२६ अचलस्थापनविधिः

अचलस्थापनं वक्ष्ये श‍ृणुष्व मुनिपुङ्गव ।
सर्वलोकहितं पुण्यं सर्वरोगविनाशनम् ॥ २६.१॥

श्रीप्रदं विजयं सौम्यं सर्वदोषनिकृन्तनम् । (विजयं सौख्यं)
कुशब्दः कुत्सितो ज्ञेयो मारशब्दस्तु मारणम् ॥ २६.२॥

कुत्सितार्थं मृतं येन कुमारो नाम विद्यते ।
आदिशक्तेः समानांशो महासेनोपजायते ॥ २६.३॥ (आदिशक्तेः सहस्रांशो)

पद्माख्यां षण्मुखीं मुद्रां षण्मुखप्रीतये श‍ृणु ।
सहितौ मणिबन्धौ द्वौ कनिष्ठौ सङ्गतौ तथा ॥ २६.४॥

अङ्गुष्ठौ सङ्गतौ द्वौ च शेषाः प्रविरला स्मृताः ।
पद्ममुद्रेति विख्याता सर्वसिद्धिप्रदायिनी ॥ २६.५॥

अङ्गुष्ठौ द्वावधो युक्तौ कनिष्ठाग्रपरस्परौ ।
तर्जन्यौ मध्यमालग्नावनामिकाङ्गुली तथा ॥ २६.६॥

तेषां मध्ये प्रविरलावूर्ध्वगौ मध्यमाङ्गुलौ ।
मुद्रेयं षण्मुखी प्रोक्ता विधिरन्योऽस्ति तं श‍ृणु ॥ २६.७॥

शेषाङ्गुलीनामन्योन्यं मणिबन्धं च संयुतौ ।
तिर्यक्कनिष्ठिकाग्रे च उदयावपि षण्मुखी ॥ २६.८॥

षण्मुखी द्विविधा ज्ञेया भुक्तिमुक्तिपदायिनी ।
प्रतिमां कारयेद्धीमान् प्रतिमालक्षणोक्तवत् ॥ २६.९॥

उत्तरायणकाले स्यान्न कुर्याद्दक्षिणायने ।
शुक्लपक्षेऽपि रिक्ता च प्रतिपच्चाष्टमी तिथौ ॥ २६.१०॥

पञ्चदश्यां शुभं ज्ञयं गुर्विन्दुज्ञसितश्शुभाः ।
अशुभा रविसौराराः शुभयोगे शुभप्रदाः ॥ २६.११॥

ज्येष्ठादिपूर्वनैरृत्यमाश्लेषाग्निश्च वारुणम् ।
श्रविष्ठार्द्रा विशाखा च नेष्ट स्थापनकर्मणि ॥ २६.१२॥

चरराश्यधतस्रस्तु धनुर्नेष्टास्तु राशिषु ।
शुभग्रहाणां होराश्च द्रेक्काणादेः शुभं न च ॥ २६.१३॥

पापग्रहसमायुक्ता मुक्तिकाङ्क्षी तमन्धकम् ।
षण्डस्थूणव्यतीपातं वृष्टिके रणसङ्क्रमम् ॥ २६.१४॥

कण्टकं ब्रह्मदण्डञ्च विद्धमुत्पातकन्तथा ।
ग्रहणं वेधनक्षत्रं शूलर्क्षं भूमिकम्पनम् ॥ २६.१५॥

ध्वजं चैव विशेषेण वर्जयेत्तु प्रयत्नतः ।
गुरुशुक्रास्तमनयोः प्रतिष्ठां वर्जयेत्ततः ॥ २६.१६॥

एवं परीक्ष्य कर्तव्यमचलस्थापनं मुने ।
अचलानां मूलबेरमचलं परिकीर्तितम् ॥ २६.१७॥

शिखरे पर्वते वाऽपि पर्वतस्यान्तिकेऽपि वा ।
नदीतीरेऽप्युपवने पुण्यक्षेत्रे चतुष्पथे ॥ २६.१८॥

ग्रामे च नगरे चैव पत्तने खेटकेऽपि वा ।
राजधान्यां वीथिमध्ये वीथ्यग्रे सर्वदिक्षु च ॥ २६.१९॥

पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यमुदङ्मुखम् ।
परिवारामरैर्युक्तं स्थापयेच्छरसम्भवम् ॥ २६.२०॥

द्विहस्तो यज्ञसूत्राङ्गः सशिखः सत्रिमेखलः ।
कौपीनदण्डधृक् सव्यपाणितुर्याश्रितोऽपरान् ॥ २६.२१॥

स्थापयेद्दैकतं स्कन्दं पर्वतेषु वनेषु च ।
द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यः सुसुन्दरः ॥ २६.२२॥

पद्मधृक् सव्यपाणिस्तु इतरेतरधृक्करः ।
बालरूपं प्रतिष्ठाप्य ग्रामस्यैवाभिवृद्धये ॥ २६.२३॥

चतुर्भुजो द्विनेत्रश्च कर्णयोः पत्रपिण्डधृक् ।
नक्रकुण्डलसंयुक्तश्चक्रशक्तिवराभयः ॥ २६.२४॥

शक्तिद्वयसमायुक्ता शक्त्येकसहितोऽथवा ।
द्विनेत्रे द्विभुजे शान्ते पद्मचारुकराम्बुजे ॥ २६.२५॥

लथ्वमानकरे चैव श्यामरक्तकरप्रभे ।
महावल्लीं देवसेनां सव्यवामस्थिते उभे ॥ २६.२६॥

एवं लक्षणधृक् स्थाप्यो ग्रामे वा नगरेऽपि वा ।
षडाननश्च षड्बाहुरर्कश्रोत्रेक्षणान्वितः ॥ २६.२७॥

