२० पञ्चगव्यविधिः

पञ्चगव्यविधिं वक्ष्ये श‍ृणुष्व कुशिकात्मज ।
सर्वपापक्षयकरं सर्वव्याधिविनाशनम् ॥ २०.१॥

हर्म्याग्रे मण्डपे रम्ये गोमयेनानुलेपिते ।
हस्तमात्रप्रविस्तारं पञ्चाङ्गुलसमन्वितम् ॥ २०.२॥

स्थण्डिलं शालिभिः कल्प्य रक्तवर्णैः मनोरमैः ।
ततो नवपदं कल्प्य तन्मध्ये नलिनं लिखेत् ॥ २०.३॥

सकलीकृत्य सम्प्रोक्ष्य दर्भैश्चैव परिस्तरेत् ।
शिवादिविद्यातत्त्वान्तं नवकोष्ठेषु पूजयेत् ॥ २०.४॥

सौवर्णं राजतं ताम्रं मृण्मयं वाऽथ गृह्य च । (राजतं पातं)
अस्त्रेण क्षाल्य विन्यस्य मध्यादिक्रमयोगतः ॥ २०.५॥

सुप्रतिष्ठं सुशान्तं च तेजोरूपमथामृतम् ।
रत्नोदयं ततो व्यक्तं पात्राणि प्रणिपातयेत् ॥ २०.६॥ (रत्नोदक ततो व्यक्तं पात्राणि प्रणिपाद्यजेत्)

तेषु क्षीरं दधिघृतं गोमूत्रं गोमयं क्रमात् ।
कुशोदकं ततोऽग्न्यादि पिष्टामलकरात्रिकम् ॥ २०.७॥

क्षिप्त्वा ब्रह्मषडङ्गैश्च पूजयित्वा यथाविधिः ।
सकूर्चं सहितास्त्रेण पूजितं रक्षितं तथा ॥ २०.८॥ (सकूर्चं संहिता)

अमृतीकृत्य विधिवद्विदध्यात् पञ्चगव्यकम् ।
सर्पिर्दधिघृतं चैव गोमयं गोजलं तथा ॥ २०.९॥

कुशोदकं क्रमादंशमेकं द्वित्रि च वेद षट् । (द्वित्रि एक)
श्वेतवर्णं गवां क्षीरं पीतवर्णं गवां दधि ॥ २०.१०॥

कृष्णवर्णं गवां सर्पिं रक्तवर्णं च गोजलम् ।
गोमयं कपिलायां वा यथालाभं ग्रहेत्सुधीः ॥ २०.११॥

क्षीरं वै शुक्रदैवत्यं दधि वै सोमदैवतम् ।
सर्पिश्च रुद्रदैवत्यं गोमयस्य बृहस्पतिः ॥ २०.१२॥

गोमूत्रमग्निदेवत्यं शालिपिष्टं च शङ्करी ।
लक्ष्मीरामलकस्यैव रजन्यास्तु सरस्वती ॥ २०.१३॥

कुशोदकस्य गङ्गा च अधिदेवाः प्रकीर्तिताः ।
भारद्वाजः काश्यपश्च शालिहोत्रोऽथ गौतमः ॥ २०.१४॥ (काश्यपश्च विश्वामित्रो)

आत्रेयश्चैव पञ्चैते गव्यानामृषयः क्रमात् ।
भार्गवोऽगस्त्य आङ्गीरः शक्तिपिष्टादिकेर्षयः ॥ २०.१५॥

क्षीरं मोक्षप्रदं ज्ञेयं दधिव्याधिविनाशनम् ।
घृतं कुष्ठविनाशार्थं गोमूत्रं पुत्रवृद्धिदम् ॥ २०.१६॥

गोमयं रोगनाशार्थ पञ्चगव्यफलं लभेत् ।
प्रातः कालेऽभिषेकञ्च सर्वपापविनाशनम् ॥ २०.१७॥

माध्यन्दिनेऽभिषेकं च सर्वशान्त्यर्थमुच्यते ।
सायङ्कालाभिषेकेण सर्वव्याधिविनाशनम् ॥ २०.१८॥

गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राविण्णोति वै दधि ॥ २०.१९॥

ततः शुक्रमसीत्याज्यं देवस्यत्वा कुशोदकम् ।
एवं संहारमार्गेण संयोज्यान्ते कुशोदकम् ॥ २०.२०॥

जगद्भुवादिषण्मन्त्रैर्जपित्वास्त्रेण रक्ष्य च ।
धूपदीपादिकं दत्वा ततः पूजां समाचरेत् ।
पञ्चगव्याभिषेकेण महापातकनाशनम् ॥ २०.२१॥

इति श्रीकुमारतन्त्रे पञ्चगव्यविधिर्नाम विंशः पटलः ।