अतः परं प्रवक्ष्यामि सम्प्रोक्षणविधिं शृणु ।
आवर्तं पुनरावर्तमनावर्तं तु कौशिक ॥ २३.१॥
प्रोक्षणं त्रिविधं प्रोक्तं तत्तद्भेदमथ शृणु ।
आदौ च बालबेरात्तु मूलबेरं पतिष्ठितम् ॥ २३.२॥
तदावर्तमिति ख्यातं पुनरावर्तमुच्यते ।
प्रासादपतनाद्भिन्ने प्रमादात् भिन्नके पुनः ॥ २३.३॥
मूलबेरात् समादाय संस्थाप्य बालबेरके । (बालगेहके)
तत्तन्मूलप्रवेशं यत् पुनरावर्तमीरितम् ॥ २३.४॥
प्रतिमापीठविश्लिष्टे सुधाकर्मविहीनके ।
प्रत्यङ्गोपाङ्गहीने च प्रमादात् पतने पुनः ॥ २३.५॥
चोरचण्डालसंस्पृष्टे सूतके प्रेतसम्भवे ।
पूजाहीनेऽष्टदिवसात् ऊर्ध्वं शतसमावधि ॥ २३.६॥
प्रोक्षणं त्वेमवाद्येषु तदनावर्ततीरितम् ।
आवर्ते पुनरावर्ते मासपक्षर्क्षकादिभिः ॥ २३.७॥
प्रतिष्ठोक्तविधानेन कारयेद्देशिकोत्तमः ।
यात्राहोमं युगावर्ते अनावर्तं गुरूत्तम ॥ २३.८॥
न तिथिर्न च नक्षत्रे न कालश्च न वारकम् ।
कालापेक्षां विना कुर्यात् अनावर्तं गुरूत्तम ॥ २३.९॥
पूर्वस्थापितबिम्बस्य न पुनः स्थापनं स्मृतम् ।
स्थापिते तु महान् दोषस्तस्मात् सम्प्रोक्षणं स्मृतम् ॥ २३.१०॥
अङ्गस्य हानिसन्धाने प्रतिष्ठां नैव कारयेत् । (प्रतिष्ठां अनु)
जलाधिवासरहितं नेत्रोन्मीलनवर्जितम् ॥ २३.११॥
सम्प्रोक्षणविहीने तु पूजा निष्फलदायिनी ।
जायते तु महान् दोषस्तस्मात् सम्प्रोक्षणं चरेत् ॥ २३.१२॥
निमित्ते समनुप्राप्ते सद्यः कृत्वा समर्चयेत् ।
आसप्तदिवसात्पूर्वं कुम्भमावाह्य मन्त्रवित् ॥ २३.१३॥
अग्रे वा दक्षिणे वामे मण्डले स्थण्डिलोपरि ।
कुम्भं न्यस्त्त्वा समभ्यर्च्य पुनर्बेरं समावहेत् ॥ २३.१४॥
तदूर्ध्वे बालहर्म्ये तु स्थाप्य मूले पुनर्न्यसेत् ।
प्रासादाग्रे तु कर्तव्यं दक्षिणे चोत्तरेऽपि वा ॥ २३.१५॥
यथाविभवविस्तारं मण्डपं कारयेद्बुधः ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ २३.१६॥
वितानादिध्वजोपेतं अष्टमङ्गलसंयुतम् ।
दर्भमाला समायुक्तं बिल्वपल्लवशोभितम् ॥ २३.१७॥ (बिल्वफलशोभितम्)
नक्षत्रतिथिवारे च पञ्चमे सप्तमेऽह्नि वा । (पुण्यर्क्षतिथिवारे)
पूर्वोक्तविधिना धीमान् कारयेदङ्कुरार्पणम् ॥ २३.१८॥
मण्डपं नवधा कृत्वा मध्यभागे तु वेदिकाम् ।
रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ २३.१९॥
वेद्या मूले तु परितश्चोपवेदिं प्रकल्पयेत् ।
