अतः परं प्रवक्ष्यामि स्नपनं षण्मुखस्य तु ।
अङ्गारवारे षष्ठ्यां वा विषुवायनसङ्क्रमे ॥ १२.१॥
मासर्क्षे ग्रहणे वापि कृत्तिकायां द्विपर्वणि
उत्सवान्ते प्रतिष्ठान्ते प्रोक्षणान्ते सुयोगके ॥ १२.२॥
कर्तुश्च जन्मदिवसे तद्वियोगदिनेऽपि वा ।
नित्ये नैमित्तिके काम्ये शान्तिकर्मणि वा पुनः ॥ १२.३॥
एतेषु स्नपनं कुर्यात् तच्चानेकविधिं शृणु ।
अङ्कुरार्पणमादौ स्यान्महास्नपनकर्मणि ॥ १२.४॥
प्रासादस्याग्रतः कुर्यात् मण्डपं वेदिहीनकम् ।
अथवा पूर्वकॢप्ते तु दारुणा शिलया तथा ॥ १२.५॥
पञ्चगव्यादिके पञ्चत्रिंशद्धस्ताङ्गुलेऽपि वा ।
चतुर्ग्रामादिकेषां च गात्रपर्यङ्कमण्डपे ॥ १२.६॥
तोरणादिसमायुक्ते सर्वालङ्कारसंयुते ।
अस्त्रेण शोधिते भूमौ वामदेवेन लेपयेत् ॥ १२.७॥
सूत्रन्यासं गुणास्त्रेण तालमात्राङ्गुलं यथा ।
द्वितालं स्कन्दकुम्भस्य वर्धन्योस्तालमात्रकम् ॥ १२.८॥
त्रितालं मूर्तिकामानं सर्वं सामान्यमीरितम् ।
अथवा द्वयतालेन कर्णिकामानमीरितम् ॥ १२.९॥
पश्चाद्द्रव्यप्रमाणानि वक्ष्येऽहं शृणु कौशिक ।
गुञ्जादिनिष्कपर्यन्तं पादाद्यङ्गप्रमाणकम् ॥ १२.१०॥
एकद्वित्रिचतुः प्रस्थं पञ्चगव्यादिमानकम् ।
मध्यादीनां च सम्प्रोक्तं पादमर्धमथापि वा ॥ १२.११॥
आज्यतैलप्रमाणेन तथैव परिकल्पयेत् ।
कर्पूरकुङ्कुमादीनां मानमित्थं प्रगृह्यताम् ॥ १२.१२॥
उत्तमं नवकाशैस्तु मध्यमं सप्तदर्भकैः ।
अधमं पञ्चकाशैस्तु रुद्रधर्मग्रहायुतम् ॥ १२.१३॥
ग्रन्थिरेकाङ्गुलं प्रोक्तमग्रं तु चतुरङ्गुलम् ।
तद्ग्रन्थिचतुरावर्तिं कूर्चलक्षणमीरितम् ॥ १२.१४॥
ऊर्ध्वाग्रं पुष्टिदं प्रोक्तं अधोऽग्रं शान्तिदं भवेत् ।
कूर्चानां लक्षणं प्रोक्तं कुम्भानां लक्षणं शृणु ॥ १२.१५॥
कालं भिन्नं च सुषिरं भेदं छेदं च लीनकम् ।
दुर्गन्धं च पुराणञ्च कलशं च विवर्जयेत् ॥ १२.१६॥
कालं च कलहं विद्याद्भिन्नं चैव कुलक्षयम् । (चैव कुलक्षणं)
महामारी प्रकोपस्स्यात्सुषिरं च महामुने ॥ १२.१७॥
भेदं विभेदनं कुर्यात् छेदं छेदकरं भवेत् ।
लीनं व्याधिकरं चैव दुर्गन्धं बालनाथनम् ॥ १२.१८॥
स्त्रीनाशं स्यात्पुराणश्चेत्सङ्ग्रहे बिम्बसन्निभम् ।
तस्मात्सर्वप्रयत्नेन दोषाण्येतानि वर्जयेत् ॥ १२.१९॥
कलशान् वेष्टयेद्विद्वानेकद्वित्रिकतन्तुभिः ।
एकद्वित्रियवान्ताढ्यं स्कन्दकुम्भं च वर्धनीम् ॥ १२.२०॥
अन्यांश्च कलशान् सर्वान् गवाक्षसदृशान्तरान् ।
मण्डपस्योत्तरे भागे दर्भैः शुद्धैः परिस्तरेत् ॥ १२.२१॥
क्षालयेत् कलशानस्त्रान् प्रोक्षयेत् पुरुषेण तु ।
अधोमुखांश्च कलशान् स्थापयेत्तु कुशोपरि ॥ १२.२२॥
प्रोक्षयेद्धृदयेनैव कलशोन्मीलनं तथा ।
वस्त्रपूतैर्गन्धयुक्तैर्जलैः सम्पूरयेद्धृदा ॥ १२.२३॥
स्थण्डिलस्य विधिं वक्ष्ये शृणु कौशिक सुव्रत ।
शालीनामाढकं श्रेष्ठं त्रिःप्रस्थं मध्यमं स्मृतम् ॥ १२.२४॥
द्विःप्रस्थं तण्डुलं प्रोक्तं तदर्धं तिलमीरितम् ।
भूशोधनं तु प्रथमं अनुलेपं द्वितीयकम् ॥ १२.२५॥
सूत्रन्यासं तृतीयं स्यात्स्थण्डिलं वै चतुर्थकम् ।
कलशस्थापनं पञ्च षष्ठं कूर्चाधिवासनम् ॥ १२.२६॥
सप्तमं द्रव्यविन्यासमष्टमं देवतार्चनम् ।
विधानं नवमं प्रोक्तं दशमं वस्त्रवेष्टनम् ॥ १२.२७॥
एकादशं गन्धपुष्पं द्वादशं धूपदीपकम् ।
मुद्रा त्रयोदशं प्रोक्तं प्रोक्षणं च चतुर्दशम् ॥ १२.२८॥
