१४ प्रायश्चित्तविधिः

कौशिकः-
उत्सवस्योपकरणे क्रियामन्त्रविहीनके ।
निमित्ते समनुप्राप्ते पूजाविच्छिन्नके पुनः ॥ १४.१॥

प्रायश्चित्तं कथं देव वक्तुमर्हसि शङ्कर ।
ईश्वर उवाच-
साधु साधु त्वया पृष्टं तच्छृणुष्व महामुने ॥ १४.२॥

मायूरयागहीने तु ध्वजारोहणहीनके ।
ध्वजलक्षणहीने तु दण्डह्रस्वादिहीनके ॥ १४.३॥

स्कन्धहीने वेदिहीने ध्वजदण्डस्य भग्नके ।
ध्वजस्य रज्जुविच्छिन्ने तत्रैव ध्वजपातने ॥ १४.४॥

ध्वजघण्टाविहीने तु घण्टापातनके पुनः ।
भेरीताडनहीने च वेदिकुण्डविहीनके ॥ १४.५॥

वेद्यूर्ध्वस्थण्डिले हीने यागशालादिदग्धके ।
घोणच्छेदेन पतिते छिन्नयोर्यजनेऽपि च ॥ १४.६॥

शालालङ्करणे वस्त्रे दग्धे सति घटैः सह ।
वितानध्वजहीने च तोरणानां विहीनके ॥ १४.७॥

स्रुकूस्रुवौ तु विहीने चेदेतौ लक्षणहीनके ।
दर्भविष्टरहीने च होमद्रव्यविहीनके ॥ १४.८॥

दशायुधविहीने च अष्टमङ्गलहीनके ।
अङ्कुरार्पणहीने तु पालिकादिर्विहीनके ॥ १४.९॥

अस्त्रयागविहीने च कुम्भस्नपनहीनके ।
कुम्भवस्त्रविहीने च सुकूर्चविधिहीनके ॥ १४.१०॥

कुम्भे जले विहीने च हेमरत्नविहीनके ।
सूत्रवेष्टनहीने च वेदिवस्त्रविहीनके ॥ १४.११॥

नैवेद्यादिविहीने च यागदीपविहीनके ।
कुण्डे च वह्निविच्छिन्ने प्रणीताभिन्नचालने ॥ १४.१२॥

मन्त्रहीने क्रियाहीने समित्परिधिहीनके ।
बलिद्रव्यविहीने च बलिदानविहीनके ॥ १४.१३॥

बलिलिङ्गविहीने च तद्दिने पतितेऽथवा ।
अस्त्रेशपतने भङ्गे वेणुदण्डविहीनके ॥ १४.१४॥ (अस्त्रेशपतने भग्ने)

आयुधानि प्रणष्टे च भिन्ने वा पतितेऽथवा ।
बलिपीठविहीने च बलिदानविहीनके ॥ १४.१५॥

बलिदीपविहीने च रात्रिकालेमहामुने ।
बलिदाने च याने च कालातिक्रमणे सति ॥ १४.१६॥

उत्सवे यानहीने च तत्काले कलहे सति ।
पूजापर्युषिते द्रव्ये सङ्कुले प्रतिमासु च ॥ १४.१७॥

यानकाले तथा बेरे पतने चाङ्गहीनके ।
दीक्षान्तरैश्च शूद्रैश्च प्रतिमास्पर्शने तथा ॥ १४.१८॥

तेनैव यागशाला च स्पृष्टे च शुनकादिना ।
उत्सवे यत्र तद्ग्रामे मनुष्ये च मृते सति ॥ १४.१९॥

परिवेष्टनहीने च नीराजनविहीनके ।
पताकाद्यग्निना दग्धे युद्धारम्भविहीनके ॥ १४.२०॥

रक्षासूत्रविहीने च कौतुकस्नानहीनके ।
चूर्णोत्सवविहीने च तीर्थकर्मविहीनके ॥ १४.२१॥

वेद्यूर्ध्वैः स्थापितैः कुम्भैरभिषेकविहीनके ।
ध्वजावरोहणे हीने शुद्धस्नानविहीनके ॥ १४.२२॥

दिनाधिके तथा न्यूने यानकाले महोत्सवे ।
पीठोद्वासनहीने च सुमित्रायानहीनके ॥ १४.२३॥

आरभ्य चान्यतन्त्रेण स्कन्दयागे कृते सति ।
आचार्यदक्षिणाहीने द्विजभोजनहीनके ॥ १४.२४॥

ग्रामकर्तृनृपाणां च लग्नर्क्षप्रतिकूलके ।
यागोपकरणं सर्वमदत्ते देशिकाय वै ॥ १४.२५॥

एवमादिसमुत्पन्ने प्रायश्चित्तं विधीयते ।
मयूरयागहीनं चेद्दुष्टसर्पविवर्धनम् ॥ १४.२६॥

मयूरस्नपनं कृत्वा गन्धपुष्पादिभिर्यजेत् ।
मुद्गान्नञ्च निवेद्याथ शान्तिहोमं समाचरेत् ॥ १४.२७॥