षट्कण्ठस्त्वेककण्ठो वा प्रतिमौलिभिरन्वितः ।
सशक्तिस्साभयस्सासिः साक्षमालस्सकुक्कुटः ॥ २६.२८॥

सखेटकस्त्वयं स्थाप्यो वृद्धये पत्तनादिषु ।
रक्ताम्बरसमायुक्तो बालचन्द्रसमप्रभः ॥ २६.२९॥

करण्डमकुटोपेतो हस्तद्वादशकस्तु वा ।
शक्तिञ्च मुसलं खङ्गं चक्र पाशाभये वहन् ॥ २६.३०॥

दक्षिणे दक्षिणे वज्रं कार्मुकं खेटकन्तथा ।
मयूरञ्च ध्वजं वाऽपि साङ्कुशं वरमावहन् ॥ २६.३१॥

सोपवीतो मयूरस्थः शक्तिद्वयसमन्वितः ।
ग्रामादौ स्थापयेद्देवं प्रासादादौ च सिद्धये ॥ २६.३२॥

एवं पञ्चविधं प्रोक्तं विभागस्थानभेदतः ।
स्वतः प्रधाने वक्त्रैकं मूलबेरन्तु पूर्तिदम् ॥ २६.३३॥

मोक्षार्थं षण्मुखं बेरं मूलबेरं प्रतिष्ठितम् ।
प्रतिष्ठादिवसात्पूर्वं सप्तमे पञ्चमेऽह्नि वा ॥ २६.३४॥

त्रिदिने तद्दिने वाऽपि कारयेदङ्कुरार्पणम् । (तृतीयेदिने)
मण्डपं कारयेद् विद्वान् प्रासादाग्रे द्विपार्श्र्वयोः ॥ २६.३५॥

द्वात्रिंशद्धस्तविस्तारमुत्तमं मण्डपं स्मृतम् ।
अष्टाष्टस्तम्भसंयुक्तं पङ्क्तिनालमथोच्छ्रयम् ॥ २६.३६॥

मण्डपस्यैव मध्ये तु चतुस्तम्भैर्विराजयेत् ।
विंशत्करसमायुक्तं मध्यमं मण्डपं स्मृतम् ॥ २६.३७॥

षट्त्रिंशद्गात्रसंयुक्तं नवतालसमुच्छ्रयम् ।
पूर्ववत्सन्त्यजेत्स्तम्भान् रविहस्तायतन्ततः ॥ २६.३८॥

षोडशस्तम्भसंयुक्तमष्टतालं समुच्छ्रयम् ।
कन्यसं मण्डपं ज्ञेयं विश्वामित्र महामुने ॥ २६.३९॥

उत्तमादिषु बेरेषु तत्तद्योग्यं प्रकल्पयेत् ।
कूटं वाऽपि प्रपां वाऽपि मण्डपं सम्यगाचरेत् ॥ २६.४०॥

एकाशीतिपदं कृत्वा मध्यवेदी नवांशतः ।
रत्निमात्रं समुत्सेधं दर्पणोदरसन्निभम् ॥ २६.४१॥

सुधयेष्टिकया वाऽपि मृदा निर्दोषयाऽपि वा ।
तत्प्रदेशं खनित्वाऽथ पूरयेच्छुद्धवालुकैः ॥ २६.४२॥

तदूर्ध्वे वेदिकाञ्चैव कुण्डानि च प्रकल्पयेत् ।
परितश्चोपवेदीञ्च युगाङ्गुलसुविस्तृतम् ॥ २६.४३॥

तदूर्ध्वोच्छ्रयसंयुक्तां निम्नोन्नतविवर्जिताम् ।
द्विद्व्यङ्गुलं तथाधिक्यं मध्यमोत्तममण्डपे ॥ २६.४४॥

वेदिकायास्तु परितः कुण्डानि परिकल्पयेत् ।
उत्तमे मण्डपे चैव द्वात्रिंशत्कुण्डमीरितम् ॥ २६.४५॥

चतुर्विंशतिकुण्डानि कुर्यान्मध्यममण्डपे ।
नवकुण्डानि कर्तव्या कन्यसे मण्डपे द्विज ॥ २६.४६॥

अश्रं योन्यर्धचन्द्राभं गुणाश्रं वर्तुलाकृतिम् ।
षडश्रं पद्ममष्टाश्रं कुर्यात्पूर्वादिदिक्षु च ॥ २६.४७॥

षडश्रन्तु प्रधानं स्यान्मध्ये शाङ्करवज्रिणोः ।
एवमभ्यन्तरे कुर्यात् बाह्ये सर्वयुगाश्रकम् ॥ २६.४८॥

सर्वलक्षणसंयुक्तं पूर्वोक्तविधिनाऽचरेत् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ २६.४९॥

वितानैरपि सञ्च्छाद्यमष्टदिग्गजसंयुतम् ।
हेमशूलारुणा रक्ता कृष्णनीलसितारुणा ॥ २६.५०॥

एकहस्तविशालोच्चं तदर्धार्धशिरोऽन्वितम् ।
ध्वजायामसमायामं पुच्छद्वयसमन्वितम् ॥ २६.५१॥

वज्रं त्रिशूलपर्यन्तं ध्वजेष्टसु लेखयेत् ।
प्रपादिषु क्रमादेवं लम्बयेत्तु प्रदक्षिणम् ॥ २६.५२॥

रम्भा पनसपूगाम्रनालिकेरफलैरपि ।
चूतवृक्षांस्तु ताम्बूललताभिश्च विभूषयेत् ॥ २६.५३॥

मुक्ताः स्रग्दामविविधैर्दर्भमालाभिरावृतम् ।
गात्रवेष्टनसंयुक्तं मङ्गलाङ्कुरशोभितम् ॥ २६.५४॥

