१८ दिशाहोमविधिः

दिशाहोमं ततो वक्ष्ये श‍ृणुष्व मुनिपुङ्गव ।
भवनस्य चतुर्दिक्षु कुण्डे वा स्थण्डिलेऽपि वा ॥ १८.१॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तवर्त्मना ।
वञ्जुलं बिल्वमश्वत्थमर्कं पूर्वादिदिक्षु च ॥ १८.२॥

सद्यमन्त्रेण समिधं स्कन्दमूलेन सर्पिषा ।
चरुमस्त्रेण मन्त्रेण सर्षपं कवचेन च ॥ १८.३॥

तिलमीशानमन्त्रेण प्रत्येकं षोडशं हुनेत् ।
षडक्षरेण मन्त्रेण घृतेनैव शताहुतिः ॥ १८.४॥

पञ्चब्रह्मषडङ्गैश्च दशांशं जुहुयात्ततः ।
जगद्भुवादिषण्मन्त्रैर्हुत्वा षण्मूर्तिमन्त्रतः ॥ १८.५॥

तिलैश्च घृतसंयुक्तैस्त्र्यम्बकात् षोडशाहुतिः ।
पूर्णाहुतिं च शिरसा स्विष्टकृद्धव्यमन्त्रतः ॥ १८.६॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ।
होतारं पूजयेत् पश्चात् यथावित्तानुसारतः ॥ १८.७॥

इति श्रीकुमारतन्त्रे दिशाहोमविधिर्नाम अष्टादशः पटलः ।