१६ वास्तुहोमविधिः

वास्तुहोमविधिं वक्ष्ये सर्वकर्मशुभावहम् ।
उत्सवेषु प्रतिष्ठासु वास्तुनिर्माणकेषु च ॥ १६.१॥

सम्प्रोक्षणविधानेषु यागेष्वन्येषु मन्त्रिभिः ।
वास्तुहोमं प्रकर्तव्यं तच्छृणुष्व महामुने ॥ १६.२॥

कुण्डवेदिसमायुक्ते मण्डपे नैरृते पुनः ।
हस्तमात्रेण सङ्कल्प्य स्थण्डिलं द्रोणतण्डुलैः ॥ १६.३॥

पुण्याहं वाचयेन्मन्त्री अभ्यङ्गैः प्रोक्ष्य तज्जलैः ।
एकाशीतिपदं कृत्वा मध्ये नवपदे विधिम् ॥ १६.४॥

मरीचिं च विवस्वांश्च मित्रं चैव धराधरम् ।
पूर्वादितन्मुखे पूज्य षट्कषट्कपदेषु च ॥ १६.५॥ (पूर्वादित मुखे पूज्य)

ईशानादिषु तत्पार्श्वेष्वापश्चैवापवत्सरम् ।
सवित्रश्चैव सावित्र इन्द्र इन्द्रजयस्तथा ॥ १६.६॥

रुद्रोरुद्रजयः पूज्यो द्विद्विभागे विशेषतः । (रुद्रेरुद्रजयः)
ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ॥ १६.७॥

आदित्यः सत्यकश्चैव भ्रंशश्चैवाभिरक्षकः । (सत्यकश्चैव भ्रंशश्चैवान्तरिक्षकः)
अग्निपूषा च वितथो ग्रहाक्षतयमौ तथा ॥ १६.८॥

गन्धर्वो भृङ्गराजश्च यमश्च निरृतिः पुनः ।
दौवारिकश्च सुग्रीवः पुष्पदन्तेन वासवः ॥ १६.९॥

असुरः सोषरोगौ च वायुर्नागस्तु मुख्यकः ।
भल्लाटश्चैव सोमश्च धिगश्चैवाधिगस्तथा ॥ १६.१०॥

दितिस्त्वेकैकपदिनो बाह्यो द्व त्रिंश उत्सवः ।
शरकी च विदारी च पूतना पापराक्षसी ॥ १६.११॥

ईशानादिषु कोणेषु पूजनीया पदाद्बहिः ।
स्कन्दो यमश्च जम्भश्च बलिपिं च क्रमेण तु ॥ १६.१२॥

पूर्वादिपदबाह्यो तु पूजयेद्गन्धपुष्पकैः ।
अधोमुखं भुवं प्राप्य शेते वास्तुनरः सदा ॥ १६.१३॥

उग्रत्वाद्भयकारित्वात्पूजितव्यं फलेप्सुभिः ।
शिरस्केशपदानी च निरृतिश्च पदानि यत् ॥ १६.१४॥

मध्ये ब्रह्मपदे नाभि रङ्गं सर्वपदानि च
चतुर्भुजं जटामौलिकमण्डल्वक्षधारिणम् ॥ १६.१५॥

वामहस्ते तु जाग्रत्वे सव्यहस्ताकुले स्थितम् ।
चतुर्भुजो युताशेषात् खड्गखेटकधारिणम् ॥ १६.१६॥

कृताञ्जलिपुटाः सर्वे ध्यात्वा स्वस्वपदे स्थिताः ।
तक्तत्स्वनाममन्त्रैश्च स्वाहान्तैः प्रणवान्तकैः ॥ १६.१७॥

उच्चार्य गन्धपुष्पाद्यैः प्रतिप्रति समर्चयेत् ।
तद्वामे मुनिशार्दूल स्थण्डिलं कल्प्य वालुकैः ॥ १६.१८॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
ततस्त्रयोर्ध्वे पञ्चाशद्देवतानां पृथक्पृथक् ॥ १६.१९॥

पलाशसमिदाज्याद्यै स्तिलैस्तण्डुलसंयुतैः ।
होमं हुत्वा विशेषेण द्रव्यान्ते व्याहृतिं हुनेत् ॥ १६.२०॥ (होमं कृत्वा)

स्कन्दमूलेन मन्त्रेग घृतेनैव शताहुतिम् ।
ततः षण्मूर्तिमन्त्रेण पञ्चब्रह्मषडङ्गकैः ॥ १६.२१॥

दशांशं जुहुयादन्ते स्विष्टकृद् द्रव्यमन्त्रकैः । (स्विष्टकृद् हव्यमन्त्रतः)
जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ १६.२२॥

दध्याज्यगुलसम्मिश्रं शुद्धान्नेन बलिं क्षिपेत् ।
पलाशोदुम्बराश्वत्थपत्रैः शुद्धैः सदर्भकैः ॥ १६.२३॥

सिद्धार्थतिलसंयुक्तैः कबलं बहुमन्त्रतः । (कबलं बाहुमात्रतः)
मध्वाज्येन मर्दयित्वा सम्प्रोक्ष्य हृदयेन तु ॥ १६.२४॥

प्रज्वाल्य तस्मिन्नग्नौ तु अस्त्रवर्धनितोययुक् । (तस्मिन्वन्हौ)
प्राकाराभ्यन्तरं सर्वं भवनं यागमण्डपम् ॥ १६.२५॥

पर्यग्निकरणं कृत्वा परिचारेण मन्त्रवित् ।
उत्क्राम्यत्वाच्च तत्पार्श्र्वे स्नानं कुर्याद्विधानतः ॥ १६.२६॥ (उल्कान्त्यत्वाथ तद्बाह्ये स्नानं)

पञ्चगव्येन सम्प्रोक्ष्य मन्त्रेणास्त्रेण देशिकः ।
तदूर्ध्वं कारयेत्कर्म दक्षिणां दापयेद्गुरोः ॥ १६.२७॥

वास्तुपूजा समाख्याता सर्वशोभनकारिणी ॥ १६.२८॥

इति श्रीकुमारतन्त्रे वास्तुपूजाविधिर्नाम षोडशः पटलः ।