२४ प्रतिमालक्षणविधिः

प्रतिमालक्षणं वक्ष्ये श‍ृणुष्व कुशिकात्मज ।
चलं चलाचलं बेरमचलं त्रिविधं भवेत् ॥ २४.१॥

शार्करं मृण्मयं बेरमचलं बेरमुच्यते । (सौधमचलं बेरमिष्यते)
शैलजं दारुजं बेरं चलाचलमिति स्मृतम् ॥ २४.२॥

चलमेवं समाख्यातं रक्तं लोहञ्च दारुजम् ।
शिलां वाऽप्यथ दारुं वा कर्म योग्यस्य लक्षणम् ॥ २४.३॥ (कर्म योग्य स)

सुनिमित्तेन सङ्ग्राह्य सर्वमङ्गलसंयुतम् ।
स्थपतिर्वास्तुशास्त्रज्ञः स्कन्दबेरं प्रकल्पयेत् ॥ २४.४॥

सर्वेषां मङ्गलार्थाय मानकल्पं वदाम्यहम् ।
गर्भे नवकृते भागे रुद्रमादित्रयं त्रयम् ॥ २४.५॥

पुनर्विंशत्कृते भागे दशांशमधमं भवेत् ।
रुद्रांशं मध्यमं ज्ञेयमुत्तमं द्वादशांशकम् ॥ २४.६॥

वसुगर्ते पुनर्गर्भे पुनर्मध्यमकल्पिते ।
नवमानं भवेत्तत्र हस्तमानं ततोच्यते ॥ २४.७॥

एकादिनवहस्तान्तं षट्षडङ्गुलवर्धनात् ।
त्रयस्त्रिंशन्मानमुदितं हस्तमानं महामुने ॥ २४.८॥

दैर्घ्ये नवकरादूर्ध्वमेकविंशत्करान्तकम् ।
हस्तमानेन कर्तव्यं क्षुद्रहर्म्येण कारयेत् ॥ २४.९॥

एकहस्तोच्छ्रया दूर्ध्वं मूलबेरं न कारयेत् । (एकहस्तोच्छ्रया दून)
मूलबेरोदयं ह्येवमुत्सवप्रतिमां श‍ृणु ॥ २४.१०॥

मूलबेरसमोत्तुङ्गं तदर्धं वा तदर्धकम् ।
भूतांशं सप्तभागे तु भूतभागे युगांशकम् ॥ २४.११॥

अन्यांशे द्वयभागञ्च षण्मानं मूलबेरतः ।
गर्भे नवकृते मानं नवधा गर्भमानतः ॥ २४.१२॥

मूलद्वारसमोत्तुङ्गं नवांशैकोनमेव च ।
अष्टभागैकहीनं वा त्रिमानं द्वारमानतः ॥ २४.१३॥

उत्तमं नवहस्तन्तु पञ्चहस्तन्तु मध्यमम् ।
अधमं त्रयहस्तन्तु गर्भमानमितीरितम् ॥ २४.१४॥

सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनम् ।
पञ्चत्रिंशदङ्गुलान्तमङ्गुलत्रयमानकम् ॥ २४.१५॥

आदिप्रासादविस्तारं तद्बाह्यं कल्पमानतः ।
तदर्धमुत्तमं ज्ञेयं तदर्धं मध्यमं स्मृतम् ॥ २४.१६॥

तस्यार्धमधमं विद्धि त्रिमानं हर्म्यमानतः ।
व्रातेरुत्तरसीमान्तं स्तम्भमानं तदुत्तमम् ॥ २४.१७॥

मध्यमं तु नवांशोन मस्तांशोनं तथा धमम् । (मध्यमं तमनवांशोनं अष्टांशोनं तथा मतं)
मूलबेराधिकोत्तुङ्गं स्थास्पनादिषु योग्यकम् ॥ २४.१८॥

परिवारादिके योग्यमधिकोच्छ्रायमीरितम् ।
लब्धमानेन मतिमान् काम्यं संयोजयेत्ततः ॥ २४.१९॥ (मतिमान् जात्यशं)

वेदाशीतिद्विषष्ठी च चतुर्विंशाच्च षोडशी ।
भागं कृत्वैकभागं तु जात्यशं ब्राह्मणादिषु ॥ २४.२०॥

यजमानांङ्गुलैर्भक्त्वा शुभायादीनि लक्षयेत् । (युज्यमानांङ्गुलैर्भक्त्वा)
हीनं चेदङ्गुलेप्यत्र परिपूर्य समीक्षयेत् ॥ २४.२१॥

आयं वसुद्वादशभिर्व्ययं चत्वारि पङ्क्तिभिः ।
संयोगरहिताष्टाभिर्नक्षत्रं वसुमक्षकैः ॥ २४.२२॥ (योनिरग्निभिर्नक्षत्रं वसुऋक्षकैः)

द्वारञ्च नन्दमुनिभिरंशको वेदनन्दतः ।
हृत्वा विभेद्य तच्छेषमायादिगणयेत्सुधीः ॥ २४.२३॥

