२७ अथचलबेरप्रतिष्ठाविधिः

चलबेरप्रतिष्ठाञ्च वक्ष्येऽहंश‍ृणुकौशिक ।
भुक्तिमुक्तिप्रदन्नृणां सर्वकामार्थसाधनम् ॥ २७.१॥

बालवृद्धिकरंसर्वशत्रुक्षयकरंशुभम् ।
सर्वकामदमान्यत्किं कुमारस्थापनादृते ॥ २७.२॥

मृगादिमासषट्केतु विकुम्भेषुशुभावहम् ।
अयनेचोत्तरेश्रेष्ठे दक्षिणेस्यात्ज्वरान्वितम् ॥ २७.३॥

मार्गशीर्षकमाघौ द्वौ वर्जयेत्तु प्रयत्नतः ।
जोवदृष्टियुते कुम्भे चलस्थापनमुत्तमम् ॥ २७.४॥

प्रशस्तपक्षनक्षत्रे स्थापनं सम्यगाचरेत् ।
प्रतिमां कारयेद्विद्वान् प्रतिमालक्षणोक्तवत् ॥ २७.५॥

गजवल्लीसमायुक्तं प्रतिपञ्चोत्सवं तथा ।
शिबिका बलिबेरञ्च स्नपनात्सव कौतुकम् ॥ २७.६॥

मूर्तिपञ्चविधानेन तत्तन्मूर्तिस्वभावकम् ।
शक्त्येकञ्च समायुक्तं स्नपनं बलिकौतुकम् ॥ २७.७॥

शक्तित्रयसमोपेतमुत्सवं मुनिपुङ्गव ।
शक्तिं विनास्त्रशिबिका पञ्चबेरविधिक्रमम् ॥ २७.८॥

अङ्कुरानर्पयेद्विद्वान् पूर्वोक्तविधिना मुने ।
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ॥ २७.९॥

भूतादिनवहस्तान्तं विस्तारं गुरुहस्ततः ।
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भकेन वा ॥ २७.१०॥

पङ्क्तितालसमुत्सेधं पङ्क्तित्रयसमायुतम् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ २७.११॥

मङ्गलाकारसंयुक्तं मङ्गलाङ्कुरशोभितम् । (मङ्गलाष्टकसंयुक्तं)
विधानध्वजसंयुक्तं दर्भमाला सुशोभितम् ॥ २७.१२॥ (दर्भमाला भिरावृतं)

गात्रवेष्टनसंयुक्तं फलपल्लवशोभितम् ।
एकाशीतिपदं कृत्वा मध्यवेदिं नवांशतः ।
कुण्डानि परितः कृत्वा महादिक्षु विदिक्षु च ॥ २७.१३॥

दिशासु चतुरश्राणि षट्कोणानि विदिक्षु च ।
अथवा विदिशास्वत्र वृत्तानि नलिनानि वा ॥ २७.१४॥

षडश्रन्तु प्रधानं स्यान्मध्ये शाङ्करवज्रिणोः ।
सर्वकुण्डं षडश्रं वा नवकुण्डविधौ मता ॥ २७.१५॥

चतुरश्रं चतुर्दिक्षु प्रधानन्तु षडश्रकम् ।
पञ्चकुण्डविधिः प्रोक्तं त्रिमेखलसमायुतम् ॥ २७.१६॥

नाभियोनिसमायुक्तं सर्बलक्षणसंयुतम् ।
मण्डपस्योत्तरे भागे स्नानवेदिं प्रकल्पयेत् ॥ २७.१७॥

तत्पीठतारद्विगुणं षोडशाङ्गुलमुच्छ्रयम् ।
नालावटसमायुक्तं जलमार्गसमायुतम् ॥ २७.१८॥

बाहुमात्रायतात्खातमवटं तस्य वामतः ।
गोमयालेपनं कृत्वा रजांसि विनिपातयेत् ॥ २७.१९॥

माणिक्कं पुष्परागञ्च वैडूर्यं नीलमेव च ।
गोमेदकं मौक्तिकञ्च प्रवालं स्फटिकं तथा ॥ २७.२०॥

इन्द्रादीशानपर्यन्तं विन्यसेत्स्वस्वमन्त्रतः ।
बेरं तस्योपरि न्यस्त्वा सुस्निग्धं सुदृढं भवेत् ॥ २७.२१॥

देव्योः पीठेऽष्टकोष्टेषु हेमाब्जानि न्यसेद्धृदा ।
सर्वालङ्कारसंयुक्ते मण्डपे स्थण्डिलोपरि ॥ २७.२२॥