युग्माङ्गुलसमुत्सेधं द्विगुणं दीर्घमुच्यते ॥ २३.२०॥ (निम्नमुच्यते)
कुण्डानि परितः कुर्यात् नवपञ्चैकमेव च ।
दिशासु चतुरश्राणि कोणेष्वत्र कुशेशयम् ॥ २३.२१॥
शक्रशाङ्करयोर्मध्ये प्रधानं तु षडश्रकम् ।
पञ्चकुण्डेषु कोणेषु वर्जयेदब्जकुण्डकम् ॥ २३.२२॥
एककुण्डे तथैशाने कारयेत्तु षडश्रकम् ।
आवर्ते तु मुनिश्रेष्ठ बालबेरस्य चाग्रतः ॥ २३.२३॥
अङ्गन्यासं करन्यासमन्तर्यागनथाचरेत् । (करन्यासान्तर्यजनथाचरेत्)
विशेषार्घ्यस्थतोयेन प्रोक्षयेदस्त्रमन्त्रतः ॥ २३.२४॥
स्थण्डिलं कल्प्य मतिमान् निर्दोषेर्हेमशालिभिः ।
सूत्राभिधानरत्नाढ्यं कुम्भस्योपरि विन्यसेत् ॥ २३.२५॥ (सूत्राभिधानरत्नाढ्यं कुम्भं तस्योपरि न्यसेत्)
वर्धन्यौ हेमसंयुक्ते न्यसेद् दक्षिणवामयोः ।
परितः कलशानष्टौ स्वस्थानेषु क्रमान्न्यसेत् ॥ २३.२६॥ (कलशानष्टौ स्वर्णयुक्तान्)
मध्यकुम्भे महासेनं बालबेरात् समावहेत् ।
मूलबेरप्रवेशाय बालस्थानादिह प्रभो ॥ २३.२७॥
कुम्भे विशन्तु सर्वेशाः सुब्रह्मण्यप्रियो भव ।
इदं मन्त्रं समुच्चार्य पूजयेद् गन्धपुष्पकैः ॥ २३.२८॥
महावल्लीं देवसेनां वर्धन्योः पार्श्वसंस्थयोः ।
तत्तद्बेरात्समादाय क्रमेणावाह्य पूजयेत् ॥ २३.२९॥
जयपन्ताद्यष्टविद्येशान् पीठादावाह्य पूजयेत् ।
स्थापयेन्मूलमन्त्रेण षड्वर्णेनावकुण्ठयेत् ॥ २३.३०॥
सान्निध्यं हृदयेनैव यजेत्पुष्पादिभिः क्रमात् ।
दर्शयेद्बिम्बमुद्राञ्च षण्मुखं पद्ममुद्रिकाम् ॥ २३.३१॥ (दर्शयेद्बिम्बमुद्राञ्च षण्मुखीं)
नमस्काराख्यमुद्राञ्च दिक्बन्धेदस्त्रमन्त्रतः ।
यात्राहोमं प्रकर्तव्यं बालस्थानस्य चाग्रतः ॥ २३.३२॥
निर्दोषैः सिकतैः कृत्वा स्थण्डिलं हस्तमात्रतः ।
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ २३.३३॥
सद्योमन्त्रेण समिधमीशानेन घृतं हुनेत् ।
जगद्भुवादिषण्मन्त्रैः स्पृष्ट्वा स्पृष्ट्वाऽसने ततः ॥ २३.३४॥ (स्पृष्ट्वाहुनेत्)
गुरुस्तु मण्डपं गत्वा पुण्याहं वाचयेत्ततः । (गुरुस्तु मण्डपिकं)
पर्यग्निकरणं कुर्यात् बास्तुहोमेन वर्त्मना ॥ २३.३५॥
शिरसा वाहयित्वा तु कुम्भञ्च वर्धनीद्वयम् ।
क्रमाद्विद्येशकलशान् मूर्तिभिः परिवारकैः ॥ २३.३६॥
सर्वातोद्यसमायुक्तं वेदघोषसमन्वितम् ।
हर्म्यप्रदक्षिणं कृत्वा वेदिकोपरि विन्यसेत् ॥ २३.३७॥ (हर्म्यप्रदक्षिणं गत्वा)
