०६ नैवेद्यविधिः

अतः परं प्रवक्ष्यामि नैवेद्यविधिमुत्तमम् ।
ग्रामवृद्धिकरं पुण्यं राजराष्ट्रविवर्धनम् ॥ ६.१॥

व्रीहिवेणुप्रियङ्गूश्च नीवारं यवमेव च ।
गोधूमं षड्विधं प्रोक्तं नैवेद्यं षण्मुखप्रियम् ॥ ६.२॥

आत्मनो हितमन्विच्छेत् प्राग्द्रव्यं यत् सुपक्वकम् ।
यो ददाति गुहायैव तां तां वृद्धिमवाप्नुयात् ॥ ६.३॥ (वृद्धिं समाप्नुयात्)

अदत्वा येन भुक्तं चेत् तद्द्रव्यं क्षीयते भृशम् ।
नित्यं नैमित्तिकं काम्यं नैवेद्यं त्रिविधं स्मृतम् ॥ ६.४॥

नित्यं नवविधं प्रोक्तं तथा नैमित्तिकं तु वा । (तु तथा)
यथेष्टं काम्यमित्युक्तं तेषां भेदमिहोच्यते ॥ ६.५॥

नैवेद्यमाढकं पक्वं मध्यमं चाधमं स्मृतम् । (पक्वं अधमादधमं)
द्विगुणं त्रिगुणं तस्मिन् नैवेद्यं मध्यमोत्तमम् ॥ ६.६॥

अर्धभारेण नैवेद्यं मध्यमाधममुच्यते ।
भारं भारार्धकं प्रोक्तं मध्यमे मध्यमोत्तमम् ॥ ६.७॥

त्रिभारं तण्डुलैः पक्वमुत्तमाधममुच्यते ।
षड्भारद्वितयं चान्नमुत्तमे मध्यमोत्तमम् ॥ ६.८॥

एककालस्य नैवेद्यमेवमेव महामुने ।
नित्यमेव समाख्यातं नैमित्तिकमथ श‍ृणु ॥ ६.९॥

खारिषट्कं समारभ्य तेन वृद्धिं नवोदितम् ।
नवद्विगुणभारान्तं मध्यमादित्रयं त्रयम् ॥ ६.१०॥

एवं नैमित्तिकं प्रोक्तं श‍ृणु काम्यं महामुने ।
प्राथितं येन यन्मात्रं तावन्मात्रं हि काम्यकम् ॥ ६.११॥

कुडुवं तु चतुः प्रस्थं पैशाचान्नं प्रकीर्तितम् ॥ (पैशाचान्नं प्रकल्पितं)

द्विःप्रस्थं चरुसंज्ञं स्यात् आढकं हविरुच्यते ॥ ६.१२॥

चातुर्वर्ण्योद्भवा नारी पतिपुत्रवती तथा । (पतिपुत्रवती मता)
यदा सुमङ्गली कन्या व्रीहिप्रहरकर्मणि ॥ ६.१३॥

आदित्यरश्मिभिस्तप्तं धान्यं शोधितलूखले । (धान्यं शुद्धमुलूखले)
निक्षिप्य मुसलं ग्राह्य कुट्टयेत्प्रागुदङ्मुखः ॥ ६.१४॥

तुषानपोह्य शूर्पेण तुषकम्बुविवर्जितम् ।
विशदं तण्डुलं ग्राह्य शुद्धात्मा परिचारकः ॥ ६.१५॥

नवभाण्डानि सङ्क्षाल्य तेषु निक्षिप्य तण्डुलान् ।
वस्त्रपूतेन तोयेन हृदा क्षाल्य पुनः पुनः ॥ ६.१६॥

तण्डुलाद्द्विगुणं तोयं कल्पयेत् बीजमुख्यतः ।
तण्डुलैरर्चयेच्चुल्लीं सद्येन परिचारकः ॥ ६.१७॥

चुल्या काष्ठं समानीय वह्निं प्रज्वाल्य चास्त्रतः ।
केशकीटोपविद्धं च शर्करा तुषसंयुतम् ॥ ६.१८॥

अतिपक्वमपक्वं च नैवेद्यं न प्रकल्पयेत् ।
शुद्धान्नं पायसं मुद्गं गुलान्नं कृसरान्नकम् ॥ ६.१९॥

उपदंशं ततो वक्ष्ये श‍ृणु कौशिक सुव्रत ।
मुद्गमाषकुलुत्थं च निष्पावं शिम्बमाढकम् ॥ ६.२०॥

तथा वै राजमाषं च सूपमेवं प्रकल्पयेत् ।
पनसालाबुकदली बृहती द्वयमेव च ॥ ६.२१॥

आम्रोर्वारुककूश्माण्डं कारवल्ली पटोलिका ।
मुद्गनिष्पावकफलं वल्लीमूलं सुपक्वकम् ॥ ६.२२॥

कन्दं प्रियङगुपिष्टं च यथालाभं प्रगृह्य च ।
सर्वोपदंशकानुक्तान् मरीचिलवणाज्यकान् ॥ ६.२३॥