आयाधिक्ये धनं प्रोक्तं व्ययाधिक्ये धनक्षयम् ।
नक्षत्रेषु शुभा प्रोक्ता विपत्प्रत्यरनैधना ॥ २४.२४॥

ध्वजसिंहो वृषो नन्दी शुभदा अष्टयोनिषु । (वृषो दन्ती)
वारे शुभार्कसौराशाः शुभयोगे शुभप्रदाः ॥ २४.२५॥

अंशके तस्करक्लीबा धनप्रेक्ष्यस्तथा शुभाः ।
एवं परीक्ष्य बहुधा कारयेल्लक्षणान्वितम् ॥ २४.२६॥

स्वतः प्रधाने कर्तव्यं दशधा चोत्तमेन तु ।
मध्यमं दशतालेन देव्यौ च परिकल्पयेत् ॥ २४.२७॥

लोहजं चेन्मधूच्छिष्टं वह्निताप्यं च पात्रके ।
वस्त्रेण शोध्य मतिमान् मण्डले स्थण्डिलोपरि ॥ २४.२८॥ (मण्डपे)

फलकोर्ध्वे सुलग्ने तु स्थपतिः स्थापकाज्ञया ।
मूलादिपादपर्यन्तं कल्पयेत्कल्पवित्तमः ॥ २४.२९॥ (मूर्धादिपादपर्यन्तं)

षण्मानमत्र कथितमायमानमितीरितम् ।
प्रमाणं विपुलं प्रोक्तमुच्चमुन्मानमेव च ॥ २४.३०॥

परिमाणं तु तन्नाहं तीव्रं स्यादुपमानके ।
लम्बसूत्रं लम्बमानं षण्मानमिदमीरितम् ॥ २४.३१॥

लम्बोत्सेधं प्रकुर्यात्तु चतुर्विंशच्छतं बुधः । (लब्धोत्सेधं)
तेष्वेकं तु समं मूले त्रितस्याष्टांशसम्भवे ॥ २४.३२॥

अङ्गुलं मात्रमित्युक्तं द्व्यङ्गुलं कोलकं स्मृतम् ।
त्र्यङ्गुलं तु कला ज्ञेया भागं स्याच्चतुरङ्गुलम्म् ॥ २४.३३॥

तद्द्वयं वाचकं चैव मुखं तद्द्वदशाङ्गुलम् ।
मुखं तालद्विपञ्चैव तस्याः पर्यायवाचकाः ॥ २४.३४॥

उष्णीषं त्रयवैकांशः केशास्तिस्रोंऽशकं तथा । (त्रयवैकांशः केशान्तं त्र्ययङ्कत्वथ)
भागमग्न्यवमक्ष्यन्तं समं नासापुटान्तकम् ॥ २४.३५॥

हन्वन्तं तत्समं ज्ञेयं तस्मा दूर्ध्वं शताङ्गुलम् ।
कलासप्तयवं कण्ठं मुखं रुद्रयवं च हृत् ॥ २४.३६॥

तत्समं नाभिपर्यन्तं नाभेर्मेढ्रान्तकं समम् ।
नक्षत्रांशमधश्चोरु युगांशं जानुदैर्घ्यकम् ॥ २४.३७॥

अधश्चोरुसमं जङ्घा जानुगुह्यपदोन्नतम् ।
उष्णीषात्पूर्वकेशान्तं नवांशं परिकीर्तितम् ॥ २४.३८॥

उष्णीषाद्ब्रह्मकेशान्तमारभ्याङ्गुलमुदाहृतम् ।
द्वयोः कर्णान्तरं पूर्वे एकविंशतिमात्रकम् ॥ २४.३९॥

द्व्यङ्गुलं कर्णविस्तारमायामं वसुमात्रकम् ।
भ्रूसूत्रसममेवोक्तं श्रोत्रांशं मुनिपुङ्गव ॥ २४.४०॥

तत्पृष्ठकर्णयोर्मध्ये त्रयोदशांशमीरितम् ।
पिप्पल्यन्तादधः कुर्यात्भागं तालावलम्बनम् ॥ २४.४१॥ (कुर्यात्भागं नालविलम्बनं)

तालान्तं च समात्रं तत् घनं त्रियवं भवेत् । (नालान्तरन्त्वर्ध तत्)
पिप्पलीचार्धमूलं च सुषिरं तस्य मानकम् ॥ २४.४२॥ (पिप्पलीचार्धमात्रं)

नक्रकुण्डलसंयुक्तं शेषमात्राविलम्बनम् ।
शक्तिकाकारवत्कर्णनालाकृतिरुदाहृता ॥ २४.४३॥

द्वियवं कर्णपालिश्च तत्समं कर्णपट्टिका ।
मात्रार्धं कर्णपालीस्यादङ्गुला कर्णपालिका ॥ २४.४४॥

लकारीव तयोर्मध्ये चञ्च्वक्षी कर्णचूलिका ।
अपाङ्गात्कर्णमूलं तु सप्तमात्रं प्रचक्षते ॥ २४.४५॥

कोलकद्वयसाधिक्यान्नेत्रायाममुदाहृतम् ।
षडयवं नेत्रविस्तारमायामं तु त्रिधा भवेत् ॥ २४.४६॥