नयनोन्मीलनं कुर्यात् नेत्रयुग्मायुते दिने ।
हेमसूचिकया शिल्पी पक्ष्मरेखां समालिखेत् ॥ २७.२३॥

कृष्णमण्डलमालिख्य ज्योतिर्मण्डलमालिखेत् ।
उत्तरे स्थण्डिले बेरं स्थाप्य शिल्पिं विसर्जयेत् ॥ २७.२४॥ (इतरे स्थण्डिले)

नेत्रमन्त्रमनुस्मृत्य हेमसूच्या गुरुर्लिखेत् ।
पुण्याहं वाचयित्वाऽथ प्रोक्षयेदस्त्रमन्त्रतः ॥ २७.२५॥

अभितः कलशानष्टौ स्थाप्येन्द्राद्याः समर्चयेत् ।
तर्जनीमध्यमाभ्याञ्च सर्ववर्णौघसंयुतम् ॥ २७.२६॥ (सुवर्णनखसंयुतम्)

सूर्यसोमाधिपाभ्याञ्च नेत्रयोः संस्पृशेद्गुरुः ।
सौवर्णदूर्वया नेत्रं मध्वाज्याभ्यान्तु तर्पयेत् ॥ २७.२७॥

मधुवाता ऋतायेति मधुना तर्पयेद्गुरुः ।
धृतं मिमिक्षेति मन्त्रेण तर्पयेत्तु घृतेन च ॥ २७.२८॥

सौवर्णं रजतेनैव पात्रं मध्वाज्ययोर्मतम् ।
गौर्धेनुभावमन्त्रेण सवत्सां गां प्रदर्शयेत् ॥ २७.२९॥

ब्रह्मजज्ञानमन्त्रेण ब्राह्मणान् दर्शयेद्गुरुः ।
प्रच्छन्नपटमावर्ज्य जनान्सर्वान् प्रदर्शयेत् ॥ २७.३०॥

पञ्चगव्येन संस्नाप्य पञ्चब्रह्मषडङ्गकैः ।
अष्टमृत्सलिलेनैव स्नापयेत्तु षडक्षरैः ॥ २७.३१॥

स्नापयेत्कलशाद्भिस्तु स्कन्दसूक्तेन मन्त्रतः ।
गन्धपुष्पादिभिश्चैव पूजयेद्धृदयेन तु ॥ २७.३२॥

सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ।
छत्रचामरसंयुक्तं नानाभक्तजनैर्युतम् ॥ २७.३३॥

नानादीपसमायुक्तं विप्रसङ्घसमायुतम् ।
रथे वा शिबिकायां वा कुर्याद् ग्रामप्रदक्षिणम् ॥ २७.३४॥

जलतीरं समासाद्य शुद्धिं कृत्वा भुवस्थलम् ।
तस्मिन् बेरं समानीय वस्त्रादीनि व्यपोह्य च ॥ २७.३५॥ (बेरं समादाय)

नववस्त्रेण संवेष्ट्य बध्नीयाल्लम्बकूर्चकम् ।
चतुर्गात्रयुतं कृत्वा जलमध्ये प्रपान्वितम् ॥ २७.३६॥

तन्मध्ये विन्यसेत्पीठं चतुर्गात्रयुतं दृढम् ।
तदूर्ध्वे कण्ठदघ्ने वा नाभिदघ्नेऽअधिवासयेत् ॥ २७.३७॥ (नाभिदघ्नेऽथवा शयेत्)

अष्टकुम्भान् न्यसेद्दिक्षु दिग्देवान्सम्प्रपूजयेत् ।
चतुर्वेदं चतुर्दिक्षु कुर्यादध्ययनं द्विजैः ॥ २७.३८॥

पुण्याहं वाचयित्वाऽथ प्रोक्षयेद्यागमण्डपम् ।
वास्तुहोमं ततः कुर्यात्समीरिणपदे गुरुः ॥ २७.३९॥

पर्यग्निकरणं तेन वह्निनात्रैव कारयेत् ।
वेद्यूर्ध्वे स्थण्डिलं कृत्वा चाष्टद्रोणैश्च शालिभिः ॥ २७.४०॥

तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि ।
तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ २७.४१॥

दर्भैर्लाजैश्च पुप्पैश्च परिस्तीर्य यथाविधि ।
शयनं कल्पयेत्तत्र चर्भजाद्यैरनुक्रमात् ॥ २७.४२॥

जलादुत्तीर्य देवेशं स्नानवेद्युपरि न्यसेत् ।
बिम्बशुद्धिं ततः कृत्वा त्वलङ्कृत्य यथाविधि ॥ २७.४३॥