मयूरयागविधिना प्रागुक्तेन समाचरेत् ।
ध्वजारोहणहीनश्चेत् ध्वजलक्षणहीनके ॥ १४.२८॥

तद्राष्ट्रं भयमाप्नोति राजा दौर्जन्यमाप्नुयात् ।
ध्वजसङ्कल्पविधिना तद्दोषशमनाय च ॥ १४.२९॥

शान्तिहोमं ततः कुर्याद्ध्वजमारोपयेत्पुनः ।
ध्वजदण्डादिके न्यूने स्कन्दयष्टिविहीनके ॥ १४.३०॥

उपवेदिविहीनश्चेत् परचक्राद्भयं भवेत् ।
शिल्पिनं हन्ति सहसा महान्दोषो गुरोर्भवेत् ॥ १४.३१॥

पुनः सलक्षणं दण्डं स्थाप्य सङ्कल्प्य वेदिकाम् ।
दण्डसम्प्रोक्षणं कृत्वा तदा शान्तिद्वयं जपेत् ॥ १४.३२॥

ध्वजदण्डविभिन्ने च परभूपाद्भयं भवेत् ।
शान्तिहोमं ततः कृत्वा पुनः सन्धानमाचरेत् ॥ १४.३३॥

ध्वजस्य रज्जुविच्छिन्ने तत्रैव ध्वजपातने ।
कर्तारञ्च गुरुं हन्ति शान्तिहोमं समाचरेत् ॥ १४.३४॥

अन्यं रज्जुं दृढं ग्राह्यं बध्वा सम्प्रोक्षयेद्बुधः ।
घण्टाविहीने पतिते बालानां नाशनं भवेत् ॥ १४.३५॥

पुण्याहं वाचयित्वाथ मूलमन्त्रशतं जपेत् ।
घण्टामस्त्रेण सम्प्रोक्ष्य पुनः सन्धानमाचरेत् ॥ १४.३६॥

भेरीताडनहीनं चेत् भूतप्रेतादिवर्धनम् ।
स्कन्दस्य स्नपनं कृत्वा ततो भेरीं प्रताडयेत् ॥ १४.३७॥

घोषकाले तु तद्घोणा छेदे वा पतितेऽपि वा ।
चर्मच्छेदेपि तद्राष्ट्रे सस्यनाशं भवेद्ध्रुवम् ॥ १४.३८॥

मयूरमूलमन्त्रेण हुत्वा जप्त्वा शतं जपेत् ।
परिग्राह्यान्यभेरीं च तडायेद्विधिना बुधः ॥ १४.३९॥

यागशालाविहीनश्चेत् वेदिकुण्डविहीनके ।
एतल्लक्षणहीनं चेत् भवेत्तद्ग्रामनाशनम् ॥ १४.४०॥

सहसा विधिना कृत्वा पुण्याहं वाचयेत्ततः ।
शान्तिहोमं ततः कृत्वा तदूर्ध्वं कर्म कारयेत् ॥ १४.४१॥

वेद्यूर्ध्वे स्थण्डिले हीने सस्यानां नाशनं भवेत् ।
गव्यैः सम्प्रोक्ष्य मतिमान्मूलमन्त्रैः शतं जपेत् ॥ १४.४२॥

स्थण्डिलं विधिना कृत्वा तत्र कुम्भान् न्यसेत्ततः ।
यागशालाग्निना दग्धे मध्ये वा चोत्सवस्य तु ॥ १४.४३॥

राजा मरणमाप्नोति परचक्राद्भयं भवेत् ।
सर्वांस्तान्सहसा त्यक्त्वा सर्वं सङ्कल्प्य पूर्ववत् ॥ १४.४४॥

दिशाहोमं ततः कृत्वा पुनरुत्सवमाचरेत् ।
विधिना मुनिशार्दूल तद्दिने तु गुरुत्तमाः ॥ १४.४५॥

केवलं यागशाला हि दग्धे कुर्याच्च पूर्ववत् ।
पुण्याहं वाचयित्वाथ शान्तिहोमं समाचरेत् ॥ १४.४६॥

गुहस्य स्नपनं कृत्वा विशेषाराधनं चरेत् ।
शालालङ्करणे वस्त्रे दग्धे सति पटैस्सह ॥ १४.४७॥

वितानध्वजहीने च तोरणादिविहीनके ।
महाव्याधिर्भवेद्राज्ये कल्याणानि विनश्यति ॥ १४.४८॥

स्नपनं पूर्ववत्कृत्वा शान्तिहोमं समाचरेत् ।
स्रक्स्रुवौ च विहीनौ चेत्तल्लक्षणविहीनके ॥ १४.४९॥

तद्ग्रामवासिनां विप्र ज्वरमारी प्रजायते ।
शान्तिहोमं ततः कृत्वा कारयेत्तौ सलक्षणौ ॥ १४.५०॥

