१० मण्डलविधिः

अतः परं प्रवक्ष्यामि मण्डलस्य विधिं श‍ृणु ।
दीक्षायां तु प्रतिष्ठायां पवित्रारोपणेऽपि च ॥ १०.१॥

उत्सवेऽपि च तत्त्वज्ञः पूजयेन्मण्डले गुहम् ।
चतुरश्रं ततो मध्ये षड्दलं पद्ममालिखेत् ॥ १०.२॥

कर्णिकां च त्रिभागैकं पीतवर्णेन कारयेत् ।
श्वेतं पीतं च रक्तं च स्फटिकं श्यामवर्णकम् ॥ १०.३॥

एतैर्वर्णैश्च मतिमान् षड्दलानि च पूरयेत् ।
रजोभिर्विविधैर्वर्णैर्यथाशोभं विभूषयेत् ॥ १०.४॥

मूलेनावाहयेन्मध्ये देवीभ्यां सह षण्मुखम् ।
आसनावरणाद्यैश्च मण्डले पूजयेत् ततः ॥ १०.५॥

श्रीभद्रमण्डलमिदं सुब्रह्मण्यात्मकं शुभम् ।
विप्रादीनां तु सर्वेषां वर्णानां तु प्रशस्तकम् ॥ १०.६॥

गुहदीक्षां ततः कुर्यादेतन्मण्डलसन्निधौ ।
मण्डलेन विधानेन स्कन्दकर्म करोति यः ॥ १०.७॥

नैतत्फलमवाप्नोति साधकेमन्त्रवानपि ।
तस्मात्तत्कर्मसिद्ध्यर्थं मण्डलं कारयेद्बुधः ॥ १०.८॥

इति श्रीकुमारतन्त्रे मण्डलविधिर्नाम दशमः पटलः ।