०५ नित्यार्चनविधिः

अतः परं प्रवक्ष्यामि सुब्रह्मण्यार्चनाविधिम् ।
सर्वसिद्धिकरं पुण्यं सर्वव्याधिविनाशनम् ॥ ५.१॥

सर्वदुःखोपशमनं सदा विजयवर्धनम् ।
आत्मार्थं च परार्थं च पूजा द्विविधमेव च ॥ ५.२॥ (पूजा द्विविधमुच्यते)

गृहार्चनं तथात्मार्थं तत्तत्सिद्धिकरं भवेत् ।
देवर्षिभिर्मनुष्याद्यैः स्थापितं बेरमादरात् ॥ ५.३॥

तत् परार्थं समाख्यातं सर्वेषामात्मनां फलम् ।
विप्रक्षत्रियविट्शूद्रा दीक्षिताश्च प्रवेशकः ॥ ५.४॥

आत्मार्थयजनं कुर्यात् न कुर्यात्तु परार्थकम् ।
आदिशैवः प्रकर्तव्यं आत्मार्थं च परार्थकम् ॥ ५.५॥

आदिशैवा इति प्रोक्तास्ते शिवब्राह्मणा मुने ।
शौचमाचमनं कृत्वा विधिस्नानं समाचरेत् ॥ ५.६॥

सन्ध्यावन्दनकर्मादि कृत्वा देवालयं व्रजेत् । (देवालयं विशेत्)
पादौ प्रक्षाल्य विधिना भस्म निक्षिप्य मन्त्रवित् ॥ ५.७॥

सूर्यपूजाविधानेन सौरपूजां समाचरेत् ।
प्रक्षाल्य पादावाचम्य विधिना भस्म धारयेत् ॥ ५.८॥

प्रणवं संस्मरन्मन्त्री प्राणायामं समाचरेत् ।
पुण्याहं वाचयेत्तत्र ब्राह्मणैः सह मन्त्रिभिः ॥ ५.९॥

विधिना पञ्चगव्यञ्च पञ्चामृतमथाचरेत् ।
सकलीकृत्य मतिमान् प्रणवार्ध्यं तु साधयेत् ॥ ५.१०॥ (प्रणवार्ध्यं तं तु साधयेत्)

स्नपनं कारयेद्विद्वान् यथाविधिपुरःसरम् ।
द्वारमन्त्रेण सम्प्रोक्ष्य गणेशञ्च सरस्वतीम् ॥ ५.११॥

सव्यवामे पतङ्गोर्ध्वे तत्तद्वीजेन पूरयेत् । (तत्तद्वीजेन पूजयेत्)
मध्ये लक्ष्मीञ्च सम्पूज्य हस्तिद्वयाभिषेचिताम् ॥ ५.१२॥ (हस्तिद्वयाभिषेचनं)

सुदेहसुमुखौ विप्रो गुहस्य द्वारपालकौ ।
एकवक्त्रौ द्विबाहू च गदाभयधरौ स्मृतौ ॥ ५.१३॥ (गदाभयकरौ)

चतुर्भुजौ चेत्तस्योर्ध्वे वज्रशक्तिधरौ तथा ।
रक्तश्यामलवर्णाढ्यौ सर्वाभरणभूषितौ ॥ ५.१४॥

सुदंष्ट्रौ स्मितवक्त्रौ च करण्डमकुटोज्ज्वलौ ।
दक्षिणे तु सुदेहञ्च सुमुखञ्च तथोत्तरे ॥ ५.१५॥

पश्चादक्षिणशाखायां दीप्ताञ्चामरधारिणीम् । (दीप्ताञ्चामरचारिणीं)
उत्तरायाञ्च शाखायां सूक्ष्मान्तं पूजयेत् तया ॥ ५.१६॥ (शाखायां सूक्ष्मां सम्पूजयेत् तथा)

अथोदुम्बरमूले तु पृथिवीं सम्प्रपूजयेत् ।
दिव्यान्तरिक्षभूमीषु विघ्नानुच्चाट्य चास्त्रतः ॥ ५.१७॥ (विघ्नानुच्चार्य स्मृतः)

अन्तः प्रविश्य मतिमान्नित्यं तद्द्वारपालकौ ।
मध्यदक्षिणवामे तु देहल्यां पूजयेत्तदा ॥ ५.१८॥