कृष्णमण्डलमैशांशं मध्ये न्यसितमण्डलम् ।
कृष्णमण्डलमध्ये तु ज्योतिर्युक्तप्रमाणतः ॥ २४.४७॥ (ज्योतियूकाप्रमाणतः)

करवीरोपमं रक्तं नयनस्य च मूलके ।
कनीनिका यवाद्दीर्घात् त्रिवर्णैर्लोचनं स्मृतम् ॥ २४.४८॥

ऊर्ध्वहर्म्यस्य यानं तु द्वियवार्धं यथाभवेत् ।
नवती पक्ष्मरोमाणि कृष्णाञ्जननिभानि च ॥ २४.४९॥

भ्रूरेखायाश्चक्षुरेखा कोलकद्वयबाधिरम् ।
भ्रूरेखा मूलकेशान्तं तत्समं परिकीर्तितम् ॥ २४.५०॥

भ्रूदीर्घसममात्रन्तु विस्तारं यवमेव च ।
आरोपचापाकृतिवत् मूलादपं कमात्कृशम् ॥ २४.५१॥

द्व्यङ्गुलं त्रियवं प्रोक्तं द्वयोः कर्णान्तरं स्मृतम् ।
मूलनासार्धमात्रं स्यादग्रनासा शराङ्गुला ॥ २४.५२॥

पुटमर्धाङ्गुलं तारं तत्तुङ्गं पञ्चभिर्यवैः ।
सुषिरं त्रियवं तिर्यक् बाह्ये चार्धयवं धनम् ॥ २४.५३॥

पुटान्तं त्रियवं चैव गोजिमानं चतुर्यवम् ।
गोज्याश्च नासिकोत्सेधं कोलकं त्रियवाधिकम् ॥ २४.५४॥

द्व्यंशस्यैव तु विस्तारमङ्गुलं चेति कीर्तितम् ।
पुष्करन्तु यवोत्सेधं पुरस्तात् षड्यवं ततः ॥ २४.५५॥

द्वियवं चार्धमेकं तु पुष्करन्तु विधीयते ।
तिलपुष्पाकृतिर्नासापुटनिष्पावबीजवत् ॥ २४.५६॥

पुटान्तादधरोष्ठान्तं कोलकं द्वियवाधिकम् ।
दन्तं दृश्यमदृश्यं हि द्वित्रयं परिकीर्तितम् ॥ २४.५७॥ (हि द्वात्रिंशत्)

द्वियवं तस्य विस्तारमुत्सेधं तत्समं भवेत् ।
ऊर्ध्वे षोडश मन्तव्या अधस्तात्तु तथैव च ॥ २४.५८॥

अधोदन्तस्य विस्तारं यवार्धं सममुच्छ्रयम् ।
जिह्वायामन्तु षण्मात्रं विस्तारं स्यात्तदर्धकम् ॥ २४.५९॥

अधरोष्ठस्य विस्तारमङ्गुलं स्याद्यवाधिकम् ।
मुनिरन्तञ्च विस्तारमायामः स्याद्द्विमात्रकम् ॥ २४.६०॥

भागं च त्रियवाधिक्यमास्यविस्तारमीरितम् ।
ग्रीवामूलस्य विस्तारं नवमात्रं च षड्यवम् ॥ २४.६१॥

ग्रीवात्तु गलपर्यन्तं कला च द्वियवाधिकम् ।
तद्गलाद्धनुपर्यन्तम्मङ्गुलं चेति कीर्तितम् ॥ २४.६२॥

ग्रीवं सुवृत्तमुदितं द्विरेखा परिवेष्टितम् ।
सूत्रान् क्रमेण चोद्भागं कोलकं चाङ्गुलं भवेत् ॥ २४.६३॥

हिक्कासूत्रान् क्रमेणोच्चं भागं कोलकमङ्गुलम् ॥

अर्धाङ्गुलं क्रमात् क्षीणं बाहुपर्यन्तमेव च ।
वक्षःस्थलस्य विस्तारं दशभागं चतुर्यवम् ॥ २४.६४॥

हिक्कासूत्रादधो बाहुः सप्तविंशतिमात्रकम् ।
कोलकं कूर्परायामं त्रिसप्तांशप्रकोष्ठकम् ॥ २४.६५॥

तस्मान्मध्याङ्गुलस्याग्रं सार्धत्रयोदशाङ्गुलम् ।
सप्ताङ्गुलतलायामं शेषं मध्याङ्गुलायतम् ॥ २४.६६॥

पाणेस्तलस्य विस्तारं षण्मात्रं च चतुर्यवम् ।
तत्तुल्योऽप्यष्टभागैकं हीनमग्रस्य चाग्रतः ॥ २४.६७॥

सार्धकोलकमात्रेण तलमूले घनं भवेत् ।
षड्यवैकांशमुदितं तलस्याग्रघनं मुने ॥ २४.६८॥

पञ्चाशद्द्वियवोपेतं तर्जन्यानामिकाङ्गुली ।
द्वियवोपेतभागं स्यादङ्गुष्ठस्य तु दैर्घ्यकम् ॥ २४.६९॥