दशपञ्च घटोद्घारं स्नानकर्म च षोडश ।
अस्त्रेण शोधयेद्भूमिं वामदेवेन लेपनम् ॥ १२.२९॥
सूत्रन्यासमघोरेणस्थण्डिलं पुरुषेण तु ।
प्रणवेन घटोद्घारं स्कन्दसूक्तेन मन्त्रतः ॥ १२.३०॥
पञ्चब्रह्मषडङ्गैश्च स्नापयेत् षण्मुखं सुधीः ।
लाजपुष्पतिलैर्दर्भैर्विकरान् प्रक्षिपेत्ततः ॥ १२.३१॥
पुण्याहं वाचयित्वाथ पश्चात् स्नपनमाचरेत् । (स्नपनमारभेत्)
प्रवक्ष्यामि समासेन स्नपनं नवसङ्ख्यकम् ॥ १२.३२॥
प्राक्सूत्रं देवसूत्रं स्यादुदवसूत्रं तथैव च ।
तन्मध्ये स्कन्दकुम्भं तु वर्धनीं तस्य पार्श्वके ॥ १२.३३॥
पाद्यमाचमनं चार्घ्यं पञ्चगव्यं महादिशि ।
क्षीरं दधि घृतं चैव मध्वन्यासु विदिक्षु च ॥ १२.३४॥
सप्तसूत्रान् सापिधानांश्च सवस्त्रान् वारिपूरितान् ।
स्थापयेत् कलशान् वा स्यात् पूजयेत्तु यथाविधि ॥ १२.३५॥
दक्षिणस्थितवर्धन्यां महावल्लीं यजेत्ततः ।
तन्मध्ये उत्तरस्थां च देवसेनां प्रपूजयेत् ॥ १२.३६॥
शकुन्याद्यष्टशक्तीश्च पूर्वादिकलशेषु च ।
अर्चयेत्तु यथान्यायं स्नापयेदसुरान्तकम् ॥ १२.३७॥
नवाख्यं कलशं प्रोक्तं पञ्चविंशतिकं शृणु ।
प्राक्सूत्रं वसुसूत्रं स्यादुदगग्रं तथैव च ॥ १२.३८॥
मध्ये नवपदं ग्राह्यं तत्पार्श्वैकं पदं त्यजेत् ।
वसुद्वारसमायुक्तं शालिभिः स्थण्डिलं नयेत् ॥ १२.३९॥
तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि ।
तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ १२.४०॥
मध्यकुम्भं कुमाराख्यं तत्पार्श्वे वर्धनीद्वयम् ।
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं चतुर्दिशि ॥ १२.४१॥
क्षीरं दधिघृतञ्चैव मध्वन्यासु विदिक्षु च । (दधिघृतञ्चैव मध्वाज्यादि)
मधु कुष्ठङ्गुलञ्चैव क्षीरश्च सर्पिषं तथा ॥ १२.४२॥ (क्षीरश्च सर्षपं)
लवङ्गं चैव तक्कोलं दधिमेकं तिलं तथा ।
उशीरञ्च घृतं चैव शङ्खचूर्णं च सक्तुकम् ॥ १२.४३॥
नालिकेरञ्च हारिद्रं द्रव्याण्येतानि षोडश ।
पूर्वादिक्लशेष्वत्र द्वितीयावरणं न्यसेत् ॥ १२.४४॥
मध्वकुम्भे यजेत्स्कन्दं पार्श्वे शक्तिद्वयं यजेत् ।
शकुन्याद्यष्टशक्तिश्च प्रथमावरणे यजेत् ॥ १२.४५॥
लोकपालामरान् दिक्षु जयन्ताद्यान् विदिक्षु च ।
पूजयित्वा यथान्यायं सेनान्यमभिषेचयेत् ॥ १२.४६॥
स्नपनं प्रोक्तमेवं हि पञ्चविंशतिसङ्ख्यकम् ।
पश्चादेकोनपञ्चाशत्स्नपनं प्रोच्यतेऽधुना ॥ १२.४७॥
प्रागग्रं दशसूत्रं स्यादुदक्सूत्रं तथैव च ।
मध्ये नवपदं ग्राह्यं लेपयेत्परितः पदम् ॥ १२.४८॥
द्वाराष्टकसमायुक्तं तालमात्रान्तरं पदम् ।
स्थण्डिलं पूर्ववत्कृत्वा तन्मध्ये नलिनं लिखेत् ॥ १२.४९॥
कलशान् लक्षणोपेतान् चतुःप्रस्थेन पूरितान् ।
ससूत्रान् सापिधानाञ्च सवस्त्रान् हेमसंयुतान् ॥ १२.५०॥
वामे कुशोपरि न्यस्त्वा विन्यसेत्तु यथाक्रमम् ।
गन्धाम्बुरत्नसहितं कुम्भमध्ये गुहाख्यकम् ॥ १२.५१॥ (कुम्भमध्ये गुहाह्त्रयं)
दक्षिणोत्तरभागे तु वर्धन्या हेमसंयुतौ ।
पाद्यमाचमनं चार्घ्य गव्यं पूर्वादिदिक्षु च ॥ १२.५२॥
क्षीरं दधि घृतं चैव मध्वन्यासु विदिक्षु च ।
तक्कोलं भस्म निर्यासं हारिद्रं चैव मञ्जरी ॥ १२.५३॥
नालिकेरं च बिल्वं च जम्बूकच्चोलमेव च ।
पाटली चैव पुन्नागं शङ्खपुष्पं तथैव च ॥ १२.५४॥
लक्ष्मी व्याघ्रीच सिंही च धुत्तूरं चैव षोडश ।