कवाटौ प्रोक्ष्य चास्त्रेण जयं विजयमर्चयेत् ।
नैरृत्यां वास्तुनाथञ्च स्वस्वनामभिरर्चयेत् ॥ ५.१९॥

देवस्य दक्षिणे पार्श्वे रुचिरासनसंस्थितः ।
पञ्चशुद्धिं ततः कृत्वा तेषां भेदमथ श‍ृणु ॥ ५.२०॥ (ततः कुर्यात्)

आत्मशुद्धिस्तु प्रथमं स्थानशुद्धिर्द्वितीयकम् । (आत्मशुद्धिस्तु पूर्व स्यात्)
द्रव्यशुद्धिस्तृतीयञ्च बिम्बशुद्धिश्चतुर्थकम् ॥ ५.२१॥

मन्त्रशुद्धिस्तु पञ्चैते आत्मशुद्धिं ततः श‍ृणु ।
तलौ च हस्तपृष्ठौ च मन्त्रेणास्त्रेण शोधयेत् ॥ ५.२२॥

अङ्गुष्ठादिकनिष्ठान्तमीशानादींश्च विन्यसेत् ।
ह्रीं मन्त्रादींश्च मध्यादि तर्जन्यान्तं चतुर्थकम् ॥ ५.२३॥

नेत्रं करतले न्यस्य तर्जन्यामस्त्रकं न्यसेत् ।
आत्मानं योजयेत्पश्चात् शिखाग्रे व्योमसंज्ञके ॥ ५.२४॥

शुष्कवृक्षमिवात्मानं शोषयेद्वायुमन्त्रतः ।
अग्निबीजेन तद्देहं भस्मकूटमिव स्मरेत् ॥ ५.२५॥

वायोर्बीजेन तद्भस्म प्लावयेदमृतस्रवम् ।
सञ्चिन्त्य पूर्ववद्देहं मुद्रयाङ्कुशसंज्ञया ॥ ५.२६॥ (पूर्ववद्देहं मुद्रया कुशसंज्ञया)

आत्मानं मूलमन्त्रेण विन्यसेद्धृदये पुनः ।
कृत्वाथ मातृकान्यासं कुर्यात्प्राणप्रतिष्ठिकाम् ॥ ५.२७॥

ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ।
अघोरं हृदये न्यस्य वामदेवं तु गुह्यके ॥ ५.२८॥

सद्योजातं न्यसेत्पादौ पुनरङ्गानि बुद्धिमान् ।
हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् ॥ ५.२९॥

शिखायां तु शिखां न्यस्य कवचं स्तनमध्यमे ।
नेत्रं नेत्रद्वये विद्वान् अस्त्रं हस्तप्रदेशके ॥ ५.३०॥

सैकत्रिंशत्कलान्यासं प्रागुक्तविधिनाचरेत् ।
एवं शुद्धतनुर्भूत्वा स्कन्दोऽहमिति मन्त्रतः ॥ ५.३१॥

अन्तर्यागं ततः कृत्वा तत्पूजार्हकमन्त्रतः ।
आसनावरणाद्यैश्च हृत्पद्मे चार्चयेद्गुहम् ॥ ५.३२॥

आत्मशुद्धिरिति प्रोक्ता स्थानशुद्धिं ततः श‍ृणु ।
मूले न्यस्तेन नेत्रेण निरीक्ष्य प्रोक्षणादिभिः ॥ ५.३३॥ (मूल न्यस्तेन)

अवकुण्ठञ्चदिग्बन्धं प्राकारैः स्नानशोधनम् ।
मार्जनं प्रोक्षणं चैव गोमयालेपनं हृदा ॥ ५.३४॥ (मार्जनं निरीक्षणं)

गुहाग्रे भूपुरं लिख्य भूबीजेन समर्चयेत् ।
स्थानशुद्धिरिति ख्याता द्रव्यशुद्धिं ततः श‍ृणु ॥ ५.३५॥

पाद्यपात्रं शरावञ्च अर्घ्याचमनपात्रकम् ।
शङ्खञ्च स्थालिकाञ्चैव जलभाण्डादि वर्धनीम् ॥ ५.३६॥

अस्त्रेण क्षाल्य च हृदा निरीक्ष्य कवचेन तु ।
अवकुण्ठ्य गुरुः पश्चात् सामान्यार्घ्यं प्रकल्पयेत् ॥ ५.३७॥

