जीर्णोद्धारविधिं वक्ष्ये शृणु कौशिक सुव्रत ।
सर्वशान्तिकरं पुण्यं सर्वव्याधिविनाशनम् ॥ १५.१॥
राष्ट्रग्रामनृपाणाञ्च हितार्थं गुरुशिल्पिनोः ।
जीर्णोद्धारं यः करोति फलं पूर्वाच्चतुर्गुणम् ॥ १५.२॥
जीर्णोद्धारं न कुर्याच्चेत् राजराष्ट्रं विनश्यति ।
तस्मात्सर्वप्रयत्नेन जीर्णोद्धारं तु कारयेत् ॥ १५.३॥
जीर्णं लोहजबेरं चेत् तल्लोहेनैव कारयेत् ।
शैलजं दारुजं चेत्तु वर्जयेत् कुशिकात्मज ॥ १५.४॥
यद्रूपं यन्मयं पूर्वं तथैव परिकल्पयेत् ।
अन्यथा कारितं चेत्तु राजराष्ट्रं विनश्यति ॥ १५.५॥
शैलं जीर्णं समुद्धृत्य शकटे वा गजेऽपि वा ।
रथे वा शिबिकायां वा विधिनारोप्य बुद्धिमान् ॥ १५.६॥
समुद्रे वा तडागे वा कूपे वाऽपि विसर्जयेत् ।
दारुजङ्कारयेद्भूमौ पश्चिमे चोत्तरेऽपि वा ॥ १५.७॥
गजोष्ट्रतुरगैश्चोरैर्विषनागेश्वरैरपि ।
पतिते चलिते भग्ने नदीस्रोतेन वा पुनः ॥ १५.८॥
वह्निना दह्यमानेऽपि जीर्णोद्धारं विधीयते ।
क्षेत्रे जीर्णे तु तत् क्षेत्रे स्थापयेत्तु प्रयत्नतः ॥ १५.९॥
नदीवेगेन चलितं शतदण्डं व्यपोह्य च ।
द्विशतं द्विगुणं वाऽपि चतुर्गुणमथापि वा ॥ १५.१०॥
तस्योत्तरेषु पूर्वेषु दक्षिणे चाथवा पुनः ।
आरोप्य च शुचौ देशे कृत्वा गेहप्रमाणवत् ॥ १५.११॥
स्थापनं तत्र कर्तव्यं नेत्रोन्मीलनवर्जनम् ।
जलाधिवासरहितं शेषकर्माणि कारयेत् ॥ १५.१२॥
अङ्गस्योपाङ्गप्रत्यङ्गमङ्गानि त्रिविधानि च ।
अङ्गं प्रधानं मूलं स्यादुपाङ्गमथ कथ्यते ॥ १५.१३॥
वक्षोदण्डकटीदण्डबाहुकूर्परकद्वयम् ।
ऊरू जानू च जङ्घे च पाणी पादतलाङ्गुली ॥ १५.१४॥
उपाङ्गं त्रिविधं ज्ञेयं आयुधाभरणानि च ।
वस्त्रवाहनपीठानि प्रत्यङ्गमिति कीर्तितम् ॥ १५.१५॥
ब्रह्मदण्डविहीनं चेत् शूलस्थापनमुच्यते ।
प्रत्यङ्गोपाङ्गहीने च पुनः सन्धानमाचरेत् ॥ १५.१६॥
आसप्तदिवसात् पूर्वं कुम्भे त्वावाह्य कारयेत् ।
तदूर्ध्वे बालहर्म्यं वै कृत्वा सम्प्रोक्षणं चरेत् ॥ १५.१७॥
लोहजं शैलजं बेरं मृण्मयं वा सुधामयम् ।
शिरोबाहू तथा चोरू हीने स्यात् परिवर्जयेत् ॥ १५.१८॥
अङ्गुलीनखनासाग्रं पुनः सन्धानमाचरेत् ।
सन्धानयोग्यं सन्धार्यमयोग्यं न प्रयोजयेत् ॥ १५.१९॥
वस्तुहीनं न कर्तव्यं कुर्याद्वस्त्वधिकेन तु ।
पूर्वात्कुर्यात्पूर्वमानात् अङ्गके श्रीकरं भवेत् ॥ १५.२०॥
विहीने नाशकृत्प्रोक्तं तस्माद्धीनं न कारयेत् ।
मासपक्षर्क्षवारादीनविचार्य समाचरेत् ॥ १५.२१॥
जीर्णोद्धारं न कुर्याच्चेन्महादोषोऽभिजायते ।
तद्दुष्टभूतवेतालपिशाचब्रह्मराक्षसाः ॥ १५.२२॥
प्रेताश्च देवशून्यत्वादाश्रयन्ति न संशयः ।
कुर्वन्ति ते भयं ह्युग्रं दुर्भिक्षं मरणं नृणाम् ॥ १५.२३॥
