बालस्थापनकं वक्ष्ये शृणु कौशिक सुव्रत ।
जीर्णगेहसमुद्धारे चित्रजीर्णेऽङ्गहीनके ॥ २२.१॥
स्थलजीर्णे पीठजीर्णे पुनर्बेरकृते तथा ।
आसप्त दिवसात्पूर्वं कुम्भमावाह्य कारयेत् ॥ २२.२॥ (आरब्ध दिवसात्पूवं, कुम्भे आवाह्य)
तदूर्ध्वे मुनिशार्दूल बालस्थानं विधीयते ।
मूलबेरप्रतिष्ठायां प्रागेव तरुणालयम् ॥ २२.३॥ (मूलबेरप्रतिष्ठायाः)
मूलालयं विनिश्चित्य कारयेत् तरुणालयम् ।
बालस्थानविहीनत्वात् बालानां नाशनं भवेत् ॥ २२.४॥ (बालालयविहीनत्वात्)
तस्मात्सर्वप्रयत्नेन बालस्थानं तु कारयेत् ।
मूलस्थानस्य चाग्रे वा सौम्ये वा पावकेऽपि वा ॥ २२.५॥
ऐशान्ये पूर्वभागे वा बालस्थानं विधीयते ।
कूटं वा मण्डपं वाऽपि कारयेद्विधिपूर्वकम् ॥ २२.६॥
मूलप्रासादविस्तारादधिकं नैव कारयेत् ।
मूलबेरस्य चार्धं वा तदर्धार्धमथापि वा ॥ २२.७॥
रुद्राङ्ग्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ।
एकविंशत्यङ्गुलान्तं षड्विधं मानमङ्गुलैः ॥ २२.८॥
आयादिशुभसंयुक्तं सर्वलक्षणसंयुतम् ।
लोहजं शैलजं वाऽपि दारुजं मृण्मयं तु वा ॥ २२.९॥
यथालाभेन कर्तव्यं तरुणालयबेरकम् ।
बन्धूकं वृक्षमादाय कारयेद्दारुबेरकम् ॥ २२.१०॥ (याज्ञीकं वृक्षमादाय कारयेद्दारुजे बुधः)
प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् ।
पङ्क्तित्रयसमायुक्तं चतुर्द्वारसमायुतम् ॥ २२.११॥
तन्मध्ये वेदिकां कुर्यान्नवभागैकभागतः ।
परितः पञ्चकुण्डानि कारयेद्विधिपूर्वकम् ॥ २२.१२॥
दर्भमालासमायुक्तं चतुस्तोरणभूषितम् ।
वितानादिध्वजोपेतमष्टमङ्गलसंयुतम् ॥ २२.१३॥
गोमयालेपनं कृत्वा पुण्याहं कारयेत्ततः ।
अयं कुमारमन्त्रेण प्रोक्षयेत् कुशवारिणा ॥ २२.१४॥
अङ्कुरानर्पयेद्धीमान् पूर्वाक्तविधिना ततः ।
वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ २२.१५॥
तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि ।
तन्मध्ये पद्ममालिख्य साष्टपत्रं सकर्णिकम् ॥ २२.१६॥
शयनं कल्पयेत् पश्चादण्डजाद्यैरनुक्रमात् ।
नयनोन्मीलनं कुर्याज्जलैश्चैवाधिवासयेत् ॥ २२.१७॥
पर्यग्निकरणं कृत्वा वास्तुहोमेन मण्डपे ।
जलाद्बिम्बं समुद्धृत्य शयने शाययेद्बुधः ॥ २२.१८॥
सर्वलक्षणसंयुक्तान् सर्वालङ्कारसंयुतान् ।
कुम्भानावाहयेद्धीमान् पूर्वोक्तविधिना पुनः ॥ २२.१९॥
जयन्ताद्यष्टविद्येशान् वेद्यूर्ध्वेऽष्टसु दिक्षु च ।