द्रव्याण्येतानि पूर्वादिद्वितीयावरणे न्यसेत् ॥ १२.५५॥
दूर्वा च सर्षपं चाम्रं नारङ्गं पनसं तथा ।
कदली च कदम्बं च धातकी श्वेतपङ्कजम् ॥ १२.५६॥
इक्षुसारञ्च लाजं च चम्पकं गन्धतैलकम् ।
नीवारं कुङ्कुमं चैव तिलमाञ्जीमरुं तथा ॥ १२.५७॥
सक्तुश्च मातुलुङ्गं च चन्दनं चागरुस्तथा ।
उशीरं रात्रिचूर्णं च तृतीयावरणे न्यसेत् ॥ १२.५८॥
चतुर्विंशतिद्रव्याणि सङ्ख्यान्येव हि कौशिक ।
मध्ये गुहं समावाह्य पार्श्वयोः शक्तिकं द्वयम् ॥ १२.५९॥
शकुन्याद्यष्टशक्तीश्च प्रथमावरणे यजेत् ।
इन्द्राद्यान् द्विजवर्णाद्यान् द्वितीयावरणे यजेत् ॥ १२.६०॥
शास्तारन्द्वादशादित्यान् तथैकादशरुद्रकान् ।
पूर्वादिषु क्रमेणैव तृतीयावरणे यजेत् ॥ १२.६१॥
अर्चयित्वा यथान्यायं स्थापयेच्छङ्करात्मजम् ।
वर्धनीद्वयतोयेन पूजयेच्छक्तिकाद्वयम् ॥ १२.६२॥
स्नापयेत्कलशैस्सर्वैर्यथापूर्वं सुरेश्वरम् ।
प्रोक्तमेकोनपञ्चाशत्स्नपनम्मुनिसत्तम ॥ १२.६३॥
अथैकाशीतिकलशस्थापनं वक्ष्यतेऽधुना ।
प्राक्सूत्रं रविसूत्रं स्यादुदक्सूत्रं तथैव च ॥ १२.६४॥
पञ्चविंशत्पदम्मध्ये गृहीत्वा तत्समं ततः ।
पदमेकं न्यसेद्बाह्ये द्वाराष्टकसमायुतम् ॥ १२.६५॥
स्थण्डिलङ्कारयेत्तत्र तिलतण्डुलशालिभिः ।
तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ १२.६६॥
स्कन्दकुम्भं न्यसेन्मध्ये तत्पार्श्वे वर्धनीद्वयम् ।
पाद्यमाचमनञ्चार्ध्यं गव्यं पूर्वादिदिक्षु च ॥ १२.६७॥
क्षीरं दधि घृतं चैव मध्वाज्यादिविदिक्षु च ।
अष्टद्रव्याणि मतिमान् प्रथमावरणे न्यसेत् ॥ १२.६८॥
मधु लाजान् हरिद्रांश्च शकृच्चूर्णञ्च कुष्ठकम् ।
इक्षुसारं च पनसं नारङ्गद्वयमेव च ॥ १२.६९॥
दाडिमी नालिकेरञ्च कदली मातुलुङ्गकम् ।
आम्रकच्चोलमुशिरं द्रव्याण्येतानि षोडश ॥ १२.७०॥
द्वितीयावरणे कुम्भेष्वाचार्यो विन्यसेत् क्रमात् ।
चन्दनं चैव कर्पूरं लवङ्गं जातिमेव च ॥ १२.७१॥
त्रुटिपत्रञ्च तक्कोलं कार्पासं पुष्पपत्रकम् ।
निम्बञ्च नवनीतञ्च मेघं चैव कुटं नटम् ॥ १२.७२॥
गुग्गुलुं चैव निर्यासं गुलखण्डं तथैव च ।
तिलं च सर्षपं चैव यवमुद्गं तथैव च ॥ १२.७३॥
प्रियङ्गुं चैव नीवारं चतुर्विंशतिसङ्ख्यकम् ।
द्रव्याण्येतानि मतिमान् तृतीयावरणे न्यसेत् ॥ १२.७४॥
अपामार्गं च तुलसीं पद्मनीलोत्पलं तथा ।
नन्द्यावर्तं च तक्कोलं करवीरं तपस्विनीम् ॥ १२.७५॥ (च तथा कोलं)
भूतं कुञ्जरपुन्नागं मन्दारं बहुकर्णिकम् । (मन्दारं बहुकर्णिका)
श्वेतार्कं केतकीपुष्पं विष्णुक्रान्ता बलिस्तथा ॥ १२.७६॥ (श्वेतार्कं शङ्खपुष्पं)
लक्ष्मी च सहदेवी च मालती जाति पुष्पकम् ।
सुगन्धी चम्पकं चैव पाटलं पूगमेव च ॥ १२.७७॥
अश्वत्थोदुम्बरं चैव लक्ष्मीवृक्षं वटं तथा ।
इन्द्रवल्ली महाद्रोणं स्थलारविन्दमीश्वरम् ॥ १२.७८॥
द्वात्रिंशत्परिसङ्ख्यानि द्रव्याण्येतानि कौशिक
चतुर्थावरणेष्वत्र पूर्वादिक्रमशो न्यसेत् ॥ १२.७९॥
द्रव्येष्वेतेषु तत्काले यथालाभं प्रगृह्य च ।
पूजयेन्मध्यमे स्कन्दं वर्धन्योः शक्तिकाद्वयम् ॥ १२.८०॥
शकुन्याद्यष्टशक्तीश्च प्रथमावरणे यजेत् ।
धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ॥ १२.८१॥
प्रत्यूषश्च प्रभावश्च वस्वादीन्यष्टकान् न्यसेत् ।
षट्शक्तीरष्टदेवांश्च द्वितीयावरणे यजेत् ॥ १२.८२॥
