्तं कुर्यात्कुम्भाभिषेचनम् ।
सर्वातोद्यसमायुक्तं सर्वालङ्कारसंयुतम् ॥ २८.३२॥

शक्त्यायुधमलङ्कृत्य कुर्याद्ग्रामप्रदक्षिणम् ।
जलमध्ये प्रपां कृत्वा चतुर श्रसमन्विताम् ॥ २८.३३॥

शापयेत्तत्र शक्त्यस्त्रं फलकोपरि बुद्धिमान् ।
परितः कलशानष्टौ न्यस्त्वेन्द्रादीन्समर्चयेत् ॥ २८.३४॥

चतुर्वेदैश्चतुर्दिक्षु कुर्यादध्ययनं ततः ।
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ॥ २८.३५॥

षोडशस्तम्भसंयुक्तं चतुर्द्वारसमायुतम् ।
चतुस्तोरणसंयुक्तं दर्भमालाभिरावृतम् ॥ २८.३६॥

मण्डपं नवधा कृत्वा मध्यभागे तु वेदिकाम् ।
कुण्डानि परितः कुर्याद् दिशासु बिदिशासु च ॥ २८.३७॥

त्र्याश्राणि च षडश्राणि कारयेल्लक्षणैः सह ।
ईशानशक्रयोर्मध्ये प्रधानन्तु षडश्रकम् ॥ २८.३८॥

नवकुण्डविधिः प्रोक्ता पञ्चकुण्डविधिं श‍ृणु ।
त्र्यश्राणि च चतुर्दिक्षु प्रधानन्तु षडश्रकम् ॥ २८.३९॥

पश्चिमे चोत्तरे वाऽपि स्नानश्वभ्रं प्रकल्पयेत् ।
गोमयालेपनं कृत्वा रजांसि विनिपातयेत् ॥ २८.४०॥

मण्डपं भूष्यमतिमान् पुण्याहं वाचयेत्ततः ।
वास्तुहोमं ततः कुर्यात् पर्यग्निकरणं ततः ॥ २८.४१॥

वेद्यूर्ध्वे स्थण्डिलं कृत्वा चाष्टद्रोणैश्च शालिभिः ।
तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ २८.४२॥

तदूर्ध्वे शयनं कल्प्य चर्मजाद्यैरनुक्रमात् ।
जलादूत्तीर्य शक्त्यस्त्रं स्नानवेद्योपरिन्यसेत् ॥ २८.४३॥

[वस्त्रं नीत्वास्त्रराजानां शुद्धिं कृत्वाष्टमृज्जलैः ।
पञ्चगव्येन संस्नाप्य स्कन्दसूक्तेन मन्त्रतः ॥
गन्धतोयैश्शुद्धतोयैश्शुद्धैरुद्धैरिति ब्रुवन् ।
रक्तवस्त्रेण संवेष्ट्य हृदा गन्धादिभिर्यजेत् ॥]

मध्योर्ध्वपत्रयोर्मध्ये कौतुकं वन्धयेद्धृदा ।
शयने शाययेच्छक्तिं प्राकशिरश्चोर्ध्ववक्त्रतः ॥ २८.४४॥

वचद्भुवेति मन्त्रेण गन्धपुष्पादिनार्चयेत् ।
सर्वलक्षणसंयुक्तान् कुम्भान् द्रोणोदपूरितान् ॥ २८.४५॥

ससूत्रान् सापिधानांश्च सवस्त्रान्वारिपूरितान् ।
चतुर्दशघटान् गृह्य हाटकाब्जसमन्वितान् ॥ २८.४६॥

शक्तेर्दक्षिणपार्श्वे तु पूर्वदक्षिणपश्चिमे ।
शक्तरुत्तरपार्श्वे तु त्रीन् कुम्भान्विन्यसेत्ततः ॥ २८.४७॥ (तु तान्)

इन्द्राद्याशास्त्वष्टकुम्भानेवं वेद्योपरिन्यसेत् ।
दक्षिणस्थितकुम्भेषु पूर्वकुम्भे शिवं यजेत् ॥ २८.४८॥

विष्णुञ्च मध्यमे कुम्भे ब्रह्माणं पश्चिमे घटे ।
उत्तरस्थानकुम्भेषु स्कन्दं वै मध्यमे यजेत् ॥ २८.४९॥

पश्चिमे तु महावल्लीं देवसेनाञ्च पूर्वके ।
पार्वतीं पूर्वकुम्भे तु आग्नेय्यान्तु सरस्वतीम् ॥ २८.५०॥

लक्ष्मीं दक्षिणकुम्भे तु नैरृत्यान्तु विनायकम् ।
शास्ता वारुणदिग्भागे वायव्यां दिशिभास्करम् ॥ २८.५१॥

