अतः परं प्रवक्ष्यामि स्कन्दोत्सवविधिक्रमम् ।
भुक्तिमुक्तिप्रदं दिव्यं सर्वभूतसुखप्रदम् ॥ १३.१॥
सर्वलोकसुखं पुण्यं सदा विजयवर्धनम् ।
सर्वसिद्धिकरं वश्यं सर्वशान्तिकरं शुभम् ॥ १३.२॥
सर्वशत्रुक्षयकरमिष्टकाम्यफलप्रदम् ।
भूतराक्षसनाशञ्च मर्त्यानां पोषणार्थकम् ॥ १३.३॥
उत्सवेति त्रिवर्णोयं सृष्टिस्थित्यन्तसंज्ञकम् ।
उत्सवस्त्रिविधः प्रोक्तो मुनिमुख्य महामते ॥ १३.४॥
मासोत्सवस्तु प्रथमो द्वितीयस्तु महोत्सवः ।
भक्तोत्सवस्तृतीयस्तु वक्ष्यते मुनिपुङ्गव ॥ १३.५॥
कृतस्त्वमायां मासाद्ये स तु मासोत्सवो भवेत् ।
त्रयाहञ्चैव पञ्चाहं सप्ताहञ्चनवाहकम् ॥ १३.६॥
द्वादशाहन्तु विधिना चरितस्तु महोत्सवः ।
भक्त्या पुण्यदिने भक्तैः क्रियते यः स उत्सवः ॥ १३.७॥
बलिहीनं तथा कुर्यात् भक्तोत्सवविशेषतः ।
महोत्सवन्तु षड्भेदं वक्ष्यामि शृणु सुव्रत ॥ १३.८॥
पैतृकं द्वादशाहं तु नवाहं सौख्यमुच्यते ।
सप्ताहं श्रीकरं प्रोक्तं पञ्चाहं भौतिकं स्मृतम् ॥ १३.९॥
सात्त्विकं च त्र्यहं प्रोक्तं चैकाहं शिवमुच्यते ।
भौतिके सात्त्विके शैवे वर्जयेत् केतुरोहणम् ॥ १३.१०॥
अन्येषु श्रीकरादीषु कर्तव्यं केतुरोहणम् ।
कृत्तिका सर्वमासेषु तीर्थनक्षत्रमुत्तमम् ॥ १३.११॥
कृत्तिकां विशाखां वा तीर्थर्क्षं सर्वमासके ।
कृष्णपक्षे तु षष्ठ्यां वा सर्वमासे गुहोत्सवम् ॥ १३.१२॥ (तु षष्ठ्यन्तं)
सर्वमासेषु तां हित्वा मासर्क्षे वाथ कारयेत् ।
राजजन्मदिने वापि ऋक्षे राजाभिषेकके ॥ १३.१३॥
ग्रामजन्मदिने वा तु भूपालमरणे दिने ।
राजयुद्धजयार्थे वा चोत्सवं कारयेद्बुधः ॥ १३.१४॥
मार्गशीर्षे तथार्द्रान्तं पुष्यर्क्षे पुष्यमासके ।
माघमासे तु माघान्तं फाल्गुने चोत्तरोत्तरे ॥ १३.१५॥
चैत्रे चित्रान्तमुदितं कर्तव्यं मुनिपुङ्गव ।
वैशाखे तु विशाखान्तं मूलान्तं ज्येष्ठमासके ॥ १३.१६॥
उत्तराषाढमाषाढे श्रावणे श्रावणान्तकम् ।
उक्तं प्रोष्ठपदे मासे पूर्वाभाद्रान्तमुत्तमम् ॥ १३.१७॥
अश्विन्यन्तमाश्वयुजि कार्तिके कृत्तिकान्तकम् ।
चित्रादितारकाद्यन्तैः पूर्वपक्षे तु सङ्गतः ॥ १३.१८॥
मासाश्चैत्रादिका ज्ञेयाः त्रिभिः षष्ठ्यन्तसप्तमाः ।
एकमासे द्विनक्षत्रे सम्प्राप्ते त्वपरं परम् ॥ १३.१९॥
नेष्टं प्रथमऋक्षं स्यादन्त्यर्क्षे तीर्थमाचरेत् ।
कृतं चेत्पूर्वनक्षत्रे यः कर्ता स विनश्यति ॥ १३.२०॥
खण्डिते सति नक्षत्रे त्वन्त्यर्क्षे तीर्थमाचरेत् ।
नाडीदशविहीने तु पूर्वतीर्थमनुष्ठितम् ॥ १३.२१॥
युक्तो वाथ वियुक्तो वा मासर्क्षेण तु पर्वणि ।
तिथिप्रधानं सामुद्रमन्यदृक्षं प्रधानकम् ॥ १३.२२॥
यस्मिन् मासे द्विजश्रेष्ठ पूर्वं सङ्कॢप्तमुत्सवम् ।
तस्मिन्नेव प्रकर्तव्यमन्यस्मिन्नेव कारयेत् ॥ १३.२३॥
ध्वजावरोहणं तीर्थं दिवसेषु महामुने ।
अन्योत्सवन्तु कर्तव्यं प्रकर्तव्यं ध्वजं विना ॥ १३.२४॥
प्रथमञ्चाङकुरं कर्म द्वितीयं शिखियागजम् ।
तृतीयं ताडयेद् भेरीं चतुर्थं रोपयेद् ध्वजम् ॥ १३.२५॥
पञ्चमं यागकर्म स्यादस्त्रयागमतः परम् ।
सप्तमं बलिदानं स्यादष्टयानं क्रमं परम् ॥ १३.२६॥
नवमं परिवेषं स्यान्नीराजनमथो दश ।
एकादशं कौतुकं च तीर्थसङ्ग्रहणं परम् ॥ १३.२७॥
त्रयोदशं चूर्णकारं तीर्थं चैव चतुर्दश ।
ध्वजावरोहणं पश्चात्म्नपनं षोडशं भवेत् ॥ १३.२८॥
एवं षोडशभेदेन चोत्सवं परिकीर्तितम् ।
ध्वजारोहणपूर्वन्तु भेरीताडनपूर्वकम् ॥ १३.२९॥
अङकुरार्पणपूर्वन्तु त्रिविधा उत्सवाः स्मृताः ।
ध्वजमारोपयित्वा हि भेरीं रात्रौ तु ताडयेत् ॥ १३.३०॥
उत्सवस्य तु रात्रौ तु बीजनिर्वापमुच्यते ।
ध्वजारोहणपूर्वं तु प्रोक्तं वेदविदां वर ॥ १३.३१॥
भेरी तु ताडयेत् पूर्वं ध्वजमारोपयेत्ततः ।
अङकुराण्यर्पयेत्पश्चाद्भेरीताडनपूर्वकम् ॥ १३.३२॥
ध्वजमारोपयेत्पश्चादङ्कुरार्पणपूर्वकम् ।
प्रातः काले त्ववभृथं सायं काले समाचरेत् ॥ १३.३३॥
निशि सायं दिवा प्रातरिति शास्त्रस्य निर्णयम् ।
मन्त्रभेदो भवेत्तत्र क्रियाभेदो न विद्यते ॥ १३.३४॥
शिवोत्सवप्रकारेण क्रियाः सर्वाः समाचरेत् ।
विघ्नेशं पूजयेत्पूर्वं भक्ष्यभोज्यादिभिर्बुधः ॥ १३.३५॥
अनङकुरन्तु यत्कर्म भवेत्तत्कर्म निष्फलम् ।
ध्वजाङकुरार्पणम्पूर्वं द्वितीयञ्चोत्सवाङकुरम् ॥ १३.३६॥
तीर्थाङकुरं तृतीयन्तु वक्ष्यते क्रमशस्ततः ।
ध्वजाङ्कुरं ध्वजाङ्गं स्याद्ध्वजात्पूर्वं तु तर्पयेत् ॥ १३.३७॥
नवाहे वाथ सप्ताहे पञ्चाहे त्रिदिनेऽपि वा ।
तद्दिनेवाङकुरं कर्म शुभाधिक्ये समाचरेत् ॥ १३.३८॥
उत्सवाङकुरमात्रञ्च तद्दिने कारयेद्बुधः ।
तीर्थर्क्षमादौ निश्चित्य अयुग्मेऽप्यङ्कुरार्पणम् ॥ १३.३९॥
अधमं सप्तहस्तन्तु मध्यमं नवहस्तकम् ।
उत्तमन्दशहस्तं स्याद्दैर्घ्यं ध्वजपटस्य तु ॥ १३.४०॥
आयामं ध्वजवस्त्रस्य नवरुद्रकलाकरम् ।
दैर्घ्यस्य पञ्चभागैकं पटविस्तारमुच्यते ॥ १३.४१॥
अथवाऽन्यप्रकारेण भूतषट्सप्ततालकम् ।
विस्तारार्धन्तु शिखरं पुच्छं विस्तारमात्रकम् ॥ १३.४२॥
वेत्रद्वयसमायुक्तं पुच्छद्वयसमायुतम् ।
दुकूलपट्टदेवाङ्गैरथ कार्पासकेन वा ॥ १३.४३॥
वस्त्रेणैव नवेनैव कुर्यात् ध्वजपटं बुधः ।
श्वेतं विप्रध्वजं प्रोक्तं रक्तं क्षत्रध्वजाम्बरम् ॥ १३.४४॥
पीतं वैश्यन्तु शूद्राणां सर्वेषां श्वेतवर्णकम् ।
श्वेतवर्णध्वजपटं राजराष्ट्राभिवर्धनम् ॥ १३.४५॥
शुभायादिसमायुक्तम्मयूरं विलिखेद्बुधः ।
मयूरं वा गजं वापि कुक्कुटं वा महामुने ॥ १३.४६॥
पटमध्ये तु विलिखेत् सर्वलक्षणसंयुतम् ।
पद्मपीठमधो लिख्य पार्श्वे दीपौ समालिखेत् ॥ १३.४७॥
तदूर्ध्वे शक्तिमालिख्य छत्रचामरमूर्ध्वके ।
अधोभागे द्विभागे तु मङ्गलाष्टकमालिखेत् ॥ १३.४८॥
मयूरं श्यामवर्णं तु गजं वै श्वेतवर्णकम् ।
कुक्कुटं रक्तवर्णं तु यथा युक्त्या लिखेद्बुधः ॥ १३.४९॥
सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम् ।