कार्तिकेयं विशाखञ्च गुहं चैव सुरान्तकम् ।
सेनानीः षण्मुखं चैव मयूरवाहनं तथा ॥ १२.८३॥
शक्तिपाणिनमीशानं कुम्भेषु च समर्चयेत् ।
वचद्भुवं विश्वभुवं ततो रुद्रभुवं तथा ॥ १२.८४॥
पश्चाद् ब्रह्मभुवं चैव भुवद्भुवमनन्तरम् ।
शक्तिं च मुसलङ्खङ्गं वर्मपाशमतः परम् ॥ १२.८५॥
वज्रञ्च कार्मुकं चैव खेटकञ्च मयूरकम् ।
अङ्कुशञ्च क्रमेणैव चतुर्विंशतिदैवतम् ॥ १२.८६॥
तृतीयावरणे मन्त्री तत्तन्नाम्ना समर्चयेत् ।
ईशानं चैव पर्जन्यो जयन्तश्च महेन्द्रकः ॥ १२.८७॥
आदित्यः सत्यकश्चैव भ्रंशश्चैवान्तरिक्षकः ।
अग्निः पूषा च विततो गृहक्षतयमौ तथा ॥ १२.८८॥
गन्धर्वो भृङ्गराजश्च मृगश्च निमतिस्तथा ।
दौवारिकश्च सुग्रीवः पुष्पदन्ताभिधानकः ॥ १२.८९॥
वारुणासुरशोषाश्च पापरक्षस्तथैव च ।
वायुवेगस्तथा मुख्यो भल्लाटः सोम एव च ॥ १२.९०॥
मृगश्चैवादितिश्चैव दितिरेव प्रकीर्तिता ।
द्वात्रिंशद्देवता बाह्ये चतुर्थावरणे यजेत् ॥ १२.९१॥
प्रणवादिनमोऽन्तश्च स्वस्वनामभिरर्चयेत् ।
स्कन्दकुम्भश्च वर्धन्यौ कृत्वा धामप्रदक्षिणम् ॥ १२.९२॥
अन्तः प्रविश्य कुम्भस्थं बीजं वै मूलबेरकम् ।
वर्धनीद्वितयम्बीजं यजेच्छक्तिद्वयेऽपि च ॥ १२.९३॥
स्नापयेत् सर्वकुम्भाद्भिः स्कन्दं गुरुर्यथाक्रमम् ।
अर्चनोक्तविधानेन पूजयेच्छङ्करात्मजम् ॥ १२.९४॥
प्रभूतहविषं दद्यात् प्रार्थयेदर्थमीप्सितम् ।
आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः ॥ १२.९५॥
ब्राह्मणान् भोजयेत् पश्चाद्दीनानाथांश्च पूजयेत् ।
एकोनाशीतिकलशं स्नपनं प्रोक्तमेव च ॥ १२.९६॥
पश्चादष्टोत्तरशतं स्नपनं वक्ष्यतेऽधुना ।
प्रागग्रन्तु कलासूत्रमुदगग्रं तथैव च ॥ १२.९७॥
पञ्चविंशत्पदं मध्ये परितो द्विपदं त्यजेत् ।
बाह्येषु च चतुर्दिक्षु मध्ये त्रित्रिपदं न्यसेत् ॥ १२.९८॥
द्वादशद्वारसंयुक्तं स्कन्दव्यूहस्य मध्यमे ।
आग्नेयादिषु चत्वारो व्यूहधर्मादयः क्रमात् ॥ १२.९९॥
त्रित्रिव्यूहाश्च कोणेषु एकविंशत्पदम्भवेत् ।
स्थण्डिलङ्कारयेत्तत्र तिलतण्डुलशालिभिः ॥ १२.१००॥
प्रत्येकं सर्वकुम्भानां मध्ये नलिनमालिखेत् ।
प्रागग्रैश्चोत्तराग्रैश्च व्यूहान् दर्भैः परिस्तरेत् ॥ १२.१०१॥
लक्षणालङ्कृतोपेतान् कलशान् स्थापयेत्सुधीः ।
मध्ये स्कन्दञ्च विन्यस्य वर्धन्या तस्य पार्श्वयोः ॥ १२.१०२॥
पाद्यमाचमनञ्चार्घ्यं गन्धं पूर्वादिदिक्षु च ।
दधिसर्पिर्मधुक्षीरं विदिक्षु प्रथमावृतौ ॥ १२.१०३॥
तिलं बिल्वं मलयजं मेघचम्पकमेव च ।
करवीरं सर्षपञ्च नागकेसरमेव च ॥ १२.१०४॥
तक्कोलं च फलं कुन्दं कच्चोलं लोहमेव च ।
लवङ्गपत्रं कर्पूरं विन्यसेच्च क्रमेण तु ॥ १२.१०५॥
द्रव्याणि षोडशैतानि द्वितीयावरणे पुनः ।
तृतीयावरणे सक्तुबाहौ कलशपञ्चसु ॥ १२.१०६॥
भसितं चैव नैरृत्यां कलशेषु च पञ्चसु ।
हारिद्रचूर्णं वायव्यां कलशेषु च पञ्चसु ॥ १२.१०७॥
शङ्खचूर्णं तथैशान्यां कलशेषु च पञ्चसु ।
धात्रीं च नालिकेरञ्च लिकुचं मातुलुङ्गकम् ॥ १२.१०८॥
वह्निकोणे तु मतिमान् कलशेषु च पञ्चसु ।
चतुर्थावरणे धीमान् विन्यसेन्मूलविद्यया ॥ १२.१०९॥
लक्ष्मीं च सहदेवीञ्च विष्णुक्रान्तिं तथैव च ।
रुद्रपर्णी च वन्ह्यादिकलशेषु नवस्वपि ॥ १२.११०॥
पञ्चमावरणेऽप्येवं विन्यसेत्तु क्रमेण तु ।