दर्भविष्टरहीने च शस्त्रबाधा भवेन्नृणाम् ।
मूलमन्त्रैश्शतैर्हुत्वा दर्भैः परिधिना नयेत् ॥ १४.५१॥

होमद्रव्यविहीनं चेदनावृष्टिर्भविष्यति ।
महाव्याहृतिभिर्हुत्वा चास्त्रेणैव शतं हुनेत् ॥ १४.५२॥

तक्तद्द्र्व्यं हुनेद्धीमान शास्त्रदृष्टेन वर्त्मना ।
दशायुधविहीने च तस्करैर्भयमादिशेत् ॥ १४.५३॥

दशाक्षरेण मन्त्रेण जुहुयात्तु शताहुतिम् ।
सहसा लक्षणैः कृत्वा प्रोक्ष्य स्थानेषु विन्यसेत् ॥ १४.५४॥

अष्टमङ्गलहीने च स्त्रीणां नाशकरं भवेत् ।
स्कन्दसूक्तस्य षण्मन्त्रैरष्टवारं हुनेत्सुधीः ॥ १४.५५॥

कृत्वाष्टमङ्गलं भूयः प्रोक्ष्य सङ्कल्पयेत्क्रमात् ।
अङ्कुरार्पणहीने च पालिकादिविहीनके ॥ १४.५६॥

सर्वेषां लक्षणे हीने सस्यनाशं न संशयः ।
शान्तिहोमं ततः कृत्वा कारयेदङ्कुरार्पणम् ॥ १४.५७॥

अस्त्रयागविहीने च महामारी प्रजायते ।
मूर्तिहोमं ततः कृत्वा स्नपनं षण्मुखस्य वै ॥ १४.५८॥

यागाधिवासनं तत्र कुर्यात्पूर्वोक्तमार्गतः ।
कुम्भस्थापनहीने च कुम्भहीने च निर्जले ॥ १४.५९॥

हेमरत्नविहीने च सूत्रवेष्टनहीनके ।
अपिधानविहीने च कुम्भरत्नविहीनके ॥ १४.६०॥

वेदिवस्त्रविहीने च नैवेद्यादिविहीनके ।
दुर्भिक्षं जायते भूमौ मूर्तिहोमं समाचरेत् ॥ १४.६१॥

मूलेनैव शतं जप्त्वा सर्वकर्म समाचरेत् ।
यागदीपविहीने च नेत्ररोगं भवेद्भुवि ॥ १४.६२॥

शान्तिहोमं ततः कृत्वा दीपं द्विगुणमानयेत् ।
कुण्ड च वह्निविच्छिन्ने दुर्भिक्षं जायते भुवि ॥ १४.६३॥

निष्फलं तस्य तत्कर्म शान्तिहोमं समाचरेत् ।
भस्मधारं ततोद्वास्य विधानाग्निं निधापयेत् ॥ १४.६४॥ (ततोद्वास्य विधिना)

समिदाज्येन चरुणा मूलेनैव शतं हुनेत् ।
द्रव्यान्ते व्याहृतिं हुत्वा यदस्मिन्निति होमयेत् ॥ १४.६५॥

प्रणीतिर्लीयते भिन्ने गवां व्याधिस्तु जायते ।
इदं विष्ण्विति मन्त्रेण होमयेद् द्वादशाहुतिम् ॥ १४.६६॥

जुहुयादस्त्रमन्त्रेण शतं वै षोडशाहुतिम् ।
प्रणीतां पूर्ववत्कृत्वा तदूर्ध्वं कर्म कारयेत् ॥ १४.६७॥

मन्त्रहीने क्रियाहीने दारिद्य्रं जायते गुरोः ।
महोन्मादो भवेद्भूमौ मूर्तिहोमं समाचरेत् ॥ १४.६८॥

मूलेनैव शतं जप्त्वा तथा पाशुपतं जपेत् ।
उक्तद्रव्यैश्च मन्त्रैश्च विधिना होममाचरेत् ॥ १४.६९॥

समित्परिधिहीने च प्रजा दुःखमवाप्नुयात् ।
शान्तिहोमं ततः कृत्वा समित्परिधिमानयेत् ॥ १४.७०॥

बलिद्रव्यविहीने च बलिदानविहीनके ।
सस्यानां नाशनं तत्र क्षुद्बाधा जायते नृणाम् ॥ १४.७१॥

कृत्वा तदा मूर्तिहोमं स्कन्दमूलं शतं जपेत् ।
बलिद्रव्यं समासाद्य बलिदानं समाचरेत् ॥ १४.७२॥

बलिलिङ्गविहीने तु भिन्ने च पतितेऽथवा ।
कर्तुविनाशो भवति परिवारस्य दुर्दशा ॥ १४.७३॥

शान्तिहोमं ततः कृत्वा मूलेनैव शतं हुनेत् ।
बलिलिङ्गं नवं कृत्वा पुनश्च बलिमाचरेत् ॥ १४.७४॥

