अथ कौशिक वक्ष्येऽहं शूलस्थापनमुत्तमम् ।
चन्दनस्तिन्दुकस्तालश्शिरीषं सोमवल्कलम् ॥ २५.१॥
राजादनः सप्तपर्णः स्तम्बको रक्तचन्दनम् ।
आसनं खादिरो देवदार्वेते शूलबेरयोः ॥ २५.२॥
उत्कृष्टभूमिसञ्जाता भिन्नसारास्युरुत्तमाः ।
रूक्षसारा मध्यमा स्युः फल्गुसाराश्च निन्दिताः ॥ २५.३॥
वक्रं त्वशनिना भग्नं स्वयं शुष्कं परित्यजेत् ।
स्त्रीपुन्नपुंसकं ज्ञात्वा त्यजेद्वृक्षं नपुंसकम् ॥ २५.४॥
स्यात्स्त्रीवृक्षं पुमान् पुंसी कर्तव्यं फलकाङ्क्षिभिः ।
प्रशस्तपक्षनक्षत्रे सुमुहूर्ते सुलग्नके ॥ २५.५॥
स्थपतिर्विधिना ग्राह्यं कल्पयेत्स्थापकाज्ञया ।
यावद्बेरोच्चमधुना तावच्छूलस्य दैर्घ्यकम् ॥ २५.६॥
चतुर्भागैकविस्तारं मध्योदरविशालकम् ।
अष्टश्रं चतुरश्रं वा हिक्कान्तास्यन्तमीरितम् ॥ २५.७॥
शेषाण्यङ्गानि वृत्तानि कारयेन्मुनिपुङ्गव ।
पञ्चभागैकहीनेन बाहुपर्यन्तविस्तरम् ॥ २५.८॥
वक्षो दण्डवनं तस्य भूतभागैकविस्तरम् । (वक्षो दण्डायतं)
कटि विस्तारं पञ्चांशहीनेन कटिदण्डकम् ॥ २५.९॥
हस्तौ पादावङ्गुलीश्च तथैव परिकल्पयेत् ।
मानो ज्ञानप्रमाणेन प्रतिमां कारयेद्बुधः ॥ २५.१०॥
मानहीने महाव्याधिरधिके रिपुवर्धनम् ।
तस्मात्सर्वप्रयत्नेन कारयेल्लक्षणान्वितम् ॥ २५.११॥
उक्तस्थानं प्रकर्तव्यं रत्नन्यासन्तु पूर्वके ।
बीजानि सर्वरत्नानि धातुगन्धौषधीरपि ॥ २५.१२॥
पात्रे निधाय पूर्वादितत्तद्दिक्पतिमन्त्रतः ।
देशिकः स्थाप्य तत्पश्चात् शूलस्थापनमाचरेत् ॥ २५.१३॥
इति श्रीकुमारतन्त्रे शूलस्थापनविधिर्नाम पञ्चविंशः पटलः ।