अष्टमङ्गलसंयुक्तं घृतदीपसमन्वितम् ।
कुण्डगेहसमायुक्तं मण्डपं भूषयेत्ततः ॥ २६.५५॥

मण्डपस्योत्तरे कुर्यात्तदर्धेनैव मण्डपम् ।
तन्मध्ये स्नानवेदीञ्च वेद्यूर्ध्वे च विशालतः ॥ २६.५६॥

नालावटसमायुक्तं जलमार्गसमायुतम् ।
बाहुमात्रायताघातं श्वभ्रं तस्यैव वामतः ॥ २६.५७॥

गोमयालेपनं कृत्वा रजांसि विनिपातयेत् ।
शैलजं मृण्मयं बेरमचलं द्विविधं भवेत् ॥ २६.५८॥

मृण्मयं चलकर्म स्याद् रत्नन्यासं तटाद्यके ।
शैलजे रत्नविन्यासं प्रतिष्ठाकालपूर्वतः ॥ २६.५९॥

उक्तस्थाने गर्भगेहे रत्नन्यासं समाचरेत् ।
वज्रं मरकतं नीलं पुष्यरागं प्रवालकम् ॥ २६.६०॥

मौक्तिकं चैव वैडूर्यं स्फटिकञ्च महामणिम् ।
इन्द्रादि मध्यपर्यन्तं स्कन्दमूलेन विन्यसेत् ॥ २६.६१॥

सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् ।
आरकूटञ्च विदुषा देवलोहं क्रमान्न्यसेत् ॥ २६.६२॥

हरितालक्रमञ्चैव गन्धञ्चागरुचन्दनम् ।
सौराष्टं गैरिकञ्चैव माक्षिकं प्राग्विदिक्षु च ॥ २६.६३॥

वैष्णवं वज्रपाणिञ्च वृषभध्वजमेव च ।
लक्ष्मीश्च सहदेवीञ्च शङ्खपुष्पं सुवर्चलम् ॥ २६.६४॥

दूर्वाञ्च श्रीमुखञ्चैव विन्यसेत्तु क्रमेण तु ।
यवगोधूमनीवारं शालिवैणवकानि च ॥ २६.६५॥

प्रियङ्गुतिलमुद्गानि निष्पावञ्च क्रमान्न्यसेत् ।
चन्दनं कुङ्कुमञ्चैव लोहपात्रं फलत्रयम् ॥ २६.६६॥

कर्पूरमुशिरञ्चैव पूर्वाद्याशासु विन्यसेत् ।
पृथिवीं शातकुम्भेन समुद्ररजतेन तु ॥ २६.६७॥

कृत्वा मयूरं ताम्रेण तोमरं चामरं गजम् ।
श्रीवत्सं कलशं भेरीं दर्पणं पद्मपुष्पकम् ॥ २६.६८॥

महामेरुसुवर्णेन कृत्वा रन्ध्रावटे न्यसेत् ।
देव्योस्तद्दक्षिणे वामे हेमाब्जानि न्यसेद्धृदा ॥ २६.६९॥

मध्यमे दक्षिणे सौम्ये त्ववटेषु क्रमान्न्यसेत् ।
पद्ममुद्राञ्च मुकुलीं शोधनीञ्च प्रदर्शयेत् ॥ २६.७०॥

पूजयित्वा तु रत्नानि गन्धपुष्पादिभिस्तथा ।
पांसुना चानुलिप्याथ पीठन्यासक्रमान्न्यसेत् ॥ २६.७१॥

सर्वालङ्कारसंयुक्ते मण्डले स्थण्डिलोपरि ।
नयनोन्मीलनं कृत्वा नेत्रयुग्मयुते दिने ॥ २६.७२॥

मृण्मये गर्भगेहे तु नेत्रमोक्षणमाचरेत् ।
स्नातश्शुद्धश्शिल्पवेषो भस्माभरणवस्त्रयुक् ॥ २६.७३॥

पीतोऽक्षिमोक्षणं कुर्यात् हेमसूचिकया सुधीः ।
देवदेव्योर्मयूरञ्च कुक्कुटञ्च क्रमेण तु ॥ २६.७४॥

पक्ष्मरेखान्ततो लिख्य ततो वै कृष्णमण्डलम् ।
ज्योतिर्मण्डलमालिख्य पश्चाच्छिल्पिं विसर्जयेत् ॥ २६.७५॥

तस्याग्रे स्थण्डिलं कृत्वा बिम्बं तस्योपरिन्यसेत् ।
पुण्याहं वाचयेत्तत्र प्रोक्षयेदस्त्रमन्त्रतः ॥ २६.७६॥

सूत्रैकादिसमायुक्तानष्टकुम्भान् न्यसेत्क्रमात् ।
बेरस्य परितोऽभ्यर्च्य लोकेशान् स्वस्वमन्त्रतः ॥ २६.७७॥

हेमसूच्या गुरुर्लिख्य नेत्रमन्त्रमनुस्मरन् ।
मधु वाताऋतायेति मधुपात्रं प्रदर्शयेत् ॥ २६.७८॥

घृतं मिमिक्षेति मन्त्रेण घृतपात्रं प्रदर्शयेत् ।
आप्यायस्चेति मन्त्रेण क्षीरपात्रं प्रदर्शयेत् ॥ २६.७९॥

सुवर्णं रजतं कांस्यं पात्रं मध्वादिना ततः ।
सुवर्णदूर्वया नेत्रं मध्वाज्यक्षीरमर्पयेत् ॥ २६.८०॥

सुवर्णरेखा संयुक्तं सूर्यसोमाग्निदैवतम् ।
तर्जनीमध्यमाधिक्यां न्यसेन्नेत्रमनुत्मरन् ॥ २६.८१॥