स्कन्दं यजेन्मध्यकुम्भे पार्श्वयोः शक्तिकाद्वयम् ॥ १२.१११॥
शकुन्याद्यष्टशक्तीश्च प्रथमावरणे यजेत् ।
इन्द्राद्यांश्च जयन्ताद्यान् द्वितीयावरणे यजेत् ॥ १२.११२॥
शास्तारं वास्तुनाथञ्च सुदेवसुमुखाह्वयम् ।
आग्नेयादिषु कोणेषु पञ्चपञ्चघटेषु च ॥ १२.११३॥
तृतीयावरणे मन्त्री पूजयेत्तु यथाक्रमम् ।
गङ्गां लक्ष्मीं च वाग्देवीं दुर्गां सप्तसु सप्तसु ॥ १२.११४॥
चतुर्थावरणे धीमानाग्नेयादिषु पूजयेत् ।
अग्निं सूर्यञ्चन्द्रमसं गुहास्त्रञ्च नवस्वपि ॥ १२.११५॥
पञ्चमावरणे वह्निकोणादिषु समर्चयेत् ।
गर्भगेहं ततः प्राप्य बेरशुद्धिं समाचरेत् ॥ १२.११६॥
स्कन्दकुम्भस्थतोयेन स्कन्दं सम्पूजयेद्गुहः ।
महावल्लीदेवसेनां वर्धन्यौ द्वौ प्रपूजयेत् ॥ १२.११७॥
स्थापितैः कलशैस्सर्वैः पूजयेच्छाम्भवं क्रमात् ।
प्रभूतहविषं दद्यात्प्रार्थयेदर्थमीप्सितम् ॥ १२.११८॥
आचार्यं पूजयेत्पश्चाद्गोभूमिधनवाहनैः ।
प्रोक्तमष्टोत्तरशतं स्नपनक्रममेव च ॥ १२.११९॥
अष्टोत्तरसहस्राख्यं स्नपनं वक्ष्यतेऽधुना ।
सूत्रैः प्रागादिकैर्भूमौ चत्वारिंशत् षडुत्तरैः ॥ १२.१२०॥
उदगग्रस्तथाशाल्यां शालिपिष्टरसान्वितैः ।
पञ्चविंशत्पदं मध्ये गृहीत्वा तद् बहिर्बुधः ॥ १२.१२१॥
मार्गाय द्विपदं लोप्य बहिः पञ्चपदं ग्रहेत् ।
तद्बहिर्द्विपदं लोप्य बहिः पञ्चपदं ग्रहेत् ॥ १२.१२२॥
द्विपदं लोप्य तद्बाह्ये विद्यते तु चतुष्पदम् ।
बहिर्वीथ्यान्तरालेषु कलशेषु पदेषु च ॥ १२.१२३॥
मार्गाय लोपयेद् विद्वान् तन्मध्ये तु चतुष्पदम् ।
चतुर्दिक्षु ततो मन्त्री कल्पयेत् कल्पवित्तमः ॥ १२.१२४॥
पञ्चविंशत्पदं व्यूहं पञ्चविंशद्भवेदिह ।
चतुष्कोणे षोडशभिः पदैर्व्यूहचतुष्टयम् ॥ १२.१२५॥
अष्टभिश्च पदैर्व्यूहैश्चत्वारिंशद्भवेद्बहिः ।
महाद्वाराष्टदशकं क्षुद्रद्वारं तु विंशतिः ॥ १२.१२६॥
अष्टोत्तरसहस्रेऽस्मिन् स्नपने षोडशावृतौ ।
वृत्तकुम्भमथो वक्ष्ये शृणु कौशिकसुव्रत ॥ १२.१२७॥
षट्त्रिंशद्गात्रसंयुक्ते मण्डपे चतुरश्रके ।
चतुर्गात्राष्टगात्राणि मध्ये पङ्क्तिविवर्जिते ॥ १२.१२८॥
श्रुतिद्वारसमायुक्ते सर्वालङ्कारसंयुते ।
मङ्गलाष्टकसंयुक्ते चतुस्तोरणभूषिते ॥ १२.१२९॥
दशायुधसमायुक्ते दर्भमालाभिरावृते ।
मण्डपे मध्यदेशे तु हस्तसूत्रान्तरं यथा ॥ १२.१३०॥
तथा पश्चिमपूर्वोक्तं युग्मसूत्रं प्रकल्पयेत् ।
दक्षिणोत्तरमार्गेण युग्मसूत्रं प्रसारयेत् ॥ १२.१३१॥
तन्मध्ये स्थापयेच्छङ्खंसमन्ताद्भ्रामयेत्ततः ।
तत्र षोडशसूत्राणि वृत्तवद्भ्रामयेत्सुधीः ॥ १२.१३२॥
तावत्सूत्रान्तरम्प्रोक्तं षोडशावरणं क्रमात् ।
द्वारार्थकं महाशासु द्वारसूत्राणि विन्यसेत् ॥ १२.१३३॥
स्वर्णालङ्कारयोर्मध्ये तिलतण्डुलशालिभिः ।
स्थण्डिलङ्कलशानान्तु कल्पयेत्कलशम्प्रति ॥ १२.१३४॥
प्रथमावरणे चाष्टौ षोडशं द्वितीयावृतौ ।
त्रयावृतौ चतुर्विंशद्द्वात्रिंशच्चतुरावृतौ ॥ १२.१३५॥
चत्वारिंशच्च कलशान् पञ्चमावरणे न्यसेत् ।
अष्टाचत्वारिंशतिकान् कलशान् षष्ठमावृतौ ॥ १२.१३६॥
षट्पञ्चाशद्घटान् पश्चात् सप्तमावरणे न्यसेत् ।
चतुःषष्टिघटान् पश्चादष्टामावरणे न्यसेत् ॥ १२.१३७॥
द्विसप्ततिघटान् पश्चान्नवमावरणे न्यसेत् ।
अशीतिसङ्ख्यान् कलशान् दशमावरणे न्यसेत् ॥ १२.१३८॥
अष्टाशीतिघटान् पश्चात् न्यसेदेकादशावृतौ ।