ब्रह्माङ्गैर्मूर्तिमन्त्रैश्च स्कन्दगायत्रिमन्त्रतः ।
तत्तोयेनास्त्रमन्त्रेण सर्वं सम्प्रोक्ष्य बुद्धिमान् ॥ ५.३८॥

वस्त्रपूतेन तोयेन जलभाण्डं प्रपूरयेत् ।
निधाय सव्यहस्तेन सप्तवारं ततः स्मृतम् ॥ ५.३९॥ (विधाय सव्यहस्तेन)

आपो वा इति मन्त्रेण जप्त्वा पद्माख्यमुद्रिकाम् ।
अस्त्रमुद्रां प्रदर्श्याथ सर्वद्रव्याणि शोधयेत् ॥ ५.४०॥

द्रव्यशुद्धिर्भवेदेवं बिम्बशुद्धिं ततः श‍ृणु ।
नमस्कृत्वा महासेनमिदं मन्त्रं समर्चयेत् ॥ ५.४१॥

सिद्धदेवर्षिसङ्घैश्च मनुष्यैश्च समर्चितम् ।
अर्चयिष्ये यथा शक्त्या प्रसीद गुहमूर्तिमन् ॥ ५.४२॥

अर्घ्यद्रव्यैश्च मतिमान् विशेषार्घ्यं प्रकल्पयेत् ।
कुशाग्रापः पयोभिश्च तिलतण्डुलकैर्युतम् ॥ ५.४३॥

अक्षतैर्यवसिद्धार्थैरर्घ्यमष्टाङ्गमुत्तमम् ।
मूलब्रह्मषडङ्गैश्च स्कन्दसूक्तेन मन्त्रतः ॥ ५.४४॥

मूर्तिमन्त्रैश्च गायत्र्या विशेषार्घ्यं प्रकल्प्य च ।
चन्दनोशीरसंयुक्तं पाद्यं सङ्कल्पयेद्धृदा ॥ ५.४५॥

तुटिपत्रं च कर्पूरं फलत्रययुतं तथा । (बिल्वपत्रं च)
*पुरुषयुक्तषडङ्गेनाचमनं परिकल्पयेत् ॥ ५.४६॥ (*छन्दोभङ्गः)

हृदयेन तु मन्त्रेण प्रच्छन्नपटमानयेत् ।
निर्माल्यं च विसृज्याथ सुमित्राय प्रदापयेत् ॥ ५.४७॥

अस्त्रमन्त्रेण मतिमान् बेरशुद्धिं समाचरेत् ।
स्कन्दगायत्रिमन्त्रेण क्षालयेत्तु पुनः पुनः ॥ ५.४८॥

लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ।
चित्रादिप्रतिमा चेत्तु शुद्धिं कूर्चेन कारयेत् ॥ ५.४९॥

बिम्बशुद्धिर्भवेदेवं मन्त्रशुद्धिं ततः श‍ृणु ।
ओङ्कारादिनमोऽन्ताश्च मन्त्राः पूजार्हका भवेत् ॥ ५.५०॥

मनसोपांशुना वाचा मन्त्रशुद्धिरुदाहृता ।
यो वेत्ति पञ्चशुद्धिं च स पूजां कर्तुमर्हति ॥ ५.५१॥

स्कन्दसूक्तेन मतिमान् मूलब्रह्मषडङ्गकैः ।
मालामन्त्रेण मतिमान् कार्तिकेयं तु पूजयेत् ॥ ५.५२॥

आसनं कल्पयेत्पश्चाच्छास्त्रदृष्टेन वर्त्मना ।
प्रणवं पूजयेन्मन्त्री पीठाधस्तात् गुहस्य तु ॥ ५.५३॥

आधारशक्तिं तस्योर्ध्वे ततोऽनन्तासनं यजेत् ।
धर्मं पाण्डरसंज्ञं च ज्ञानं वै पद्मरागकम् ॥ ५.५४॥ (धर्मं पाण्डुरवर्णं)

वैराग्यं हेमवर्णं स्यादैश्वर्यं श्यामवर्णकम् ।
आग्नेयादिषु कोणेषु पूजयेत्तु विशेषतः ॥ ५.५५॥

अधर्माज्ञानावैराग्यानैश्वर्यांश्च पुनः पुनः ।
राजावर्तनिभा एते प्रागादिषु प्रकल्पयेत् ॥ ५.५६॥

मायाधच्छदनं रक्तं नैरृत्यां दिशि पूजयेत् ।
वेद्योर्ध्वच्छदनं श्वेतमैशान्यां दिशि पूजयेत् ॥ ५.५७॥