धेनुगव्येति मन्त्रेण सवत्सां गां प्रदर्शयेत् ।
ब्रह्मजज्ञानमन्त्रेण ब्राह्मणान्दर्शयेत्ततः ॥ २६.८२॥

जगद्भुवादिमन्त्रेण स्वस्तिमङ्गलवाचकैः ।
प्रच्छन्नपटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् ॥ २६.८३॥

पञ्चगव्येन संस्नाप्य पञ्चब्रह्मषडङ्गकैः ।
कलशाद्भिस्तु संस्नाप्य ततः पञ्चामृतादिभिः ॥ २६.८४॥

अष्टमृत्सलिलेनैव स्नापयेत्तु षडक्षरैः ।
पर्वताग्रे नदीतीरे वल्मीके कर्कटावटे ॥ २६.८५॥

दन्ति दन्ते वृषे श‍ृङ्गे गवां गोष्ठे चतुष्पथे ।
मृदमष्टविधं ग्राह्य प्रकुर्याद्बिम्बशुद्धिकम् ॥ २६.८६॥

स्नापयेद्बिल्वतोयैश्च पञ्चत्वक्सलिलैरपि ।
गन्धाद्भिश्शुद्धतोयैश्च स्कन्दसूक्तेनमन्त्रतः ॥ २६.८७॥

नमकं चमकञ्चैव पुरुषसूक्तमतः परम् ।
पञ्चशान्तिं जपित्वाथ स्नापयेच्छरसम्भवम् ॥ २६.८८॥

गन्धपुष्पादिभिर्विद्वान् पूजयेद्धृदयेन तु ।
सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ॥ २६.८९॥

वितानध्वजसंयुक्तं छत्रचामरभूषितम् ।
नानाभक्तजनैस्सार्धं नानादीपैस्समायुतम् ॥ २६.९०॥

रथे वा शिबिकायां वा कुर्याद्ग्रामप्रदक्षिणम् ।
जलतीरं समाच्छाद्य शुद्धिं कृत्वा भुवस्थलम् ॥ २६.९१॥

तस्मिन् बेरं समानीय वस्त्रादीनि व्यपोह्य च ।
नववस्त्रेण संवेष्ट्य लम्बकूर्चेन संयुतम् ॥ २६.९२॥

चतुर्गात्रयुतं कृत्वा जलमध्ये प्रपान्ततः ।
तन्मध्ये विन्यसेत्पीठं चतुर्गात्रयुतं दृढम् ॥ २६.९३॥

तदूर्ध्वे फलकां क्षिप्त्वा नाभिदघ्नेऽधिवासयेत् ।
अष्टकुम्भान् न्यसेद्दिक्षु दिग्देवान् पूजयेत्ततः ॥ २६.९४॥

पञ्चरात्रं त्रिरात्रं वाऽप्येकरात्रं जलोषितम् ।
चतुर्वेदैश्चतुर्दिक्षु कुर्यादध्ययनं द्विजैः ॥ २६.९५॥

पुण्याहं वाचयित्वाऽथ प्रोक्षयेद्यागमण्डपम् ।
वास्तुहोमं ततः कुर्यात् समीरिणपदे बुधः ॥ २६.९६॥

पर्यग्निकरणं तेन वह्निनाऽत्रैव कारयेत् ।
वेद्यूर्ध्वे स्थण्डिलं कृत्वा चाष्टद्रोणैस्तु शालिभिः ॥ २६.९७॥

तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि ।
तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ २६.९८॥

दर्भैर्लाजैस्सपुष्पैश्च परिस्तीर्य यथाविधि ।
शयनं कल्पयेत्तत्र चर्मजाद्यैरनुक्रमात् ॥ २६.९९॥

जलादुत्तीर्य देवेशं स्नानवेद्योपरि न्यसेत् ।
व्यपोह्य वस्त्रकूर्चादीन् गव्यैश्चैवाभिषेचयेत् ॥ २६.१००॥

स्कन्दसूक्तं जपित्वाऽथ पवमानमुदीरयन् ।
अयङ्कुमारमन्त्रेण मालामन्त्रेण देशिकः ॥ २६.१०१॥

शुभाम्भसा तु संस्नाप्य रक्तवस्त्रेण वेष्टयेत् । (शुद्धाम्भसा)
गन्धपुष्पादिभिः पूज्य हृदयेन तु मन्त्रतः ॥ २६.१०२॥

कौतुकं बन्धयेत्तत्र स्कन्दशक्तिं गुरूक्तमः ।
पद्ममुद्रां नमस्कार षण्मुखीं दर्शये त्ततः ॥ २६.१०३॥

नैवेद्यं दापयित्वाऽथ ताम्बूलञ्च निवेदयेत् ।
मण्डपं विकिरान् क्षिप्त्वा प्रोक्षयेदर्घ्यवारिणा ॥ २६.१०४॥

शयने शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् ।
शक्तिद्वयं द्विपार्श्वे त शाययित्वा यथाविधि ॥ २६.१०५॥

वस्त्रेणाच्छादयेच्छक्तिद्वयञ्चैव पृथक्पृथक् । (वस्त्रेणाच्छादयेशक्तिद्वयंञ्चैव)
भूतशुद्धिं ततः कृत्वाऽप्यन्तर्यजनमाचरेत् ॥ २६.१०६॥

अयङ्कुमारमन्त्रेण गन्धपुष्पादिनार्चयेत् ।
आसनं मूर्तिमूलञ्च ब्रह्माङ्गञ्चप्रपूरयेत् ॥ २६.१०७॥ (ब्रह्माङ्गञ्चप्रपूजयेत्)

सर्वलक्षणसंयुक्तान् कुम्भान् सङ्गृह्य देशिकः । (कुम्भान् सङ्ग्राह्य)
चतुर्विंशत्प्रस्थतोयैः पूरितं निष्कलङ्गुहम् ॥ २६.१०८॥ (निष्ककङ्गुहम्)