आलिखेत्प्रतिमां तत्तत् प्रतिमालक्षणोक्तितः ॥ १३.५०॥
वश्यं वै रक्तवर्णं तु स्तम्भनं पीतवर्णकम् ।
विजयं कपिलाभञ्च कृष्णं वै त्वाभिचारकम् ॥ १३.५१॥
धूम्रं व्याधिप्रदं ज्ञेयं वर्षार्थं श्यामवर्णकम् ।
क्षीराभं सर्वशान्त्यर्थञ्चैवमेवं क्रमेण तु ॥ १३.५२॥
ध्वजदण्डपटञ्चैव मयूरगजकुक्कुटान् ।
मानं मात्राङ्गुलाभ्यान्तु कल्पयेत्कल्पवित्तमः ॥ १३.५३॥
शान्त्यै शयानं पुष्ट्यर्थं स्थितं वै ध्वजमालिखेत् ।
विश्वमात्रादिषट्त्रिंशत् मात्रोत्सेधं प्रचक्षते ॥ १३.५४॥
जात्यंशकं समायुक्तं चित्रबेरध्वजं लिखेत् ।
वक्ष्येऽहं ध्वजदण्डस्य स्थानं शृणु महामुने ॥ १३.५५॥
पीठगोपुरयोर्मध्ये पीठाग्रे वा गजाग्रके ।
स्थानं स्याद्ध्वजदण्डस्य दण्डं वक्ष्याम्यथ शृणु ॥ १३.५६॥
वेणुः पलाशो न्यग्रोधो चन्दनः खादिरोऽर्जुनः ।
बिल्वः पूगो नालिकेरः सालस्तालोरथद्रुमः ॥ १३.५७॥
मधुकश्चन्दनश्चैते ध्वजवृक्षा उदीरिताः ।
वक्रं भिन्नञ्च सुषिरं क्रिमिकोटरसंयुतम् ॥ १३.५८॥
स्वयं शुष्कञ्च पतितं निर्घातेन हतद्रुमम् ।
बालवृक्षं विशेषेण वर्जयेन्मुनिपुङ्गव ॥ १३.५९॥
अन्तःसारं बहिस्सारं प्रहस्यादन्यवृक्षकम् ।
बहिस्सारद्रुमान् सर्वान् क्रियान्ते वर्जयेद् बुधः ॥ १३.६०॥
दारुसङ्ग्रहणोक्तेन मार्गेणैव समाचरेत् ।
प्रासादस्य समं तुङ्गं गोपुरस्य समं तु वा ॥ १३.६१॥
प्रासादग्रीवमानं वा वृषस्थलसमं तु वा ।
द्वितलत्रितलान्तं वा गोपुरग्रीवतुङ्गकम् ॥ १३.६२॥
रुद्रहस्तं समारभ्य हस्तैकेन विवर्धनात् । (हस्तैकेन विवर्धयेत्)
विंशद्धस्तान्तकं वापि दण्डायामं समीरितम् ॥ १३.६३॥
सप्तविंशाङ्गुलायामं ध्वजदण्डमथोत्तमम् ।
मध्यमन्तु चतुर्विंशत्कन्यसं द्वादशाङ्गुलम् ॥ १३.६४॥
त्रिंशांशोनं तदग्रं स्यात् सुवृत्तं निर्ब्रणं दृढम् ।
उभयोर्योगसिद्ध्यर्थं स्कन्धत्रयमथाहरेत् ॥ १३.६५॥
यान् यान् कामयते कामान् तांस्तान् साधयते द्विजः ।
पूर्वाह्ने विप्रवृद्धिः स्यात् मध्याह्ने राजवृद्धिदम् ॥ १३.६६॥
रात्रौ विट्शूद्रवृद्धिः स्यात् ध्वजारोहणकर्मणि ।
स्कन्धत्रयं वा तद्दैर्घ्यं द्वादशाङ्गुलमायतम् ॥ १३.६७॥ (स्कन्धद्वयं वा)
षट्त्रिंशमात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकीर्तितम् ।
सप्ताङ्गुलं समारभ्य गायत्र्यंशाङ्गुलावधि ॥ १३.६८॥
स्कन्धविस्तारमुद्दिष्टं मूलादग्रं त्रिभागतः ।
अर्धेन वा त्रिपादेन दर्व्याकारो यथा तथा ॥ १३.६९॥
ऊर्ध्वाग्रे सुषिरोपेता दण्डयष्ट्या स्वरूपकम् ।
अर्धचित्रस्त्वयःस्कन्धः प्रोक्तो यष्ट्याग्रदेशिकः ॥ १३.७०॥
दण्डप्रान्ते विधेयं स्यात् वलयं स्कन्ध एव च ।
दण्डप्रोतप्रमाणन्तु दण्डाग्राद्वलयस्थितः ॥ १३.७१॥
तदर्धं वलयादूर्ध्वं यष्ट्यायाम प्रचक्षते ।
उपदण्डादिदेशे तु हित्वा वस्वङ्गुलं दृढम् ॥ १३.७२॥
आयसं वलयं बध्वा यत्र रज्जुप्रवेशने ।
वलयं सुदृढं कार्यमुपदण्डाग्रनाहतः ॥ १३.७३॥
कार्पासतन्तुतो रज्जुर्भवेद्दृढतरः समः ।
तद्दण्डद्विगुणायामे त्रिवृद्ग्रन्थिविवर्जितम् ॥ १३.७४॥
प्रादाक्षिण्यक्रमेणैव वेष्टितो दर्भमालया ।
शतदर्भकृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् ॥ १३.७५॥
चतुस्तालसमं खात्वा तस्मिन् कूर्मं हिरण्मयम् ।
गजं पद्मं सप्तधान्यं न्यस्त्वा तस्योपरि क्रमात् ॥ १३.७६॥
स्थाप्य दण्डं तदूर्ध्वे तु वालुकैः पूरयेद्दृढम् ।
प्रासादाभिमुखं स्कन्धं वलयं दक्षिणे भवेत् ॥ १३.७७॥
तन्मूले वेदिकां कुर्याच्चतुस्तालप्रमाणतः ।
इष्टकाभिश्शिलाभिर्वा कृत्वोर्ध्वाब्जं प्रकल्पयेत् ॥ १३.७८॥
व्योमाङ्गुलप्रवृद्ध्याष्टदशाङ्गुलसमावधि ।
चतुरङ्गुलमारभ्य कर्णिकायाममीरितम् ॥ १३.७९॥
कर्णिकानिर्गमो दण्डात् पादवृद्ध्यैकमात्रतः ।
गुणाङ्गुलावधि तथा तदुत्सेधः प्रकीर्तितः ॥ १३.८०॥
चतुरष्टाङ्कुलं पद्मं विकारदलमेव च ।
वृत्तं वा चतुरश्रं वा विधेयं दलपेशलम् ॥ १३.८१॥
तथोपदलसंयुक्तं तदयुक्तं न कारयेत् ।
ध्वजारोहणपूर्वेद्युर्निशायामधिवासयेत् ॥ १३.८२॥
स्कन्दं सम्पूज्य विधिवत् नत्वा विज्ञाप्य चोत्सवम् ।
प्रासादस्याग्रके रम्ये मण्डपं कारयेद् बुधः ॥ १३.८३॥
गोमयालेपनं कृत्वा राजसीं विनिपातयेत् ।
मण्डपं समलङ्कृत्य वितानैः स्तम्भवेष्टनैः ॥ १३.८४॥
कृत्वा मण्डपसंस्कारं पुण्याहं वाचयेत्सुधीः ।
त्रिधा वै स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ १३.८५॥
जगद्भुवेति मन्त्रेण प्रोक्षयेत्स्थण्डिलत्रयम् ।
शिल्पिना ध्वजबेरं तु नेत्रमोक्षणमाचरेत् ॥ १३.८६॥
पञ्चगव्येन सम्प्रोक्ष्य त्रिपादूर्ध्वे न्यसेत्ततः ।
अक्षिमोक्षणकं कुर्यात् हेमसूचिकया पुनः ॥ १३.८७॥ (हेमसूचिकया गुरुः)
विन्यस्य सूर्यसोमाणुं मयूरस्य तु नेत्रयोः ।
तर्पयेन्मधुसर्पिभ्यां गायत्र्या प्रोक्षयेत्ततः ॥ १३.८८॥
जलाधिवासनं कुर्याद्दर्पणे चार्धनाडिका ।
शयनं पूर्ववत्कृत्वा देवाग्रे स्थण्डिले तदा ॥ १३.८९॥
दर्भैः पुष्पैः परिस्तीर्य प्राक्शिरश्शाययेद् ध्वजम् ।
षट्सूत्रैरात्रिसहितैः कौतुकं बन्धयेत्ततः ॥ १३.९०॥
मध्यमे स्थण्डिले स्थाप्य मयूरं कुम्भमुत्तमम् ।
अर्चयेत्तत्र धर्मादीनधोर्ध्वच्छदनं पुनः ॥ १३.९१॥
मयूरासनमभ्यर्च्य मूर्तिं सम्पूज्य मूलतः ।
आवाहयेन्मयूरन्तु तद्ध्यानं संस्मरेद्गुरुः ॥ १३.९२॥
चित्रवर्णं सुरारिघ्नं भुजगोद्धृतवक्त्रकम् ।
महाबलं महाकायं मयूरं प्रणमाम्यहम् ॥ १३.९३॥
षडङ्गं कल्पयेद्विद्वान् बाह्यदीर्धैस्सबिन्दुकैः ।
आवाहनादिकान्सर्वान् दत्वा तन्मूलमन्त्रतः ॥ १३.९४॥
ससूत्रतोयं वस्त्राढ्यानष्टकुम्भान्सकूर्चकान् ।
पूर्वादिक्रमशो न्यस्य लोकपालान्समर्चयेत् ॥ १३.९५॥
नीलकण्ठाय विद्महे चित्रपक्षाय धीमहि ।
तन्नो मयूरः प्रचोदयात् ॥ (इति मयूरगायत्री) ॥ १३.९६॥
तस्याग्रे स्थण्डिलं कुर्याद्वालुकैर्हस्तमात्रकम् ।
अग्निकार्योक्तमार्गेण शिवाग्निं जनयेद्बुधः ॥ १३.९७॥