एवं सिंहासनं प्रोक्तं पद्मासनं ततोच्यते ।
कन्दं बीजाङ्कुरं नालं दलं केसरकर्णिकाम् ॥ ५.५८॥

बीजं पद्मं च मतिमान् पूर्वादिषु च मध्यमे ।
शकुनीं रेवतीं पूतां महापूतां निशीथिनीम् ॥ ५.५९॥

मालिनीं शीतलां बुद्धां प्रागादिषु सुपूजयेत् । (शीतलां शुद्धां)
मध्ये विश्वमुखां पूज्य नमोऽन्तैर्नामभिः क्रमात् ॥ ५.६०॥

मण्डलत्रयमत्रैव पूजयेद्विमलासनम् ।
क्षित्यादिप्रकृतिः प्रोक्ता तत्त्वरूपं सनातनम् ॥ ५.६१॥

सुब्रह्मण्यासनं दिव्यं तस्योपरि यजेद् बुधः ।
तत्तत्स्वरूपध्यानेन तस्मिन् मूर्तिं प्रकल्पयेत् ॥ ५.६२॥

आपाद्य बिन्दुं तद्बिन्दोरानीय कुसुमाञ्जलिम् ।
तन्मूलमन्त्रसंयुक्तं हृदा चावाहयेत् गुहम् ॥ ५.६३॥

स्थापनं तु प्रदातव्यमीशानेन तु मन्त्रतः ।
सन्निधानं तत्पुरुषादघोरात् सन्निरोधनम् ॥ ५.६४॥

स्वागतं वामदेवेन दिग्बन्धं चास्त्रमन्त्रतः ।
कवचेनावकुण्ठ्याथ सद्येनामृतकल्पना ॥ ५.६५॥

स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम् ।
तावत् त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥ ५.६६॥

इदं मन्त्रं समुच्चार्य विश्वामित्र महामुने ।
पद्ममुद्रां महामुद्रां षण्मुखीं दर्शयेत्ततः ॥ ५.६७॥

पादौ सकृत् सकृत्पाद्यं हृदयेन प्रदापयेत् ।
पुरुषयुक्तषडर्णेन वक्त्रेष्वाचमनीयकम् ॥ ५.६८॥

अर्ध्यं शिरसि विन्यस्य वौषडन्तेन मूलतः ।
आपोहिष्ठेति मन्त्रेण पञ्चगव्येन पूजयेत् ॥ ५.६९॥

अभिषिच्याथ तोयेन पिष्टेन कर्षयेद्धृदा ।
गन्धाद्यैरभिषिच्याथामलकैः परिमर्दयेत् ॥ ५.७०॥

स्नाप्य बिल्वोदकैः पश्चाद्धरिद्रेण च पीठकम् ।
शक्तिद्वयं च संलेप्य पूजयेत्तु पुनः पुनः ॥ ५.७१॥

पञ्चामृतेन संस्नाप्य शुद्धतोयेन वा पुनः ।
श्रीरुद्रचमकाभ्यां च पुरुषसूक्तेन मन्त्रवित् ॥ ५.७२॥

ततः कुमारमातेति ऋचा चैव विशेषतः ।
स्कन्दसूक्तेन गायत्र्या सेनान्यं पञ्चशान्तिना ॥ ५.७३॥

अयं कुमारमन्त्रेण माते कुमारमन्त्रतः ।
मालामन्त्रेण मतिमान् मूलब्रह्मषडङ्गकैः ॥ ५.७४॥

इत्थं शुद्धाम्बुभिः स्नाप्य हृदा चाचमनं ददेत् ।
वस्त्रेण परिमृज्याथ वस्त्राणि च हृदा ददेत् ॥ ५.७५॥

गन्धं तत्पुरुषेणैव यज्ञसूत्राक्षसूत्रिकाम् ।
मकुटं कुण्डलं पट्टं हारकेयूरनपुरम् ॥ ५.७६॥

छन्नं वीराङ्गुलीयं स्याद्ददेदाभरणस्य तु ।
पुष्पमीशानमन्त्रेण धूपदीपौ च पूरुषात् ॥ ५.७७॥

मनोरथाख्यमुद्रां च दर्शयेत् देशिकोत्तमः ।
शिरोवदनहृत्कुक्षिगुह्यपादद्वये पुनः ॥ ५.७८॥