पक्वबिम्बफलोपम्यं निर्दोषञ्च घनस्वनम् ।
स्कन्दकुम्भमिति प्रोक्तं शक्तिवज्रधरं न्यसेत् ॥ २६.१०९॥

[स्कन्दकुम्भमिति प्रोक्तं द्रोणतोयेन पूरितम् ।
समृद्धां लक्षणोपेतां गृहीत्वा शक्तिवर्धनीम् ॥ २६.११०॥

त्रिवृत्सूत्रेण संवेष्ट्य प्रादक्षिण्याद्यवान्तरम् ।
द्रोणतोयेन सम्पूर्णान् कुम्भान्सर्वान्सलक्षणान् ॥ २६.१११॥

तन्तुनावेष्ट्य कुशलो गवाक्षसदृशान्तरम् ।
अस्त्रेण क्षाल्य च प्रोक्ष्य वस्त्रपूतैर्जलैश्शुभैः ॥ २६.११२॥

सर्वगन्धयुतैःपूर्य रक्तवस्त्रद्वयेन च ।
स्कन्दकुम्भं समावेक्ष्य वद्धन्यौ च पृथक्पृथक् ॥ २६.११३॥

स्कन्दबेरशिरो भागे कल्पयेदासनन्ततः ।
स्कन्दकुम्भन्तु विन्यस्य स्कन्दाद्यैस्सम्यगर्चयेत् ॥ २६.११४॥

पञ्चरत्नानि विन्यस्य न्यसेदुत्तमकूर्चकम् ।
स्कन्दकुम्भं न्यसेन्मध्ये स्कन्दमन्त्रं सबीजयुक् ॥ २६.११५॥

आधाराख्यमनन्तञ्च धर्मादीन् कल्पकल्पवित् ।
अष्टशक्तिश्शकुन्याद्यां आसनमूर्तिमेव च ॥ २६.११६॥

सङ्कल्प्य च प्रसन्नात्मा सपुष्पाञ्जलिहस्तवान् ।
प्रभामण्डलमध्यस्थं प्रद्योदिनदिशामुखम् ॥ २६.११७॥

सहस्रादित्यसङ्काशं रत्नकुण्डलभूषितम् ।
करण्डमकुटोपेतं शुद्धयज्ञोपवीतिनम् ॥ २६.११८॥

रक्तवर्णाम्बरालेपं माल्यादिभिरलङ्कृतम् ।
छन्नवीरकटीसूत्रपादनूपुरसंयुतम् ॥ २६.११९॥

मन्दस्मितं बालवेषं सुप्रसन्नं शुभेक्षणम् ।
यादृशं प्रतिमाकारं तादृशं भाव्य बुद्धिमान् ॥ २६.१२०॥

स्कन्दस्य मूलमन्त्रेण स्कन्दं पद्मस्थमावहेत् ।
स्वागतं सद्यमन्त्रेण स्थापनं वामदेवतः ॥ २६.१२१॥

अघोरेण निरोधन्तु सान्निध्यमीशमन्त्रतः ।
सम्मुखं पुरुषेणैव पाद्यमाचमनार्ध्यकम् ॥ २६.१२२॥

गन्धपुष्पं हृदा दद्यात् धूपन्धूरसि मन्त्रतः ।
दीपं उद्दीप्यमन्त्रेण नैवेद्यञ्चान्नसूक्तकम् ॥ २६.१२३॥

ताम्बूलं हृदयेनैव तेनैवाचमनन्ददेत् ।
पद्ममुद्रां षण्मुखीञ्च नमस्कारान्प्रदशयेत् ॥ २६.१२४॥

आवाह्य हृदयेनैव दिग्बन्धेदस्त्रमन्त्रतः ।
महावल्लीं देवसेनां श्यामरत्न समप्रभाम् ॥ २६.१२५॥

सौम्यवक्त्रे पद्महस्ते वर्धन्यौ स्वस्वबीजतः ।
आवाह्य दक्षिणे वामे पद्ममुद्रां प्रदर्शयेत् ॥ २६.१२६॥

परितश्चाष्टकुम्भांश्च पूर्वादिषु क्रमान्न्यसेत् ।
जयन्ताख्यमग्निशिखं कृत्तिका पुत्रसंज्ञकम् ॥ २६.१२७॥

अनलं तु भूतपतिं सेनान्यं गुहसंज्ञकम् ।
हेमशूलं विशालाक्षं शक्तिवज्रधरं न्यसेत् ॥ २६.१२८॥]
The second line of 26.109 is expanded
within 26.110 through 26.128

स्वनामाद्यक्षरैश्चैव नमोऽन्तैर्नामभिः क्रमात् ।
शक्तिञ्चैवाक्षमालाञ्च कमण्डलुधनुर्धरान् ॥ २६.१२९॥

वज्रं कृत्वा सुवर्णेन स्कन्दकुम्भे न्यसेत्पृथक् ।
स्वर्णेन रचितं पद्मं वर्धन्योर्विन्यसेत्ततः ॥ २६.१३०॥

रजतात्स्वस्तिकं कृत्वा कुम्भेष्वष्टसु विन्यसेत् ।
नैवेद्यञ्चैव पानीयं ताम्बूलञ्च हृदा ददेत् ॥ २६.१३१॥

आत्मविद्या शिवाख्यञ्च जानुकण्ठशिरोऽवधि ।
तत्त्वत्रयं साधिपतिं मूर्तिमूर्तीश्वरान्न्यसेत् ॥ २६.१३२॥

मूर्तयः क्ष्मादयस्तत्र कार्तिकेयादिमूर्तिपाः । (मूर्तिपः क्ष्मादयस्तत्र)
पञ्चैकचतुरस्त्रीणि पञ्चत्रिचतुरत्रयः ॥ २६.१३३॥