आलयन्तु प्रविश्याथ पुनः पुण्याहमाचरेत् ।
[व्यपोह्य वस्त्रकूर्चादीन् मृज्जलैरभिषेचयेत्]
स्कन्दसूक्तं जपित्वाऽथ पवमानमुदीरयन् ॥ २७.४४॥

अयं कुमारमन्त्रेण मालामन्त्रेण देशिकः ।
शुद्धाम्बुना तु संस्नाप्य रक्तवस्त्रेण वेष्टयेत् ॥ २७.४५॥

गन्धपुष्पादिभिः पूज्य हृदयेन तु मन्त्रतः ।
कौतुकं बन्धयेत्तत्र स्कन्दशक्तिं गुरुस्तथा ॥ २७.४६॥

पद्ममुद्रां नमस्कारां षण्मुखीं दर्शयेत्सुधीः ।
नैवेद्यं दापयित्वाऽथ ताम्बूलं दापयेद् गुरुः ॥ २७.४७॥

मण्डपं विकिरान् क्षिप्त्वा प्रोक्षयेदर्ध्यवारिणा ।
शयने शाययेद्बिम्बं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ २७.४८॥

शक्तिद्वयञ्च पार्श्वे तु शाययित्वा यथाविधि । (शक्तिद्वियञ्च)
वस्त्रेणाच्छादयेत्स्कन्दं शक्तिद्वयं पृथक् पृथक् ॥ २७.४९॥

अयं कुमारमन्त्रेण गन्धपुष्पादिनार्चयेत् ।
सर्वलक्षणसंयुक्तान् कुम्भान् सङ्गृह्य देशिकः ॥ २७.५०॥

ससूत्रानुदकोपेतान् सकूर्चान्सापिधानकान् ।
सवस्त्रान्पल्लवोपेतान् द्रोणतोयन पूरितान् ॥ २७.५१॥

शिरोभागेषु बेराणां कुम्भञ्च वर्धनीद्वयम् ।
पञ्चरत्नं प्रधाने तु वर्धन्योर्हाटकाम्बुजम् ॥ २७.५२॥

सर्वत्र सर्वकुम्भेषु विन्यसेत्तु विचक्षणः । (सुवर्ण सर्वकुम्भेषु)
यादृशं प्रतिमाकारं तादृशं भाव्य बुद्धिमान् ॥ २७.५३॥

दाडिमीपुष्पसङ्काशं करण्डमकुटोज्वलम् ।
छन्नचीरोपवीतोद्यत्कटिसूत्रैरलकृतम् ॥ २७.५४॥

दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाविभूषितम् ।
रक्ताम्बरधरं देवं पादनूपुरसंयुतम् ॥ २७.५५॥

एवं ध्यात्वा स्कन्दकुम्भे तन्मूलेन समावहेत् ।
सर्वोपचारसंयुक्तमासनावरणैर्यजेत् ॥ २७.५६॥

महावल्लीं देवसेनां श्यामरक्तसमप्रभे ।
सौम्यवक्त्रे पद्महस्ते वर्धन्योस्स्वस्वबीजकम् ॥ २७.५७॥

परितश्चाष्टकुम्भांश्च पूर्वाद्याशासु विन्यसेत् ।
जयन्ताख्यमग्निशिखं कृत्तिकापुत्रसंज्ञकम् ॥ २७.५८॥

अनन्तरं भूतपतिं सेनान्यं गुहसंज्ञकम् ।
हेमशूलं विशालाक्षं तत्तन्नामभिरर्चयेत् ॥ २७.५९॥

नैवेद्यं चैव पानीयं ताम्बूलञ्च हृदा ददेत् ।
पञ्चैकचतुरस्त्रीणि पञ्चत्रिचतुरस्त्रयः ॥ २७.६०॥

अनेन विधिना कुम्भान् पूर्वाद्याशासु विन्यसेत् ।
पूर्वोक्तेन विधानेन सर्बकुम्भान् समर्चयेत् ॥ २७.६१॥

दशायुधानि संस्थाप्य स्वस्वनामभिरर्चयेत् ।
दर्पणं पूर्णकुम्भञ्च मयूरं युग्मचामरम् ॥ २७.६२॥ (मयूरं चामरद्वयं)

श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवोऽष्टमङ्गलम् ।
उपवेद्युपरिन्यस्त्वा गङ्गाद्याः सम्प्रपूजयेत् ॥ २७.६३॥

तृणबन्धाञ्च कम्पाञ्च वंशे स्तम्भे यथाक्रमम् ।
पृथिव्यादीनि तत्त्वानि पूजयेन्मण्डपे सुधीः ॥ २७.६४॥