अर्चितं चेन्निहत्याशु तस्माज्जीर्णं समाचरेत् । (तस्माज्जीर्णं समुद्धरेत्)
मन्दिरे चोद्धृते तत्र बिम्बे निर्दोषसंस्थिते ॥ १५.१४॥
बालहर्म्यं ततः कृत्वा बालस्थानोक्तमार्गतः ।
हर्म्याग्रे पञ्चरे वापि त्रिबेरं तु समाचरेत् ॥ १५.२५॥
स्तूप्याद्याद्येष्टकानाञ्च खात्वा त्यक्त्वान्यशेषकम् ।
प्रथमेष्टिकां क्षिपेत्प्राग्वद्गर्भन्याससमायुतम् ॥ १५.२६॥
यावन्मन्दिरपर्यन्तं तावत्कृत्वा सलक्षणम् ।
यद्द्रव्येणोद्धृतं हर्म्यं यत्प्रमाणं यदाकृतिम् ॥ १५.२७॥
तद्द्रव्येण पुनः कुर्यात् प्रमाणेन तु बुद्धिमान् ।
सर्वावयवसम्पूर्णं यथाशोभं यथाबलम् ॥ १५.२८॥
दार्विष्टकाशिला यत्र जीर्णं प्रासादके पुनः ।
कर्मयोग्यास्तु सम्पाह्य अयोग्यान् परिवर्जयेत् ॥ १५.२९॥
हीनमानोद्धृते धाम्नि शास्त्रोक्तेनाथ कर्मतः ।
पूर्वाद्धीनं न कर्तव्यमुत्कृष्टं शुभदं स्मृतम् ॥ १५.३०॥
स्तूपी नासी च शाला च कपोतीकूटपञ्जरम् ।
एतेष्वङ्गं यथा हीनं तथा तद्वस्तुना पुनः ॥ १५.३१॥
परिवारालये जीर्णे तस्योद्धारणकर्मसु ।
तत्तद्धामाग्रके पोठे कृत्वा मूर्तिं समाचरेत् ॥ १५.३१॥ (मूर्तिं समर्चयेत्)
स्थापितेनोक्तदेशे तु तद्बिम्बं मन्त्रतन्त्रकैः ।
उक्तस्थाने प्रकर्तव्यं परिवारादिकान् क्रमात् ॥ १५.३३॥
जीर्णे तु गोपुरे तत्र प्रासादस्योक्तवर्त्मनः । (प्रासादस्योक्तमार्गतः)
अन्येषां मण्डपादीनां प्रासादस्योक्तमार्गतः ॥ १५.३४॥
एवं सामान्यमुदितं विशेषमधुनोच्यते ।
इष्टकायाः परं पीठं पीठादाभासमुत्तमम् ॥ १५.३५॥ (इष्टकायाः वरं)
आभासादर्धचित्रं स्यादर्धचित्रात्तु दारुजम् ।
दारुजान्मृण्मयं श्रेष्ठं मृण्मयाच्छैलजं स्मृतम् ॥ १५.३६॥
शैलजाल्लोहजं श्रेष्ठं लोहजाद्रत्नजं तथा ।
चित्रञ्च चित्रमन्यच्चेत्पूर्ववन्मूलबेरकम् ॥ १५.३७॥
द्रव्योत्कृष्टेन कर्तव्यं विपरीतं न कारयेत् ।
आदिशैवकुलोद्भूतः प्रागुक्तो लक्षणो गुरुः ॥ १५.३८॥
सुस्नातः सकलीकृत्य गन्धपुष्पैरलङ्कृतः ।
नववस्त्रधरोष्णीषो हैमपञ्चाङ्गभूषणः ॥ १५.३९॥
नत्वा गणाधिपं पूर्वं गन्धपुष्पादिभिर्यजेत् ।
सङ्कल्पमपि पुण्याहं वाचयेत्प्रोक्ष्य तज्जलैः ॥ १५.४०॥
सुब्रह्मण्यं ततोऽभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।
जीर्णबेरं त्याज्यमिति भगवद्वाक्यनिर्णयात् ॥ १५.४१॥
जीर्णोद्धारङ्कर्म कर्तुमनुग्रह षडानन ।
इति प्रणम्य विज्ञाप्य देवस्यानुज्ञया गुरुः ॥ १५.४२॥
स्कन्दाग्रे स्थण्डिलं कृत्वा हस्तमात्रेण देशिकः ।
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ १५.४३॥
समिदाज्यचरूंल्लाजं सर्षपं क्षीरमेव च ।