अनेन विधिना कुम्भान् पूर्वाद्याशासु विन्यसेत् ।
सुवर्णं सर्वकुम्भेषु न्यस्तव्यं फलकाङ्क्षिभिः ॥ २६.१३४॥

पश्चिमद्वारबाह्यान्ते नित्यद्वारं समर्चयेत् । (पश्चिमद्वारबाह्यास्थो वद्द्वारमर्चयेत्)
शान्तिभूतिबलारोग्यं चतुर्दिक्षुः सतोरणैः ॥ २६.१३५॥

शान्तिं सुदेहं सुमुखमिन्द्रं पूर्वे समर्चयेत् ।
इन्द्राग्निमध्यमे भानुं वह्निकोणे हुताशनम् ॥ २६.१३६॥

याम्ये विद्यां महावल्लीं ततः सेनापतिं यमम् ।
निरृतिञ्च महाविष्णुं लक्ष्मीं निरृतिगोचरे ॥ २६.१३७॥

आप्ये निवृत्तिं शिखिनं गजं वरुणमस्त्रकम् ।
वायुं गणेशं क्षेत्रज्ञं वायव्यां दिशि पूजयेत् ॥ २६.१३८॥ (गणेशं क्षेत्रेशं)

प्रतिष्ठां देवसेनाञ्च सुमित्रं सोममुत्तरे ।
ईशानञ्च चतुर्वक्त्रं गुरुमीशानगोचरे ॥ २६.१३९॥

तत्तत्स्वनाममन्त्रेण सर्वकुम्भान्समर्चयेत् ।
दशायुधानि सम्पूज्य हुम्फडन्तं स्वनामतः ॥ २६.१४०॥

भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ।
सावधानेन यागान्तं यावत्स्थेयं गुहाज्ञया ॥ २६.१४१॥

इत्येवं दशलोकेशान् प्रत्येकं श्रावयेद्गुरुः ।
दर्पणं पूर्णकुम्भश्च मयूरं युग्मचामरम् ॥ २६.१४२॥

श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ।
तेषु सम्पूजयेन्मन्त्री गङ्गाद्यष्टनदीः क्रमात् ॥ २६.१४३॥

गङ्गाञ्च यमुनाञ्चैव नर्मदाञ्च सरस्वतीम् ।
सिन्धुं गोदावरोञ्चैव कावेरीं कुमरीं ततः ॥ २६.१४४॥

तृणबन्धांञ्च कम्पाञ्च वंशे स्तम्भे यथाक्रमम् ।
पृथिव्यादीनि तत्त्वानि पूजयेन्मण्डपे सुधीः ॥ २६.१४५॥

मण्डपञ्च गुहव्याप्तं निर्विघ्नं भाव्य तत्परः ।
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदन्तु दक्षिणे ॥ २६.१४६॥

पश्चिमे सामवेदञ्च उदीच्यां दिश्यथर्वणम् ।
मालामन्त्रं स्कन्दसूक्तं गायत्रीं पञ्चशान्तिकम् ॥ २६.१४७॥

आग्नेयादिषु कोणेषु जपित्वा मन्त्रवित्तमैः ।
आचार्यो मूर्तिपैस्सार्धं होमकर्म समाचरेत् ॥ २६.१४८॥

कार्तिकेयो विशाखश्च गुहश्चैवासुरान्तकः ।
सेनानीः षण्मुखश्चैव मयूरवाहनस्तथा ॥ २६.१४९॥

शक्तिपाणिरिति ख्याता एते चैवाष्टमूर्तिपाः ।
स्वनामाद्यक्षरेणैव कुण्डानां दक्षिणे यजेत् ॥ २६.१५०॥

अग्न्याधानादिकं सर्वमग्निकार्योक्त वर्त्मना ।
प्रधाने स्कन्दमावाह्य सब्रह्माङ्गं सलोचनम् ॥ २६.१५१॥

तत्त्वत्रयं साधिपतिं मूर्तिमूर्तीश्वरान्वितम् ।
महावल्लीं देवसेनां सहितं सम्प्रपूजयेत् ॥ २६.१५२॥

पालाशखदिराश्वत्यवटबिल्वशमी तथा ।
प्लक्षः पश्चादपामार्गमुदुम्बरमितीरितम् ॥ २६.१५३॥

प्रधानाद्यग्निकुण्डानां समिधो नव कीर्तिताः ।
सार्द्रा सत्ववसपलाशाश्च सप्ररोहा अनिन्दिताः ॥ २६.१५४॥

कनिष्ठाङ्गुलनाहं स्याद्द्वादशाङ्गुलमायताः ।
समिदाज्य चरु लाजं यवं सक्तुञ्च सर्षपम् ॥ २६.१५५॥ (यवं वेणुं)

तिलं मुद्गं गुलं वेण मधु क्षीरं पुनर्दधि । (गुलं चैव)
द्रव्यं त्रयोदशं प्रोक्तं होमयेत्तु यथाक्रमम् ॥ २६.१५६॥ (द्रव्याणि द्वादशैतानि प्रोक्तं)

मूल मन्त्रं षडङ्गैश्च समिधादीनि मन्त्रवित् । (ब्रह्म मन्त्रं)
शतमर्धं तदर्धं वा मूलमन्त्रेण देशिकः ॥ २६.१५७॥

ब्रह्माङ्गानां दशांशं स्यान्मूलार्धं मूर्तिपाहुतिः ।
मूर्तिपा जुहुयात् दिक्षु सर्वांश्च स्वस्वमन्त्रतः ॥ २६.१५८॥ (जुहुयात् विदिक्षु)