सकलीकृत्य सम्प्रोक्ष्य विशेषार्घ्यजलेन च ।
देविदेवीशविद्येशान् पूजयेत्तु यथाक्रमम् ॥ २३.३८॥ (देवदेव्यौ च)
[सर्वातोद्यसमायुक्तं वेदघोषसमन्वितम् ।]
परिवारघटांश्चैव स्थापयेद्विधिपूर्वकम् ।
तत्तन्मूर्त्याकृतिं ध्यात्वा बाह्यकुम्भे समर्चयेत् ॥ २३.३९॥
मण्डपद्वारपूजादि सर्वं पूर्ववदाचरेत् ।
ततः स्वाध्यायनं कुर्याच्छिवभक्तियुतैर्द्विजैः ॥ २३.४०॥
शिवसङ्कल्पदीपैश्च ततः श्रीरुद्रसूक्तकैः । (शिवसङ्कल्पदीपैश्च ततो मारुद्रसूक्तकं)
स्कन्दसूक्तञ्च चमकं पूर्वभागे यजेत्सुधीः ॥ २३.४१॥
शिवसूक्तं पावमानं शान्तिद्वयं च दक्षिणे ।
त्र्यम्बकं विष्णुसूक्तञ्च वारुणं चैव पश्चिमे ॥ २३.४२॥
ऊत्तरे तु हिरण्यञ्च बृहत्सामेति मन्त्रतः । (हिरण्यञ्च स्थन्तरं)
षडक्षरेण मन्त्रेण कोणेषु च जपेत् बुधः ॥ २३.४३॥
आचार्यो मूर्तिपैः सार्धं ततो होमं समाचरेत् ।
समिधाज्यचरून् लाजं सर्षपं च यवं तिलम् ॥ २३.४४॥
होमद्रव्याणि सप्तैतान्यथावज्जुहुयात्क्रमात् ।
पालाशखादिराश्वत्थबिल्वान् पूर्वादिदिक्षु च ॥ २३.४५॥
शमीखादिरमायूरा वटाश्चेति विदिक्षु च ।
प्रधानस्य पलाशः स्यात् समिधः परिकीर्तिताः ॥ २३.४६॥
स्कन्दस्य मूलमन्त्रेण ततः षण्मूर्तिमन्त्रतः ।
होमद्रव्याणि जुहुयात् प्रत्येकं तु षडाहुतिः ॥ २३.४७॥
सद्यादिना शिरोऽन्तेन मन्त्रेण जुहुयात्ततः ।
शतमर्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् ॥ २३.४८॥
पूर्णाहुतिं च शिरसा स्विष्टमग्नेति होमयेत् ।
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ २३.४९॥
नेत्रोन्मीलादिकं सर्वं नवबेरस्य कारयेत् ।
तत्प्रतिष्ठा विधानेन शेषं कर्म समाचरेत् ॥ २३.५०॥
पुनरावर्तने विद्वान् मूलबेरं प्रगृह्य च । (पुनरावर्तके)
बालबेरं समावाह्य पुनर्मूले प्रवेशयेत् ॥ २३.५१॥
अनावर्ते तु यद्धाम चण्डालादिप्रदूषिते ।
मृण्मयानि च पात्राणि सर्वाणि परिवर्जयेत् ॥ २३.५२॥
कांस्यपात्राणि सर्वाणि शुद्धिं कृत्वा तु भस्मभिः ।
यथायोग्यं यथाकार्यं वस्त्रोपकरणानि च ॥ २३.५३॥
स्कन्दस्यायतनं चैव गोमयेन विलेपयेत् ।
पुण्याहं वाचयित्वाथ शुद्धाद्भिरभिषेचयेत् ॥ २३.५४॥
पञ्चगव्यैश्च संस्नाप्य घर्षयेद्बिल्वपत्रकैः ।
दर्भमूले तु वल्मीकक्षेत्रमृद्ग्राह्य लेपयेत् ॥ २३.५५॥
