०७ अग्निकार्यविधिः

अग्निकार्यविधिं वक्ष्ये श‍ृणु कौशिक सुव्रत ।
कुण्डे वा स्थण्डिले वापि होमं कुर्याद्विचक्षणः ॥ ७.१॥

गोमयालिप्य वस्त्राद्यैरलङ्कृत्य मनोहरैः ।
होमद्रव्याणि पात्राणि सम्पाद्य विविधानि च ॥ ७.२॥

लब्धानुज्ञो विशेत् कुण्डं पश्चिमेवाथ दक्षिणे ।
पुण्याहवाचनं कुर्यात् मूर्तिपैः सह देशिकः ॥ ७.३॥

निरीक्षणं प्रोक्षणं च ताडनं चास्त्रमन्त्रतः ।
वर्मणाभ्युक्ष्य चास्त्रेण खननं चावकीरणम् ॥ ७.४॥

हृदापूर्य समाकृष्य वर्मणा सेचयेद् गुरुः ।
अस्त्रेण कुट्टनं चर्म मार्जनालेपने तथा ॥ ७.५॥

मध्यादिपश्चिमान्तेषु शान्त्यातीतादयः कलाः ।
विन्यस्य वर्मणा कुण्डे सूत्रत्रयेण वेष्ट्य च ॥ ७.६॥

कलामयाय कुण्डाय नम इत्यर्चयेद्बुधः ।
रेखात्रयमुदीच्यन्तं प्राच्यन्तं त्वेकरेखया ॥ ७.७॥

अस्त्रेणैव समुल्लिख्य तेन वज्रीकृतं नयेत् ।
पूर्वोदगग्रदर्भाभ्यां हृदा कृत्वा चतुष्पदम् ॥ ७.८॥

इत्यष्टादशसंस्कारं कृत्वा कुण्डाक्षिपाटनम् ।
कवचेन चतुर्दर्भान् तत्कुण्डे विन्यसेद्गुरुः ॥ ७.९॥

कुण्डमध्ये हृदा विद्वान् विष्टरं विन्यसेद्बुधः ।
नाभिमध्ये तु वागीशीं नीलोत्पलदलप्रभाम् ॥ ७.१०॥

ऋतुस्नातां सकूर्चस्थां ध्यायेत् तन्मूलमन्त्रतः ।
वागीश्वरौ समभ्यर्च्य कुण्डस्याग्रेऽग्निपात्रकम् ॥ ७.११॥

निधाय चास्त्रमन्त्रेण क्रव्यादांशं परित्यजेत् ।
भौतिकं बैन्दवं जाठराग्निमेकाकृतिं नयेत् ॥ ७.१२॥

त्रिवारं भ्राम्य तत्कुण्डं त्वग्निपात्रं च बुद्धिमान् ।
वागीशीगर्भनाड्यायां वागीशेन निषिञ्चितम् ॥ ७.१३॥

हृदा बध्वा त्रुटीकृत्य तयोराचमनं ददेत् ।
वर्मणेन्धनमाच्छाद्य प्रज्वाल्यास्त्रेण पूजयेत् ॥ ७.१४॥

दर्भकङ्कणमस्त्रेण दक्षिणे मेखलोपरि ।
तस्य वामकरं ध्यात्वा रक्षार्थं च निधाय वै ॥ ७.१५॥

सद्योजातेन सम्पूज्य गर्भाधानं हृदा चरेत् ।
तिलाहुतित्रयेणैव पश्चात् पुंसवनक्रियाम् ॥ ७.१६॥

वामदेवेन शिरसा समभ्यर्च्य हुनेत्तिलाम् ।
सीमन्तं बहुरूपेण शिखया चैव कारयेत् ॥ ७.१७॥

जातकर्मशिरोमन्त्रैः कवचेन च कारयेत् ।
अस्त्रेण प्रोक्ष्य तत्कुण्डं दर्भकङ्कणकं त्यजेत् ॥ ७.१८॥

दर्भान् पूर्वोदगग्रांश्च तन्मध्ये मेखलासु च ।
विष्टरान् तत्र परिधीन् विन्यसेदनुपूर्वशः ॥ ७.१९॥

मेखलोर्ध्वे चतुर्दिक्षु चतुर्वेदान् प्रपूजयेत् ।
इन्द्रादिलोकपालांश्च विष्टरे स्वस्वदिक्षु च ॥ ७.२०॥

स्रुक्स्रुवौ च घृतस्थालीं प्रणीतां प्रोक्षणीं तथा ।
समित्कूर्चं चरुं दर्वीं दर्भांश्चैव कमण्डलुम् ॥ ७.२१॥

द्रव्यपात्राणि सर्वाणि न्यसेद् वामे कुशोपरि ।
अधोमुखानि पात्राणि द्वन्द्वरूपाणि साधयेत् ॥ ७.२२॥

प्रोक्षणीपात्रमादाय जलेनैव प्रपूरयेत् ।
वितस्तिमात्रदर्भाग्रं मध्यग्रन्थिपवित्रकम् ॥ ७.२३॥