जीरकाम्लरसोपेतान् यथायोगं पचेत् पुनः ।
एतान् संयोज्य विविधान् सूपान् पक्वलादिकान् ॥ ६.२४॥

द्वात्रिंशांशं घृतं चैव सूपं वै षोडशांशकम् ।
अष्टांशांशं दधिक्षीरं तदर्धं शर्करा मधु ॥ ६.२५॥

पक्वान्नसमये चैव मार्जन्या शोध्य भूतलम् ।
सम्प्रोक्ष्य चास्त्रमन्त्रेण चित्रशाकादिना युतम् ॥ ६.२६॥ (चित्रंशाकादिना)

आस्यं वस्त्रेण सञ्च्छाद्य चोत्थाप्य परिचारकः ।
नैवेद्योत्थापने काले यो नरश्च न लङ्घयेत् ॥ ६.२७॥

प्रमादात् पतितं चेत्तु सस्यानां नाशनं भवेत् ।
तद्द्रव्यं वर्जयित्वा च मूलमन्त्रैः शतं जपेत् ॥ ६.२८॥

पुनः पच्याथ नैवेद्यं तद्द्रव्यं प्रतिरूपकम् ।
मण्डपे दक्षिणे भागे मण्डले विन्यसेत् क्रमात् ॥ ६.२९॥

दारुहस्तेन दर्व्या वा पात्रमन्नेन पूरयेत् ।
सौवर्णं राजतं कांस्यमथवा कदलीदलम् ॥ ६.३०॥

सर्वव्यञ्जनसंयुक्तं त्रिपाद्यूर्ध्वे निधापयेत् ।
तुर्यांशं भाण्डतोनीत्वा शेषं त्र्यंशं निवेदयेत् ॥ ६.३१॥

नित्यमेवं समाख्यातं काम्यं नैमित्तिकं श‍ृणु ।
स्थलशुद्धिं ततः कृत्वा प्रोक्षयेदस्त्रमन्त्रतः ॥ ६.३२॥

महीं सम्यक् परिस्तीर्य घृतेनैवाभिघारयेत् ।
पात्रशेषं त्रिभागैकं नीत्वा शेषं नयेत्ततः ॥ ६.३३॥

सर्वोपदंशसंयुक्तं प्रभूतं हविरुत्तमम् ।
अस्त्रं दशासु विन्यस्य चास्त्रमुद्रां प्रदर्शयेत् ॥ ६.३४॥

भक्ष्यं भोज्यं च लेह्यं च पेयं चैव चतुर्विधम् ।
दापयेत् कार्तिकेयाय हृदयेन तु देशिकः ॥ ६.३५॥

नैवेद्यविधिराख्यातो वक्ष्ये पानीय लक्षणम् ।
निवेद्यायामृतं शुद्धे मृद्भाण्डे पूरयेज्जलम् ॥ ६.३६॥

वस्त्रपूतं सुशीतं च सर्वद्रव्यसमायुतम् ।
नैवेद्यान्ते तु सेनान्ये पानीयं दापयेद्धृदा ॥ ६.३७॥

निवेदितानि सर्वाणि सुमित्राय प्रदापयेत् ।
अक्षद्वयप्रमाणान्तं बलिदानं प्रकोर्तितम् ॥ ६.३८॥

द्वारस्य दक्षिणे पार्श्व सुदेहाय प्रदापयेत् ।
द्वारस्य वामपार्श्वे तु सुमुखाय प्रदापयेत् ॥ ६.३९॥

गजेन्द्राय ददेदग्रे महाशास्त्रेऽग्निगोचरे ।
याम्ये पितामहायै मातृभ्यां निरृते ददेत् ॥ ६.४०॥

पश्चिमे स्यादगस्त्याय ज्येष्ठायै वायुगोचरे ।
सौम्ये नारदायैव भास्करायैशगोचरे ॥ ६.४१॥

ततः पुरःस्थिते पीठे बलिं दद्याद् विशेषतः
यक्षराक्षसपैशाचाः भूतगन्धर्वकिन्नराः ॥ ६.४२॥

पितृदानवनागाश्च तेन प्रीतिं प्रयान्तु ते ।
ब्रह्मादीशानपर्यन्तं तत्तन्नाम्ना बलिं क्षिपेत् ॥ ६.४३॥

पुनराचमनं कृत्वा मुखवासं गुहप्रियम् ।
लवङ्गचूर्णकर्पूरलघुखण्डस्य चूर्णकम् ॥ ६.४४॥

फलत्रयाणां चूर्णं च सङ्ग्राह्य सुविचक्षणः ।
भोजनानन्तरे दद्यात् मुखवासं हृदाणुना ॥ ६.४५॥

ताम्बूलं दापयेत् तस्मै क्रमुकं प्रस्थपूरितम् ।
पत्रं चतुर्गुणं दद्यात् तज्जिह्वाघ्राणवर्जितम् ।
कर्पूरादिसमायुक्तं दापयेत्तु विशेषतः ॥ ६.४६॥

इति श्रीकुमारतन्त्रे नैवेद्यविधिर्नाम षष्ठः पटलः ।