यवादिकाष्टमो भागो कनिष्ठाङ्गुलदैर्ध्यकम् । (यवाधिकेन भागेन कनिष्ठाङ्गुलदैर्ध्यकम्)
रसदृक् गन्धदिक्पङ्क्तियवतारं व्यतारकम् ॥ २४.७०॥

अङ्गुष्ठादेस्तदग्रे स्यादष्टभागैकहीनकम् ।
अङ्गुल्यग्रं त्रिधा कृत्वा द्विभागं नवविस्तृतम् ॥ २४.७१॥

तत्तारेण यवोपेतं नखायामं प्रकीर्तितम् ।
अङ्गुष्ठन्तु द्विपर्वं स्यादन्याङ्गुल्यस्त्रिपर्वयुक् ॥ २४.७२॥

तस्याग्रे द्व्यङ्गुलं हित्वा द्विद्विरेखान्तरं नयेत् ।
मूलादूर्ध्वगरेखा तु मध्यमाङ्गुलरेखयुक् ॥ २४.७३॥

मूलयुग्मनिबद्धस्य भागमेकं प्रकीर्तितम् । (मणिबन्धस्यविस्तारं भागमेकं)
प्रकोष्ठमध्यविस्तारं भागमेकं प्रकीर्तितम् ॥ २४.७४॥

बाहुमध्यमविस्तारं द्वियावकमथोच्यते । (अर्धयावकमथोच्यते)
बाहुमूलस्य विस्तारं नवमात्रार्धमिष्यते ॥ २४.७५॥

हिक्कासूत्रं तु कक्षान्तं नवमात्रार्धमुच्यते ।
कारयेत्तु द्विबाहुं च मूलतारं गुणाङ्गुलम् ॥ २४.७६॥

स्तनयोरन्तरं तद्वच्च्चूचुकं तु यवान्तरम् ।
द्वियवस्तस्य विस्तारं मण्डलं तु द्विमात्रकम् ॥ २४.७७॥

हृत्प्रदेशस्य विस्तारं सार्धं स्मृत्यङ्गुलं भवेत् ।
उदरस्य तु विस्तारं सार्धत्रयोदशाङ्गुलम् ॥ २४.७८॥

यवद्वयं तु हीनं स्याद् विस्तारं षड्यवं भवेत् । (तु निम्नं)
नाभिप्रदक्षिणावर्तं श्रोणिश्चाष्टादशांशकम् ॥ २४.७९॥

कटिप्रदेशविस्तारं द्वाविंशत्यङ्गुलं भवेत् ।
शरीरे गोमुखाकारं कट्याश्चोर्ध्वं प्रशस्यते ॥ २४.८०॥

शरमात्रं यवोपेतं मेढ्रायाममुदाहृतम् ।
वेदाङ्गुलं समुद्दिष्टं मुष्कं विस्तारदैर्धिकम् ॥ २४.८१॥

पक्षाङ्गुलप्रमाणेन चैकैकं वृषणं स्मृतम् ।
शेषं शीर्षाङ्गुलायामं तारं दशयवं भवेत् ॥ २४.८२॥ (शेफः शीर्षाङ्गुलायामं)

क्षयमग्रेषु भागैकं मूलं चोत्पलवद्भवेत् । (भागैकं मुकुलो)
ऊरुमूलस्य विस्तारं सार्धत्रयोदशाङ्गुलम् ॥ २४.८३॥

तन्मध्ये चैकविस्तारं यवमर्धाङ्गुलाधिकम् ।
ऊर्ध्वाग्रस्य तु विस्तारं वाग्रन्ध्राङ्गुलकं भवेत् ॥ २४.८४॥

जानुमण्डलविस्तारं वसुमात्रार्धमिष्यते ।
यवेनाष्टाङ्गुलं प्रोक्तं जङ्घामूलस्य विस्तृतम् ॥ २४.८५॥ (यवोनाष्टाङ्गुलं प्रोक्तं)

तन्मध्ये तस्य विस्तारं सप्तमात्रं यवाधिकम् ।
नलकायास्तु विस्तारं वर्धयेदङ्गुलं भवेत् ॥ २४.८६॥ (विस्तारं सार्धवेदङ्गुलं)

अथ गुल्फद्वयोर्मध्ये विस्तारन्तु शराङ्गुलम् ।
तलमध्यस्य विस्तारं सार्धं भूताङ्गुलं भवेत् ॥ २४.८७॥

तलाग्रस्य तु विस्तारं रसाङ्गुलमिति स्मृतम् ।
अक्षान् पार्ष्ण्यन्तरं भागं पार्ष्ण्योत्सेधस्य तत्समम् ॥ २४.८८॥

अक्षादङ्गुलमूलान्तं नवमात्रार्धमिष्यते ।
पादाङ्गुष्ठायतं भागं तत्तारं तद्यवाङ्गुलम् ॥ २४.८९॥

त्रितयेन चतुर्मात्रं देशिन्यायाममिष्यते ।
यवेन मात्रविस्तारं देशिन्यास्तु विधीयते ॥ २४.९०॥