अस्त्रेशपतिते हीने नष्टे च मुनिपुङ्गव ।
राष्ट्रग्रामनृपाणां च शत्रुभिर्भयमादिशेत् ॥ १४.७५॥

पतितश्चेत्तु सम्प्रोक्ष्य शान्तिहोमं समाचरेत् ।
भिन्ने नष्टे पुनः कृत्वा सम्प्रोक्षणमथाचरेत् ॥ १४.७६॥

शान्तिहोमं ततः कृत्वा तन्मूलेन शतं हुनेत् ।
पुनर्बलिं ततः क्षिप्त्वा ब्राह्मणान्भोजयेत्ततः ॥ १४.७७॥

अस्त्रस्य दण्डभग्ने च नवदण्डं प्रयुज्य च ।
पञ्चगव्येन सम्प्रोक्ष्य बलिशेषं समाचरेत् ॥ १४.७८॥

आयुधानि प्रणष्टे च भिन्ने वा पतितेऽपि वा ।
प्रवर्तते महामारी यागो राक्षसभुग्भवेत् ॥ १४.७९॥

षडक्षरेण मन्त्रेण जपेदष्टोत्तरं शतम् ।
नष्टे भिन्ने पुनः कृत्वा प्रोक्ष्य संस्थापयेत्सुधीः ॥ १४.८०॥

बलिपात्रविहीने च धनधान्यक्षयं भवेत् ।
शान्तिहोमं ततः कृत्वा सहसा पात्रमानयेत् ॥ १४.८१॥

बलितालविहीने च न तुष्टाः सन्धिदेवताः ।
मूर्तिहोमं ततः कृत्वा जगतस्त्राणनाशनम् ॥ १४.८२॥

बलिदीपविहीने तु ग्रामलक्ष्मी गता भवेत् ।
स्कन्दगायत्रिमन्त्रेण जपेदष्टोत्तरं शतम् ॥ १४.८३॥

द्विगुणं दीपमारोप्य बलिशेषं समाचरेत् ।
बलिदाने च याने च कालातिक्रमणे सति ॥ १४.८४॥

तद्ग्रामस्य क्षयं प्रोक्तं शान्तिहोमं समाचरेत् ।
बलिदानं देवयानं कारयेन्मुनिपुङ्गव ॥ १४.८५॥

उत्सवे यागहीने च कर्तुमरणमादिशेत् ।
मूर्तिहोमं ततः कृत्वा कौतुकं स्थाप्य चार्चयेत् ॥ १४.८६॥

यानक्रमेण मतिमान् कुर्याद्ग्रामप्रदक्षिणम् ।
तत्काले कलहं विप्र तद्राष्ट्रं कलहं भवेत् ॥ १४.८७॥

शान्तिहोमं ततः कृत्वा जपेदस्त्राणुना शतम् ।
पूजापर्युषितं द्रव्यं सङ्कुले प्रतिमासु च ॥ १४.८८॥

परचक्राद्भयं भूमौ महामारी प्रवर्तते ।
शान्तिहोमं ततः कृत्वा जपेत् पाशुपतं शतम् ॥ १४.८९॥

यानकाले तथा बेरे पतने चाङ्गहीनके ।
ग्रामराष्ट्रनृपाणां च नाशनं भवति ध्रुवम् ॥ १४.९०॥

स्नपनं तत्र कुर्वीत शान्तिहोमं तु कारयेत् ।
पुनर्यानं प्रकर्तव्यं पतने मुनिपुङ्गव ॥ १४.९१॥

शिरो बाहुस्तथा पादौ हीने तु परिवर्जयेत् ।
पूर्ववत् प्रतिमां कृत्वा जलाधिवासनं विना ॥ १४.९२॥

प्रतिष्ठां विधिना कृत्वा पुनरुत्सवमाचरेत् ।
वाहनायुधवस्त्रादिकर्णाङ्गुलिविहीनके ॥ १४.९३॥

पद्मबन्धविहीने तु पुनः सन्धानमाचरेत् ।
सम्प्रोक्षणं ततः कृत्वा कुर्यात् ग्रामप्रदक्षिणम् ॥ १४.९४॥

मूर्तिहोमं ततः कृत्वा ब्राह्मणान् भोजयेत्सुधीः ।
दीक्षान्तरैस्तथा शूद्रैः प्रतिमास्पर्शिते यदि ॥ १४.९५॥

तथैव यागशालायां संस्पृष्टे च शुना तथा ।
तद्ग्रामवासिनां शीघ्रं स्थानभ्रष्टं न संशयः ॥ १४.९६॥

पुण्याहं वाचयित्वाथ गव्यैः सम्प्रोक्षयेत्सुधीः ।
स्नपनं कारयेद्बिम्बे शान्तिहोमं तु कारयेत् ॥ १४.९७॥

उत्सवं यत्र तद्ग्रामे मनुजे तु मृते सति ।
वर्णानां दूषणोत्पत्तिः शीघ्रं त्यक्त्वा तु तच्छतम् ॥ १४.९८॥