तिलं माषं ततो मुद्गं प्रियङ्गुं च गुलं मधु ॥ १५.४४॥
द्रव्याणि द्वादशैतानि होमयेत्तु विचक्षणः ।
जगद्भुवादिषण्मन्त्रैस्तत्तत्षण्मूर्तिमन्त्रकैः ॥ १५.४५॥
समिदाज्यचरून् हुत्वा प्रत्येकन्तु त्रयाहुतिम् ।
स्कदन्मूलेन जुहुयात्समिधं ब्रह्मवृक्षजम् ॥ १५.४६॥
घृतमीशानमन्त्रेण पुरुषेण चरुं हुनेत् ।
लाजांस्त्वघोरमन्त्रेण सर्पिषं वाममन्त्रतः ॥ १५.४७॥
सद्योजातेन गोक्षीरं तिलं पाशुपतेन च ।
माषं कवचमन्त्रेण मुद्गं हृदयमन्त्रतः ॥ १५.४८॥
प्रियङ्गुं नेत्रमन्त्रेण गुलं वै शीर्षमन्त्रकः ।
मध्वस्त्रेणैव जुहुयात्प्रत्येकन्तु शताहुतिम् ॥ १५.४९॥
द्रव्यान्ते व्याहृतीर्हुत्वा पूर्णां तु शिरसा हुनेत् ।
हव्यवाहेन मन्त्रेण स्विष्टकृद्धोमयेत्सुधीः ॥ १५.५०॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ।
शान्तिहोममिति प्रोक्तं हृत्कुम्भस्थापनं शृणु ॥ १५.५१॥
पुण्याहवाचनं कृत्वा कारयेदङ्कुरार्पणम् ।
स्कन्दाग्रे स्थण्डिलं कृत्वा द्विद्रोणै रक्तशालिभिः ॥ १५.५२॥
षड्दलं पद्ममालिख्य प्रोक्ष्य गायत्रिमन्त्रतः ।
द्रोणतोयेन सम्पूर्णं कुम्भं बिम्बसमप्रभम् ॥ १५.५३॥
चूतपल्लवकूर्चाढ्यं रत्नहोमाब्जसंयुतम् ।
सवस्त्रगन्धमालाभिस्तन्मध्ये स्थापयेत्सुधीः ॥ १५.५४॥
पार्श्वयोर्द्वयवर्धन्यौ शिवतोयेन पूरितौ ।
सर्वालङ्कारसंयुक्तौ स्थापयेद्विधिपूर्वकम् ॥ १५.५५॥
पूर्वादीशानपर्यन्तमष्टकुम्भान्न्यसेत्क्रमात् ।
पुनर्बिम्बप्रवेशाय पूजासिद्ध्यर्थये नृणाम् ॥ १५.६६॥
त्यक्त्वा दोषोत्थितं बेरं कुम्भेष्वागच्छतु प्रभो । (त्यक्त्वा दोषाच्झितं)
इदं मन्त्रं समुच्चार्य पुष्पाञ्जलियुतो गुरुः ॥ १५.५७॥
बिम्बान्तस्थं स्कन्दबीजं विन्यसेत्कुम्भमध्यमे ।
आधाराधेयपूजां च पञ्चावरणपूजनम् ॥ १५.५८॥
आवाहनादिसंस्कारदशकर्माङ्कुराततः ।
धनुः पद्मत्रिशूलञ्च मकरं सृङ्नमस्कृतम् ॥ १५.५९॥
षण्मुखं कुम्भवक्त्रे तु दर्शयित्वा समाचरेत् ।
दक्षिणस्थितवर्धन्यां महावल्लीं तथा यजेत् ॥ १५.६०॥
वामे स्थितायां वर्धन्यां देवसेनां यजेत्तथा ।
शकुन्याद्यष्टशक्तीश्च पूर्वादिषु यजेद्बुधः ॥ १५.६१॥
स्वनामाद्यक्षरेणैव नमोऽन्तं प्रणवादिकम् ।
वर्धन्योश्चाष्टकुम्भेषु योनिमुद्रां प्रदर्शयेत् ॥ १५.६२॥
पञ्चायुधानि कुम्भाग्रे रक्षणार्थं यजेद्गुरुः ।
शक्तिदण्डं प्रासदण्डं खङ्गतोमरबीजतः ॥ १५.६३॥
हृत्कुम्भस्थापनं ह्येवं विश्वामित्र महामुने ।
यात्राहोमं ततः कुर्यात्कुण्डे वा स्थण्डिलेऽपि वा ॥ १५.६४॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ।
समिदाज्यचरूंल्लाजं माषशालियवं तिलम् ॥ १५.६५॥
सक्तुसर्षपमुद्गानि पञ्चब्रह्मषडङ्गकैः ।