स्कन्दगायत्रिमन्त्रेण प्रतिकुण्डं विशेषतः ।
शतमर्धं तदर्धं वा सर्पिषा जुहुयात्सुधीः ॥ २६.१५९॥

द्रव्यान्ते व्याहृतीर्हृत्वा स्पृष्ट्वा स्पृष्ट्वा च बेरकम् ।
स्कन्दसूक्तैश्च मन्त्रैश्च षड्भिः षड्वारमाज्यतः ॥ २६.१६०॥ (स्कन्दसूक्तस्य)

जगद्भुवादिषण्मूर्तिमन्त्रैश्चैव हुनेत्सुधीः ।
अयङ्कुमारमन्त्रेण होमयेत् षोडशाहुतीः ॥ २६.१६१॥

मालामन्त्रेण मन्त्रज्ञो जुहुयाच्छिरसाहुतिम् ।
कृत्वैवं सर्वकुण्डेषु कुर्यात्तु शिरसा हुनेत् ॥ २६.१६२॥

सर्वद्रव्यसमायुक्तं हव्यवाहेन होमयेत् ।
दृढद्रव्यं करेणैव द्रवद्रव्यं स्रुवेण च ॥ २६.१६३॥

बीजानि कर्षयेच्चैव लाजमञ्जलिना हुनेत् ।
उपोष्यतो गुरुस्त्वैवं रात्रिशेषं व्यपोह्य च ॥ २६.१६४॥

मूर्तिपैस्सह संस्नात्वा नित्यकर्मकृतो गुरुः ।
सोष्णीषस्सोत्तरीयश्च हैमपञ्चाङ्गभूषणः ॥ २६.१६५॥

शिवद्विजकुलोद्भूतः शिवशास्त्रविशारदः ।
सामान्यार्घ्यं विशेषार्घ्यं पञ्चगव्यानि साधयेत् ॥ २६.१६६॥

पूर्ववद्द्वारपूजादिदिग्देवांस्तु समर्चयेत् ।
आसनावरणानान्तु हुत्वाऽप्येकैकमाहुतिम् ॥ २६.१६७॥

स्कन्दमूलेन मन्त्रेण शतमष्टोत्तरं हुनेत् ।
जयादिरभ्याधानञ्चराष्ट्रभृच्च हुनेत्क्रमात् ॥

प्रायश्चित्तमघोरेण होमयेत् षोडशाहुतिः ।
पूर्णाहुतिं ततः कृत्वा धूपदीपादिकान्ददेत् ॥
प्रार्थयित्वा नमस्कृत्वा बलिमन्तर्बलिं क्षिपेत् ।
बहिर्बलिं ततः कुर्यात् ज्ञानखड्गधरो गुरुः ॥

पूर्णाहुतिं ततः कृत्वा ज्ञानखङ्गधरो गुरुः ।
देशिकं तोषयेद्देवं सन्निधीकरणाय च ॥ २६.१६८॥

आचार्यं पूजयेत्कर्ता गोभूमिधनकाञ्चनैः ।
अधमं दशनिष्कन्तु द्विगुणं मध्यमं स्मृतम् ॥ २६.१६९॥

उत्तमं त्रिगुणं ज्ञेयं देशिकस्य तु दक्षिणा ।
तस्यैवं पञ्चमांशैकं मूर्तिपानान्तु दक्षिणा ॥ २६.१७०॥

जापकान्वास्तुहोतारं तदर्धेनैव तोषयेत् ।
दैवज्ञं शिल्पिनञ्चैव तोषयेन्मूर्तिधारिवत् ॥ २६.१७१॥

भक्तानां परिचाराणां यथाशक्त्या तु दक्षिणाम् ।
शयनाद्बिम्बमुत्थाप्य स्नानवेद्युपरि न्यसेत् ॥ २६.१७२॥

घृतं शिरोर्पणं कुर्यात् हेमदूर्वाङ्कुराक्षतैः ।
पञ्चगव्येन संस्नाप्य पश्चात्पञ्चामृतादिभिः ॥ २६.१७३॥

रक्ततोयैस्स्वर्णतोयैः शुभोदैर्गन्धतोयकैः । (शुद्धोदैर्गन्धतोयकैः)
हिरण्यवर्णा ऋग्भिश्च पवमानैश्च मन्त्रतः ॥ २६.१७४॥

नमकञ्चमकञ्चैव स्कन्दसूक्तञ्च शान्तिकम् ।
जपित्वा स्नापयेत्स्कन्दं गन्धपुष्पादिनार्चयेत् ॥ २६.१७५॥

अर्घ्यपाणिर्गुरुः पश्चात्प्रविशेद्गर्भगेहकम् ।
मानुषे दैविके वाऽपि प्राग्वत्संस्कारसंयुते ॥ २६.१७६॥

कुशलो हृदयेनैव रत्नौषधिविगर्हितम् ।
विन्यस्य सुदृढं कृत्वा षण्मुखस्यासनाय च ॥ २६.१७७॥

सर्वातोद्यसमायुक्तं वेदघोषसमन्वितम् ।
अर्घ्यपाणिः पुरो गत्वाऽप्याचार्यो मूर्तिपैस्सह ॥ २६.१७८॥

सदारपुत्रास्सभ्राता यजमानो व्रजेदनु ।
हर्म्यं प्रदक्षिणं कृत्वा गर्भगेहे गुहं नयेत् ॥ २६.१७९॥

सुलग्ने सुमुहूर्ते च यथा द्वारं तथा मुखम् ।
अथ ब्रह्म शिखोपेतं स्थापयेच्छरसम्भवम् ॥ २६.१८०॥ (ब्रह्म शिलोपेतं)

दक्षिणे तु महावल्लीं देवसेनां तथोत्तरे ।
अष्टबन्धं ततः कुर्याद्यथा दृढतरं तथा ॥ २६.१८१॥