अङ्गुष्ठतर्जनीमध्ये रन्ध्रं तत् त्रयकं भवेत् ।
मध्यायामं त्रिमात्रार्धं चतुरर्धयवेन च ॥ २४.९१॥

पादाङ्गुष्ठात् कनिष्ठान्तं नखविस्तृतमीरितम् ।
विस्तारसममायामं नखानां वृत्तमाकृतिः ॥ २४.९२॥

षट्सप्तत्यङ्गुले तस्य ऊर्वोर्भागं महामुने ।
नाभिदेशस्य नाहन्तु त्रिचत्वारिंशदङ्गुलम् ॥ २४.९३॥

श्रोणिदेशस्य नाहन्तु पञ्चाशन्मात्रमीरितम् ।
अन्येषां चैव सर्वेषां नाहमानं विधीयते ॥ २४.९४॥

तत्तारं त्रिगुणीकृत्य तन्मध्यांशं भवेत्पुनः ।
त्रिगुणीकृततारेण तदेका दश योजयेत् ॥ २४.९५॥

तदेव समवृत्तानां नाहमित्यभिधीयते ।
उष्णीषात्पृष्ठ देशान्तं सार्धत्रयोदशाङ्गुलम् ॥ २४.९६॥ (उष्णीषात्पृष्ठ केशान्तं)

ग्रीवायामं तु भागं स्यात् तत्सम ञ्चाङ्कुरं भवेत् । (तत्सम तु ककुद्)
ककुदः कटिसन्धेश्च सप्तविंशतिमात्रतः ॥ २४.९७॥

गण्डप्रदेशस्तस्याधः सार्धत्रयोदशाङ्गुलम् ।
तस्याधः पृष्ठ कसमं सार्धवेदाङ्गुलं भवेत् ॥ २४.९८॥

ऊर्वायामन्तु तम्याधः सार्धद्वाविंशदङ्गुलम् ।
जान्वा यामान्तभागं स्यात् जङ्घात्रिनवमानकम् ॥ २४.९९॥ (जान्वा यामन्तु)

पार्ष्ण्यायामन्तु भागं स्यात् पृष्ठयामं प्रकीर्तितम् ।
कर्णयोरन्तरं पृष्ठे द्वादशाङ्गुलमुच्यते ॥ २४.१००॥

कक्षयोरन्तरं पृष्ठे सप्तविंशतिमात्रकम् ।
पृष्ठावधिसमारभ्य तस्योर्ध्वे दशमात्रकम् ॥ २४.१०१॥

स्फिक्पिण्डं कारयेदूर्ध्वे मूलं तद्वत्समुन्नतम् । (कारयेदूर्ध्वे मूलाद्भागं)
उपमानं ततो वक्ष्ये श‍ृणु कौशिक सुव्रत ॥ २४.१०२॥

ऊरुमूलान्तरं मात्र जानुमध्ये कलान्तरम् । (जानुमध्ये कलार्धकं)
सार्धपक्षाङ्गुलेनैव जङ्घान्तरमिति स्मृतम् ॥ २४.१०३॥

नलकाधरमङ्गुल्यभागं पार्ष्ण्यन्तरं भवेत् । (नलान्तरं शराङ्गुल्यभागं)
अङ्गुष्ठाग्रद्वयोर्मध्ये यावकं चेति कीर्तितम् ॥ २४.१०४॥

सार्धपक्षाङ्गुलं मध्ये श्रोणिप्रकोष्ठमूलयोः ।
पार्श्वमध्यमबाह्वोश्च मध्यमे कौशिकाङ्गुलम् ॥ २४.१०५॥

कर्तर्यनामिका बाह्वोरन्तरं दशमात्रकम् ।
मणिबन्धकबाह्वोश्च द्व्यन्तरं तु यमं भवेत् ॥ २४.१०६॥

पताकाग्रं स्तनान्तं स्यात् तयोर्मध्येऽन्तरं यमम् ।
वरदं चेत्तु तत्पृष्ठं नाभेस्तु सममुच्यते ॥ २४.१०७॥

कटिकाधः प्रदेशन्तु मेढ्रमूलसमं भवेत् ।
अव्यक्तमन्यताग्राह्यं कल्पयेत्कल्पवित्तमः ॥ २४.१०८॥ (अनुक्तमन्यताग्राह्यं)

केशान्तं मकुटोत्तुङ्गं मुखमात्रं प्रचक्षते ।
सत्रिपादमुखं वाऽपि द्विमुखं वाऽथ कल्पयेत् ॥ २४.१०९॥

आयुधं मुखमात्रोच्चं सर्वलक्षणसंयुतम् ।
मानहीने महाव्याधिरधिके शत्रुवर्धनम् ॥ २४.११०॥

तस्मात्सर्वप्रयत्नेन कारयेल्लक्षणान्वितम् ।
चतुर्भुजन्द्विबाहुञ्च शान्तं सिद्धिप्रदं स्मृतम् ॥ २४.१११॥