तस्मिन्मयूरमावाह्य सम्पूज्य विधिवद्गुरुः ।
समिदाज्यचरून लाजान् कृत्वा तन्मूलमन्त्रतः ॥ १३.९८॥
शतमर्धं तदर्धं वा दशाङ्गं तत् षडङ्गकैः ।
द्रव्यान्ते व्याहृतीर्हुत्वा स्पृष्ट्वा दभैर्ध्वजं पुनः ॥ १३.९९॥
षडाहुतिस्तद्गायत्र्या पूर्णां तु शिरसा हुनेत् ।
जयादिरभ्याधानञ्च राष्ट्रभृच्चक्रमाद्धुनेत् ॥ १३.१००॥
धूपदीपादिकं दत्वा रक्षां विधाय भस्मना ।
बलिमन्त्रेण बलिं क्षिप्त्वा क्षेत्रपालबलिं क्षिपेत् ॥ १३.१०१॥
ध्वजाधिवासनं प्रोक्तं भेरिताडनमुच्यते ।
तदग्रे स्थण्डिलं कृत्वा शालिभिर्द्रोणषड्गुणैः ॥ १३.१०२॥
तन्मध्ये पद्ममालिख्य साष्टपत्रं सकर्णिकम् ।
तण्डुलैश्च तिलैर्दर्भैर्भूषयेत्तु दलं प्रति ॥ १३.१०३॥
वचद्भुवेति मन्त्रेण प्रोक्षयेत्कुम्भवारिणा । (प्रोक्षयेत्कुशवारिणा)
तस्योर्ध्वे विन्यसेद्भेरीं नववस्त्रेण वेष्टयेत् ॥ १३.१०४॥
तन्मध्ये रुद्रमभ्यर्च्य दक्षिणे विष्णुमर्चयेत् ।
वामे ब्रह्माणमभ्यर्च्य सूर्यसोमौ च वृत्तयोः ॥ १३.१०५॥
मातरस्तस्य कीलासु नागांश्चर्मसु पूजयेत् ।
अर्चयित्वा यथान्यायं भेर्यै दद्याद्गुलोदनम् ॥ १३.१०६॥
तस्याग्रे स्थण्डिलं कुर्यात्तिलतण्डुलशालिभिः ।
षट्पदं पद्ममालिख्य पूजयेत्तु षडक्षरैः ॥ १३.१०७॥
अलङ्कृत्यास्त्रराजं वै तस्योर्ध्वे विन्यसेद्बुधः ।
इच्छाज्ञानक्रियाशक्तिस्वरूपां शक्तिमर्चयेत् ॥ १३.१०८॥
रुद्रं तदूर्ध्वपत्रे तु मध्यपत्रे तु माधवम् ।
अधःपत्रे विधातारं फलकायान्तु पार्वतीम् ॥ १३.१०९॥
सरस्वतीं महालक्ष्मीं तस्य दक्षिणवामयोः ।
महासेनं कुम्भमुखे वल्लीं सेनाञ्च पार्श्वयोः ॥ १३.११०॥
दण्डाग्रे गणनाथञ्च दण्डमध्ये तु भास्करम् ।
दण्डमूले सुमित्रेशं मयूरं पीठमध्यमे ॥ १३.१११॥
तस्य पाश्र्वे चाष्टशक्तिं पीठमूले वसुन्धराम् ।
अग्निं सम्पूज्य तद्वक्त्रे धूपदीपादिभिर्बुधः ॥ १३.११२॥
मयूरमन्त्रमुच्चार्य कीलं सङ्गृह्य देशिकः ।
त्र्यम्बकेण तु मन्त्रेण ताडयेदेकताडनम् ॥ १३.११३॥
इदं विष्णुश्च मन्त्रेण द्विवारं ताडयेद्गुरुः ।
ब्रह्मजज्ञानमन्त्रेण त्रिवारं ताडयेत् पुनः ॥ १३.११४॥
देशिकः स्नापयेद् भेरीं प्राङ्मुखो वाप्युदङ्मुखः ।
गुर्वाज्ञया ततः पश्चात् वाद्यकः सर्वताडवित् ॥ १३.११५॥
उपोषितः शुचिः स्नायी शुक्लपक्षोपवीतकः ।
शुक्लवस्त्रधरोष्णीषः शिखीभस्मत्रिपुण्ड्रकः ॥ १३.११६॥
शिवदीक्षा विशुद्धात्मा स्कन्धे भेरीं प्ररोपयेत् ।
शिवादिसर्वदेवेशानिन्द्रादीन् लोकपालकान् ॥ १३.११७॥
त्रयस्त्रिंशत्कोटिदेवानष्टादशगणानपि ।
समुद्रान् पर्वतान्नागान् पातालस्थान्महोरगान् ॥ १३.११८॥
ऋषीनन्यामरान्सर्वानाहूय च समर्चयेत् ।
वाद्यकस्ताडयेद्भेरीं बलितालं विशेषतः ॥ १३.११९॥
पश्चादपि पुटं ताड्यं पुनश्चापि पुटाह्वयम् ।
ततश्चोद्घट्टितं चैव ततो मट्टयमेव च ॥ १३.१२०॥
ततो जम्पुटमेवोक्तं सिंहनादं ततो भवेत् ।
ततश्च झम्पटश्चैव पञ्चवाद्यमतः परम् ॥ १३.१२१॥
ततः कुम्भकवाद्यञ्च जयशब्दादिसंयुतम् ।
छत्रं पिञ्छ्समाकीर्णं चामराम्बरसंयुतम् ॥ १३.१२२॥
धूपदीपसमायुक्तं घण्टानादसमायुतम् ।
सुब्रह्मण्यमस्त्रराजमन्त्रलिङ्गं सुमित्रकम् ॥ १३.१२३॥
ध्वजञ्च ध्वजदण्डञ्च शनैर्ग्रामप्रदक्षिणम् ।
ब्रह्मादीशानपर्यन्तं सन्धिदेवान् समन्त्रकैः ॥ १३.१२४॥
आवाह्याभ्यर्च्य पुष्पाद्यैरस्त्रमुद्रां प्रदर्शयेत् ।
ध्वजोत्सवेषु कर्तव्यं देवतावाहनं बलिम् ॥ १३.१२५॥
द्रोणं वापि तदर्धं वा बल्यर्थं तण्डुलं पचेत् ।
पटेनास्तरणं कृत्वा क्षालयेत् पुरुषेण तु ॥ १३.१२६॥
तस्मिन्निक्षिप्य पक्वान्नमन्नद्रव्यसमायुतम् ।
अन्नलिङ्गाय मतिमान् द्विःप्रस्थं तण्डुलं पचेत् ॥ १३.१२७॥
अन्तेन कारयेल्लिङ्गं मुनिश्रेष्ठ न संशयः ।
शुद्धोदनं गुलान्नं वा बलिं दद्यात् स्वमन्त्रतः ॥ १३.१२८॥
ब्रह्मादीशानपर्यन्तं ब्रह्मान्तं वा बलिं क्षिपेत् ।
वरुणादिनिरृत्यन्तं पश्चिमद्वारहर्म्यके ॥ १३.१२९॥
बलिदानावसाने तु तालं नृत्तं च गीतकम् ।
ब्रह्मणे ब्रह्मतालं स्यात् मेघरागं तु तद्दिशि ॥ १३.१३०॥
इन्द्रस्य समतालं स्याद्गान्धारङ्गीतमेव च ।
अग्नेरर्धावणं तालङ्गीतङ्कोल्ली च तद्दिशि ॥ १३.१३१॥
यमस्य भृङ्गिणीतालङ्कौशिकङ्गीतमुच्यते ।
नैरृत्यां मल्लतालञ्च नट्टभाषां तु गीतकम् ॥ १३.१३२॥
वारुण्यान्नवतालञ्च श्रीकामरञ्च गीतकम् ।
वायव्यां बलितालञ्च तक्केशीगीतमेव च ॥ १३.१३३॥
सौम्ये नट्टप्रहारं स्यात्तर्करागन्तु तद्दिशी ।
ऐशान्यां ढक्करीतालं शालापाणिश्च गीतकम् ॥ १३.१३४॥
मध्यमे दण्डपादं स्यात्पूर्वस्यामूर्ध्वपादकम् ।
आग्नेय्यां मण्डलं चैव भुजङ्गनासितं यमे ॥ १३.१३५॥
भुजङ्गनृत्तं नैरृत्यां वारुण्यां नर्तनी तथा ।
वायव्यां भ्रमरीनृत्तमालीढञ्च तथोत्तरे ॥ १३.१३६॥
प्रत्यालीढं तथैशान्यां नानारागन्तु तुष्टये ।
एवं प्रदक्षिणं कृत्वा ध्वजमारोपयेत्ततः ॥ १३.१३७॥
ततो ध्वजपटं सम्यक्बन्धयेदस्त्ररज्जुना ।
अस्त्रेण क्षुद्रघण्टाञ्च रक्तमालाञ्च बद्धयेत् ॥ १३.१३८॥
ततो जनेभ्यस्ताम्बूलं दापयेन्मङ्गलाय वै ।
पुण्याहं वाचयेत्तत्र तोयेनाभ्युक्ष्य वेदिकाम् ॥ १३.१३९॥
आधाराख्यमनन्तं च कूर्मञ्च विनिवेशयेत्
कोणमध्ये तु धर्मादीनधर्मादींश्च दिक्षु च ॥ १३.१४०॥
दलाष्टके शकुन्यादिमध्यमे विश्वतो मुखीम् ।
दण्डे तु स्वामिनं पूज्य स्कन्धेष्वर्केन्दुपावकान् ॥ १३.१४१॥
उपदण्डेऽनिलं चैव तक्षादींस्तस्य रज्जुनि ।
कुम्भाद्बीजं समादाय मयूरं हृदि विन्यसेत् ॥ १३.१४२॥
परं सम्प्रोक्ष्य कुम्भाद्भिर्गन्धपुष्पादिनार्चयेत् ।
मुद्गान्नं पायसान्नं वा मयूराय निवेदयेत् ॥ १३.१४३॥
स्वामिन्सम्पूज्य विधिवद्विज्ञाप्योत्सवमुत्तमम् ।
सुमुहूर्ते सुलग्ने तु सर्ववाद्यसमन्वितम् ॥ १३.१४४॥
मयूरतालघोषेण गजतालेन वा ध्वजम् ।
मयूरमूलमन्त्रेण शीघ्रमारोपयेद्गुरुः ॥ १३.१४५॥