कलशान् षण्णवतिकान् द्वादशावरणे न्यसेत् ॥ १२.१३९॥
त्रयोदशावृतौ पश्चात् कुम्भान् चतुरशीतिकान् ।
घटान् द्विनवतीन्मन्त्री चतुर्दशमहावृतौ ॥ १२.१४०॥
कलशान् शतसङ्ख्यांश्च न्यसेत् पञ्चदशावृतौ ।
अष्टोत्तरशतान् कुम्भान् षोडशावरणे न्यसेत् ॥ १२.१४१॥
एवं विन्यस्य कलशान् अष्टोत्तरसहस्रकान् ।
रत्नलोहकधातूत्थं बीजोदं गन्धतोयकम् ॥ १२.१४२॥
मृन्मार्जनञ्चाद्युपरि मार्जनं पत्रपुष्पकम् । (मार्जनं पत्रपुष्पयुक्)
धान्यास्त्रं फलतोयञ्च कषायं मद्योदकं तथा ॥ १२.१४३॥
(मान्यास्त्रं फलतोयञ्च - *छन्दोभङ्गः)
कान्तमूलोदकम्ब्रह्मकूर्चङ्कल्काम्बुवल्कलम् ।
माणिक्कञ्चेन्द्रनीलञ्च वैडूर्यं च प्रवालकम् ॥ १२.१४४॥
मुक्ता वज्रं पुष्परागं स्फटिकं मरकतं तथा ।
नवरत्नानि निक्षिप्य अथवा पञ्चरत्नकम् ॥ १२.१४५॥
एभिर्युक्तं शुद्धतोयं रत्नोदकमुदीरितम् ।
सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् ॥ १२.१४६॥
आरकूटन्तु तैर्युक्तं लोहोदकमिति स्मृतम् ।
सौवीरमञ्जनं श्यामं हरितालं मनःशिलाम् ॥ १२.१४७॥
गैरिकं रोचनायुक्तं धातूदकमिति स्मृतम् ।
शालिकोद्रं च नीवारं प्रियङ्गुतिलसर्षपम् ॥ १२.१४८॥
श्याममाषयवैर्युक्तं बीजोदकमिहोच्यते ।
नवनीतं च कर्पूरं त्वगेलापत्रसंयुतम् ॥ १२.१४९॥
चन्दनं लघुकोष्ठं च वरालोशीरमुस्तकाः ।
कुङ्कुमं हरिबेरं च तक्कोलं जातिरेव च ॥ १२.१५०॥
एतेषां चूर्णसंयुक्तं गन्धोदकमिति स्मृतम् ।
पर्वते च नदीतीरे वल्मीके कर्कटे वटे ॥ १२.१५१॥
वृषशृङ्गेदर्भमूले समुद्रे गजदन्तयोः ।
अष्टमृद्भिस्समायुक्तं मृदम्भः परिकीर्तितम् ॥ १२.१५२॥
गोक्षीरं सहदेवीं च विष्णुक्रान्तं कृताञ्जलिम् ।
सर्षपेन्दीवरं रात्रिं एभिर्मार्जनमुच्यते ॥ १२.१५३॥
तुलसीं बिल्वपत्रञ्च तमालञ्च तपस्विनीम् ।
अपामार्गं शमीयुक्तं पत्रतोयमिहोच्यते ॥ १२.१५४॥
पद्मं रक्तोत्पलं पश्चात् पाटलं चम्पकं तथा ।
पुन्नागनागं कुरवं नन्द्यावर्तञ्च मल्लिकाम् ॥ १२.१५५॥
श्वेतार्कं वकुलैर्युक्तं पुष्पतोयमिहोच्यते ।
कुष्ठं कुटन्नटं लोहं चन्दनं कुङ्कुमं तथा ॥ १२.१५६॥
कर्पूरोशीरसंयुक्तं मान्योदकमिति स्मृतम् ।
वज्रं शक्तिं च मुसलं खड्गं पाशाङ्कुशं धनुः ॥ १२.१५७॥
चक्रं खेटध्वजं स्वर्णनिर्मितान्यायुधानि च ।
एभिर्युक्तं शुद्धतोयमस्त्रोदकमिति स्मृतम् ॥ १२.१५८॥
पनसो नालिकेरश्च मातुलुङ्गाम्रवृक्षकौ ।
नारङ्गद्वयमेतेषां फलैर्युक्तं फलोदकम् ॥ १२.१५९॥
पलाशोदुम्बराश्वत्थमधूकप्लक्षपाटलाः ।
जम्बुरेषां समत्वग्भिः कषायोदकमुच्यते ॥ १२.१६०॥
अभ्यङ्गत्रितयं पश्चात् माक्षिकत्रितयं तथा ।
गन्धत्रयसमायुक्तं मध्यतोयमिति स्मृतम् ॥ १२.१६१॥
सूर्यकान्तमयःकान्तं चन्द्रकान्तत्रयं तथा ।
एभिश्च पञ्चकैर्युक्तं कान्ततोयमिति स्मृतम् ॥ १२.१६२॥
उशीरो हरिबेरं च पुष्पकं च शतावरी ।
श्रीपर्णं पञ्चभिर्मूलैर्मूलोदकमिति स्मृतम् ॥ १२.१६३॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।
एभिर्द्रव्यैः समायुक्तं ब्रह्मकूर्चमिति स्मृतम् ॥ १२.१६४॥
मयूरशिखिकूर्चत्वक्रोचनाभृङ्गराजकम् ।
कृताञ्जलिः पञ्चभिश्च कल्कोदकमिति स्मृतम् ॥ १२.१६५॥
लोध्रद्वयं लवङ्गं च भूर्जत्वक्चूतवृक्षकः ।
एभिस्त्वग्भिः समायुक्तं वल्कोदकमिति स्मृतम् ॥ १२.१६६॥
अग्निकोणक्रमात्तैलं क्षीरं दधि घृतं न्यसेत् ।