मूर्तिहोमं ततः कृत्वा हुनेदस्त्राणुना शतम् ।
परिवेष्टनहीने च राजाज्ञा क्षीयते भुवि ॥ १४.९९॥

स्कन्दसूक्तशतं जप्त्वा शान्तिहोमं समाचरेत् ।
नीराजनविहीने तु भवेदग्निभयं भुवि ॥ १४.१००॥

षडक्षरेण मन्त्रेण शतं जप्त्वा स मन्त्रवित् ।
नीराजनं ततः कुर्यात् शास्त्रदृष्टेन वर्त्मना ॥ १४.१०१॥

पताका ह्यग्निना दग्धे महावातप्रकोपनः ।
तत्त्यक्त्वा सहसा मन्त्री जपेदस्त्राणुना शतम् ॥ १४.१०२॥

मूर्तिहोमं ततः कृत्वा पञ्चशान्तिं जपेत् पुनः ।
युद्धारम्भविहीनं तु बालानां नाशनं भवेत् ॥ १४.१०३॥

मूर्तिहोमं ततः कृत्वा युद्धारम्भमथाचरेत् ।
रक्षासूत्रविहीने तु लोकरक्षा विनश्यति ॥ १४.१०४॥

अयुतं जप्य चास्त्राणुं कौतुकं बन्धयेत्ततः
कौतुकस्नानहीने तु वृषं नश्यत्यसंशयः ॥ १४.१०५॥

मूर्तिहोमं ततः कृत्वा कौतुकस्नानमाचरेत् ।
चूर्णोत्सवविहीने तु भवेयुर्विधवा स्त्रियः ॥ १४.१०६॥

दशाक्षरेण मन्त्रेण हुनेदष्टोत्तरं शतम् ।
मूलमन्त्रशतं जप्त्वा चूर्णोत्सवमथाचरेत् ॥ १४.१०७॥

तीर्थकर्मविहीने तु तद्राष्ट्रं जलवर्जितम् ।
अस्त्राणुना शतं जप्त्वा तीर्थकर्म समाचरेत् ॥ १४.१०८॥

वेद्यूर्ध्वे स्थापितैः कुम्भैरभिषेकविहीनके ।
निष्फलं यागकर्म स्यात् मूर्तिहोममथाचरेत् ॥ १४.१०९॥

मूर्तिहोमं ततः कृत्वा कुर्यात्तैरभिषेचनम् ।
ध्वजावरोहणेहीने महावातप्रकोपनम् ॥ १४.११०॥

मूर्तिहोमं ततः कृत्वा ध्वजं तत्रावरोहयेत् ।
शुद्धस्नानविहीने च वृष्टिर्नश्यत्यसंशयः ॥ १४.१११॥

शान्तिहोमं ततः कृत्वा स्नपनं तत्र कारयेत् ।
दिनाधिके महादुःखं कर्तुः सञ्जायते ध्रुवम् ॥ १४.११२॥

मूर्तिहोमं ततः कृत्वा ब्राह्मणानपि भोजयेत् ।
अपरे दिवसे विप्र तीर्थकर्म समाचरेत् ॥ १४.११३॥

न्यूने चैव तथा कर्तुर्ग्रामस्य च भवेत् क्षयम् ।
प्रागुक्तविधिना तस्मादुत्सवं कारयेद्बुधः ॥ १४.११४॥

आदौ व्यवस्थितं त्यक्त्वा होमात् पूर्वेऽथवा परे ।
उत्सवे तु कृते तस्य ग्रामस्य च भवेत् क्षयम् ॥ १४.११५॥

शान्तिहोमं ततः कृत्वा स्नपनं कारयेत्तदा ।
पूर्वोक्तविधिना धीमान् पुनरुत्सवमाचरेत् ॥ १४.११६॥

पीठोद्वासनहीने च न प्रीताः सन्धिदेवताः ।
मूलेनैव शतं जप्त्वा पीठोद्वासनमाचरेत् ॥ १४.११७॥

सुमित्रयागहीने तु सर्वकर्म च निष्फलम् ।
गुहस्य स्नपनं कृत्वा सौमित्रं यागमाचरेत् ॥ १४.११८॥

आरम्भोऽप्यन्यतन्त्रेण स्कन्दयागे कृते सति ।
राज्ञां सेना क्षयं याति तद्यज्ञं पुनराचरेत् ॥ १४.११९॥

आचार्यदक्षिणेहीने द्विजभोजनहीनके ।
न लभेत्तत्फलं कर्ता क्षयं प्राप्नोत्यसंशयः ॥ १४.१२०॥

शान्तिहोमं ततः कृत्वा द्विगुणां दक्षिणां ददेत् ।
ग्रामकर्तृनृपाणाञ्च लग्नर्क्षप्रतिकूलके ॥ १४.१२१॥

ग्रामकर्तृनृपाणाञ्च व्याधिपीडा भवेद्ध्रुवम् ।
तस्मिन्नपि च यत्कर्म तद्दोषशमनाय च ॥ १४.१२२॥

