२१ पञ्चामृतविधिः

पञ्चामृतविधिं वक्ष्ये श‍ृणु कौशिक सुव्रत ।
पूर्ववत् स्थण्डिलं कल्प्य मध्येन्द्रादिचतुष्टये ॥ २१.१॥

ईशानादीनि सद्यान्तं पञ्चकोष्ठेषु पूजयेत् ।
क्षीरं दधि घृतं चैव मधु स्यादिक्षुशरकम् ॥ २१.२॥

उत्तमं प्रस्थमेवोक्तं मध्यमं तु तदर्धकम् ।
तदर्धमधमं ज्ञेयं मानं पञ्चामृतं तथा ॥ २१.३॥

क्षीरं वै मध्यमे स्थाप्य पूर्वकोष्ठे न्यसेद्दधि ।
सर्पिश्च दक्षिणे विद्वान् मधु वै चोत्तरे पुनः ॥ २१.४॥

वारुण्यामिक्षुसारं स्यादस्त्रेणैव तु शोधयेत् ।
ईशानाद्यनुवाकैश्च जप्त्वा ब्रह्मभिरर्पयेत् ॥ २१.५॥ (ब्रह्मभिरर्चयेत्)

स्कन्दमूलेन तन्मध्ये गायत्र्याश्च चतुर्दिशि ।
स्कन्दसूक्तेन मन्त्रेण त्वभिषेकं पृथक्पृथक् ॥ २१.६॥

कदलीपनसं चैव नालिकेरफलं तथा ।
आम्रञ्च मातुलुङ्गं स्यादेतत् पञ्चफलं तथा ॥ २१.७॥

पञ्चामृताभिषेकेण महापातकनाशनम् । (पञ्चपातकनाशनम्)
फलसाराभिषेकेण फलमीप्सितमाप्नुयात् ॥ २१.८॥

इति श्रीकुमारतन्त्रे पञ्चामृतविधिर्नाम एकविंशः पटल ।