सहस्रं वा तदर्धं वा स्कन्दमूलेन सर्पिषा ॥ १५.६६॥
देव्योर्दशांशं जुहुयादस्त्रेणैव शतं हुनेत् ।
अघोरेण शतं हुत्वा स्विष्टमर्हेति होमयेत् ॥ १५.६७॥
जयादिरभ्याधानं च राष्ट्रभृच्च हुनेत्क्रमात् ।
सुब्रह्मण्याय नैवेद्यमुपदंशसमन्वितम् ॥ १५.६८॥
सगुलं घृतसम्पूर्णमपूपं मधुसंयुतम् ।
नालिकेराम्रपनसं फलयुक्तं दधिप्लुतम् ॥ १५.६९॥
पानीयमपि ताम्बूलं विशेषेण न्यवेदयेत् ।
धूपदीपं हृदा दत्वा दर्पणादीनि दर्शयेत् ॥ १५.७०॥
पूर्णाहुतिं ततो हुत्वा रुद्रादीनां बलिं क्षिपेत् ।
ज्ञानखड्गधरो भूत्वा त्वदाज्ञेति वदेत् गुरुः ॥ १५.७१॥
मण्डपस्येशदिग्भागे सर्वालङ्कारशोभिते ।
शालिभिः स्थण्डिलङ्कृत्वा कुम्भानुद्धृत्य विन्यसेत् ॥ १५.७२॥
संरक्ष्य चास्त्रमन्त्रेण सेनान्यं सन्निरोध्य च ।
यावत्प्रतिष्ठादिवसं तावत्पूर्ववदाचरेत् ॥ १५.७३॥
कुद्दालं वा खनित्रं वा पूजयेदस्त्रमन्त्रतः ।
शान्तिकुम्भस्थतोयेन बिम्बं तत्राभिषिच्यते ॥ १५.७४॥
उच्चरेन्नेत्रमन्त्रेण जीर्णबेरं द्विजोत्तमैः । (उद्धरेत्तेन मन्त्रेण जीर्णबेरं)
इन्द्रादिविष्णुपर्यन्तं दशदिक्षु बलिं क्षिपेत् ॥ १५.७५॥
नववस्त्रैश्च पुष्पैश्च समलङ्कृत्य बेरकम् ।
आचार्यो मूर्तिपैः सार्धं सहायैर्वेदवित्तमैः ॥ १५.७६॥
नृत्तवाद्यसमायुक्तं स्तोत्रमङ्गलसंयुतम् ।
ततो भक्तजनैः सार्धं जीर्णोत्सवमथाचरेत् ॥ १५.७७॥
रथे वा शिबिकायां वा गजे वाऽरोप्य बुद्धिमान् ।
स्वस्तिसूक्तं जपित्वा तु शिवभक्तियुतैर्द्विजैः ॥ १५.७८॥
समुद्रे वा तडागे वा नद्यां वा स्रोतसि क्षिपेत् ।
दारुजं मृण्मयं शैलं पटं वाऽप्सु विसर्जयेत् ॥ १५.७९॥
उत्तरे दक्षिणे वाऽपि खातयेदथवा पुनः ।
लोहं चेदग्निना दह्यात्कुर्यात्तेनैव बेरकम् ॥ १५.८०॥
प्रतिबिम्बं तु सहसा कारयेल्लक्षणान्वितम् ।
यद्वस्तुना कृतं बेरं कुर्यात्तद्वस्तुना पुनः ॥ १५.८१॥
अन्येन कुर्याच्चेद्यत्तु मूर्तिनाशो न संशयः ।
तस्मात्सर्वप्रयत्नेन पूर्ववत्कल्पयेत् सुधीः ॥ १५.८२॥
तद्घनेन घनं कार्यं पूर्वमानेन शिल्पिना । (अघने तु
घनं)
हृत्कुम्भस्थं स्कन्दबीजं पुनः स्थापनमाचरेत् ॥ १५.८३॥
जलसम्प्रोक्षणेनैव मार्गेण च विशेषतः ।
आचार्यं पूजयेत्कर्ता गोभूमिधनकाञ्चनैः ॥ १५.८४॥
उत्तमं दशनिष्कं तु पञ्चनिष्कं तु मध्यमम् ।
तदर्धमधमं ज्ञेयं देशिकस्य तु दक्षिणा ॥ १५.८५॥
पञ्चभागैकभागं तु मूर्तिपानां तु दक्षिणा ।
सहायेभ्यस्तदर्धं स्यात् ब्राह्मणान्भोजयेत्ततः ॥ १५.८६॥
यागोपकरणं सर्वं देशिकाय प्रदापयेत् ।
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ १५.८७॥
इति श्रीकुमारतन्त्रे जीर्णोद्धारविधिर्नाम पञ्चदशः पटलः ।