०२ मन्त्रोद्धारविधिः

ईश्वर उवाच-
मन्त्रोद्धारं प्रवक्ष्यामि श‍ृणु कौशिक सुव्रत ।
स्थले मनोरमे शुद्धे चक्रं कृत्वा लिपिं तथा ॥ २.१॥

अर्चयित्वा यथान्यायं रक्तचन्दनपुष्पकैः ।
येनेष्टमागमत् तेषां तच्छृणुष्व महामुने ॥ २.२॥ (यथेष्टमगमद्देवाः)

अकारादिविसर्गान्तमवर्गमिति चोदितम् ।
ककारादिक्षकारान्तं पञ्चपञ्चाक्षराणि तु ॥ २.३॥

अकारादिक्षकारान्तमष्टवर्गाः प्रकीर्तिताः । See the note at the end
अष्टवर्गद्वितीयं तु स्कन्दबीजमिदं परम् ॥ २.४॥

षष्ठानलसमोपेतं बिन्दुनादसमायुतम् ।
मूलमन्त्रमिदं ज्ञेयं सर्वकामार्थसिद्धिदम् ॥ २.५॥

अयं मूलमन्त्रः - ॐ स्रूं स्कन्दाय नमः । (१)
अष्टवर्गद्वितीयं च षष्ठस्वरयुतं पुनः ।
चतुर्दशस्वरं तस्य बिन्दुनादसमायुतम् ॥ २.६॥

सुब्रह्मण्यचतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् ।
ॐ सूं सौं सुब्रह्मण्याय नमः । (२)
द्विवर्गप्रथमं चैव षष्ठानलसमायुतम् ॥ २.७॥

कवर्गप्रथमं चैव पञ्चमस्वरसंयुतम् ।
कुमारमन्त्रमित्थं स्याद् बिन्दुनादविभूषितम् ॥ २.८॥

ॐ क्रूं कुं कुमाराय नमः । (३)
अष्टवर्गद्वितीयं तु पञ्चमस्वरसंयुतम् ।
स्वामिन् गुहाय मन्त्रान्ते नमोऽन्तं प्रणवादिकम् ॥ २.९॥

बिन्दुनादसमायुक्तं सर्वकामार्थसिद्धिदम् ।
ॐ सुं स्वामिन् गुहाय नमः । (४)
सप्तवर्गस्य पञ्चार्णं चतुर्थस्वरसंयुतम् ॥ २.१०॥

शरवणभवबीजं स्याद् बिन्दुनादसमायुतम् । (शरवणभवस्य)
स्वनामाद्यक्षरेणैव नमोऽन्तं प्रणवादिकम् ॥ २.११॥

ॐ शी शं शरवणभवाय नमः । (५)
अष्टवर्गतृतीयं तु अग्निमायासमायुतम् ।
तस्य वर्गादिमं चैव बिन्दुनादसमायुतम् ॥ २.१२॥

इदं बीजं विजानीयात् षण्मुखाय नमोऽन्तकम् ।
ॐ ह्रीं षं षण्मुखाय नमः । (६)

अथ पञ्च ब्रह्मबीजानि-
सकारं प्रथमं बिन्दुः सद्योजातस्य बीजकम् ॥ २.१३॥

ॐ सं सद्योजाताय नमः । (७)
तृतीयस्वरसंयुक्तं वामदेवमुदाहृतम् ।
ॐ सिं वामदेवाय नमः । (८)
पञ्चमस्वरसंयुक्तमघोरं ब्रह्मबीजकम् ॥ २.१४॥

ॐ सुं अघोराय नमः । (९)
एकादशस्वरोपेतं पुरुषं परिपठ्यते ।
ॐ सें तत्पुरुषाय नमः । (१०)
त्रयोदशस्वरोपेतमीशानं पञ्चमं विन्दुः ॥ २.१५॥

ॐ सों ईशानाय नमः । (११)
इति पञ्च ब्रह्मबीजानि ।

अथ षडङ्गमन्त्राः-
अक्षि २ वेद ४ रसा ६ दित्य १२ मनु १४ षोडशभिः १६ स्वरैः
ॐ सां हृदयाय नमः; ॐ सीं शिरसे स्वाहा;
ॐ सूं शिखायै वषट्; ॐ सैं कवचाय हुं;
ॐ सौं नेत्रत्रयाय वौषट्; ॐ सः अस्त्राय फट् ।
इति षडङ्गमन्त्राः । (१२)

हृदयाद्यस्त्रपर्यन्तं षडङ्गं परिकीर्तितम् ॥ २.१६॥

ॐ सां सीं सूं सैं सौं सः
बीजाद्यन्तं च विद्यां च नमोऽन्तं च नमो यजेत् ।

अथ महावल्लीबीजमन्त्रः–
सप्तवर्गचतुर्थं च (त्व) अग्निमायासमन्वितम् ॥ २.१७॥

बिन्दुनादसमायुक्तं महावल्ल्यास्तु बीजकम् ।
ॐ व्रीं महावल्ल्यै नमः । (१३)
अष्टवर्गतृतीयं च (त्व) अग्निमायासमावृतम् ॥ २.१८॥