मध्ये कुमारमावाह्य पार्श्वे शक्तिद्वयं यजेत् ॥ २२.२०॥
अर्चयेद्गन्धपुष्पाद्यैः स्वैःस्वैर्नामभिरेव च ।
परिवारघटान् सर्वान् पूर्वोक्तविधिनार्चयेत् ॥ २२.२१॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
समिदाज्यचरुं लाजान् सर्षपं च यवं तिलान् ॥ २२.२२॥
होमद्रव्याणि सप्तैते जुहुयात्तु विशेषतः ।
खादिरौ वटशम्यार्कस्त्वपामार्गो महादिशि ॥ २२.२३॥
प्रधाने तु पलाशः स्यात् समिधः परिकीर्तिताः ।
स्कन्दमूलेन मन्त्रेण ततः षण्मूर्तिमन्त्रतः ॥ २२.२४॥
समिधादीनि जुहुयात् प्रत्येकं तु षडाहुतिः ।
सद्यादीनां शिरोऽन्तेन होमयेत्तदनन्तरम् ॥ २२.२५॥ (सद्यादिना शिरोऽन्तेन)
शतमर्धं तदर्धं वा जुहुयाद्देशिकोत्तमः ।
सुब्रह्मण्यं कुमारं च स्कन्दं शरवणोद्भवम् ॥ २२.२६॥
देवसेनापतिं विद्वान् यथोक्तेनैव पूजयेत् ।
द्रव्यान्ते व्याहृतिं हुत्वा स्पृष्ट्वा स्पृष्ट्वा च बेरकम् ॥ २२.२७॥
सर्वद्रव्यसमायुक्तं हव्यवाहेन होमयेत् ।
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ २२.२८॥
प्रभाते समुहूर्ते तु सुनक्षत्रसुलग्नके ।
बिम्बं संस्थाप्य मतिमान् स्कन्दमूलेन मन्त्रतः ॥ २२.२९॥
पुनर्द्दढतरं कृत्वा पद्मपीठे विशेषतः ।
कुम्भञ्च वर्धनीं चैव कृत्वा धामप्रदक्षिणम् ॥ २२.३०॥ (वर्धनीं द्वे च)
देवम्य पुरतो न्यस्त्त्वा न्यासं सर्वं समाचरेत् ।
कुम्भाद् बीजं समादाय बेरस्य हृदये न्यसेत् ॥ २२.३१॥
वर्धन्योर्बीजमादाय द्वयोः शक्त्योः स्तने न्यसेत् ।
तक्तद्घटस्थतोयेन क्रमेणैवाभिषेचयेत् ॥ २२.३२॥
जयन्तादिघटान् सर्वान् क्रमात्पीठेऽभिषेचयेत् ।
वस्त्रैश्च गन्धपुष्पाद्यैः पूजयेत्तु यथाविधि ॥ २२.३३॥
उद्वाहकर्म कर्तव्यं वेदोक्तेनैव वर्त्मना ।
चतुर्थे दिवसे प्राप्ते चतुर्थीहोममाचरेत् ॥ २२.३४॥
जगद्भुवादिषण्मन्त्रैरयं कुमारमन्त्रतः ।
कुण्डं प्रति हुनेत् धीमान्मूलेनैव शतं हुनेत् ॥ २२.३५॥
महाहविर्निवेद्याथ दीनानाथांश्च भोजयेत् ।
आचार्यं पूजयेत् कर्ता वस्त्रहेमाङ्गुलीयकैः ॥ २२.३६॥
उत्तमं पञ्चनिष्कं तु मध्यमं तु तदर्धकम् ।
तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा ॥ २२.३७॥
मूर्तिपान् परिचारांश्च यथाशक्त्या तु दक्षिणा ।
एवं यः कुरुते मर्त्यः कोटियज्ञफलं लभेत् ।
सर्वान् कामानवाप्नोति सोऽन्ते स्कन्दपदं व्रजेत् ॥ २२.३८॥
इति श्रीकुमारतन्त्रे बालस्थापनविधिर्नाम द्वाविंशः पटलः ।