ब्रह्मपञ्चकमुच्चार्य सर्ववक्त्रं तथा पुनः ।
जगद्भुवादिषण्मूर्तिमन्त्रैरभ्यर्चयेत्सदा ॥ ५.७९॥

दण्डभङ्गिरिति ख्याता वक्त्रभङ्गिमथ श‍ृणु ।
ईशप्राग्दक्षिणोदीची प्रतीची नैरृतेषु च ॥ ५.८०॥

षड्वक्त्रेष्वर्चयेद्धीमान् पूर्वोक्तैर्मन्त्रषट्ककैः ।
हृदयं हृदयेऽभ्यर्च्य शिरः शिरसि मन्त्रवित् ॥ ५.८१॥

शिखां शिखायामभ्यर्च्य सर्वाङ्गे कवचं यजेत् ।
नेत्रं नेत्रेषु मतिमानस्त्रं हस्ते समर्चयेत् ॥ ५.८२॥

पञ्चावरणपूजां च ततः श‍ृणु महामुने ।
ईशानपदमुच्चार्य जगद्भुव इति ब्रुवन् ॥ ५.८३॥

नम इत्यर्चयेद्विद्वानीशानदलमूलतः ।
पूर्वे तु दलमूले तु जप्त्वा तत्पुरुषेण च ॥ ५.८४॥

वचद्भुवे नम इति समभ्यर्च्य यथाविधि ।
अघोरं पदमुच्चार्य ततो विश्वभुवे नमः ॥ ५.८५।
इत्युक्त्वा मुनिशार्दूल दक्षिणे तु दले यजेत् ।
वामं तु पदमुच्चार्य ततो रुद्रभुवं ब्रुवन् ॥ ५.८६॥

उत्तरे तु दले विद्वान् पूजयेत्तु यथाविधि ।
सद्यं च पदमुच्चार्य ततो ब्रह्मभुवं ब्रुवन् ॥ ५.८७॥

पश्चिमे तु दले विद्वान् पूजयेद्देशिकोक्तमः ।
नैरृते तु दले धीमान् सद्यवक्त्रपदान्तकम् ॥ ५.८८॥

भुवद्भुवे नम इति पूजयेन्मुनिपुङ्गव ।
नेत्रमीशानभागे तु हृदये वह्निगोचरे ॥ ५.८९॥

शिरस्त्वीशानभागे तु नैरृते तु शिवं यजेत् ।
कवचं वायुदेशे तु चतुर्दिक्ष्वस्त्रमर्चयेत् ॥ ५.९०॥

प्रथमावरणे प्रोक्तं द्वितीयावरणं श‍ृणु
जयन्ताख्यमग्निशिखं कृत्तिकापुत्रसंज्ञकम् ॥ ५.९१॥

अनन्तरं भूतपतिं सेनान्यं गुहसंज्ञकम् ।
हेमशूलं विशालाक्षं शक्तिवज्रधरं यजेत् ॥ ५.९२॥

पूर्वादीशानपर्यन्तं स्वस्वदिक्षु प्रपूजयेत् ।
द्वितीयावरणं प्रोक्तं तृतीयावरणं श‍ृणु ॥ ५.९३॥

दक्षिणे तु महावल्लीं देवसेनां तथोत्तरे ।
गजेन्द्रं पूर्वदिग्भागे मयूरं पश्चिमे यजेत् ॥ ५.९४॥

अग्निभागे सुदेहं च सुमुखं नैरृते यजेत् ।
देवसेनापतिं वायौ चैशान्यां तु सुमित्रकम् ॥ ५.९५॥

तृतीयावरणे प्रोक्तं चतुर्थावरणं श‍ृणु ।
इन्द्रादिलोकपालांश्च यजेत् स्वस्वदिशि क्रमात् ॥ ५.९६॥

चतुर्थावरणं प्रोक्तं पञ्चमावरणं श‍ृणु ।
वज्रं शक्तिं च दण्डं खेटं पाशं तथाङकुशम् ॥ ५.९७॥

गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् ।
ऐन्द्याद्यष्टदिशोर्ध्वेऽपि अधस्ताच्चैव पूजयेत् ॥ ५.९८॥

स्वस्वनामादिमन्त्रेण पूजयेत्तु यथाक्रमम् ।
धेनुं पद्मं त्रिशूलाख्यं मकरां सृङ्नमस्कृताम् ॥ ५.९९॥