द्विभुजश्च चतुर्बाहुः षड्भुजोऽष्टभुजः पुनः ।
द्विषट्भुजः पञ्चभेदा एतेषां लक्षणं श‍ृणु ॥ २४.११२॥

द्विहस्ते पञ्चभेदोऽस्ति कटिबद्धाभयन्तु वा ।
पद्मधृक् सकबद्धं वा दण्डेन कटिबद्धकम् ॥ २४.११३॥ (पद्मधृक् कटिबद्धं)

शक्तिवज्रधरं वाऽपि शक्तिकुक्कुटमेव च ।
चतुर्भुजः सप्तभेदं वज्रशक्तिवराभयम् ॥ २४.११४॥

अभयं वरदं पश्चादक्षमाला कमण्डलुम् ।
ततो वै कुण्डिकाक्षस्रक् कटिबन्धाभयान्वितम् ॥ २४.११५॥

पश्चादभीतिवरदं शक्तिकुक्कुटसंयुतम् ।
ततोऽभयञ्च शक्तिञ्च कुक्कुटं चाक्षमालिकाम् ॥ २४.११६॥

शक्तिं कमण्डलुं पश्चात् कटिबद्धाभयन्तु वा ।
पश्चात् कुक्कुटशक्तिभ्यामसिखेटसमायुतम् ॥ २४.११७॥

एवंविधानां बेराणां सूत्रमूर्तिरुदीरितम् ।
ललाटाद्घ्राण भ्रूमध्ये श्रोणिमध्ये तथा पुनः ॥ २४.११८॥ (ललाटाद्घ्राण हृद्मध्ये)

मेढ्रमूलस्य मध्ये तु स्वातपाद्द्वयमध्यमे ।
अङ्गुष्ठमूलयोर्मध्ये स्थितं स्याच्छिवसूत्रकम् ॥ २४.११९॥

उष्णीषात्तु ककुद्वंशं खण्डस्फिक्पादमध्यगम् ।
ऋजुस्थितिरिति ख्याता लम्बसूत्रं प्रलम्बयेत् ॥ २४.१२०॥

षड्भुजे त्वभयं खङ्गं शक्तिं दक्षिणपाणिषु ।
खेटकं चाक्षमालाञ्च कुक्कुटं वामपाणिषु ॥ २४.१२१॥

अष्टबाहुं ततो वक्ष्ये वराभिर्वज्रशक्तयः ।
खड्गखेटशरञ्चापं द्विषड्भुजमथ श‍ृणु ॥ २४.१२२॥

द्विषड्भुजेति षड्भेदं तत्तद्भेदं वदाम्यहम् ।
सव्ये शक्तिधरं खड्गं ध्वजं चैव गदाभयम् ॥ २४.१२३॥

वामे वज्रं धनुः खेटं पद्मं शूलं वरः पुनः ।
शक्ति बाणञ्च खड्गञ्च चक्रं पाशं प्रसारितम् ॥ २४.१२४॥

सव्ये वामेऽपि चक्रञ्च शड्खं वै कुक्कुटं ततः ।
धनुर्दण्डं हलं चैव विश्वामित्र महामुने ॥ २४.१२५॥

शक्तिञ्च मुसलं खङ्गं चक्रं पाशं तथा भयम् । (तथा अङ्कुशं)
वज्रं धनुर्ध्वजं खेटमङ्कुशं वरदं तथा ॥ २४.१२६॥

शक्तिं खङ्गं ध्वजं पद्मं कुक्कुटं प्रासदण्डके ।
वराभयधनुर्बाणं टङ्कमेतैर्युतन्तु वा ॥ २४.१२७॥

वज्रं शक्तिञ्च दण्डञ्च चक्रं पाशाङ्कुशं गदाम् ।
शूलं च चक्रपद्मे च वरदाभयसंयुतम् ॥ २४.१२८॥

शक्तिं चर्ममसिं शूलं विशिखाभीतिकार्मुकम् ।
चक्रं पाशं कुक्कुटञ्च वरदं द्वादशैः करैः ॥ २४.१२९॥

दधानं षण्मुखं शान्तं प्रतिवक्त्रं त्रिलोचनम् ।
एवं विधानं षड्वक्त्रमेकास्यं वाऽथ कल्पयेत् ॥ २४.१३०॥

कुङ्कुमाभं द्वादशाक्षं सर्वाभरणभूषितम् ।
लम्बसूत्रं ततो वक्ष्ये ललाटोष्णीष मध्यमे ॥ २४.१३१॥

नासादक्षिपुटे पार्श्वे हिक्काहृत्स्तनसव्यके ।
नाभेर्दक्षेऽथवान्तर्ये मेढ्रदक्षिणपार्श्वके ॥ २४.१३२॥ (नाभेर्दक्षेऽयवान्तर्ये)

शयिताङ्घ्रेश्च पार्ष्ण्यन्ते लम्बपादस्य पार्ष्ण्यके ।
किञ्चिद् भङ्गयुतं सव्य मयूरारूढके ततः ॥ २४.१३३॥

मयूरे शयितं वामे सव्यपादविलम्बितम् ।
नागेन्द्रोपरि संस्थञ्च तत्पादं कारयेत्ततः ॥ २४.१३४॥