शान्तिहोमं ततः कृत्वा ब्राह्मणान् भोजयेत्क्रमात् ।
यागोपकरणं सर्वमददाद्देशिकाय वै ॥ १४.१२३॥

तद्यागं निष्फलं तस्मात् देशिकं पूजयेद्बुधः ।
अनुक्तं यस्य दोषस्य शान्तिहोमं तु तत्र वै ॥ १४.१२४॥

यागाग्नौ जुहुयाद्धीमान् प्रागुक्तविधिना ततः ।
आलये पतिते भिन्ने स्फुटिते तृणरूपके ॥ १४.१२५॥

गजोष्ट्रतुरगाद्यैश्च बेरे च चलिते जलैः ।
भूपतेश्चलनं सद्यो दृढं कृत्वा तु पूर्ववत् ॥ १४.१२६॥

शान्तिहोमं ततः कृत्वा सम्प्रोक्षणमथाचरेत् ।
गृहीते शत्रुभिर्बेरे राजराष्ट्रं विनश्यति ॥ १४.१२७॥

आशु बालालयं कुर्यात् प्रयत्नैर्वत्सरान्तरैः ।
तद्बेरमेव सङ्ग्राह्य स्थापयेत् पूर्वदेशिकः ॥ १४.१२८॥

तदूर्ध्वेऽन्यं परिग्राह्य प्रतिष्ठां विधिनाचरेत् ।
अष्टबन्धनहीने तु स्त्रीनाशं तज्जलं भुवि ॥ १४.१२९॥

सहसा बन्धनं कुर्यात् गुहस्य स्नपनं चरेत् ।
स्थलकर्मविहीने च महामारी प्रजायते ॥ १४.१३०॥

पुनः सन्धानमाचार्यः सम्प्रोक्षणमथाचरेत् ।
वह्निना दूषिते बेरे शान्तिहोमं समाचरेत् ॥ १४.१३१॥

सम्प्रोक्षणं ततः कुर्यात् विधिना देशिकोत्तमः ।
परिवारविहीने तु राजसेना च नश्यति ॥ १४.१३२॥

परिवारान् ततः कृत्वा स्थापयेद्विधिपूर्वकम् ।
बलिपीठविहीने तु गावो नश्यत्यसंशयः ॥ १४.१३३॥

बलिपीठं ततः कृत्वा विधिना स्थाप्य पूजयेत् ।
नकुलैः सूकरैश्चैव खरकुक्कुटवायसैः ॥ १४.१३४॥

ऋतुस्त्रीचोरचण्डालैः प्रेतकैश्चैव पातकैः ।
गर्भगेहं प्रविष्टश्चेत् संस्पृष्टे कौतुकेऽथवा ॥ १४.१३५॥

प्रतिलोमानुलोमैश्च पतितैः पापरोगिभिः ।
मूलबेरे च संस्पृष्टे प्रमादाद्वाऽथ गर्वतः ॥ १४.१३६॥

एतेऽपि नरकं यान्ति राष्ट्रे मारी प्रवर्तते ।
मृन्मयानि च भाण्डानि त्यक्त्वा लेप्य च गोमयैः ॥ १४.१३७॥

पर्यग्निकरणं कृत्वा सम्प्रोक्षणमथाचरेत् ।
हस्तोत्खातं च तद्देशं खात्वा पूर्य च वालुकैः ॥ १४.१३८॥

मृत्पात्राणि च सन्त्यक्त्वा गोमयेन विलिप्य च ।
पुण्याहवाचनं कृत्वा भोजयित्वा द्विजानपि ॥ १४.१३९॥

मूर्तिहोमं ततः कृत्वा सम्प्रोक्षणमथाचरेत् ।
नित्यपूजाविहीने च दुर्भिक्षं जायते भुवि ॥ १४.१४०॥

तद्ग्रामस्था न भुञ्जेयुः भुञ्जेयुश्चेत् क्रिमिं सदा ।
एकसन्धिविहीने च द्विगुणं चान्यकालके ॥ १४.१४१॥

सन्धिद्वयार्चने हीने पञ्चगव्याभिषेचनम् ।
सन्धित्रयविहीने च कर्तव्यं शान्तिहोमकम् ॥ १४.१४२॥

अहोरात्रविहीने तु स्नपनं शान्तिहोमकम् ।
पञ्चाहे स्नपनं कुर्यात् मूर्तिहोमं विशेषतः ॥ १४.१४३॥

पद्महीने दिशाहोमं स्नपनञ्च विशेषतः ।
मासादूर्ध्वविहीने तु जलसम्प्रोक्षणं मतम् ॥ १४.१४४॥

नित्यहोमविहीने स्यादनावृष्टिर्न संशयः ।
एकसन्धिविहीने तु हुत्वा पाशुपतं शतम् ॥ १४.१४५॥

सन्धिद्वयविहीन्ने तु मूलेनैव शतं हुनेत् ।
अयङ्कुमारमन्त्रेण शतमष्टोत्तरं हुनेत् ॥ १४.१४६॥