षडङ्गन्यासमन्त्रेण कल्पयेत् विधिवत्तथा ।
गुहाय दर्शयेत् पश्चाद्ददेदाचमनार्ध्यकम् ॥ ५.१००॥

सैकत्रिंशत्कलान्यासं मकुटादिक्रमान्यसेत् ।
नैवेद्यं दापयेत् पश्चात् उपदंशसमन्वितम् ॥ ५.१०१॥

नालिकेराम्रपनसं कदलीफलसंयुतम् ।
गुलखण्डसमोपेतमाज्यपूर्णं दधिप्लुतम् ॥ ५.१०२॥

अपूपैर्विविधैश्चैव श‍ृङ्गिबेरसमन्वितम् ।
व्याहृत्या चास्त्रमन्त्रेण सम्प्रोक्ष्यार्घ्यजलेन च ॥ ५.१०३॥ (आहृत्य चास्त्रमन्त्रेण)

अन्नसूक्तं जपित्वा तु नैवेद्यं दापयेद्धृदा ।
कर्पूरोशीरसंयुक्तं पानीयमपि दापयेत् ॥ ५.१०४॥

हस्तस्योद्वर्तनं कृत्वा पश्चादाचमनं ददेत्
ताम्बूलं दापयेत् पश्चात् कर्पूरादिसमन्वितम् ॥ ५.१०५॥

निवेदितं तु यत्सर्वं सुमित्राय प्रदापयेत्
तत्सर्वमन्नपानादिभोक्तव्यं ब्राह्मणादिभिः ॥ ५.१०६॥

भुक्तिमुक्तिप्रदं नृणां सर्वरोगविनाशनम् ।
परिवारबलिं क्षिप्त्वा धूपदीपादिदापयेत् ॥ ५.१०७॥

विभूतिदर्पणच्छत्रचामरव्यजनादिकम् ।
दर्शयित्वाथ नित्याग्निकार्य चैव समाचरेत् ॥ ५.१०८॥

नित्योत्सवं ततः कुर्यात् विधिदृष्टेन वर्त्मना ।
नृत्तं गीतं च वाद्यं च षण्मुखाय प्रदर्शयेत् ॥ ५.१०९॥

मूलमन्त्रं शतं जप्त्वा तन्निवेद्य स्तुतिं वदेत् ।
प्रदक्षिणनमस्कारौ कृत्वा सन्तोषयेद्गुहम् ॥ ५.११०॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं षडानन ।
यत् पूजितं मया देव परिपूर्णं तदस्तु ते ॥ ५.१११॥

प्रार्थयित्वाथ सेनान्यं नमस्कृत्वा पुनः पुनः ।
साधुवासाधु वा कर्म यद्यदाचरितं मया ॥ ५.११२॥

तत्सर्वं देवदेवेश गृहाणाराधनं परम् ।
पूजाफलं तु तत्सर्वमात्मना सह बुद्धिमान् ॥ ५.११३॥

निवेदयेत्तु सेनान्यै करे पुष्पान्वितैर्जलैः ।
एककालं द्विकालं वा त्रिकालं वा समर्चयेत् ॥ ५.११४॥

उत्तमोत्तममेवं स्यान्नवकालार्चनं मुने ।
वित्तशाठ्यं न कुर्यात्तु यथाविभवविस्तरम् ॥ ५.११५॥

अर्धयामे महासेनं पूजां कुर्याद्विशेषतः ।
तत्पश्चात् क्षेत्रपालं च सुमित्रं पूजयेद्गुरुः ॥ ५.११६॥

सौख्यं कुर्यात्तदन्तेषु शास्त्रदृष्टेन वर्त्मना ।
एवं क्रमेण विधिवदुत्तमाराधनं स्मृतम् ॥ ५.११७॥

समृद्धिदं ताण्डवान्तं बल्यन्तं शान्तिकं भवेत् । (बल्यन्तं शान्तकं)
हविष्यन्तमशक्तश्चेत् दीपान्तं वापि पूजयेत् ॥ ५.११८॥

एवं यः कुरुते मर्त्यः सपुण्यां गतिमाप्नुयात् ।
भवेद् विप्रः सुवेदाढ्यो राजा विजयमाप्नुयात् ।
धनं वैश्यस्तथाप्नोति शूद्रः सुखमवाप्नुयात् ॥ ५.११९॥

इति कुमारतन्त्रे नित्यपूजा विधिर्नाम पञ्चमः पटलः ।