मयूरपार्श्वयोः स्थित्वा समदेहं प्रकल्पयेत् ।
गजारूढं तथा कार्यं पार्श्वयोः स्थितरूपकम् ॥ २४.१३५॥

एककण्ठाकृतिर्वाऽथ षट्कण्ठाकृतिरेव वा ।
एकास्यैककर्णन्तु षट्कर्णं रसवज्रके ॥ २४.१३६॥

एकास्ये तु शिरश्चक्रं कल्पयेत्कल्पवित्तमः ।
आसनं स्थानकं वाऽपि ध्यानकं त्रिविधं स्मृतम् ॥ २४.१३७॥

आसनं द्विविधं प्रोक्तं स्थानकन्तु चतुर्भुजम् ।
द्विषड्भुजं चाष्टबाहुं षड्बाहुं ध्यानरूपकम् ॥ २४.१३८॥

योगं भोगञ्च यानञ्च बेरन्तु त्रिविधं पुनः ।
आसनं योगबेरं स्यात् स्थानकं भोगबेरकम् ॥ २४.१३९॥

ध्यानकं यानबेरं स्यात् नागरादिक्रमं तथा ।
सात्त्विकं द्विभुजं बेरं राजसं स्याच्चतुर्भुजम् ॥ २४.१४०॥

तामसं द्वादशभुजमेवं स्यादर्चनाविधौ ।
पीतं वा रक्तवर्णं वा श्यामं वर्णमथापि वा ॥ २४.१४१॥

स्कन्दं पद्मासनस्थं वा मयूरारूढमेव वा ।
गजेन्द्र यानकं वाऽपि शक्त्येका सहितन्तु वा ॥ २४.१४२॥ (गजेन्द्र वाहनं)

शक्तिं विनाऽपि कर्तव्यं सोपवीतं सुयौवनम् ।
छन्नवीरसमायुक्तं पादनूपुरसंयुतम् ॥ २४.१४३॥

पत्रकर्णयुतं कान्तं नानाकुण्डलकं तथा ।
मन्दस्मितं बालवेषं शोभनाङ्ग शुभेक्षणम् ॥ २४.१४४॥

करण्डमकुटोपेतं सर्वलक्षणसंयुतम् ।
शक्तिद्वययुतं वाऽपि शक्त्येकसहितन्तु वा ॥ २४.१४५॥

शक्तिं विनाऽपि कर्तव्यं योगबेरं तदीरितम् ।
देव्योरुत्सेधमद्यैव श‍ृणु कौशिक सुव्रत ॥ २४.१४६॥

कर्णान्तं वाऽथ सीमान्तं हन्वन्तं बाहुतुङ्गकम् । (कर्णान्ता चास्य सीमन्तं)
हिक्कान्तं वा स्तनान्तं वा कल्पयेदुत्तमानि च ॥ २४.१४७॥

मध्यमं दशतालेन देव्यौ च परिकल्पयेत् ।
महावल्ल्याकृतिं वक्ष्ये श्यामं मन्दस्मिताननम् ॥ २४.१४८॥

स्थितं वै सव्यपादं तु वामपादं तु कुञ्चितम् ।
पद्मधृद्वामहस्तञ्च सव्यहस्तं प्रलम्बितम् ॥ २४.१४९॥

देवसेनाकृतिं वक्ष्ये रक्तं मन्दस्मिताननम् ।
स्थितं वै वामपादन्तु दक्षपादं तु कुञ्चितम् ॥ २४.१५०॥

उत्पलं सव्यहस्ते च वामहस्तं प्रलम्बितम् ।
अङ्गाङ्गकायमनयोर्लम्बे सूत्रमथोच्यते ॥ २४.१५१॥

उष्णीषाद्वामनेत्रान्ते वामनासापुटान्तके ।
वामहिक्कान्तरे वाम आचाभ्यन्तरपार्श्वके ॥ २४.१५२॥

नाभेर्दक्षिणपार्श्वे तु स्थितं वा जानुदक्षिणे ।
पार्श्वे कुञ्चितपादस्य वामस्थायां तु सूत्रके ॥ २४.१५३॥

वल्ल्यायस्थतरे पार्श्वे लम्बसूत्रं प्रकल्पितम् ।
पीठस्य लक्षणं वक्ष्ये श‍ृणु कौशिक सुव्रत ॥ २४.१५४॥

बेरयामत्रिभागैकमासने पीठतुङ्गकम् ।
बेरायुगाङ्गं पीठोच्चं स्थानकस्य तु पीठके ॥ २४.१५५॥
[बेरायामयुगांशैकं पीठोच्चं स्थानकस्य तु ।]
पीठोच्चसममायामं पादाधिकमथापि वा ।
तदर्धं वा प्रकर्तव्यं चतुरस्त्रं समन्ततः ॥ २४.१५६॥

उत्सेधद्विगुणं वाऽपि सार्धद्विगुणमेव वा ।
पादेन द्विगुणं वाऽपि विस्तारं पूर्ववद्भवेत् ॥ २४.१५७॥