अङगुष्ठानामिकाभ्यां च उदकोत्प्लवनं चरेत् ।
पात्रप्रोक्षणकं कृत्वा पात्रसाधनमाचरेत् ॥ ७.२४॥

स्रुक्स्रुवौ च हृदाचार्यःघृतसंस्कारमाचरेत् ।
नाडीसन्धानकं कृत्वा चाज्यभागाहुतिं हुनेत् ॥ ७.२५॥

परिषिच्य ततो वह्निं मूलेनेध्मान् सकृद्धुनेत् ।
सद्यात्मकैकमन्त्रेण होमयेत् वक्त्रदीपनम् ॥ ७.२६॥

वक्त्रसन्धानकं कृत्वा वक्त्रैकीकरणं हुनेत् ।
नामकर्म ततोऽस्त्रेण घतं पञ्चाहुतिं हुनेत् ॥ ७.२७॥

शिवाग्ने त्वं हुताशेति नाम दद्याद् विचक्षणः ।
उपनिष्क्रामणं पश्चाच्छिरसा कारयेद्बुधः ॥ ७.२८॥

प्राशनं हृदयेनैव चौलकर्म शिवाणुना ।
हृदोपनयनं कृत्वा पश्चाद्देशिकसत्तमः ॥ ७.२९॥

प्राधान्यं होमकर्माणि मूलमन्त्रेण होमयेत् ।
तत् कुण्डाग्निं विभज्याथ सर्वकुण्डेषु निक्षिपेत् ॥ ७.३०॥

शिवाग्नयेति जुहुयात् प्रत्येकं शतसङ्ख्यया ।
आसनावरणैर्धीमान् सेनान्यं पूजयेत्ततः ॥ ७.३१॥

यद्रूपं तु प्रतिष्ठाप्य तत्तु ध्यानेन बुद्धिमान् ।
कार्तिकेयो विशाखश्च गुहश्चैव सुरान्तकः ॥ ७.३२॥

सेनानीः षण्मुखश्चैव मयूरवाहनस्तथा ।
शक्तिपाणिरिति ख्याता एते वै चाष्टमूर्तयः ॥ ७.३३॥ (चाष्टमूर्तिपाः)

समिदाज्यचरून् लाजान् सक्तुं चैव तिलं तथा ।
माषमुद्गगुलांश्चैव सर्षपं यवमेव च ॥ ७.३४॥

द्रव्यमेकादशं प्रोक्तं सर्वेष्वेवं विशेषतः ।
समिधं त्वीशमन्त्रेण घृतं वै पुरुषेण तु ॥ ७.३५॥

अघोरेण चरुं हुत्वा लाजं वामेन होमयेत् ।
सक्तुं सद्येन जुहुयात् तिलं हृदयमन्त्रतः ॥ ७.३६॥

माषं च शिरसा हुत्वा मुद्गं च शिखया हुनेत् ।
गुलं कवचमन्त्रेण सर्षपं नेत्रमन्त्रतः ॥ ७.३७॥

यवमस्त्रेण जुहुयात् आचार्यो मूर्तिपैः सह ।
शतमर्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् ॥ ७.३८॥

द्रव्यान्ते व्याहृतिं हुत्वा स्विष्टमग्नौ तु होमयेत् ।
जयादिरभ्याधानं च राष्ट्रभृच्च हुनेत् क्रमात् ॥ ७.३९॥

पूर्णाहुतिं ततो हुत्वा वह्निं सम्प्रार्थयेद्गुरुः ।
ब्रह्मोद्वासनकं कुर्यात् प्रणीतामोक्षणं तथा ॥ ७.४०॥

नैमित्तिकमिदं प्रोक्तं नित्यकर्म ततः श‍ृणु ।
अग्नौ वा दक्षिणे वापि तथैशान्येऽपि मण्डपे ॥ ७.४१॥

कुण्डे वा स्थण्डिले वापि नित्यहोमं समाचरेत् ।
अश्रं वाथ षडश्रं वा मेखलात्रयसंयुतम् ॥ ७.४२॥

नाभियोनिसमायुक्तं कुण्डं कृत्वा महामुने ।
गर्भाधानादिकं सर्वं पूर्वोक्तविधिना हुनेत् ॥ ७.४३॥

अविच्छिन्नं सदारक्ष्यं नित्याग्निं षण्मुखाय वै ।
प्रणीताघारसमिधं ब्रह्मकूर्चं विनाचरेत् ॥ ७.४४॥

आज्येन चरुणा मन्त्री नित्यहोमं तु कारयेत् ।
आज्यं हृदयमन्त्रेण मूलेनैव चरुं हुनेत् ॥ ७.४५॥

प्रत्येकं षोडशं हुत्वा ब्रह्माङ्गानि ततो हुनेत् ।
महावल्लीं देवसेनां पृथक् पञ्चाहुतिं हुनेत् ॥ ७.४६॥

परिवारान् ततो हुत्वा स्विष्टमग्नेति होमयेत् ।
धूपदीपादिभिः स्तोत्रैर्नित्याग्नौ पूजयेद्गुहम् ॥ ७.४७॥

इति श्रीकुमारतन्त्रे अग्निकार्यविधिर्नाम सप्तमः पटलः ।