०८ नित्योत्सवविधिः

अतः परं प्रवक्ष्यामि नित्योत्सवविधिक्रमम् ।
सर्वलोकहितार्थाय भूपतेर्विजयाय च ॥ ८.१॥

स्वर्णेन रजतेनैव कारयेत्ताम्रकेण वा ।
उत्तमं षोडशाङ्गुल्यं मध्यमं द्वादशाङ्गुलम् ॥ ८.२॥

अधमं दशाङगुलं ज्ञेयं बलिपात्रस्य विस्तरम् ।
ओष्ठमेकाङ्गुलं प्रोक्तं निम्नोन्नतविवर्जितम् ॥ ८.३॥

विस्तारं हि त्रिभागैकं पद्ममष्टदलं भवेत् । (पद्ममष्टदलं लिखेत्)
कर्णिकान्तं त्रिभागैकं कारयेत्तु मनोहरम् ॥ ८.४॥

एवं पात्रं तु सङ्ग्राह्य विन्यसेन्मण्डपोत्तरे ।
प्रोक्षयेद्धृदयेनैव बलिपात्रं सलक्षणम् ॥ ८.५॥

प्रातर्मध्याह्नसायाह्ने पुष्पार्घ्यं तु कनीयसम् ।
प्रातर्मध्याह्नयोरन्नं सायेत्वर्घ्यं तु मध्यमम् ॥ ८.६॥

त्रिकालेष्वन्नलिङ्गं चेत् उत्तमञ्चेति कीर्तितम् ।
उत्सेधं द्वादशाङ्गुल्यं नाहं द्व्यङ्गुलमुच्यते ॥ ८.७॥

अग्रं पक्षाङ्गुलं द्वारं गन्धमाल्यैरलङ्कृतम् ।
तस्मिन् सम्पूजयेच्छक्तिं गुहास्त्रममितौजसम् ॥ ८.८॥

इन्द्रादीशानपर्यन्तं शकुन्याद्याः प्रपूजयेत् ।
मूलबेरं त्रिभागैकमुत्तमं बलिबेरकम् ॥ ८.९॥

द्वित्वाङ्गुलविहीनेन मध्यमाधममुच्यते ।
सुब्रह्मण्यस्वरूपं वा स्कन्दरूपमथापि वा ॥ ८.१०॥

एकवक्त्रं चतुर्बाहुं कमण्डल्वक्षधारिणम् ।
कटिबन्धाभययुतं त्वथवा वरदाभयम् ॥ ८.११॥

सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
शक्त्येकया युतं वापि शक्तिद्वययुतं तु वा ॥ ८.१२॥

इत्थं रूपं मुनिश्रेष्ठ कारयेद्बलिबेरकम् ।
वस्त्राभरणगन्धाद्यैरलङ्कृत्य च पुष्पकैः ॥ ८.१३॥

नागाश्वरथरङ्गे वा शिबिकायां प्ररोपयेत् ।
सोष्णीषैः सोत्तरीयैश्च सोपवीतैः सुवस्त्रकैः ॥ ८.१४॥

मौनव्रतधरैर्विप्रैर्धारयेद्बलिबेरकम् ।
पादुकां लक्षणोपेतां वस्त्राद्यैरुपशोभिताम् ॥ ८.१५॥

अस्त्रेण प्रोक्ष्य तस्यां तु मयूरं सम्प्रपूजयेत् ।
सुस्नातया गणिकया धारयेच्च सुवाससा ॥ ८.१६॥

छत्रं ध्वजसमायुक्तं पिञ्च्छचामरसंयुतम् ।
नानावाद्यसमायुक्तं नानागेयसमन्वितम् ॥ ८.१७॥

नानादीपसमायुक्तं नानाभक्तजनैर्युतम् ।
पूर्वाह्ने द्विजवृद्धिः स्यान्मध्याह्ने राजवृद्धिदम् ॥ ८.१८॥

रात्रौ विट्शूद्रवृद्धिः स्याद्बलिबेरस्य यानतः ।
भेरी मुरवसंयुक्तं प्रथमं वै प्रदक्षिणम् ॥ ८.१९॥ (मुरजःसंयुक्तं)

वरनृत्तं द्वितीयस्य गीतेन त्रिःप्रदक्षिणम् ।
ब्रह्मस्थाने मुनिश्रेष्ठ ब्रह्मणस्तालसंयुतम् ॥ ८.२०॥

ऐन्द्रे तु समतालं स्यादग्नौ सावरणं भवेत् ।
याम्यायां भृङ्गिणीतालं नैरृत्यां मल्लतालकम् ॥ ८.२१॥

वारुण्यां नवतालं स्यात् वायव्यां बलितालकम् ।
सोमे कौशिकतालं स्यादैशान्यां ढक्करी भवेत् ॥ ८.२२॥

प्रदक्षिणत्रयस्यैवं भूर्भुवःस्वः क्रमादिह ।
सर्वेषां प्राणिनां सम्यक् बलदा बलिरुच्यते ॥ ८.२३॥

गोपुरद्वारमागत्य शङ्खघोषसमन्वितम् ।
ततःपुरःस्थिते पद्मे त्रिःप्रदक्षिणमाचरेत् ॥ ८.२४॥

शनैःप्रदक्षिणं कुर्यान्महापातकनाशनम् ।
उत्सवे बलिकाले च यः करोति प्रदक्षिणम् ॥ ८.२५॥

पदे पदेऽश्वमेधस्य फलं प्राप्नोतिमानवः ।
द्वारिनीराजनं कृत्वा प्रविशेदालयं ततः ॥ ८.२६॥

पादौ प्रक्षाल्य मतिमान् पादुकां शिखिदेवताम् ।
पाद्यादिभिः समभ्यर्च्य बहिर्गायत्रिमन्त्रतः ।
विन्यसेत्पूर्वदेशे तु धूपदीपं प्रदापयेत् ॥ ८.२७॥

बलिबेराकृतिं देवं विन्यसेन्मूलबेरके ।
एवं यः कुरुते नित्यं कौमारं लोकमाप्नुयात् ॥ ८.२८॥

इति श्रीकुमारतन्त्रे नित्योत्सवविधिर्नामाष्टमः पटलः ।