एकाहे होमहीने तु पञ्चब्रह्मषडङ्गकैः ।
स्कन्दमूलेन मन्त्रेण शतमष्टोत्तरं हुनेत् ॥ १४.१४७॥

होमहीने तु पञ्चाहे स्नपनं शान्तिहोमकम् ।
कृत्वा पाशुपतेनैव जपेत् पञ्चशतं पुनः ॥ १४.१४८॥

पक्षहोमविहीने तु स्नपनं मूर्तिहोमकम् ।
मासहोमविहीने तु ब्रह्माङ्गैश्च दशाक्षरैः ॥ १४.१४९॥

क्षुरिकाबीजमुख्यैश्च प्रत्येकं तु शतं हुनेत् ।
मूलमन्त्रशतं जप्त्वा स्नपनं कारयेत् प्रभोः ॥ १४.१५०॥

मासादूर्ध्वविहीने तु शान्तिहोमं समाचरेत् ।
स्कन्दस्य स्नपनं कृत्वा प्रभूतहविषं ददेत् ॥ १४.१५१॥

सायं रक्षाविहीने तु बालानां नाशनं भवेत् ।
स्नपनं पञ्चगव्येन सायं रक्षा समाचरेत् ॥ १४.१५२॥

नीराजनविहीने तु क्षुद्भयं ग्रामवासिनाम् ।
द्वारपूजाविहीने तु तस्करैर्भयमादिशेत् ॥ १४.१५३॥

मूलमन्त्रशतं हुत्वा नीराजनमथाचरेत् ।
द्वारदेवान्स्वमन्त्रेण गन्धपुष्पादिनार्चयेत् ॥ १४.१५४॥

नित्योत्सवविहीने तु धान्यनाशं न संशयः ।
सन्ध्यैकेन विहीने तु स्नपनं पञ्चगव्यकैः ॥ १४.१५५॥

मूलमन्त्रशतं जप्त्वा नित्योत्सवमथाचरेत् ।
सन्धिद्वयविहीने तु शान्तिहोमं समाचरेत् ॥ १४.१५६॥

पञ्चाहे चोत्सवे हीने स्नपनं शान्तिहोमकम् ।
दशाहे तु तथा कृत्वा मूलमन्त्रशतं हुनेत् ॥ १४.१५७॥

पक्षाहे च तथा कृत्वा मूलमन्त्राच्छतं हुनेत् ।
मासनित्योत्सवे हीने ब्रह्माङ्गैर्बीजमुख्यकैः ॥ १४.१५८॥

दशाक्षरैस्तथा हुत्वा प्रत्येकं तु शतं हुनेत् ।
मासादूर्ध्वविहीने तु दिशाहोमं तदूर्ध्वके ॥ १४.१५९॥

सौख्यगेये विहीने च महामारी प्रवर्तते ।
एकसन्धिविहीने च पञ्चगव्याभिषेचनम् ॥ १४.१६०॥

पञ्चाहे तु तदूर्ध्वे तु मूलमन्त्रशतं जपेत् ।
अर्धमासविहीने तु तदूर्ध्वं तच्छतं जपेत् ॥ १४.१६१॥

एकमासविहीने तु पञ्चब्रह्मषडङ्गकैः ।
त्र्यम्बकेन तु मन्त्रेण तदूर्ध्वं होमयेच्छतम् ॥ १४.१६२॥

मासादूर्ध्वविहीने तु तेषामूर्ध्वं महाहविः ।
सौख्यदीपविहीने तु नेत्ररोगं भवेन्नृणाम् ॥ १४.१६३॥

आरोप्य द्विगुणं दीपमघोरेण शतं जपेत् ।
गेयवंशविहीने तु वाद्यशङ्खविहीनके ॥ १४.१६४॥

सस्यानां नाशनं प्रोक्तं निष्कृतिः सौख्यगेयवत् ।
नृत्तकाले तु गणिका पतने तु विशेषतः ॥ १४.१६५॥

कर्ता दुरितमाप्नोति शान्तिहोमं समाचरेत् ।
सौख्यश्लोकविहीने तु बधिरत्वं प्रवर्तते ॥ १४.१६६॥

सौख्यगानविधानेन निष्कृतिश्च विधीयते ।
गन्धद्रव्यविहीने च स्त्रीनाशं सस्यनाशनम् ॥ १४.१६७॥

अघोरेणशतं जप्त्वा तद्द्रव्यं द्विगुणं ददेत् ।
पुष्पार्घ्यधूपहीने च वृष्टिर्नश्यत्यसंशयः ॥ १४.१६८॥

मूलमन्त्रं शतं जप्त्वा तद्द्र्व्यद्विगुणं भवेत् ।
हीने निर्वाणदीपे चेत् भूतप्रेतादिवर्धयेत् ॥ १४.१६९॥

एकाहे द्विगुणं दीपं तदूर्ध्वे सौख्यगेयवत् ।
सन्ध्या दीपविहीने तु सर्वदोषावहं नृणाम् ॥ १४.१७०॥

