०४ स्नानानुष्ठानविधिः

अथ वक्ष्ये विशेषेण स्नानं पापहरं परम् ।
मृदं च गोशकृत् पुष्पं कुशमामलकं तिलम् ॥ ४.१॥

धौतवस्त्रं च सङ्ग्राह्य जलतीरं समाविशेत् ।
वापीकूपतडागेषु नान्यत्र मृदमाहरेत् ॥ ४.२॥

जले प्रादेशमात्रे च मणिबन्धाज्जले बुधः ।
गोमयामलकेनैव सर्वाङ्गानि च मर्दयेत् ॥ ४.३॥

मलस्नानं ततः कृत्वा जलस्नानं समाचरेत् ।
मूलमन्त्रेण मृत्पिण्डं त्रिधा भज्य महामुने ॥ ४.४॥

पृष्ठे च दक्षिणे चैव विन्यसेदुत्तरेऽपि च ।
पुरुषं पूर्वदिग्भागे ह्यघोरं दक्षिणे न्यसेत् ॥ ४.५॥

उत्तरे विन्यसेद्धीमान् वामदेवेन मन्त्रतः ।
अस्त्रेण पूर्वतो न्यस्त्वा दशदिक्षु मृदं क्षिपेत् ॥ ४.६॥

दक्षिणेन मृदा शोध्य सर्वाङ्गं मूलविद्यया ।
उत्तरस्थं च मृद्भागं तीर्थमध्ये विनिक्षिपेत् ॥ ४.७॥

स्नात्वा राजोपचारेण रजन्यामलकादिना ।
पञ्चब्रह्मषडङ्गैश्च गुहतीर्थं स कल्पयेत् ॥ ४.८॥

स्नात्वा गुरूक्तमार्गेण धौतवस्त्रधरो द्विजः ।
आचम्य विधिवत् पश्चात्प्राणायामं समाचरेत् ॥ ४.९॥

आपोहिष्ठेति नवभिः पदैः प्रोक्षणमाचरेत् ।
सूर्यश्चेत्यनुवाकेन जलं प्रातः पिबेद् बुधः ॥ ४.१०॥

आपः पुनन्तु मध्याह्ने सायाह्नेऽग्निश्च मन्त्रतः ।
दधिक्राविण्णेति ततस्त्रिकालं प्रोक्षयेत्ततः ॥ ४.११॥

गायत्र्यार्घ्यं ततः कृत्वा भूर्भुवःस्वेति पूर्वया ।
प्रणवेन समायुक्तं भूर्भुवःस्वरिति ब्रुवन् ॥ ४.१२॥

वामेतरे जलं ग्राह्य प्रदक्षिणमथाचरेत् ।
असावादित्यो ब्रह्मेति सूर्यं स्मृत्वा प्रणम्य च ॥ ४.१३॥

सूर्यादितर्पणं कृत्वा गङ्गायै नम इत्यथ ।
अवकुण्ठ्य जलं ग्राह्य महालक्ष्म्यै नमस्त्रिभिः ॥ ४.१४॥

मुखं क्षाल्य प्रमृज्याथाप्यस्त्रेण त्रिःपिबेज्जलम् ।
तेनैव दशधा प्रोक्ष्य तेनैवार्ध्यत्रयं ददेत् ॥ ४.१५॥

यथाशक्ति जपेत् तेन त्रिःपिबेत्तु यथाविधि ।
सव्येन हस्तं सङ्ग्राह्य वामहस्ते निधाय च ॥ ४.१६॥

तद्भस्म सजलं कृत्वा किञ्चिदङ्गुष्ठेन कर्मणा । (कृत्वा किञ्चिदङ्गुल्लकेव तु)
शिरः प्रभृति पादान्तं दर्शयित्वाथ देशिकः ॥ ४.१७॥

नैरृत्यां दिशि तत्कृत्वा पश्चात् षट्कोण मालिखेत् । (षट्कोण माचरेत्)
स्कन्दमूलं ततो मध्ये ॐ श्रीं ह्रीं क्लीं ततः परम् ॥ ४.१८॥