आदौ स्पृष्ट्वा स्वयं चान्यं प्रेरयेद्रोहणाय वै ।
पूर्वेन्दुपश्चिमाशासु ध्वजाग्रगमनं शुभम् ॥ १३.१४६॥
क्षेमारोग्यं यशोवृद्धिक्रमेण फलमीरितम् ।
तापोमृत्युमहारोगो वह्निपित्रेशनैरृते ॥ १३.१४७॥
वायौ भयं विजानीयात् पुच्छोऽप्येवं भवेत् सुधीः ।
आरोहणे निरुद्धश्चेत् पटो देशिकदोषकृत् ॥ १३.१४८॥
दोषशङ्कां तिरस्कार्यो बहुरूपमनुस्मरन् ।
दण्डे सव्यक्रमेणैव मूले रज्जु निबद्धयेत् ॥ १३.१४९॥
शुद्धोदककृतं पिण्डमष्टदिक्षु दलेषु च ।
अथवा नवपिण्डानि दिग्विदिक्षु च मध्यमे ॥ १३.१५०॥
द्विगुणं त्रिगुणं पिण्डं चतुर्गुणमथापि वा ।
निवेद्याभ्यर्चयेद्धीमान् धूपदीपैर्विशेषतः ॥ १३.१५१॥
तत्पिण्डप्राशनफलं शृणु कौशिक सत्तम ।
पुत्रकामा तु या नारी स्नात्वोपोष्य विषशेतः ॥ १३.१५२॥
प्राशयेत् प्रथमं पिण्डं सा तु पुत्रवती भवेत् ।
विधवा कन्यका वापि ध्वजपिण्डं न कारयेत् ॥ १३.१५३॥
रोगी रोगविनाशार्थं पापी पापक्षयाय च ।
यत्रास्ते ध्वजयष्टिस्तु तद्राष्ट्रं वृद्धिमाप्नुयात् ॥ १३.१५४॥
अकालमृत्युस्तत्रास्ति दुर्भिक्षं च न जायते ।
कृतघ्नो ब्रह्महा गोघ्नो दृष्ट्वा ध्वजनिवेशनम् ॥ १३.१५५॥
सर्वपापविमुक्तोऽभूत् किमुक्तं दर्शनात् फलम् ।
प्रविशेदालयं पश्चात् वापयेदुत्सवाङ्कुरम् ॥ १३.१५६॥
ऐशान्ये पूर्वभागे वा दक्षिणे पावकेऽपि वा ।
उत्तरे पश्चिमे वापि कारयेद्यागमण्डपम् ॥ १३.१५७॥
रसादिरुद्रहस्तान्तं मण्डपस्य तु विस्तृतम् ।
युगाश्रं तु कलास्तम्भं श्रुतिद्वारसमन्वितम् ॥ १३.१५८॥
तन्मध्ये वेदिकां कुर्यान्नवभागैकभागतः ।
दर्पणोदरसङ्काशं रत्निमात्रोन्नतं दृढम् ॥ १३.१५९॥
कुण्डानि परितः कृत्वा नवपञ्चैकमेव वा ।
चतुरश्रं भगाकारमर्धचन्द्रं त्रिकोणकम् ॥ १३.१६०॥
वृत्तं षडश्रकं पद्ममष्टाश्रं चाष्टदिक्षु वै ।
ऐन्द्रेशकुण्डयोर्मध्ये प्रधानं तु षडश्रकम् ॥ १३.१६१॥
चतुरश्रं चतुर्दिक्षु चैशान्यां तु षडश्रकम् ।
नवपञ्चविधिः प्रोक्तमेककुण्डविधिं शृणु ॥ १३.१६२॥
ऐन्द्रशाङ्करयोर्मध्ये प्रधानं तु षडश्रकम् ।
मेखलात्रयसंयुक्तं नाभियोनिसमायुतम् ॥ १३.१६३॥
कुण्डलक्षणमात्रेण सर्वकुण्डानि कारयेत् ।
उत्तमं नवकुण्डं स्यात् पञ्चकुण्डं तु मध्यमम् ॥ १३.१६४॥
अधमं त्वेककुण्डं स्यात् वित्तशाठ्यं न कारयेत् ।
गोमयालेपनं कुर्यादलङ्कृत्य यथाविधि ॥ १३.१६५॥
पुण्याहं वाचयित्वाथ प्रोक्षयेत्तज्जलेन तु ।
नैरृते ईशभागे वा वास्तुहोमं समाचरेत् ॥ १३.१६६॥
पर्यग्निकरणं कृत्वा प्रक्षिप्य विकिरानपि ।
वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ १३.१६७॥
तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि ।
तत्रैव पद्ममालिख्य षड्दलञ्च सकर्णकम् ॥ १३.१६८॥
तन्मध्ये स्कन्दकुम्भञ्च द्रोणोदकसुपूरितम् ।
पूरितं शिवतोयेन द्विपार्श्र्वे वर्धनीद्वयम् ॥ १३.१६९॥
ससूत्रान् सापिधानांश्च सवस्त्रान् हेमसंयुतान् ।
नवरत्नं प्रधाने तु हेमाब्जं वर्धनीद्वयम् ॥ १३.१७०॥
मध्ये कुमारमावाह्य मूलमन्त्रेण बुद्धिमान् ।
आसनावरणैरिष्ट्वा ब्रह्माङ्गैरपि पूजयेत् ॥ १३.१७१॥
पूर्वे जगद्भुवं प्रोक्तं पावके तु चतुर्भुवम् ।
नैरृर्त्यां मुनिशार्दूल यजेद्विश्वभुवं तथा ॥ १३.१७२॥
आप्ये रुद्रभुवं पूज्य वायौ ब्रह्मभुवं तथा ।
भुवद्भुवं तथैशान्ये कुम्भमूले समर्चयेत् ॥ १३.१७३॥
षड्वक्त्रं चैकवक्त्रं च बेरध्यानाकृतिं यजेत् ।
महावल्लीं देवसेनामर्चयेद्वर्धनीद्वये ॥ १३.१७४॥
पूर्वादीशानपर्यन्तमष्टकुम्भान्न्यसेद्भुवः ।
जयन्ताख्यमग्निशिखं कृत्तिकापुत्रसंज्ञकम् ॥ १३.१७५॥
अनन्तरं सूतपतिं सेनान्यं गुहसंज्ञकम् ।
हेमशूलं विशालाक्षं पूर्वाद्यष्टघटे यजेत् ॥ १३.१७६॥
ससूत्रान् सापिधानांश्च सवस्त्रान् वारिपूरितान् ।
प्रत्येकं हेमसंयुक्तान् कुम्भान् पूर्वादिषु क्रमात् ॥ १३.१७७॥
पञ्चैका चतुरो वह्निबाण स्त्रिचतुरस्त्रयम् ।
संस्थाप्य परितो विद्वान् ऐशान्यामस्त्रवर्धनीम् ॥ १३.१७८॥
दर्पणं पूर्णकुम्भञ्च मयूरं युग्मचामरम् ।
श्रीवत्सं स्वस्तिकं शङ्खं दीपे देवाष्टमङ्गलम् ॥ १३.१७९॥
वेदिबाह्ये तु परितो न्यस्त्वाभ्यर्च्य यथाविधि ।
वज्र शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ॥ १३.१८०॥
गदां त्रिशूलं पद्मं च चक्रं चेति दशायुधम् ।
रक्षार्थं स्थापयेद्देवानस्त्राणि दशदिक्षु च ॥ १३.१८१॥
तोरणानि चतुर्दिक्षु न्यस्त्वा सम्पूजयेत् क्रमात् ।
शान्तिभूतिबलारोग्यान् तोरणेषु विचक्षणः ॥ १३.१८२॥
शान्तिं सुदेहं सुमुखं शक्रं सर्वे समर्चयेत् ।
इन्द्राग्निमध्ये मार्ताण्डं वह्निकोणे च पावकम् ॥ १३.१८३॥
याम्ये विद्यां महावल्लीं ततः सेनापतिं यमम् ।
नैरृते निरृतिं विष्णुं महालक्ष्मीं प्रपूजयेत् ॥ १३.१८४॥
आप्येति मूर्तिं विशिखं गजं वरुणमस्तकम् । (मूर्तिं
शिखिनं)
वायुं गणेशं क्षेत्रेशं वायव्यां दिशि पूजयेत् ॥ १३.१८५॥
प्रतिष्ठां देवसेनां च सुमित्रं सोममुत्तरे ।
ईशानमपि धातारं गुरुमैशान्यके यजेत् ॥ १३.१८६॥
तत्तत्स्वनाममन्त्रेण सर्वकुम्भान् समर्चयेत् ।
तां वाहनादिशक्त्यन्तान् परिवारयुतान् यजेत् ॥ १३.१८७॥
दशायुधानि सम्पूज्य हुम्फडिति स्वनामतः ।
भोभो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥ १३.१८८॥
सावधानेन यागान्तं तावत् स्थेयं गुहाज्ञया ।
इत्येवं दशलोकेशान् प्रत्येकं श्रावयेद्गुरुः ॥ १३.१८९॥
तृणे बद्धे च वंशे च मेध्या स्तम्भे च पञ्चसु ।
पूजयेत्तु पृथिव्यादि पञ्चभूतानि च क्रमात् ॥ १३.१९०॥
ततस्तीर्थाङ्कुरं कार्यमग्निकार्यमथाचरेत् ।
मूर्तिपञ्चाष्टचत्वारपरिवारसमायुतः ॥ १३.१९१॥
आचार्यस्तैः समायुक्तो होमद्रव्याणि गृह्य च ।
अग्निकार्योक्तमार्गेण प्रधानाग्नौ हुनेद्गुरुः ॥ १३.१९२॥
कुण्डसंस्कारकं कृत्वा सर्वकुण्डानि होमयेत् ।
समिदाज्यचरुं लाजं त्वपूपं गुलकं मधु ॥ १३.१९३॥
तिलसर्षपमुद्गानि प्रियङ्गुं च दशोच्यते ।
