१७ शान्तिहोमविधिः

शान्तिहोमं ततो वक्ष्ये श‍ृणु कौशिक सुव्रत ।
प्रायश्चित्तेषु सर्वेषु कल्पितेषु समाचरेत् ॥ १७.१॥

कुण्डे वा स्थण्डिले वाऽपि शान्तिहोमं समाचरेत् ।
तत्रैव स्थापयेत् कुम्भं सर्वलक्षणसंयुतम् ॥ १७.२॥

तं स्पृष्ट्वा चास्त्रमन्त्रेण स्कन्दमूलेन मन्त्रतः ।
शिवभक्तियुतैर्विप्रैजपेयुः पञ्चशान्तिना ॥ १७.३॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
हृद्वामघोरमन्त्रेण समिदाज्यचरुं क्रमात् ॥ १७.४॥

प्रत्येकं षोडशं कृत्वा स्कन्दमूलाच्छताहुतिः ।
पञ्चब्रह्मषडङ्गैश्च दशांशं सर्पिषा हुनेत् ॥ १७.५॥

जयन्ताद्यष्टदेवानामेकैकं सर्वनामवित् ।
क्षुरिकाबीजमुख्येन प्रत्येकं षोडशाहुतिः ॥ १७.६॥

जगद्भुवादिषण्मन्त्रैः कृत्वा षण्मूर्तिमन्त्रकैः ।
घृतमिश्रतिलेनैव त्र्यम्बकेन दशाहुतिः ॥ १७.७॥

हव्यवाहनमन्त्रेण स्विष्टकृच्च हुनेक्त्तः ।
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ १७.८॥

शान्तिकुम्भस्थतोयेन महासेनं प्रपूजयेत् ।
होतारं पूजयेत् कर्ता निष्कं निष्कार्धमानतः ॥ १७.९॥

इति श्रीकुमारतन्त्रे शान्तिहोमविधिर्नाम सप्तदशः पटलः ।