बिन्दुनादसमायुक्तं देवसेनासुबीजकम् ।
ॐ देवसेनायै नमः । (१४)

अथ षण्मूर्तिमन्त्राः-
सुब्रह्मण्यः कुमारश्च हरसूनुः सुराग्रजः ॥ २.१९॥

सेनापतिः सुरेशश्च षण्मूर्तिरिह कथ्यते ।
स्वनामाद्यक्षरेणैव नमोऽन्तं प्रणवादिकम् ॥ २.२०॥

षण्मूर्तीनां हि कथितं साम्प्रतं तु समासतः ।
ॐ सुं सुब्रह्मण्याय नमः; ॐ कुं कुमाराय नमः;
ॐ हं हरसूनवे नमः; ॐ सुं सुराग्रजाय नमः;
ॐ सें सेनापतये नमः; ॐ सुं सुरेशाय नमः ॥

इति मूर्तिमन्त्राः । (१५)

जगद्भूश्च वचद्भूश्च विश्वभूरुद्रभूस्ततः ॥ २.२१॥

ब्रह्मभूश्च भुवोभूश्च श्रुतौ षण्मूर्तयः पुनः ।
ॐ जगद्भुवे नमः; ॐ वचद्भुवे नमः;
ॐ विश्वभुवे नमः; ॐ रुद्रभुवे नमः;
ॐ ब्रह्मभुवे नमः; ॐ भुवनभुवे नमः ॥

इति षण्मूर्तिमन्त्राः । (१६)

अथ परिवाराष्टकमन्त्राः -
गजाग्नी च यमश्चैव रक्षो वारुणवायवः ॥ २.२२॥

सोमः सुमित्रो वसुमान् परिवाराः प्रकीर्तिताः ।
स्वनामाद्यक्षरेणैव बिन्दुनादसमायुताः ॥ २.२३॥

ॐ गं गजेन्द्राय नमः; ॐ अं अग्नये नमः;
ॐ यं यमाय नमः; ॐ नं निरृतये नमः;
ॐ वं वरुणाय नमः; ॐ यं वायवे नमः;
ॐ सं सोमाय नमः; ॐ सुं सुमित्राय नमः;
इति परिवारदेवतामन्त्राः । (१७)

अथ मयूरबीजम्-
षष्ठवर्गान्तिमं बीजं मायानलसमायुतम् ।
बिन्दुनादसमायुक्तं मायूरं बीजमुच्यते ॥ २.२४॥

ॐ म्रीं मयूराय नमः ।
इति मयूरमन्त्रः । (१८)

अथ शक्तिबीजम्-
सप्तवर्गान्तिमं बीजं मायाग्निसमबिन्दुकम् ।
शक्तिबीजमिदं प्रोक्तं सर्वकामार्थसिद्धिदम् ॥ २.२५॥

ॐ श्रीं शक्तये नमः ।
इति शक्तिमन्त्रः । (१९)

अथ नवशक्तिबीजमन्त्राः-
शकुनी रेवती पूता महापूता निशीथिनी ।
मालिनी श्यामला बुद्ध्या नवमी विश्वतोमुखी ॥ २.२६॥ (श्यामला बुद्धा)

स्वनामाद्यक्षरेणैव नमोऽन्तं प्रणवादिकम् ।
ॐ शं शकुन्यै नमः; ॐ रं रेवत्यै नमः;
ॐ यं पूतायै नमः; ॐ मं महापूतायै नमः;
ॐ नं निशीथिन्यै नमः; ॐ मं मालिन्यै नमः;
ॐ शं श्यामलायै नमः; ॐ बं बुद्धयै नमः;
ॐ वं विश्वतोमुख्यै नमः ॥

इति नवशक्तिमन्त्राः । (२०)

अथ पञ्चायुधमन्त्रः
शक्तिश्चैव धनुश्चैव शरश्चाक्षः कमण्डलुः ॥ २.२७॥

पञ्चायुधमिदं प्रोक्तं स्वनामप्रणवादिकम् ।
ॐ शं शक्तये नमः । ॐ धं धनुषे नमः ।
ॐ शं शराय नमः । ॐ अं अक्षाय नमः ।
ॐ कं कमण्डलवे नमः ॥

इति पञ्चायुधमन्त्रः । (२१)

अथाष्टमूर्तिमन्त्रः-
कार्तिकेयो विशाखश्च गुहश्चैवासुरान्तकः ॥ २.२८॥

सेनानीः षण्मुखश्चैव मयूरवाहनस्तथा ।
शक्तिपाणिरिति ख्याता एते चैवाष्टमूर्तिपाः ॥ २.२९॥