सप्तभागं चतुःस्थानमथवा निर्गमं भवेत् ।
आयताश्रं समाख्यातं निर्गमेन युतं दृढम् ॥ २४.१५८॥

आयामन्तु त्रिधा कृत्वा भागं वा निर्गमं भवेत् ।
सप्तभागं चतुर्भागं अथवा निर्गमं भवेत् ॥ २४.१५९॥

पीठोत्सेधं परिग्राह्य तिथ्यंशं विभजेत्ततः ।
ज मव्योमांशमुदितं युगांशं जगती भवेत् ॥ २४.१६०॥

वेदांशं कुमुदं ज्ञेयं व्योमांशं पट्टिका भवेत् ।
पक्षांशं स्कन्धमुदितं पट्टिकांशैकमुच्यते ॥ २४.१६१॥

महापट्टिद्विभागेन भद्रपीठं महामुने ।
उत्सेधं पूर्ववद्भज्य जन्मव्योमांशमेव च ॥ २४.१६२॥

जगती चतुरंशेन विप्र कन्यांशकं भवेत् ।
व्योमांशं पट्टिका ज्ञेया कन्धरन्तु द्विमात्रकम् ॥ २४.१६३॥

एकेन पट्टिकां कुर्यात् महापट्टी तदंशकम् ।
व्योमांशमूर्ध्वपट्टी च पीठं श्रीकरसंज्ञकम् ॥ २४.१६४॥

स्मृत्यंशं भज्य तद्दैर्घ्यमुपानत्वेकमुच्यते ।
एकांशेनैव कल्पं तु पद्ममेकं न कारयेत् ॥ २४.१६५॥

कल्पमेकेन कर्तव्यं जगती च युगांशकम् ।
रुद्राक्षांशेन वप्रं स्यात् पट्टमेकेन कारयेत् ॥ २४.१६६॥

पक्षांशेनैव कण्ठन्तु कल्पमेकेन कारयेत् ।
ऊर्ध्वपद्म द्वयांशेन महापट्टिद्विमात्रतः ॥ २४.१६७॥

एतत्सौन्दर्यमाख्यातं दैर्घ्यं मन्वंशकं भवेत् ।
जन्मैकांशमथान्यंशं पद्ममेकेन पट्टिका ॥ २४.१६८॥ (जन्मैकांशमथाग्न्यंश)

चतुरंशेन कण्ठन्तु व्योमांशेनैव कम्पकम् । (व्योमांशेनैव कल्पकं)
ऊर्ध्वपद्मं नवांशेन महापट्टिद्विमात्रकम् ॥ २४.१६९॥

व्योमांशेनोर्ध्वपट्टी च पद्मपीठमिदं भवेत् ।
चतुर्विंशत्पञ्चविंशत् षड्विंशद्भागसंयुतम् ॥ २४.१७०॥

पीठभागं भजेत्तस्मिन् एकवंशेन निर्गमम् ।
पङ्क्तित्रययुतं वाऽपि भूतपङ्क्तियुतन्तु वा ॥ २४.१७१॥

मुनिपङ्क्तियुतं वाऽपि कण्ठभागन्तु कारयेत् ।
स्वतः प्रधाने कर्तव्यमेकं स्यान्मूलबेरकम् ॥ २४.१७२॥

मयूरारूढमुदितं वाहनेन विनाऽथवा ।
मयूरलक्षणं वक्ष्ये श‍ृणु कौशिक सुव्रत ॥ २४.१७३॥

पादादेर्मस्तकान्तञ्च मयूरोत्तुङ्गमीरितम् ।
बेरोच्चमर्धमर्धार्धमुत्तमं मध्यमाधमम् ॥ २४.१७४॥

पादादिमस्तकान्तञ्च गृह्य तत्पञ्चधा भवेत् । (पाद्यादिमस्तकान्तञ्च)
द्विभागञ्चरणोत्तुङ्गं कायमेकांशमेव च ॥ २४.१७५॥

शेषांशं स्याद्गलोत्तुङ्गमर्धांशं नासिका भवेत् ।
उरसः पुच्छपर्यन्तन्तत्पादाधिकमेव च ॥ २४.१७६॥

अर्धाधिकं त्रिपादं वा उत्तमे मध्यमेऽधमे ।
विस्तारस्य त्रिभागैकं पृष्ठतारं प्रकीर्तितम् ॥ २४.१७७॥

तन्नाहं गलमूलन्तु तदर्धन्तु गलाग्रकम् ।
त्रिपुच्छाग्रशिखीपिञ्च्छं गलं पादद्वयं सुधीः ॥ २४.१७८॥

पिञ्च्छपुच्छमलङ्कृत्य चास्यं नागेप्रलम्बितम् ।
सर्वालङ्कारसंयुक्तमङ्गोपाङ्गैश्च शोभितम् ।
यथाशोभं तथा सर्वं युक्त्या युञ्जीत बुद्धिमान् ॥ २४.१७९॥

इति श्रीकुमारतन्त्रे प्रतिमालक्षणविधिर्नाम चतुर्विंशः पटलः ।