मण्डपञ्च गुहव्याप्तं निर्विघ्नं भाव्य तत्परम् ।
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदन्तु दक्षिणे ॥ २७.६५॥

पश्चिमे सामवेदञ्च उदीच्यां दिश्यथर्वणम् ।
मालामन्त्रं स्कन्दसूक्तं गायत्रीं पञ्चशान्तिकम् ॥ २७.६६॥

आग्नेयादिषु कोणेषु जपित्वा मन्त्रवित्तमैः ।
आचार्यो मूर्तिपैस्सार्धं होमकर्म समारभेत् ॥ २७.६७॥

कार्तिकेयो विशाखश्च गुहश्चैव सुरान्तकः ।
सेनानीः षण्मुखश्चैव मयूरवाहनस्तथा ॥ २७.६८॥

शक्तिपाणिरिति ख्याता एते वै चाष्ट मूर्तयः । (चाष्ट मूर्तिपाः)
स्वनामाद्यक्षरेणैव कुण्डानां दक्षिणे यजेत् ॥ २७.६९॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
पालाशखादिराश्वत्थ वटबिल्वाश्शमी तथा ॥ २७.७०॥

प्लक्षः पश्चादपामार्ग औदुम्बर इतीरितः ।
प्राधान्यादग्निकुण्डानां समिधो नव कीर्तिताः ॥ २७.७१॥

समिदाज्यचरुं लाजं यवं सक्तुञ्च सर्षपम् । (यवं वेणुञ्च)
तिलं मुद्गं गुलं वेणुं मधुक्षीरं पुनर्दधि ॥ २७.७२॥ (गुलं चैव)

द्रव्याणि द्वादशैतानि होमयेत्तु यथा क्रमम् । (यथा विधि)
मूलब्रह्मषडङ्गैश्च स्कन्दगायत्रिमन्त्रतः ॥ २७.७३॥

शतमर्धं तदर्धं वा प्रत्येकन्तु हुनेत्क्रमात् ।
माते कुमारमन्त्रेण होमयेत्तु रसाहुतिः ॥ २७.७४॥ (मालामन्त्रेण मन्त्रयो होमयेत्तु)

कृत्वैवं सर्वकुण्डेषु पूर्णान्तु शिरसा हुनेत् ।
सर्वद्रव्यसमायुक्तं हव्यवाहेति षोडश ॥ २७.७५॥ (हव्यवाहेन हामयेत्)

मूलमन्त्रेण मन्त्रैश्च षड्भिः षड्वारमाज्यतः ।
जगद्भुवेति षण्मूर्तिमन्त्रेणैव हुनेत्ततः ॥ २७.७६॥

अयं कुमारमन्त्रेण जुहुयादा ज्यहोमकम् । (जुहुयादा षोडशाहुतिः)
उपोषितो गुरुः पश्चादात्रिशेषं व्यपोह्य च ॥ २७.७७॥

मूर्तिपैस्सह संस्नाप्य गुरुर्नियमतत्परः । (मूर्तिपैस्सह सास्नात्वा)
पूर्ववद्वारपूजादि यागदेवान्समर्चयेत् ॥ २७.७८॥

आसनावरणानान्तु हुत्वाप्येकैकमाहुतिम् ।
स्कन्दमूलेन मन्त्रेण शतमष्टोत्तरं हुनेत् ॥ २७.७९॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ।
प्रायश्चित्तमघोरेण होमयेत् षोडशाहुतिः ॥ २७.८०॥

पूर्णाहुतिं ततः कृत्वा धूपदीपादिकान्ददेत् ।
प्रार्थयित्वा नमस्कुर्यात् बलिमन्तर्बलिं क्षिपेत् ॥ २७.८१॥

बहिर्बलिं ततः कुर्यात् ज्ञानखड्गधरो गुरुः ।
आचार्यं पूजयेत्कर्ता वस्त्रहेमाङ्गुलीयकैः ॥ २७.८२॥

देशिकं तोषयेद्देवं सन्निधीकरणाय च ।
उत्तमं दशनिष्कन्तु मध्यमं सप्तनिष्ककम् ॥ २७.८३॥

अधमं पञ्चनिष्कन्तु देशिकस्य तु दक्षिणा ।
तस्यैवं पञ्चमांशैकं मूर्तिपानान्तु दक्षिणा ॥ २७.८४॥

जापकं वास्तुहोतारं तदर्धेनैव तोषयेत् ।
दैवज्ञं शिल्पिनश्चैव तोषयेन्मूर्तिधारिवत् ॥ २७.८५॥