ऐं सौं कोणेषु संल्लिख्य शिरसीशानमन्त्रतः । (ऐं सः)
ललाटे पुरुषेण स्यादघोरेण स्तनान्तरे ॥ ४.१९॥

नाभौ तु वाममन्त्रेण जान्वोर्बाह्वोश्च सद्यतः ।
शेषाङ्गेषु च तन्मन्त्रैरर्पयेद्भस्मना बुधः ॥ ४.२०॥

हस्तौ प्रक्षाल्य शिरसि मुद्रया कुम्भसंज्ञया ।
प्रोक्षयित्वा जलं पश्चान्मूलेनैवावकुण्ठयेत् ॥ ४.२१॥

अस्त्रमन्त्रेण सन्ताड्य जलं वामकरे क्षिपेत् ।
तस्मात्करात्पदं तोयं दक्षिणेन करेण च ॥ ४.२२॥

पञ्च ब्रह्मषडङ्गैश्च प्रोक्षयित्वाथ मन्त्रवित् ।
शेषं जलं समादाय दक्षिणेन करेण च ॥ ४.२३॥

पुटेनदक्षनासायां पूर्य वामेन रेच्य च ।
तज्जलं दक्षिणे भागे हुम्फटन्तेन संव्रजेत् ॥ ४.२४॥

पश्चादाचमनं कृत्वा प्राणायामं समभ्यसेत् । (प्राणायामं समाचरेत्)
अङ्गन्यासं करन्यासं पूर्वोक्तविधिनाचरेत् ॥ ४.२५॥

त्रिरर्ध्यं शिवगायत्र्या यथाशक्ति जपेच्छतम् ।
मूलमन्त्रेण रुद्रस्य तर्पयेद्रुद्रसङ्ख्यया ॥ ४.२६॥

पञ्चब्रह्मषडङ्गैश्च गौर्या मूलेन च त्रिधा ।
ब्रह्मादिपञ्चमूर्तीश्च तर्पयेत्स्वस्वनामतः ॥ ४.२७॥

गणेशं मूलमन्त्रेण तर्पयेदेकतर्पणम् ।
सुब्रह्मण्यषडङ्गेन न्यासं कृत्वाथ देशिकः ॥ ४.२८॥

त्रिवारं स्कन्दगायत्र्या तर्पयेद्देशिकोत्तमः ।
स्कन्दस्य मूलमन्त्रेण षडावृत्त्या प्रतर्पयेत् ॥ ४.२९॥ (मूलमन्त्रेण षष्ठवारं)

सुब्रह्मण्यषडङ्गेन तर्पयेत् तु विशेषतः ।
महावल्लीदेवसेनां तत्तन्नाम्ना तु तर्पयेत् ॥ ४.३०॥

भुवनेशीं महालक्ष्मीं वाग्देवीं च प्रतर्पयेत् ।
क्षेत्रपालस्य मूलेन गुरून् पश्चात्तु तर्पयेत् ॥ ४.३१॥

सौराङ्गेणैव मतिमान् षडङ्गन्यासमाचरेत् ।
मूलमन्त्रेण सूर्यस्य कषोल्कायेति मन्त्रतः ॥ ४.३२॥

त्रिवारं तर्पयेद्धीमानुषाञ्च प्रत्युषामपि ।
तेजश्चण्डं सकृत्तर्प्य सर्वं ब्रह्मणि योजयेत् ॥ ४.३३॥

सावित्रीं च जपेत् पश्चात् पूर्वोक्तविधिना बुधः ।
उपस्थानं ततः कुर्योत् प्रातर्मित्रस्य चर्षणीः ॥ ४.३४॥

आसत्येनेति मध्याह्ने सायेऽमं मेति मन्त्रतः ।
ब्रह्मयज्ञं ततः कृत्वा स्कन्दमन्त्रं शतं जपेत् ॥ ४.३५॥

इति श्रीकुमारतन्त्रे स्नानानुष्ठानविधिर्नाम चतुर्थः पटलः ।