पलाशदूर्वाखदिरकुशाश्वत्थगलूचिकाः ॥ १३.१९४॥
वटार्कौ समिधः प्रोक्ता पूर्वादीनां दिशां क्रमात् ।
प्रधाने तु पलाशः स्यात् परिधिस्तेन तेन वै ॥ १३.१९५॥
जगद्भुबादि षड्वक्त्रैः षङ्भिस्तन्मूर्तिमन्त्रकैः ।
द्रव्याण्येतानि मतिमान् एकैकाहुतिमाचरेत् ॥ १३.१९६॥
मूलमन्त्रेण समिधं आज्यं वै शीर्षमन्त्रतः ।
तन्मन्त्रेण चरुं हुत्वा लाजं वै शिखया हुनेत् ॥ १३.१९७॥
सक्तुं नेत्रेण मतिमानस्त्रं पञ्च निवेदयेत् ।
गुलमीशानमन्त्रेण मधु तत्पुरुषेण च ॥ १३.१९८॥
तिलं वै वाममन्त्रेण सर्षपं कवचेन तु ।
मुद्गं त्वघोरमन्त्रेण प्रियङ्गुं सद्यमन्त्रतः ॥ १३.१९९॥
शतमर्धं तदर्धं वा जुहुयात्तु विशेषतः ।
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णां तु शिरसा हुनेत् ॥ १३.२००॥
सर्वद्रव्यसमायुक्तं हव्यवाहेन होमयेत् ।
जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्यजेत् ॥ १३.२०१॥
ब्रह्मादीनां चतुर्दिक्ष मेखलोर्ध्वे बलिं क्षिपेत् ।
वज्रादीनां ततो मध्ये मेखलायां तथा बलिम् ॥ १३.२०२॥
आचार्यं दक्षिणे पार्श्र्वें कल्पयेन्मण्डलत्रयम् ।
प्रथमे मण्डले विद्वान् रुद्रादीनां बलिं क्षिपेत् ॥ १३.२०३॥
द्वितीयेऽप्यष्टनागानां आदित्यानां तृतीयके ।
अग्नेमूर्तिं समादाय कुम्भमध्ये सुयोजयेत् ॥ १३.२०४॥
हविर्निवेदयेत्तत्र गुहाय च महामुने ।
होमकाले सदा कार्यं भेरी घण्टारवस्वनम् ॥ १३.२०५॥
अस्त्रराजं पुरस्कृत्य सर्वकर्म समाचरेत् ।
एवं तीर्थदिनान्तं वै सायं प्रातर्हुनेत् बुधः ॥ १३.२०६॥
होमान्ते ध्वजदेवाय नैवेद्यं दापयेद् गुरुः ।
गजादिपरिवाराणां तत्तत्स्थाने बलिं क्षिपेत् ॥ १३.२०७॥
इन्द्रादिविष्णुपर्यन्तं महापीठे बलिं क्षिपेत् ।
ततो वै वास्तुदेवानां तत्तद्दिक्षु बलिं क्षिपेत् ॥ १३.२०८॥
अनन्तादुपदंशं च बलिपात्रं निवापयेत् ।
बलिबेरं यथान्यायं अर्चयेद्गन्धपुष्पकैः ॥ १३.२०९॥
शिरसा धारयित्वा तु पञ्चायुधमिहोत्तमम् ।
महाशक्तिं धनुर्बाणं अक्षमालां कमण्डलुम् ॥ १३.२१०॥
पञ्चायुधमिदं प्रोक्तं बल्यर्थं च विशेषतः ।
महाशक्तियुतो वापि बलिं ग्रामे विनिक्षिपेत् ॥ १३.२११॥
ध्वजादिबलिपीठान्तं क्रमेण मुनिसत्तम ।
पूर्वाण्हे चान्नलिङ्गं तु मध्याह्ने पुष्पलिङ्गकम् ॥ १३.२१२॥
सायाह्ने चाक्षतं लिङ्गं त्रिकाले तु विशेषतः ।
गुहाग्रे स्थण्डिलं कल्प्य शक्त्यस्त्रं तत्र विन्यसेत् ॥ १३.२१३॥
स्कन्धदेव्या समायुक्तं कौतुकं बन्धयेत् क्रमात् ।
सौवर्णं राजतं वापि कार्पाससमथापि वा ॥ १३.२१४॥
षट्तन्तुना तु तं सूत्रं भोगमोक्षप्रदं शुभम् ।
कुङ्कुमेन समायुक्तं ताम्बूलेनोपशोभितम् ॥ १३.२१५॥
नववस्त्रसमोपेतं षट्सूत्रं साधकोत्तमः ।
स्थलिका स्थण्डिलोर्ध्वे तु रक्षासूत्रं तथैव च ॥ १३.२१६॥
अङ्कुरार्पणसंयुक्तं सर्ववाद्यसमायुतम् ।
संवाह्य परिचारैश्च कृत्वा ग्रामप्रदक्षिणम् ॥ १३.२१७॥
देवाग्रे न्यस्य मतिमान् पुण्याहं वाचयेत्ततः ।
त्र्यम्बकेन तु मन्त्रेण सूत्रं प्रागभिमन्त्र्य च ॥ १३.२१८॥
स्कन्धसव्यकरे बध्वा विश्वेशायेति मन्त्रतः ।
बृहत्सामेति मन्त्रेण भस्म निक्षिप्य बुद्धिमान् ॥ १३.२१९॥
देव्योर्गौरीमिमायेति तथा वामे च बन्धयेत् ।
महाशक्तेः सुमित्रस्य गुरुः सूत्रं च बन्धयेत् ॥ १३.२२०॥
अर्चयेद् गन्धपुष्पाद्यैर्नववस्त्रेण वेष्टयेत् ।
तद्रात्रौ तु विशेषेण प्रभूतहविषं ददेत् ॥ १३.२२१॥
ताम्बूलं दापयेत् पश्चात् धूपं दीपं ततो रजः ।
आरात्रमर्चयेत् धीमान् दत्वा भस्म गुहाय वै ॥ १३.२२२॥
रङ्गे वा शिबिकायां वा देवमारोप्य शास्त्रवित् ।
शङ्खघोषसमायुक्तं ब्रह्मघोषसमन्वितम् ॥ १३.२२३॥
सर्वालङ्कारसंयुक्तं चित्रध्वजसमन्वितम् ।
गणिकायूथमभ्याशे सर्ववाद्यास्तदन्तिके ॥ १३.२२४॥
तस्य पाशुपतः प्रान्ते महाव्रतधरास्तथा ।
महाशैवास्तदन्ते तु ब्राह्मणास्ते तदन्तिके ॥ १३.२२५॥
सुमित्रेशस्तदन्ते तु जनाः सर्वे तदन्तिके ।
महाभेरीं पुरस्तात्तु यानकाले विशेषतः ॥ १३.२२६॥
स्कन्दं शक्तिद्वययुतं सर्वालङ्कारसंयुतम् ।
सर्वाभरणसंयुक्तं सर्वदीपसमायुतम् ॥ १३.२२७॥
उत्सवे यानकाले च यः करोति प्रदक्षिणम् ।
पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ १३.२२८॥
ग्रामप्रदक्षिणं चैव पञ्चनृत्तसमन्वितः ।
वाद्यादिसर्वसङ्घैश्च प्रदक्षिणमथाचरेत् ॥ १३.२२९॥
ब्रह्मस्थानं समारभ्य प्रविशेत् ब्रह्मसन्धिषु । (ब्रह्मस्थानं समागत्य)
पाद्यमाचमनं चार्घ्यं फलादिषु निवेदनम् ॥ १३.२३०॥
घटदीपैश्च कर्पूरमाराधयेत्तु षण्मुखम् ।
पुनश्चाचमनं चैव शनैः कृत्वालयं विशेत् ॥ १३.२३१॥
सभायां मण्डपे वापि सर्वालङ्कारशोभिते ।
सिंहे पद्मासने वापि खट्वा पर्यङ्कमध्यमे ॥ १३.२३२॥
अन्येष्वासनभेदेषु वाञ्छितेषु कुमारकम् ।
नीत्वाग्रे संस्थिताः सर्वे मृदङ्गादिमहारवाः ॥ १३.२३३॥
नर्तको मद्दलः सव्ये वामतो वंशगेयकौ ।
गुरुर्दक्षिणपार्श्वे तु मूर्तिपैः संयुतः स्थितः ॥ १३.२३४॥
वामपार्श्वे स्थितो राजा स्थानाचार्यस्तु तत्र वै ।
पार्श्वयोर्देवगणिका नृत्तमध्येष्य गायकम् ॥ १३.२३५॥
देवस्योपरिभागे तु परिचारसमन्विताः ।
नार्यश्च विबुधाः पार्श्वे चामरव्यजनानि च ॥ १३.२३६॥
पाद्यामाचमनं चार्घ्यं धूपदीपमतः परम् ।
आरत्त्याप्यर्चयेद्धीमान् भस्म दत्वा गुहाय च ॥ १३.२३७॥
दर्शयेद्दर्पणं छत्रं चामरं व्यजनं गुरुः ।
नारिकेलोदकं पश्चात् पनसं कदलीफलम् ॥ १३.२३८॥
नैवेद्यं हृदयेनैव ताम्बूलमपि दापयेत् ।
देवोत्सवस्य मध्ये तु न कुर्यान्मानुषोत्सवम् ॥ १३.२३९॥
मोहेनैव कृतश्चेत्तु यः कर्ता स विनश्यति ।
ध्वजे ध्वजं न कर्तव्यं कर्तव्यं बर्हिणध्वजम् ॥ १३.२४०॥
रथे वा शिबिकायां वा रङ्गे वा गजवाहने ।
ग्रामप्रदिक्षणं कुर्यादह्निरात्रौ महोत्सवम् ॥ १३.२४१॥
उच्चैः पादप्रदीपस्तु रात्रौ ग्रामप्रदक्षिणम् ।