भक्तानां परिचाराणां यथाशक्तिस्तु दक्षिणा ।
शयनाद्बिम्बमुत्थाप्य स्नानवेद्युपरिन्यसेत् ॥ २७.८६॥

मृज्जलेनैव संस्नाप्य पश्चात्पञ्चामृतादिभिः ।
रत्नोदकैः स्वर्णतोयैः शुद्धोदैर्गन्धतोयकैः ॥ २७.८७॥

नमकञ्चमकञ्चैव स्कन्दसूक्तञ्च शान्तिकम् ।
जपित्वा स्नापयेत् स्कन्दं गन्धपुष्पादिनार्चयेत् ॥ २७.८८॥

घृतं शिरोऽर्पणं कुर्याद्धेमदूर्वाङ्कुराक्षतैः ।
कल्पितं मण्डपं सम्यगलङ्कृत्य विशेषतः ॥ २७.८९॥

सर्वातोद्यसमायुक्तं वेदघोषसमन्वितम् ।
अर्घ्यपाणिः पुरोगच्छेदाचार्यो मूर्तिपैः सह ॥ २७.९०॥

सदारपुत्रः सभ्राता यजमानो व्रजेदनु ।
हर्म्यप्रदक्षिणं कृत्वा देवं मण्डपमानयेत् ॥ २७.९१॥

उक्तालङ्कारसंयुक्तान् कुम्भानुद्धृत्य देशिकः ।
मूर्तिपैश्शिरसावाह्य कुर्याद्धामप्रदक्षिणम् ॥ २७.९२॥

देवस्याग्रे क्रमेणैव स्थण्डिलोपरि विन्यसेत् ।
मूर्धादिकल्पिते स्थानेष्वादिवर्णा न्न्यसेद्गुरुः ॥ २७.९३॥

जगद्भुवादिषण्मन्त्रं षड्वक्त्रे विन्यसेद्बुधः ।
पञ्चब्रह्मषडङ्गानि तत्तत्स्थानेषु विन्यसेत् ॥ २७.९४॥

मातृकां बिन्दुसहितां देव्योरङ्गेषु विन्यसेत् ।
सैकत्रिंशत्कलान्यासं मकुटादिक्रमान्न्यसेत् ॥ २७.९५॥

मुहूर्तं वीक्ष्य दैवज्ञो गुरवे सन्निवेदयेत् ।
प्राणात्प्रकृतियोगं तु ज्ञात्वा स्थापनमा चरेत् ॥ २७.९६॥ (स्थापनमा रभेत्)

यथोत्कृष्टक्रमं ज्ञात्वा तथा संस्थापयेद्गुरुः । (यथोत्कृष्टं कृतं)
कुम्भाद्बीजं समादाय बेरस्य हृदि विन्यसेत् ॥ २७.९७॥

तत्कुम्भस्थजलेनैव स्कन्दं संस्नापयेत्ततः ।
वर्धन्योर्बीजमादाय देव्योश्चूचुकमध्यमे ॥ २७.९८॥

विन्यस्य तु जलेनैव स्नापयेच्छक्तिकाद्वयम् । (विन्यस्य तत्)
मुकुलीं पद्ममुद्रां च षण्मुखीं धेनुमुद्रिकाम् ॥ २७.९९॥

शक्तिमुद्रां नमस्कारां दर्शयेत्तुगुहाय वै ।
जयन्तादीन्यथाभ्यर्च्य पीठे संस्नापर्यबुधः ॥ २७.१००॥

गन्धतोयेन संस्नाप्य बिल्वोदैः शुद्धतोयकैः ।
अभ्यर्च्याधारशक्त्यादिपञ्चावरणसंयुतम् ॥ २७.१०१॥

रक्ताम्बरै रक्तामाल्यै रक्तगन्धैश्च भूषयेत् ।
पञ्चावरणहविर्दद्यात् यथाविभवविस्तरम् ॥ २७.१०२॥

ब्राह्मणान्भोजयेत्पश्चात् दीनानाथांश्च पूजयेत् ।
अन्ते महोत्सवं कुर्यात् वित्तशाठ्यं न कारयेत् ॥ २७.१०३॥

एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ।
फलं स्कन्दप्रतिष्ठायाः सङ्क्षेपाच्छृणु कौशिक ॥ २७.१०४॥

बेरसंवेशवेद्यास्तु यावन्तः परमाणवः ।
तावद्वर्षसहस्राणि स्कन्दलोके महीयते ॥ २७.१०५॥

इति श्रीकुमारतन्त्रे चलबेरप्रतिष्ठाविधिर्नाम सप्तविंशः पटलः ।