कौतुकं बन्धयित्वा तु हेम सूत्रेण मन्त्रवित् ।
अर्कपङ्कज बिल्वैश्च मायूराऽशोकपाटलैः ॥ २३.५६॥
गन्धोदैः स्वर्णतोयैश्च बिल्वोदैः स्नापयेद्गुहम् ।
नन्द्यावर्तैर्मल्लिकाभिर्मधूकाशोकपाटलैः ॥ २३.५७॥
(नन्द्यावर्तैर्मल्लिकाभिर्पलाशैश्च कदम्बकैः)
पुन्नागैः कर्णिकारैश्च कुमुदोत्पलपुष्पकैः ।
बृहतीद्रोणपुष्पैश्च व्याघातैर्जातिचम्पकैः ॥ २३.५८॥
बेरं सम्पूज्य विधिवत् छादयेद्वा निरन्तरम् ।
आच्छाद्य नववस्त्रैश्च प्रतिबेरं विशेषतः ॥ २३.५९॥
लोहजैः शयनं कार्य मथवाच्छादनं मतम् । (लोहजे शयनं)
मण्डपद्वारपूजा च होमकर्म च पूर्ववत् ॥ २३.६०॥
प्रभाते देशिकः स्नात्वा मूर्तिपैः सह मन्त्रवित् ।
कुम्भञ्च कर्धनीद्वे च वाहयित्वाथ मूर्तिपैः ॥ २३.६१॥
हर्म्यं प्रदक्षिणं कृत्वा गुहाग्रे स्थण्डिलं न्यसेत् ।
पुत्रभ्रातृकलत्रैश्च यजमानोऽतिभक्तिमान् ॥ २३.६२॥ (व्रजेदनुतिभक्तिमान्)
शुक्लवासा गुरुः प्रीतो हैमपञ्चाङ्गभूषणैः ।
बिम्बशुद्धिकृतस्तोयं स्कन्दबेरं विशेषतः ॥ २३.६३॥
विन्यसेदक्षरन्यासं ब्रह्माङ्गन्यासमुत्तमम् ।
कुम्भान्मन्त्रं समादाय बेरस्य हृदि विन्यसेत् ॥ २३.६४॥
शक्त्योर्बीजं समादाय शक्त्योरुपरि विन्यसेत् ।
कुम्भोदकैश्च संस्नाप्य देवदेवीर्यथाक्रमम् ॥ २३.६५॥
जयन्ताद्यष्टविद्येशान् क्रमात्पीठे तु विन्यसेत् ।
तत्कुम्भस्थोदकैः स्कन्दं स्नापयेत्तु दशाक्षरैः ॥ २३.६६॥
परिवारघटाद्भिस्तु स्वस्वस्थाने क्रमाद्बुधः ।
बीजानि विधिवन्न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ॥ २३.६७॥
रक्तपुष्पेण मतिमान् ईशानेनैव पूजयेत् ।
स्नपनं कारयेदन्ते यथावित्तानुसारतः ॥ २३.६८॥
प्रभूतहविषं दद्यात् ब्राह्मणान् भोजयेत्ततः ।
उत्सवं कारयेदन्ते यथा वित्तानुसारतः ॥ २३.६९॥
आचार्यं पूजयेत्कर्ता वस्त्रहेमाङ्गुलीयकैः ।
अधमं दशनिष्कन्तु मध्यमं द्विगुणं स्मृतम् ॥ २३.७०॥
उत्तमं त्रिगुणं प्रोक्तम्माचार्यस्य तु दक्षिणा ।
मूर्तिपानां दशांशैश्च दीनानाथांश्च पूजयेत् ॥ २३.७१॥
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ।
पुत्रार्थी लभते पुत्रान् धनार्थी च धनं लभेत् ।
जयार्थी जयमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ २३.७२॥
इति श्रीकुमारतन्त्रे सम्प्रोक्षणविधिर्नाम त्रयोविंशः पटलः ।