१९ मूर्तिहोमविधिः

मूर्तिहोमं ततो वक्ष्ये तच्छृणुष्व महामुने ।
हर्म्याग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्तथा ॥ १९.१॥

स्कन्दकुम्भञ्च तन्मध्ये द्विपार्श्वे वर्धनीद्वयम् ।
अष्टकुम्भान्न्यसेन्मन्त्री पूर्वाद्यष्टदिशासु च ॥ १९.२॥

मध्ये स्कन्दं समावाह्य पूजयेत्तु यथाविधि ।
महावल्लीं देवसेनां वर्धन्योः सम्प्रपूजयेत् ॥ १९.३॥

जयन्ताद्यष्टदेवांश्च पूर्वादिषु घटेषु च ।
तस्याग्रे स्थण्डिलं कृत्वा निर्दोषः सिकतैः सितैः ॥ १९.४॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
पलाशीं च गुलूचीं च सद्येनैव शतं शतम् ॥ १९.५॥

अघोरेण घृतं दत्वा चरुमीशानमन्त्रतः । (घृतं तद्वत्)
स्कन्दमूलेन मन्त्रेण घृतेनैव शतं हुनेत् ॥ १९.६॥

पञ्चब्रह्मषडङ्गैश्च दशांशं जुहुयात्ततः ।
मूलमन्त्रेण मतिमान् शतमष्टोत्तरं हुनेत् ॥ १९.७॥

जगद्भुवादिषण्मन्त्रैर्हुत्वा षण्मूर्तिमन्त्रतः ।
घृतसिक्ततिलेनैव त्र्यम्बकेन शताहुतिः ॥ १९.८॥

पूर्णाहुतिञ्च शिरसा स्विष्टकृद्धव्यमन्त्रतः ।
जयादिरभ्याध नञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ १९.९॥

कुम्भाद्भिर्देवदेवञ्च क्रमेणैवाभिषेचयेत् । (तत्कुम्भे देव देवीश्च क्रमेणैवाभिषेचयेत्)
यथाविभवविस्तारं होतारमपि पूजयेत् ॥ १९.१०॥

इति श्रीकुमारतन्त्रे मूर्तिहोमविधिर्नाम एकोनविंशः पटलः ।