प्रथमे द्विजवृन्दं तु द्वितीयं वाद्यवृन्दकम् ॥ १३.२४२॥
तृतीयं गणिकायूथं चतुर्थं केतुपुञ्जकम् ।
दीर्घछत्रविधिं पञ्च षष्ठं मुरवसञ्चयम् ॥ १३.२४३॥
सप्तमं तु सुमित्रेशं भक्तानां यूथमष्टमम् ।
उत्सवस्योपकरणं नवमं परिकीर्तितम् ॥ १३.२४४॥
दशमं जनसङ्घं तु गच्छेत् ग्रामप्रदक्षिणम् ।
धूपदीपसमायुक्तं सर्वालङ्कारसंयुतम् ॥ १३.२४५॥
नित्यं वै यागहोमञ्च कुर्यात् ग्रामप्रदक्षिणम् ।
अग्निकार्योक्तमार्गेण होमं कुर्याद्विचक्षणः ॥ १३.२४६॥
पूर्णाहुतिं च मूलेन परिषेचनमाचरेत् ।
सायाह्ने चोत्सवारम्भः प्रातस्त्ववभृथं भवेत् ॥ १३.२४७॥
उदयाद्येकयामं तु प्रातः कालमिहोच्यते ।
भानोरस्तमनस्याग्रे याममेकं तथापरे ॥ १३.२४८॥
सायं कालमिति प्रोक्तमुत्सवे होमकर्मणि ।
होमस्यान्ते बलिः कार्यः पूजावृद्धिकराय वै ॥ १३.२४९॥
अन्नलिङ्गे पाशुपतमस्त्रं चैव समाचरेत् ।
सम्पूज्य मुकुलं लिङ्गं पद्ममुद्रां प्रदर्शयेत् ॥ १३.२५०॥
बलिदानं प्रकर्तव्यं भेरीशङ्खादिनिस्वनैः ।
अस्त्रेशमन्नलिङ्गञ्च कृत्वा ग्रामप्रदक्षिणम् ॥ १३.२५१॥
गजादिपरिवाराणां दिनदेवबलिं क्षिपेत् ।
नवाहेऽष्टादशबलिः सप्ताहे तु चतुर्दश ॥ १३.२५२॥
पञ्चाहे स्याद्दशबलिस्त्रयाहे षट्बलिः स्मृतः ।
एकाहे द्विबलिः कार्यो विश्वामित्र महामुने ॥ १३.२५३॥
आवाहने बलिः पूर्वमन्ते चोद्वासनम्बलिः ।
ग्रामप्रदक्षिणे काले देवेशं मञ्चसंस्थितम् ॥ १३.२५४॥
यागेशाभिमुखीकृत्वा धूपदीपं हृदा ददेत् ।
जगद्भुवेति मन्त्रेण लाजपुष्पाञ्जलिं क्षिपेत् ॥ १३.२५५॥
विघ्नेश्वरश्चतुर्वक्त्रो भूतगन्धर्वजातयः ।
इन्द्रश्च ऋषयो विष्णुः असुरश्च शिवस्तथा ॥ १३.२५६॥
एते दिनाधिपाः प्रोक्ता एकाहादिक्रमात्ततः ।
लड्डुकं मधु मुद्गञ्च नन्द्यावर्तं घृतान्वितम् ॥ १३.२५७॥
विघ्नेशमन्त्रं तत्प्रीत्यै प्रथमे दापयेत्तदा ।
पायसं रक्तपद्मञ्च रम्भाफलघृतान्वितम् ॥ १३.२५८॥
ब्रह्ममन्त्रमनुस्मृत्य द्वितीयेऽहनि दापयेत् ।
हरिद्रान्नञ्च पुन्नागकूश्माण्डघृतसंयुतम् ॥ १३.२५९॥
गन्धर्वमन्त्रं संस्मृत्य चतुर्थेऽहनि दापयेत् ।
मुलान्नं जातिपुष्पञ्च पनसाम्रफलं घृतम् ॥ १३.२६०॥
इन्द्रमन्त्रमनुस्मृत्य पञ्चमेऽहनि दापयेत् ।
दूर्वालक्ष्मीपुष्पयुक्तं वेण्वन्न सूपसंयुतम् ॥ १३.२६१॥
पद्मकन्दमृषिभ्यो वै षष्ठेऽहनि च दापयेत् ।
तुलसीघृतसयुक्तं गुलान्नं बृहतीफलम् ॥ १३.२६२॥
विष्णुमन्त्रमनुस्मृत्य सप्तमेऽहनि दापयेत् ।
अपूपं कृसरान्नञ्च कैतकं लाजसंयुतम् ॥ १३.२६३॥
मधुनाप्यसुराणां वै दापयेदष्टमेऽहनि ।
आरग्वधञ्च शुद्धान्नं निष्पावं पनसाज्यकम् ॥ १३.२६४॥
शिवमन्त्रमनुस्मृत्य नवमेऽहनि दापयेत् ।
दिनदेवबलिद्रव्यैर्लोकपालबलिं क्षिपेत् ॥ १३.२६५॥
बलिपीठेऽथवा शुद्धे भूतपृष्ठे बलिक्रिया ।
बलिदानविधौ तत्र ये देवा बलिपार्श्वयोः ॥ १३.२६६॥
तेषामग्रे बलिं दद्यात् स्वनामपदमन्त्रतः ।
अथवा वीथिमध्ये तु तानुदिश्य प्रदापयेत् ॥ १३.२६७॥
चतुष्पथे पिशाचेभ्यस्त्रिपथे रक्षसां बलिः ।
सभास्थाने सरस्वत्यै ज्येष्ठायै तु जलाशये ॥ १३.२६८॥
गोस्थाने चण्डरुद्रस्य भीमरुद्रस्य गोपुरे ।
उत्सवादौ समारभ्य सायम्प्रातर्बलिं क्षिपेत् ॥ १३.२६९॥
एवमेव बलिं दत्वा सर्वप्राणिसुखावहम् ।
पुष्पालाभे यथा लाभं पुष्पं ग्राह्य बलिं क्षिपेत् ॥ १३.२७०॥
दध्याज्ययुक्तं शुद्धान्नं सर्वेषामपि दापयेत् ।
कुक्कुटाण्डप्रमाणं वा महापीठे चतुर्गुणम् ॥ १३.२७१॥
बलिं क्षिप्य यथान्यायं पादौ प्रक्षाल्य देशिकः ।
यागस्थानं प्रविश्याथ मतिमान् मुनिपुङ्गव ॥ १३.२७२॥
अन्नलिङ्गं पाशुपतं पूर्वस्थाने नियोजयेत् ।
पूजापर्युषितं पुष्पं सुमित्राय प्रदापयेत् ॥ १३.२७३॥
बलिनानुगतो देवो बल्यन्ते च प्रदक्षिणम् ।
प्रथमे चन्दनं शुभ्रं द्वितीये कुङ्कुमान्वितम् ॥ १३.२७४॥
तृतीये कोष्ठसंयुक्तं चतुर्थे जातिगन्धकम् ।
पञ्चमे तु हरिद्रञ्च षष्ठेऽहनि लवङ्गकम् ॥ १३.२७५॥
एलालवङ्गसंयुक्तं चन्दनं सप्तमेऽहनि ।
धनकुङ्कुमकर्पूरं त्रुटिजातिमुरान्वितम् ॥ १३.२७६॥
हिमतोययुतं गन्धमष्टमेऽहनि दापयेत् ।
नवमे दिवसे विप्र कृष्णगन्धं विशेषतः ॥ १३.२७७॥
पद्मं नीलोत्पलं जातिमल्लिकानीपचम्पकम् ।
पाटलीकरवीरञ्च वकुलं हल्लकं तथा ॥ १३.२७८॥
नवैतानि च पुष्पाणि दिवसेषु नवस्वपि ।
गुग्गुलुञ्च घृतं कुष्ठं चन्दनं बिल्वमेव च ॥ १३.२७९॥
निर्यासञ्च घनं चैव कर्पूरमुशिरं तथा ।
सर्वमध्वाज्यसंयुक्तं धूपद्रव्यं प्रकीर्तितम् ॥ १३.२८०॥
कर्पूरवर्तिना दीपं दापयेल्लघुवर्तिना ।
शुद्धान्नं पायसं मुद्गं गुलान्नं कृसरान्नकम् ॥ १३.२८१॥ (गुलान्नं कृशरान्नकं)
वेण्वन्नं च प्रियङ्ग्वन्नं माषान्नं तु यवान्नकम् ।
ओदनानि नवैतानि दिनेषु च नवस्वपि ॥ १३.२८२॥
पद्मरागं मौक्तिकं च प्रवालं मरकतं तथा ।
पुष्परागं वज्रनीलं सूर्यवारादिभूषणम् ॥ १३.२८३॥
सर्ववारेषु योग्यानि हारकाभरणानि च ।
तद्वर्णानि च पुष्पाणि तत्तद्द्वारेषु दापयेत् ॥ १३.२८४॥
प्रथमेऽहनि मञ्चं स्यात् द्वितीये भूतवाहनम् ।
सिंहारूढं तृतीयेऽह्नि गजारूढं चतुर्थके ॥ १३.२८५॥
पञ्चमे च मयूरं स्यात् षष्ठे वै कल्पतोरणम् ।
सप्तमेऽह्नि रथारूढं वाजी स्यादष्टमेऽहनि ॥ १३.२८६॥
नवमेऽहनि मञ्चं स्याद् दिनवाहनमीरितम् ।
दिवाकाले सदा मञ्चं रात्रिकाले तु वाहनम् ॥ १३.२८७॥
सप्तमे दिवसे प्राप्ते रथारूढं दिवा भवेत् ।
चतुर्थे दिवसे रात्रौ पन्थानकं प्रचक्षते ॥ १३.२८८॥
षष्ठेऽह्नि मुनिशार्दूल वसन्तोत्सवमुत्तमम् ।
हारिद्रचूर्णं दूर्वापि दत्वा धूरिति मन्त्रतः ॥ १३.२८९॥
गुहाय वल्लीसेनाभ्यां सर्वमङ्गलकारकम् ।
सर्वेषामपि वर्णानां दापयेद्दानकालके ॥ १३.२९०॥
सप्तमे दिवसे विप्र रथारोहणकर्मणि ।
यात्रादानं प्रकर्तव्यं गोभूमितिलकाञ्चनैः ॥ १३.२९१॥
श्रोत्रियाय दरिद्राय शिवभक्ताय दापयेत् ।
रथाढ्याङ्गानि सर्वाणि शोधयेच्छिल्पिवित्तमः ॥ १३.२९२॥
