११ दीक्षाविधिः

अतः परं प्रवक्ष्यामि गुहदीक्षाविधिं परम् ।
सर्वपापहरम्पुण्यं सर्वकामफलप्रदम् ॥ ११.१॥

शिवदीक्षाविधेः पश्चात् गुहदीक्षाञ्च कारयेत् ।
सर्वालङ्कारसंयुक्तं स्नानं कौशेयकोज्ज्वलम् ॥ ११.२॥

त्रिपुण्ड्रधारणं शिष्यं हृदा प्रोक्ष्यार्घ्यवारिणा ।
नेत्रं नेत्रेण मतिमान् बन्धयेच्छ्वेतवस्त्रतः ॥ ११.३॥

हृदयेन तु मन्त्रेण दश जप्त्वा सलक्षणम् ।
पूर्वद्वारन्तु विप्राणां क्षत्रियाणां तु दक्षिणम् ॥ ११.४॥

वैश्यानां पश्चिमद्वारं शूद्राणां द्वारमुत्तरम् ।
अन्येषामपि वर्णानां पश्चिमद्वारमुत्तमम् ॥ ११.५॥

शिष्यमन्तः प्रविश्याथ प्रणवेन तु मन्त्रतः ।
दर्भासनम्प्रकुर्याच्च देशिकस्य तु दक्षिणे ॥ ११.६॥

मुमुक्षोरुत्तरं वक्त्रं बुभुक्षोः पूर्वतोमुखम् ।
शिष्यं स्थित्वा च मतिमान् कुर्याद्दीक्षां गुरूत्तमः ॥ ११.७॥

स्कन्दस्य मूलमन्त्रञ्च षडक्षरमतः परम् ।
स्कन्दबीजेन संयुक्तं पञ्चब्रह्मषडङ्गकम् ॥ ११.८॥

ईशानम्मूर्ध्नि विन्यस्य मुखे तत्पुरुषं यजेत् ।
अघोरं हृदि विन्यस्य गुह्ये वामं न्यसेद् बुधः ॥ ११.९॥

सद्योजातं न्यसेत् पादे शिष्यदेहे विचक्षणः ।
हृदयं हृदि विन्यस्य शिरः शिरसि विन्यसेत् ॥ ११.१०॥

शिखायां तु शिखां न्यस्य कवचः स्तनमध्यतः ।
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रद्वये न्यसेत् ॥ ११.११॥

सर्वेषामेव वर्णानामेवं कुर्याद्गुरूत्तमः ।
द्विजादीनां विशेषोऽस्ति वचद्भूरादिमन्त्रतः ॥ ११.१२॥

शिरोवदनहृन्नाभिगुह्यपादेषु विन्यसेत् ।
अयं कुमारमन्त्रञ्च पुनर्मूर्ध्नि च विन्यसेत् ॥ ११.१३॥

मालामन्त्रञ्च सर्वाङ्गे विन्यसेन्मन्त्रवित्तमः ।
माते कुमारमन्त्रञ्च हृदये विन्यसेद्बुधः ॥ ११.१४॥

पुनश्च तोयसंयुक्तं मण्डले तु विपास्य च ।
यस्मिन् मन्त्रे पठेत्पुष्पं नामगोत्रं तथात्मकम् ॥ ११.१५॥

दक्षिणां तु गुरोर्दत्त्वा शिष्यो वित्तानुसारतः ।
गुहदीक्षां च यः कुर्यात् गुहप्रीतिकरां गुहम् ।
भुक्त्वा भोगांश्च देहान्ते कौमारं लोकमाप्नुयात् ॥ ११.१६॥

इति श्रीकुमारतन्त्रे दीक्षाविधिर्नाम एकादशःपटलः ।