चत्वारिंशद्व्यूहकेषु कलशद्रव्यमुत्तमम् ॥ १२.१६७॥
विंशद्भेदोदकं प्रोक्तं द्रव्याणां च विधिं शृणु ।
वरालत्रुटिकर्पूरत्वगेलोशीरकादयः ॥ १२.१६८॥
स्कन्दकुम्भस्य वर्धन्योर्मध्यमेषु च विन्यसेत् ।
पाद्यमाचमनं चार्घ्यं पञ्चगव्यं कुशोदकम् ॥ १२.१६९॥
क्षीरन्दधिघृतान्यष्टौ प्रथमावरणे न्यसेत् ।
क्षौद्रं गुलं यवं कोष्ठं तिलं रम्भाफलं तथा ॥ १२.१७०॥
सर्षपं नालिकेरञ्च रजनीमातुलुङ्गकम् ।
लाजदाडिमसक्तूनि पनसं पद्मचूतकम् ॥ १२.१७१॥
न्यसेद्द्वितीयावरणे द्रव्याण्येतानि षोडश ।
रक्तोदकं लोहतोयं तृतीयावरणे न्यसेत् ॥ १२.१७२॥
धातूदकं बीजभवं चतुर्थावरणे न्यसेत् ।
गन्धोदकं मृदम्भश्च पञ्चमावरणे न्यसेत् ॥ १२.१७३॥
मार्जनम्परिमार्जं च षष्ठमावरणे न्यसेत् ।
पत्रोदं पुष्पतोयञ्च सप्तमावरणे न्यसेत् ॥ १२.१७४॥
मान्योदमस्त्रतोयञ्चाप्यष्टमावरणे न्यसेत् ।
नवावृतौफलोदञ्च कषायोदं दशावृतौ ॥ १२.१७५॥
मद्योदमेकादशके कान्तोदं द्वादशावृतौ ।
त्रयोदशावृतौ धीमान् मूलोदकमथार्चयेत् ॥ १२.१७६॥
चतुर्दशावृतौ पश्चात् ब्रह्मकूर्चं जलं क्षिपेत् ।
कल्कोदकं न्यसेद्धीमान् तथा पञ्चदशावृतौ ॥ १२.१७७॥
षोडशावरणे सम्यकू न्यसेद्वल्कोदकम्बुधः ।
वज्रं समस्तरत्नानां लोहानामग्निदैवतम् ॥ १२.१७८॥
धातूनां हरितालं च बीजानां यवमुत्तमम् ।
चन्दनं सर्वगन्धानां मृदं दर्भस्य मूलजम् ॥ १२.१७९॥
मार्जनीरजनीचर्णदूर्वा च परिमार्जने ।
बिल्वपत्रं च पत्राणां पुष्पाणामुत्पलं स्मृतम् ॥ १२.१८०॥
मान्योदके च कर्पूरमस्त्राणां शक्तिरेव च ।
फलानां कदलीजातं त्वचामश्वत्थसम्भवा ॥ १२.१८१॥
फलत्रयं मद्यतोये कान्तानां सूर्यकान्तकम् ।
कुटन्नटश्च मूलानां गोमूत्रं ब्रह्मकूर्चके ॥ १२.१८२॥
कल्कोदके भृङ्गराजं वल्कानां लोध्रवल्कले ।
सहदेव्यौषधीनां च सिताभावे गुलं स्मृतम् ॥ १२.१८३॥
फलपुष्पाद्यभावे तु तत्पत्रादिकमेव च ।
द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ॥ १२.१८४॥
विधाय बीजं मुख्येन पल्लवैर्वा शरावकैः ।
दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ॥ १२.१८५॥
शुभानि सर्ववर्णानि कृष्ण वस्त्राणि वर्जयेत् ।
गन्धं स्वनाममन्त्रेण पुष्पं धूपं तथैव च ॥ १२.१८६॥
कुमारस्वामिनां मध्ये कुम्भे संस्थाप्य पूजयेत् ।
दक्षिणायां तु वर्धन्यां महावल्लीं प्रपूजयेत् ॥ १२.१८७॥
उत्तरायां तु वर्धन्यां महासेनां प्रपूजयेत् ।
शकुन्याद्यष्टशक्तीश्च प्रथमावरणे न्यसेत् ॥ १२.१८८॥
जयन्ताख्यमग्निशिखं कृत्तिकापुत्रसंज्ञकम् ।
अनन्तरम्भूतपतिं सेनान्यं गुहसंज्ञकम् ॥ १२.१८९॥
हेमशूलं विशालाक्षं पूर्वादिक्रममेव च ।
द्वितीयावरणे धीमान् द्विवारं सम्यगर्चयेत् ॥ १२.१९०॥
पृथिव्यादिप्रकृत्यन्तं तत्त्वानीह त्रयोवृतौ ।
चतुर्वारं वसून्मन्त्री चतुर्थावरणे यजेत् ॥ १२.१९१॥
गङ्गां च यमुनां चैव नर्मदां च सरस्वतीम् ।
सिन्धुं गोदावरीं चैव कावेरीं कुमरीं तथा ॥ १२.१९२॥
पञ्चवारं यजेद्धीमान् पञ्चमावरणे क्रमात् ।
अनन्तं वासुकिं चैव तक्षं कार्कोटकं तथा ॥ १२.१९३॥
शङ्खं पद्मं महापद्मं गुलकं षष्ठमावृतौ ।
षड्वारं पूजयेद्विद्वान् पूर्वादिषु पुनः पुनः ॥ १२.१९४॥
भूरादिसप्तलोकानां दैवतानि पुनः पुनः ।
अष्टवारं यजेद्धीमान् सप्तमावरणे क्रमात् ॥ १२.१९५॥