पुण्याहं वाचयित्वाथ रथं सम्प्रोक्ष्य तज्जलैः ।
सर्वालङ्कारसंयुक्तं रथं सम्पूजयेत् क्रमात् ॥ १३.२९३॥
छत्रदण्डेषु मायाख्या छत्रेषु शशिभास्करौ ।
भाराख्येषु च दण्डेषु त्वाधारायां समर्चयेत् ॥ १३.२९४॥
परितः पट्टिकाजालैस्तथैकादश रुद्रकान् ।
गात्रेषु गात्रवृन्देषु धर्माधर्मादिकान् यजेत् ॥ १३.२९५॥
गात्रं गात्रान्तरे वायुं स्थूपिकायां गुहं यजेत् ।
रथप्रान्ते स्वस्वदिक्षु लोकपालान् समर्चयेत् ॥ १३.२९६॥
तदग्रपार्श्वयोर्विद्वान् जयं च विजयं तथा ।
मयूरं मध्यदण्डेषु देवान् सर्वांश्च रज्जुषु ॥ १३.२९७॥
एवं सम्पूज्य मतिमान् धूपदीपं ददेत्ततः ।
बलिं क्षिप्त्वा तु तत्रैव तत्तन्नामादिमन्त्रतः ॥ १३.२९८॥
देवेशं प्रीणयित्वाथ रथमारोप्य तद्दिने ।
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति ॥ १३.२९९॥
मुद्गसारं नालिकेरं दापयेत्तु विशेषतः ।
अष्टमे दिवसे विप्र मृगयात्रां समाचरेत् ॥ १३.३००॥
पूर्वादिषु चतुर्दिक्षु गन्तव्या मृगया वने ।
केचिद्धनुर्धराः केचित् खड्गखेटकधारिणः ॥ १३.३०१॥
अश्वारूढाः गजारूढाः केचिद्युद्धसमुद्यताः ।
एवं कृत्वा सुराध्यक्षा मृगक्रीडां विलोकयेत् ॥ १३.३०२॥
युद्धारम्भप्रभावेन कुर्याद्ग्रामप्रदक्षिणम् ।
नालिकेरजले तोयं मुद्गसारं गुलान्वितम् ॥ १३.३०३॥
निवेदयेद्विशेषेण ताम्बूलमपि दापयेत् ।
नवमे दिवसे विप्र कृष्णगन्धानुलेपनम् ॥ १३.३०४॥
षण्मुखं पूर्वरात्रे तु कौतुकं बन्धयेत्सुधीः ।
अर्चयित्वा सुगन्धाद्यैर्नैवेद्यमपि दापयेत् ॥ १३.३०५॥
ग्रामप्रदक्षिणं कुर्यात् सप्तविंशद्ग्रहावधि ।
प्रविशेदालयं पश्चात् प्रदोषे नवमेऽहनि ॥ १३.३०६॥
देवस्याग्रे त्रिपाद्यूर्ध्वे स्थलिकां स्थण्डिलोपरि ।
विन्यस्य कृष्णगन्धं तु कृत्वा धामप्रदक्षिणम् ॥ १३.३०७॥
पुण्याहं वचयेत्तत्र प्रोक्षयेच्चास्त्रमन्त्रतः ।
अङ्गन्यासं करन्यासं अन्तर्यजनमाचरेत् ॥ १३.३०८॥
घृतस्नानादिकं कृत्वा भूषयेद्भूषणार्हकैः । (व्रतस्नानादिकं)
कर्पूरमिश्रं तद्गन्धं सर्वाङ्गमपि लेपयेत् ॥ १३.३०९॥
आधाराधेयपूजां च कुर्यादपि विशेषतः ।
षण्मुखीं पद्ममुद्रां च नमस्कारं च दर्शयेत् ॥ १३.३१०॥
पञ्चवक्त्रं ततः कुर्यात् सैकत्रिंशत् कलां न्यसेत् ।
न्यसेच्च मातृकान्यासं सुमुहूर्ते सुलग्नके ॥ १३.३११॥
धूपदीपं हृदा दत्वा पाद्यमाचमनं हविः ।
जम्बूफलप्रमाणेन कृष्णगन्धेन षण्मुखम् ॥ १३.३१२॥
जगद्भुवेति मन्त्रेण मूलमन्त्रेण देशिकः ।
देव्योर्गौरीमिमायेति यदि तन्मूलमन्त्रतः ॥ १३.३१३॥
लेपयेत् कण्ठदेशे तु स्तनमध्ये गुरूत्तमः ।
मूलबेरस्य तत्पश्चाद् वागीशानां ततः परम् ॥ १३.३१४॥
आचार्यस्य ततः पश्चाद् भक्तानां तु ततः परम् ।
ततो राज्ञां प्रकर्तव्यं वर्णानामपि तत्परम् ॥ १३.३१५॥
यो वै भक्त्या कृष्णगन्धं लेपयेत् षण्मुखस्य तु ।
जन्मान्तरकृतं पापं तस्य नश्यत्यसंशयः ॥ १३.३१६॥
तस्मात् सर्वप्रयत्नेन ललाटे लेपयेन्नरः ।
अलङ्कृत्य मुनिश्रेष्ठ रक्तोत्पलमहोत्पलैः ॥ १३.३१७॥
रक्तमाल्यैर्भूषणैश्च देव्योः षण्मुखमादरात् ।
धूपदीपादिकं दत्त्वा नैवेद्यं चान्नसूक्ततः ॥ १३.३१८॥
मुखवाससमायुक्तं ताम्बूलं दापयेद्धृदा ।
पटं विसृज्य देवाय धूपदीपादिदापयेत् ॥ १३.३१९॥
दत्त्वा भस्म नमस्कृत्य प्रार्थयेदर्थमीप्सितम् ।
सवत्सां गां सुवर्णं च कांस्यपात्रं घृतान्वितम् ॥ १३.३२०॥
तिलं प्रियङ्गुदानं च दापयेद्गुरवे नृप ।
यात्रादानमिदं प्रोक्तं कर्तुरिष्टप्रदायकम् ॥ १३.३२१॥
उष्णीषं चोत्तरीयं च सर्वाभरणभूषितम् ।
गुरुरर्घ्यकरो मौनी पीठे देवस्य दक्षिणे ॥ १३.३२२॥
स्थित्वा षडक्षरं मन्त्रं जपेत् सर्वार्थसिद्धये ।
भेरीमद्दलवीणाभिः शङ्खदुन्दुभिकाहलैः ॥ १३.३२३॥
नानावाद्यसमायुक्तं छत्रध्वजसमन्वितम् ।
चामरैर्व्यजनैर्युक्तं गणिकायूथसंयुतम् ॥ १३.३२४॥
यन्त्रदीपैः सुदीपैश्च त्रिशूलो यष्टिदीपकैः ।
शिबिकास्थितदेवेशं कृत्वा ग्रामप्रदक्षिणम् ॥ १३.३२५॥
शनैःशनैश्च मतिमान् बाह्ये सप्तग्रहावधि ।
दर्शयित्वा नतिं कृत्वा प्रविश्य स्थानमण्डपम् ॥ १३.३२६॥
पृष्ठभागे वाद्यगीतैर्नृत्तैः सन्तोषयेद्गुहम् ।
स्नापयित्वा महासेनं शुक्लवस्त्रैश्च वेष्टयेत् ॥ १३.३२७॥
कर्पूरधूलिनोद्धृत्य मल्लिकाजातिपुष्पकैः ।
मुक्तादामैरलङ्कृत्य नैवेद्यं दापयेद् गुरुः ॥ १३.३२८॥
ताम्बूलं मुखवासं च धूपदीपादिदापयेत् ।
रङ्गे वा शिबिकायां वा रात्रौ यामत्रयात्परम् ॥ १३.३२९॥
पङ्क्तियानं प्रकर्तव्यं हर्म्ये वा पुरतोऽपि वा ।
वेदध्वनिसमायुक्तं स्तोत्रध्वनिसमन्वितम् ॥ १३.३३०॥
वाद्यसप्तसमायुक्तं गीतनृत्तसमन्वितम् ।
आस्थानमण्डपं प्राप्य रात्रिशेषं व्यपोह्य च ॥ १३.३३१॥
अरुणोदयवेलायां पुनः स्नानं समाचरेत् ।
नदीतीरे तडागे वा प्रपायां शुद्धभूतले ॥ १३.३३२॥
पुण्याहं वाचयित्वाथ नवकुम्भञ्च विन्यसेत् ।
गङ्गां च यमुनां चैव नर्मदां च सरस्वतीम् ॥ १३.३३३॥
सिन्धुं गोदावरीं चैव कावेरीं कुमरीं तथा ।
स्कन्दतीर्थञ्च तन्मध्ये पूजयेत्स्वस्वमन्त्रतः ॥ १३.३३४॥
अभिषिच्य यथाशक्ति देशिकः परिचारकैः ।
स्नापयेत्स्कन्दतीर्थेश्च गङ्गास्नानफलं लभेत् ॥ १३.३३५॥
आलयं तु प्रविश्याथ समलङ्कृत्य षण्मुखम् ।
रथे वा शिबिकायां वा मञ्चे वारोप्य षण्मुखम् ॥ १३.३३६॥
ग्रामप्रदक्षिणं कृत्वा सर्वोपकरणान्वितम् ।
महावीथीं क्षुद्रवीथीं सर्ववीथीं विशेषतः ॥ १३.३३७॥
आस्थानमण्डपं प्राप्य धूपदीपञ्च दापयेत् ।
देवस्य परमभागे तु वाद्यघोषैश्च गीतकैः ॥ १३.३३८॥
देवस्याग्रे विशेषेण स्थलशुद्धिं विधाय च ।
पाद्यमाचमनं चार्घ्यं धूपदीपञ्च दापयेत् ॥ १३.३३९॥
मुद्गसारं निवेद्याथ पिष्टापूपं गुलान्वितम् ।
उपदंशाज्यसंयुक्तं महाहविर्निवेदयेत् ॥ १३.३४०॥
पानीयाचमनीयञ्च ताम्बूलमुखवासकम् ।
धूपदीपादिकं दत्त्वा षण्मुखं पूजयेद्गुरुः ॥ १३.३४१॥