सर्वातोद्यसमायुक्तं कुम्भानुद्धृत्य देशिकः ।
मूर्तिपैश्शिरसावाह्य कुर्याद्धामप्रदक्षिणम् ॥ २६.१८२॥

देवस्याग्रे क्रमेणैव स्थण्डिलोपरि विन्ययेत् ।
प्रच्छन्नपटमानीय भक्त्या परमया पुनः ॥ २६.१८३॥ (परमया युतः)

आचार्यस्सुप्रसन्नात्मा दृढचिक्तो जितेन्द्रियः ।
मूर्धादिकल्पितस्थानेष्वादिवर्णांल्लिखेत्क्रमात् ॥ २६.१८४॥

सैकत्रिंशत्कलान्यासं मकुटादिक्रमान्न्यसेत् ।
जगद्भुवादिषण्मन्त्रैर्वक्त्रस्थानेषु विन्यसेत् ॥ २६.१८५॥

शिरोवदनहृन्नाभिगुह्याङ्घ्रिषु च तान् पुनः ।
मातृकां बिन्दुसहितां देव्योरङ्गे क्रमान्न्यसेत् ॥ २६.१८६॥

मुहूर्तं वेक्ष्य दैवज्ञो गुरवे सन्निवेदयेत् ।
प्राणात्प्रकृतियोगन्तु ज्ञात्वा स्थापनमा चरेत् ॥ २६.१८७॥ (स्थापनमा रभेत्)

यथोत्कृष्टं क्रमात् ज्ञत्वा तथा संस्थापयेद्गुरुः ।
कुम्भाद्बीजं समादाय बेरस्य हृदि विन्यसेत् ॥ २६.१८८॥

ब्रह्माङ्गानि सबीजानि मूर्धादिक्रमशो न्यसेत् ।
मुकुलीं पद्ममुद्राञ्च षण्मुखीं धेनुमुद्रिकाम् ॥ २६.१८९॥

शक्तिमुद्रां नमस्कारान्दर्शयेत्तु गुहाय वै ।
स्कन्दकुम्भस्थतोयेन स्कन्दं संस्नापयेद्गुरुः ॥ २६.१९०॥

वर्धन्योर्बीजमादाय देव्योश्चूचुकमध्यमे ।
पूर्वं सव्ये महावल्लीं देवसेनाञ्च वामके ॥ २६.१९१॥

विन्यस्य योनिमुद्राञ्च पद्माख्यं दर्शयेत्पृथक् ।
तत्तत्कुम्भस्थतोयेन स्नापयच्छक्तिकाद्वयम् ॥ २६.१९२॥ (स्थापयच्छक्तिकाद्वयम्)

स्थापने शक्तिरहिते वर्धनीद्वयबीजकम् ।
पीठे पार्श्वद्वये विद्वान् स्थाप्य तत्राभिषेचयेत् ॥ २६.१९३॥

जयन्तादिघटाद्भिस्तु पीठेसंस्थापयेत्क्रमात् ।
गन्धतोयेनसंस्नाप्य गव्यैः पञ्चामृतैःपुनः ॥ २६.१९४॥

स्कन्दसूक्तेनमन्त्रेण जपेत्षोडशवारकम् ।
शुद्धाम्भसातुसंस्नाप्य मूलब्रह्मषडङ्गकैः ॥ २६.१९५॥

पाद्यंवैसद्यमन्त्रेण वामेनाचमनान्ददेत् ।
अर्घ्यंवैघोरमन्त्रेण वस्त्रंहृदयमन्त्रतः ॥ २६.१९६॥

गन्धन्तत्पुरुषेणैव पुष्पमीशानमन्त्रतः ।
भूषणङ्कवचेनैव धूपदीपौहृदाददेत् ॥ २६.१९७॥

अभ्यर्च्याधारशक्त्यादि पञ्चवरणसंयुतम् ।
रक्ताम्बरैरक्तमाल्यै रक्तगन्धैश्चभूषयेत् ॥ २६.१९८॥

पञ्चवर्णहविर्दद्यादन्नसूक्तेनमन्त्रतः ।
ताम्बूलाद्युपचाराणि सर्वाणिसहृदाददेत् ॥ २६.१९९॥

स्वसूत्रान्देवदेवीनामुद्वाहङ्कर्मकारयेत् ।
चतुर्त्थेदिवसेविप्रे शेषहोमंसमाचरेत् ॥ २६.२००॥

भूदानन्देशिकायैवदद्यात् कर्थायथाबलम् ।
ब्राह्मणान् भोजयेत् पश्चात् दीनानन्धांश्चभुजयेत् ॥ २६.२०१॥

तदन्तेस्नपनङ्कुर्यात् वित्तशाठ्यन्न कारयेत् ।
एवंयःकुरुतेमर्त्यस्सपुण्याङ्गतिमाप्नुयात् ॥ २६.२०२॥

आयुःपुत्रकलत्रञ्च वसुविद्यायशोबलम् ।
सौभाग्यम्महतीलक्ष्मीमरोगत्वमनाकुलम् ॥ २६.२०३॥

इहेवलब्ध्वाभूपृष्ठे भुक्त्वाभोगान्यथेफ्सितान् ।
कर्ताकारयिताचैव कौमारंलोकमाप्नुयात् ॥ २६.२०४॥

फलंस्कन्दप्रतिष्ठायास्सङ्क्षेपात् श‍ृणुसुव्रत।
बेरसंवेशवेद्यान्तु यावन्तः वरमाणवः ॥ २६.२०५॥

ताव्द्वर्षसहस्राणिस्कन्दलोकेमहीयते ॥ २६.२०५॥

इति श्रीकुमारतन्त्रे अचलस्नापनविधिर्नाम षड्विंशः पटलः ।