एकस्य द्विगुणं दीपं विधिनारोपयेत्सुधीः ।
मन्त्रव्यतिक्रमे पूजा तत्सर्वं निष्फलं भवेत् ॥ १४.१७१॥

शान्तिहोमं ततः कृत्वा मूलमन्त्रशतं जपेत् ।
नैवेद्यदीपहीने च दुर्भिक्षं जायते भुवि ॥ १४.१७२॥

एकसन्धिविहीने तु तद्द्र्व्यं द्विगुणं मतम् ।
सन्धिद्वयविहीने तु कुर्याद्गव्याभिषेचनम् ॥ १४.१७३॥

सन्धित्रयविहीने तु तदूर्ध्वे स्नपनञ्चरेत् ।
पञ्चाहेन विहीने तु तदूर्ध्वे तु षडक्षरैः ॥ १४.१७४॥

घृतेन जुहुयाद्धीमान् अष्टोत्तरशताधिकम् ।
दशाहे स्नपनं कृत्वा मूर्तिहोमं समाचरेत् ॥ १४.१७५॥

एकमासविहीने तु दिशाहोमं समाचरेत् ।
स्कन्दस्य स्नपनं कृत्वा पूजयेत्तु विशेषतः ॥ १४.१७६॥

मासादूर्ध्वे विहीने तु जलसम्प्रोक्षणञ्चरेत् ।
पूर्व विनिश्चितद्रव्यं यावत्काले विहीनके ॥ १४.१७७॥

सम्यक् समूह्य तत्सर्वं षण्मुखाय निवेदयेत् ।
सन्ध्यातिक्रमणेनैव ग्रामनाशं धनक्षयम् ॥ १४.१७८॥

षडक्षरेण जुहुयात् आहुत्यास्तु सहस्रकम् ।
नैवेद्योत्थापने काले पतने लङ्घने नरैः ॥ १४.१७९॥

सस्यानां नाशनं प्रोक्तं तदन्नं परिवर्जयेत् ।
मूलमन्त्रं शतं जप्त्वा पक्कान्नं सहसा ददेत् ॥ १४.१८०॥

मार्जनालेपनं हीनं शङ्खघोषविहीनके ।
गवां नाशकरं प्रोक्तं निर्वीर्या पृथिवी भवेत् ॥ १४.१८१॥

मालामन्त्रशतं जप्त्वा मार्जनादि च कारयेत् ।
बिम्बे पुष्पविहीने च ज्वरमारी प्रवर्तते ॥ १४.१८२॥

दुर्नीतिर्दुर्मृतिश्चैव दुर्भिक्षमपि जायते ।
महाहविर्निवेद्याथ तत्तत्सर्वं समाचरेत् ॥ १४.१८३॥

स्पृष्टे दीक्षान्तरैर्बिम्बे शूद्रैरपि तथा पुनः ।
परचक्राद्भयं भूमौ पुण्याहं वाचयेत्सुधीः ॥ १४.१८४॥

शान्तिहोमं ततः कृत्वा स्नपनङ्कारयेत्प्रभोः ।
उत्सवान्तं दिनान्तं वा लब्धमासे तु कारयेत् ॥ १४.१८५॥

पवित्रारोहणे हीने मासपूजाविहीनके ।
नवनैवेद्यहीने च दुर्भिक्षं जायते भुवि ॥ १४.१८६॥

मूर्तिहोमं ततः कृत्वा भूसुरानपि पूजयेत् ।
कृत्तिकादीपहीनं चेत् अनावृष्टिर्न संशयः ॥ १४.१८७॥

शान्तिहोमं ततः कृत्वा स्नपनङ्कारयेत्प्रभोः ।
लब्धमासेऽग्निक्षत्रे कृत्तिकादीपमाचरेत् ॥ १४.१८८॥

तैलाभ्यङ्गविहीने च दारिद्र्यं ग्रामवासिनाम् ।
मूलमन्त्रैः शतं कृत्वा तैलाभ्यङ्गं समाचरेत् ॥ १४.१८९॥

मन्त्रसंस्कारदोषेण राजराष्ट्रं विनश्यति ।
सम्प्रोक्षणं ततः कृत्वा तन्मन्त्रेणैव पूजयेत् ॥ १४.१९०॥

आचार्यसङ्करं चैव कर्तुर्ग्रामस्य नाशनम् ।
मूर्तिहोमं ततः कृत्वा पूर्वाचार्येण पूजयेत् ॥ १४.१९१॥

अनुक्तं यद्भवेत् किञ्चिच्छान्तिहोमेन शाम्यति ।
मन्त्रेऽनुक्ते क्रियाणां तु हृदयेनैव कारयेत् ॥ १४.१९२॥

एवं यः कुरुते मर्त्यः स पुण्याङ्गतिमाप्नुयात् ॥ १४.१९३॥

इति श्रीकुमारतन्त्रे प्रायश्चित्तविधिर्नाम चतुर्दशः पटलः ।