अतः परं प्रवक्ष्यामि कुण्डानां लक्षणं शृणु ।
शतार्धं शतहोमं तु मुष्ट्यारत्नियुतं भवेत् ॥ ९.१॥
सहस्रायुतहोमं तु हस्तं हस्तद्वयं क्रमात् ।
कोट्याहुतावष्टहस्तं तदूर्ध्वं नैव कारयेत् ॥ ९.२॥
मात्राङ्गुलेन कर्तव्यं विस्तारस्य पदं समम् ।
कुण्डं त्रिमेखलोपेतमेकमेखलमेव च ॥ ९.३॥
वेदाद्युगाङ्गुलं प्रोक्तं मेखलानां तथोन्नतम् ।
योनिं कुर्यात्तदूर्ध्वे तु गजोष्ट्राकृतिवद्बुधः ॥ ९.४॥
वेदाङ्गुलं तु विस्तारमायामं तु षडङ्गुलम् ।
क्रमेण कृशतां याति तारत्रयांशमुन्नतम् ॥ ९.५॥
नाभिं पद्माकृतिं कुर्यात्कुण्डमध्ये विचक्षणः ।
षडङ्गुलं तु विस्तारं तृतीयांशं समुन्नतम् ॥ ९.६॥
योनौ योनिर्न कर्तव्यं पद्मे नाभिं न कारयेत् ।
कोणेषु च न कुर्यात्तु नाभिं तस्याग्निसम्मुखम् ॥ ९.७॥
यदाकाराणि कुण्डानि तदाकारास्तु मेखला ।
वेदाश्रं योनिचापाश्रं त्र्यश्रं वृत्तं षडश्रकम् ॥ ९.८॥
पद्ममष्टारकं दिक्षु षडश्रं तु प्रधानकम् ।
पूर्वाग्रं गणसूत्रं च दक्षिणोत्तरमेव हि ॥ ९.९॥
चतुष्पदमिदं सम्यक् तत्कुण्डं चतुरश्रकम् ।
क्षेत्रांशं दशधा कृत्वा दिग्भागं पूर्वतो न्यसेत् ॥ ९.१०॥
पुनःकोणेषु वेदांशाद्भ्रामयेत्कोणकावधि ।
सूत्रद्वयं प्रयोगाच्च योन्याकारं भवेदिदम् ॥ ९.११॥
व्यासेऽष्टांशाद्द्व्यंशमग्रं पार्श्वयोर्न्यस्य मध्यमात् ।
भ्रामयेत्पार्श्वपर्यन्तं तत्कुण्डं चार्थचान्द्रकम् ॥ ९.१२॥ (चार्थचन्द्रकं)
क्षेत्रषड्भागके न्यस्य भागैकं त्वथ पार्श्वयोः ।
तन्मानेन त्रिसूत्रेण त्रिकोणं कुण्डमीरितम् ॥ ९.१३॥
न्यासेऽष्टादशभागांशाद्बहिर्विन्यस्य बुद्धिमान् ।
तदश्रं भ्रामयेद्धीमान् वृत्तकुण्डं भवेदिदम् ॥ ९.१४॥
क्षेत्रवेदांशपादांशं द्व्यंशं विन्यस्य पार्श्वयोः ।
तस्मात्क्षेत्रार्धमानं तु पार्श्वयोस्तद्द्विमस्तकम् ॥ ९.१५॥
कृत्वा तेनैव षट्सूत्रं न्यसेत् षट्कोणकुक्षिकम् ।
कर्णिकादलसंयुक्तं पद्मकुण्डं तु वृत्तवत् ॥ ९.१६॥
व्यासे वेदरसांशांशं बहून्न्यस्त्वा समन्त्रतः ।
कोणार्धं कोणके लिख्य वस्वश्रं वसुसूनता ॥ ९.१७॥
मानहीने महाव्याधिरधिके शत्रुवर्धनम् ।
भेदे महद्भयं प्रोक्तं स्फुटिते सस्यनाशनम् ।
तस्मात्सर्वप्रयत्नेन कुण्डं कुर्यात्सलक्षणम् ॥ ९.१८॥
इति श्रीकुमारतन्त्रे कुण्डलक्षणविधिर्नाम नवमः पटलः ।