अतः परं प्रवक्ष्यामि शौचमाचमनं शृणु ।
उत्थाय च बहिर्ग्रामात् विण्मूत्रं तु विसर्जयेत् ॥ ३.१॥
अहन्युदङ्मुखो भूत्वा रात्रौ वै दक्षिणामुखः ।
ग्रामपार्श्वे महाक्षेत्रे तडागे कूपपार्श्वके ॥ ३.२॥
वल्मीके च तथा नद्यां वृक्षमूले तथालये ।
जलाशयसमीपे तु शिलायां पर्वते तथा ॥ ३.३॥
पुण्यारामे गवां गोष्ठे चैत्यवृक्षसमीपके । (पुष्पारामे)
स्थानेष्वेतेषु मतिमान् विण्मूत्रं न विसर्जयेत् ॥ ३.४॥
अन्यस्थाने यथा वायुस्तथाभिमुखमास्थितः । (अन्यस्थाने तथा भूमौ)
वामेनैवोपवीतं तु कर्णमूले न्यसेत् बुधः ॥ ३.५॥
तृणानि विन्यसेत् भूमौ विण्मूत्रे च विसर्जयेत् ।
गृहीत्वा वामहस्तेन लिङ्गं यावत् समाप्तिकम् ॥ ३.६॥
नासां पिधाय हस्तेन दक्षिणाङ्गुलिकं च यत् ।
यावच्छुद्धिर्भवेदस्य तावन्मौनं समाचरेत् ॥ ३.७॥
दक्षिणेन करेणैव मृदं गृह्य विचक्षणः । (मृदं ग्राह्य)
त्रिःकृत्वाक्षाल्य लिङ्गं तु पञ्चापानं च मृत्तिकाः ॥ ३.८॥
दशवारं वामकरं पञ्चवारं करद्वयम् ।
शोधयेदम्भसा नित्यं गृहस्थानां विधीयते ॥ ३.९॥
द्विगुणं ब्रह्मचारीणां त्रिगुणं वनवासिनाम् ।
चतुर्गुणं यतीनां तु शौचमेवं विधीयते ॥ ३.१०॥
यावच्छुद्धिर्भवेद् बुद्धिस्तावच्छौचं समाचरेत् । (यावच्छुद्धिर्भवेद् बुद्धे)
शुद्धतीरमनुप्राप्य पुनराचमनं चरेत् ॥ ३.११॥
करञ्जनिम्बापामार्गप्लक्षचम्पकवैणवैः ।
वकुलक्षीरवृक्षैर्वा दन्तधावनमाचरेत् ॥ ३.१२॥
कनिष्ठाङ्गुलिनाहंस्यादायतं च दशाङ्गुलम् । (च द्वादशाङ्गुलं)
समच्छेदमृजुं शुभ्रं ह्यार्द्रं च त्वगपवर्गकम् ॥ ३.१३॥ (समच्छेदमृजुं शुद्धं)
षष्ठिपर्वनवम्यां च द्वादश्यां प्रतिपद्यपि ।
मातापित्रोश्च दिवसे नाचरेद्दन्तधावनम् ॥ ३.१४॥
गण्डूषं रविसङ्ख्याभिर्विधाय मतिमान् पुनः ।
सपवित्रकरेणैव सर्वकर्मसमाचरेत् ॥ ३.१५॥
त्रिःकृत्वा तु जलं पीत्वा माषमग्नं पुनः पुनः ।
ऋग्यजुस्सामभिर्भन्त्रैस्त्रिभिः पीत्वा विचक्षणः ॥ ३.१६॥
आस्यं द्विःप्रमृजेत्तत्र सकृन्मृज्य मुखं शनैः ।
ईशानमन्त्रतः प्राज्ञः ऊर्ध्वाधोमार्जयेत्ततः ॥ ३.१७॥
अङ्गुष्ठानामिकाभ्यां तु नेत्रयोः स्पर्शयेत्पुनः ।
अङ्गुष्ठतर्जनीभ्यां तु नासिकायाः पुटद्वयम् ॥ ३.१८॥
कनिष्ठाङ्गुष्ठकाभ्यां तु नेत्रयोः स्पर्शयेत् क्रमात् ।
मध्यमाङ्गुष्ठकाभ्यां तु बाह्वोः संस्पर्शयेद्द्वयोः ॥ ३.१९॥
अङ्गुलीभिश्च वसुभिर्नाभौ हृन्मूर्ध्नि च स्पृशेत् ।
एवमाचमनं प्रोक्तं नियमेन महामुने ॥ ३.२०॥
इति श्रीकुमारतन्त्रे कौशिकप्रश्नमहासंहितायां शौचाचमन-
विधिर्नाम तृतीयः पटलः ।