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तभैरवः ।
कपाली भीषणश्चैव संहारश्चाष्टभैरवः ॥ १२.१९६॥
अष्टवारं यजेदेतान् अष्टमावरणे क्रमात् ।
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ॥ १२.१९७॥
मुकुन्दः कुन्दनीलाश्च वाराश्च निधयो नव ।
अष्टवारं यजेत्पश्चान्नवमावरणे तथा ॥ १२.१९८॥
क्ष्मावह्नियजमानार्कजला वातेन्दुखानि च ।
अष्टमूर्तीन्न्यसेदेतान्दशवारं दशावृतौ ॥ १२.१९९॥
महादेवश्शिवो रुद्रः शङ्करो नीललोहितः ।
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ १२.२००॥
कपाल्येकादशाख्याता रुद्रा एकादशावृतौ ।
अष्टवारं यजेदेतान्पूर्वादिकलशेषु च ॥ १२.२०१॥
वैवस्वतो विवस्वांश्च मार्ताण्डो भास्करो रविः ।
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः ॥ १२.२०२॥
आदित्यश्चैव सूर्यश्च अंशुमाली दिवाकरः ।
द्वादशावरणे मन्त्री पूजयेदष्टवारकम् ॥ १२.२०३॥
लवणेक्षुस्तथा क्षीरं दधिस्वादुसरित्पतिम् ।
सुराभिर्घृतसिन्धुश्च पूज्या द्वादशवारकम् ॥ १२.२०४॥
त्रयोदशावृतौ मन्त्री पूर्वादिकलशेषु च ।
चतुर्वेदान्यजेन्मन्त्री त्रयोविंशतिवारकम् ॥ १२.२०५॥
चतुर्दशावृतौ सम्यग्गन्धपुष्पादिभिर्यजेत् ।
इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ १२.२०६॥
सोमेशो ब्रह्मगोविन्दः पूजनीयास्तथैव च ।
दशवारं च गुरुणा तथा पञ्चदशावृतौ ॥ १२.२०७॥
ग्रहान्भास्करमुख्यांश्च यजेद्द्वादशवारकम् ।
षोडशावरणे मन्त्री पूजयेत्तु यथाक्रमम् ॥ १२.२०८॥
गन्धपुष्पादिभिश्चैव पूजयेत्स्वस्वनामतः ।
वालुकैश्च महाशासु स्थण्डिलङ्कल्पयेद्बुधः ॥ १२.२०९॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमार्गतः ।
समिदन्नघृतैस्स्कन्दं मूलब्रह्मषडङ्गकैः ॥ १२.२१०॥
प्रत्येकन्तु शतं हुत्वा स्कन्दगायत्रिमन्त्रतः ।
जगद्भुवादिषण्मन्त्रैः षड्वारं होमयेत्सुधीः ॥ १२.२११॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ।
यदस्येति ततो हुत्वा पूर्णाहुतिमथाचरेत् ॥ १२.२१२॥
मध्ये कुम्भं च वर्धन्यौ कृत्वा धामप्रदक्षिणम् ।
गर्भगेहं प्रविश्याथ बेरशुद्धिमथाचरेत् ॥ १२.२१३॥
स्कन्दबीजं ततोद्धृत्य बेरस्य हृदि विन्यसेत् ।
तत्कुम्भस्थिततोयेन पूजयेच्छङ्करात्मजम् ॥ १२.२१४॥
दक्षिणस्थितवर्धन्यां महावल्लीं प्रपूजयेत् ।
उत्तरस्थितवर्धन्यां देवसेनां प्रपूजयेत् ॥ १२.२१५॥
स्थापितान्कलशान्सर्वानुद्धृत्य च यथाक्रमम् ।
सर्वदेवात्मकं स्कन्दं पूजयेद्द्विधिपूर्वकम् ॥ १२.२१६॥
अर्चनोक्तविधानेन पूजयेदम्बिकासुतम् ।
महाहविर्निवेद्याथ ताम्बूलादिविशेषतः ॥ १२.२१७॥
यथेप्सितं प्रार्थयित्वा नमस्कृत्य यथाविधि ।
आचार्यं पूजयेत्पश्चात् गोभूमिधनकाञ्चनैः ॥ १२.२१८॥
अधमं पञ्चनिष्कन्तु द्विगुणं मध्यमं भवेत् ।
त्रिगुणं चोत्तमं विद्याद्देशिकस्य तु दक्षिणा ॥ १२.२१९॥
भक्तांश्च परिवारांश्च दीनानाथांश्च पूजयेत् ।
ब्राह्मणान् भोजयेत् पश्चाद्वित्तशाढ्यं न कारयेत् ॥ १२.२२०॥
एवं यः कुरुते मर्त्यः सर्वपापैः प्रमुच्यते ।
विद्याकामो लभेद्द्विद्यां धनकामो धनं लभेत् ॥ १२.२२१॥
राज्यकामो लभेद्राज्यं जयकामो जयं लभेत् ।
सर्वान् कामानिह प्राप्य कौमारं लोकमाप्नुयात् ॥ १२.२२२॥
इति श्री कुमारतन्त्रे स्नपनविधिर्नामद्वादशः पटलः ।