ततश्चूर्णोत्सवं कुर्यात् उत्सवान्ते दिने गुरुः । (दिने बुधः)
देवाग्रे शुद्धदेशे तु कल्पयेत्स्थण्डिलद्वयम् ॥ १३.३४२॥
जगद्भुवेति मन्त्रेण दर्भैः पुष्पैः परिस्तरेत् ।
पुण्याहं वाचयेत्तत्र हृदा सम्प्रोक्ष्य बुद्धिमान् ॥ १३.३४३॥
मङ्गलाङ्कुरसंयुक्ते प्राच्यां स्थण्डिलमध्यमे ।
कौतुकं तु विसृज्याथ तन्मध्ये विन्यसेत्क्रमात् ॥ १३.३४४॥
मुसलोलूखले न्यस्त्वा रक्तवस्त्रेण वेष्टयेत् ।
शक्तिञ्च पश्चिमे स्थाप्य गुहास्त्रं सम्प्रपूजयेत् ॥ १३.३४५॥
लूखले शक्तिमाधारं मुसले स्कन्दमर्चयेत् ।
शूर्पे विष्णुं समभ्यर्च्य कुर्यात्तत्रशिरोऽर्पणम् ॥ १३.३४६॥
सुश्लक्ष्णं रजनीचूर्णं द्रोणं वापि तदर्धकम् ।
लूखले हृदयेनैव निक्षिपेद्रात्रिचूर्णकम् ॥ १३.३४७॥
व्योमव्यापिपदैर्मन्त्रैर्लूखलेनैव घट्टयेत् ।
तत्रागतजनैर्वापि चूर्णयेद्गणिकाजनैः ॥ १३.३४८॥
रजनीचूर्णमादाय दूर्वा तैलेन संयुतम् ।
तीर्थकाले प्रयोक्तव्यं स्कन्दं स्कन्दास्त्रयोरपि ॥ १३.३४९॥
मस्तके देवदेवीनां स्कन्दास्त्रे मध्यपत्रके ।
सुब्रह्मण्येति मन्त्रेण दापयेद्देशिकोत्तमः ॥ १३.३५०॥
अयं कुमारमन्त्रेण ताम्बूलमपि दापयेत् ।
सुमित्राय गुरुः पश्चात् भक्तानामपि दापयेत् ॥ १३.३५१॥
तत्पश्चाद्रजनीचूर्णं यजमानाय दापयेत् ।
चूर्णं ग्रामजनानां वै दत्वा शीघ्रं प्रदक्षिणम् ॥ १३.३५२॥
प्रविश्य भवनं पश्चात् तीर्थस्नानमथाचरेत् ।
सायङ्कालेऽथवा रात्री तीर्थकर्मविशेषतः ॥ १३.३५३॥
नद्यां वाथ तडागे वा समुद्रे वाप्यथापि वा ।
तीरे समतलं सम्यक् प्रपां कृत्वातिसुन्दराम् ॥ १३.३५४॥
जलक्रीडासमायुक्तं कृत्वा ग्रामप्रदक्षिणम् ।
कुमारञ्च गुहास्त्रञ्च प्रपामारोप्य शास्त्रवित् ॥ १३.३५५॥
स्थण्डिलद्वितयं कृत्वा शालिभिर्विमलैस्तथा ।
सङ्कल्पमपि पुण्याहं ब्राह्मणैः सह वाचयेत् ॥ १३.३५६॥
जगद्भुवेति मन्त्रेण प्रोक्षयेच्छुद्धवारिणा ।
पश्चिमे स्थण्डिले शक्तिं पूर्वकुम्भांश्च विन्यसेत् ॥ १३.३५७॥
ससूत्रान् सापिधानांश्च सवस्त्रान् वारिपूरितान् ।
जयन्ताद्यष्टविद्येशान् मध्ये सेनान्यमर्चयेत् ॥ १३.३५८॥
जयशब्दादिसंयुक्तैः स्वस्तिमङ्गलवाचकैः ।
आवाह्य सर्वदेवांश्च गन्धाद्यैरर्चयेत् क्रमात् ॥ १३.३५९॥
दिग्बन्धञ्च ततः कृत्वा तीर्थस्नानाय मन्त्रवित् ।
स्थापितैः कलशैर्विद्वानस्त्रराजं प्रपूजयेत् ॥ १३.३६०॥
तत्तीर्थं वारिमध्ये तु व्याहृत्या विन्यसेत् क्रमात् ।
हे देवि गङ्गे यमुने नर्मदे च सरस्वति ॥ १३.३६१॥
सिन्धु गोदावरी चैव कावेर्यत्र जलाशये ।
सन्निधी भवतः स्वान्दतीर्थार्थमिह शुद्धये ॥ १३.३६२॥
तस्मिन् तीर्थे च यः स्नात्वा गङ्गास्नानफलं लभेत् ।
जलक्रीडां प्रकुर्वीत ततो भक्तजनैः सह ॥ १३.३६३॥
तत्तीर्थेनैव मतिमान् सेनान्यमभिषेचयेत् ।
प्रविश्य भवनं पश्चात् सर्वातोद्यसमन्वितम् ॥ १३.३६४॥
यागपूजाविधिं कुर्यात् होमान्ते यागमूर्तिपम् । (यागमूर्तिनम्)
मूलबेरे नियोज्याथ स्नपनं तत्र कारयेत् ॥ १३.३६५॥
यागवेदिस्थितैः कुम्भैः पूजयेन्मूलबेरकम् ।
गन्धतोयैः शुद्धतोयैर्गन्धाद्यैरर्चयेत्ततः ॥ १३.३६६॥
महाहविर्निवेद्याथ धूपदीपादि दापयेत् ।
बलिं दत्वा क्रमेणैव बलिपीठे समर्चयेत् ॥ १३.३६७॥
ग्रामप्रदक्षिणं कुर्यात् मौनव्रतधरस्तथा ।
सन्धिदेवान् विसृज्याथ बलिपीठस्य दक्षिणे ॥ १३.३६८॥
स्थित्वाशिषं ततो जप्त्वा शङ्खभेर्यादिभिः स्वनैः ।
ध्वजावरोहणं कुर्यात् पुण्याहं वाचयेद्गुरुः ॥ १३.३६९॥
ध्वजस्य दण्डमूले तु पिण्डादि च निवेदयेत् ।
गजे वा मूलबेरस्य वाहने योजयेद् ध्वजम् ॥ १३.३७०॥
गर्भगेहं प्रविश्याथ पाद्यमाचमनार्घ्यकम् ।
धूपदीपं हृदा दत्त्वा सर्वकर्म समाचरेत् ॥ १३.३७१॥
सुमित्रयागं वक्ष्येऽहं शृणु कौशिक सुव्रत ।
अलङ्कृत्य सुमित्रेशं वस्त्रैराभरणैरपि ॥ १३.३७२॥
तस्याग्रे स्थण्डिलं कृत्वा सर्वकर्म समाचरेत् ।
समिदन्नाज्यधान्यैश्च मूलेनैव हुनेद्बुधः ॥ १३.३७३॥
शतमर्धं तदर्धं वा दशांशं तत् षडङ्गकैः ।
हुत्वा हविर्निवेद्याथ ताम्बूलमपि दापयेत् ॥ १३.३७४॥
धूपदीपादिकं दत्वा सन्धिदेवबलिं क्षिपेत् ।
बलिपात्रं चान्नलिङ्गमस्त्रराजं विशेषतः ॥ १३.३७५॥
परिचारैः परिवृतो गुरुर्मौनव्रतस्ततः ।
हुङ्कारो दोपहीनः सन् कुर्याद्ग्रामप्रदक्षिणम् ॥ १३.३७६॥
सन्धौ सन्धौ बलिं दद्यात् त्रिपथे च चतुष्पथे ।
बलिपीठे बलिं दद्यात् पादौ प्रक्षाल्य बुद्धिमान् ॥ १३.३७७॥
आलयं तु प्रविश्याशु सर्वेषां भस्म दापयेत् ।
आचार्यं पूजयेत् कर्ता वस्त्रहेमाङ्गुलीयकैः ॥ १३.३७८॥
दक्षिणां दापयेत् पश्चात् गोभूमिकाञ्चनैः सह ।
षण्णिष्कमधमं ज्ञेयं मध्यमं दशनिष्ककम् ॥ १३.३७९॥
निष्काणां विंशतिः श्रेष्ठं आचार्यस्य तु दक्षिणा ।
दशभागैकभागं तु मूर्तिपानां तु दक्षिणा ॥ १३.३८०॥
यागोपकरणं सर्वं देशिकाय प्रदापयेत् ।
भक्तानां परिचाराणां यथाशक्त्या च दक्षिणा ॥ १३.३८१॥
दीनानन्धांश्च भक्तांश्च ब्राह्मणान् भोजयेत् सुधीः ।
अपरे दिवसे विप्र देव्युत्सवमथाचरेत् ॥ १३.३८२॥
ततोऽधिवासनं कुर्यात् सर्वरात्रं महामुने ।
समलङ्कृत्य देवेशं देव्योर्भूषैर्विशेषतः ॥ १३.३८३॥
शक्तिद्वयं पुरस्कृत्य सेनान्यं तदनन्तरम् ।
ग्रामप्रदक्षिणं कृत्वा प्रविश्यास्थानमण्डपम् ॥ १३.३८४॥
धूपदीपं हृदा दत्त्वा नीराजनमनन्तरम् ।
महाहविर्निवेद्याथ ताम्बूलमपि दापयेत् ॥ १३.३८५॥
नित्यं नित्यं रात्रिकाले नृत्तैः सन्तोषयेद्गुहम् ।
गुहोत्सवविधिः प्रोक्तः समासान्मुनिपुङ्गव ॥ १३.३८६॥
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ।
धर्मार्थी लभते धर्ममर्थार्थी चार्थमाप्नुयात् ॥ १३.३८७॥
कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् ।
विजयस्तु भवेन्नित्यं सत्यं सत्यं वदाम्यहम् ।
इहैव कामान् भुक्त्वान्ते कौमारं लोकमाप्नुयात् ॥ १३.३८८॥
इति श्रीकुमारतन्त्रे उत्सव विधिर्नाम त्रयोदशः पटलः ।