सोमे च भूमिदेवीं च ऐशान्यान्तु सुमित्रकम् ।
तत्तद्बीजानि विन्यस्य पद्ममुद्रां प्रदर्शयेत् ॥ २८.५२॥

दिशास्वध्ययनं कुर्याच्चतुर्वेदैर्महामुने ।
स्थापको मूर्तिपैस्सार्धं ततो होमं समाचरेत् ॥ २८.५३॥ (होम समारभेत्)

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च ॥ २८.५४॥

शमीखादिरबिल्वाश्च मयूरांश्च विदिक्षु च ।
प्रधानस्य पलाशं स्यात् समिधः परिकीर्तिताः ॥ २८.५५॥

समिदाज्यचरूल्लाजान् सक्तुं चैव तिलं तथा ।
सर्षपं मुद्गमाषञ्च पयोदधिमधूनि च ॥ २८.५६॥

मूलब्रह्मषडङ्गैश्च होमयेत्तु क्रमेण तु ।
शतमर्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् ॥ २८.५७॥

द्रव्यान्ते व्याहृतिं कुर्यात् स्पृष्ट्वा शक्तेस्तु मस्तकम् ।
त्रियम्बकेन मन्त्रेण ब्रह्मजज्ञानमन्त्रतः ॥ २८.५८॥

इदं विष्ण्विति मन्त्रेण प्रत्येकं षोडशं हुनेत् ।
जगद्भुवेति मन्त्रेण तथैव मुनिसत्तम ॥ २८.५९॥

महावल्लीं देवसेनां पार्वतीञ्च सरस्वतीम् ।
लक्ष्मीं विनायकं शास्ता रविं भूमिं सुमित्रकाम् ॥ २८.६०॥

एतेषां मूलमन्त्रेण त्रयाहुति हुनेद्बुधः ।
पूर्णाहुतिञ्च शिरसा स्विष्टकृतेति होमयेत् ॥ २८.६१॥

प्रातः काले गुरुः स्नात्वा नित्यकर्मविधाय च ।
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ २८.६२॥

आचार्यं पूजपेत्पश्चात् गोभूवस्त्रैर्धनंरपि ।
मुहूर्ते सननुप्राप्ते प्रतिष्ठां सम्यगाचरेत् ॥ २८.६३॥

शयनाच्छक्तिमुद्धृत्य वस्त्रादीनि व्यपोह्य च ।
सर्वातोद्यसमायुक्तं स्नानश्वभ्रोपरि न्यसेत् ॥ २८.६४॥

घृतं शिरोऽर्पणं कृत्वा शुद्धाद्भिः स्नाप्य मूलतः ।
कुम्भानुद्धृत्य शिरसावाह्य धामप्रदक्षिणम् ॥ २८.६५॥

कृत्वा शक्त्यायुधाग्रे तु स्थापयेत्स्थण्डिलोपरि ।
शिवाख्याद्बीजमादाय विन्यसेदूर्ध्वपत्रके ॥ २८.६६॥

विष्णुबीजं मध्यपत्रे त्वधः पत्रे चतुर्मुखम् ।
कुम्भमध्ये महासेनं वल्लीं चैव तु दक्षिणे ॥ २८.६७॥

तद्वामे देवसेनाञ्च विन्यसेत्तु विचक्षणः ।
पार्वतीबीजमादाय फलकायान्तु विन्यसेत् ॥ २८.६८॥

वाग्देवीबीजमादाय फलकान्दक्षिणे न्यसेत् ।
लक्ष्मीबीजं समादाय फलकां वामपार्श्वके ॥ २८.६९॥

विघ्नेशबीजमादाय दण्डाग्रे मुनिसत्तम ।
शास्तारं बाजमादाय तद्दिशायान्तु विन्यसेत् ॥ २८.७०॥

भास्करं बीजमादाय दण्डमध्ये तु विन्यसेत् ।
भूमिबीजं समादाय न्यसेद्दण्डाग्रपीठके ॥ २८.७१॥

सुमित्रबीजमादाय दण्डमध्ये प्रविन्यसेत् ।
ततः कुम्भजलैश्शक्तिं तत्तत्स्थाने प्रपूजयेत् ॥ २८.७२॥

स्नपनं कारयेदग्रे यथाविभवविस्तरम् ।
ब्राह्मणान् भोजयेत्पश्चात् दीनानाथांश्च पूजयेत् ॥ २८.७३॥

एवं यः कुरुते मर्त्यः स शत्रून् जयति ध्रुवम् ।
युद्धारम्भे नृपः कुर्यात् जयमाप्नोत्यसंशयः ॥ २८.७४॥

इति श्रीकुमारतन्त्रे शक्त्यस्त्रस्थापनविधिर्नाम अष्टाविंशः पटलः ।