ॐ अस्य श्री स्कन्दषडक्षरी महामन्त्रस्य । शक्तिः ऋषिः ।
देवीगायत्री छन्दः । श्री षण्मुखो देवता । वं बीजम् । भं शक्तिः ।
मं कीलकम् । मम इष्टसिद्ध्यर्थे जपे विनियोगः ॥

यन्त्रः -
षट्कोणन्तु प्रणवमभितो मा चमार्याणमिश्रे ।
षड्वर्णं स्याद्वसुयुगदले बिन्दुनादं कलार्णम् ॥

काम्यं त्रिंशद्विदशदलयुतं मन्त्रवर्णैष्षडङ्गम् ।
श्रीमच्चक्रं शरवणभवस्येष्टसिद्धिप्रदायि ॥

न्यासः -
ॐ वं हृदयाय नमः । ॐ चं शिरसे स्वाहा ।
ॐ भुं शिखायै वषट् । ॐ वें कवचाय हुम् ।
ॐ नं नेत्रेभ्यो वौषट् । ॐ मं अस्त्राय फट् ।

ध्यानम् -
नौम्यादित्य प्रदीप्तं द्विदशनयनकं षण्मुखं मन्दहासम् ।
वामाङ्गे सुस्थितायास्सरसिरुहधृताऽलिङ्गितायाः प्रियायाः ।
उत्तुङ्गोरुस्तनाग्रे विहितकरतलं भीतिखेटादिशूल-
ह्रादिन्युद्दीप्तशक्तीष्वसनघनगदा कुक्कुटाब्जेषु हस्तम् ॥

षडक्षरमन्त्रः । वचद्भुवे नमः । अयभिष्टकाम्यमन्त्रः ।
ॐ वं वरदसेनान्ये बाहुलेयवचद्भुवे स्कन्द स्कन्दसुब्रह्मण्याय नमः ।
स्वामिन् गुहाय हुं फट् ॥

स्कन्दगायत्री -
ॐ कार्तिकेयाय विद्महे शक्तिहस्ताय धीमहि । तन्नः स्कन्दः प्रचोदयात् ॥

ॐ सुब्रह्मण्यमहामन्त्रस्य । त्रिपुरान्तक ऋषिः । अनुष्टप् छन्दः ।
सुब्रह्मण्यो देवता । भोगमोक्षार्थे जपे विनियोगः ।
ॐ ह्रीं हृदयाय नमः । ॐ श्रीं शिरसे स्वाहा ।
ॐ क्लीं शिखायै वषट् । ॐ सुं कवचाय हुम् ।
ॐ वं नेत्रेभ्यो वौषट् । ॐ यं अस्त्राय फट् ॥

मन्त्रः -
ॐ श्रीं ह्रीं क्लीं सुं वं यं सर्वलोकं मे वशमानय षण्मुखाय
मयूरवाहनाय सर्वराजभयविनाशनाय सर्वदेवसेनापतये सर्वशत्रुं
नाशय नाशय सुब्रह्मण्याय स्वाहा ।
ॐ सं गं विं यं क्षौं स्कन्देश्वराय नमः ।
षडक्षरमः - ॐ शरवणभव ह्रीम् ।
कार्तिकेय यन्त्रः । षट्कोणन्तु प्रणव ।
न्यासः । तन्मन्त्रेण ।
ध्यानम् ।
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभि-
र्दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥

ॐ सुं सुब्रह्मण्याय स्वाहा । ॐ कार्तिकेय पार्वतीनन्दन
स्कन्द वरद वरद सर्वजनं मे वशमानय स्वाहा।
ॐ सौं सूं सुब्रह्मण्याय शक्तिहस्ताय ऋग्यजुस्सामाथर्वणाय
असुरकुलमर्दनाय योगाय योगाधिपतये शान्ताय शान्तरूपिणे
शिवाय शिवनन्दनाय षष्ठीप्रियाय सर्वज्ञानहृदयाय
षण्मुखाय श्रीं श्रीं ह्रीं क्षं गुह रवि कं कालाय कालरूपिणे
सुरराजाय सुब्रह्मण्याय नमः ।
ॐ नमो भगवते महापुरुषाय मयूरवाहनाय गौरीपुत्राय
ईशात्मजाय स्कन्दस्वामिने कुमाराय
तारकारये षण्मुखाय द्वादशनेत्राय द्वादशभुजाय द्वादशात्मकाय
शक्तिहस्ताय सुब्रह्मण्याय ॐ नमः ॥

मालामन्त्रः ।
माला मन्त्रं प्रवक्ष्यामि श‍ृणु कौशिक सुव्रत ।
पूर्वपश्चिमसूत्रैकं दक्षिणोत्तरमेव हि ॥ २.३०॥

वायव्यादग्निभागान्तं युग्मसूत्रं प्रसारयेत् ।
नैरृत्यादीशभागान्तं सूत्रमेवं प्रसारयेत् ॥ २.३१॥

बिन्दुद्वादशकं भ्राम्य रक्तसूत्रेण साधकः ।
तन्मध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ २.३२॥

कर्णिकायां न्यसेन्मन्त्रं मूलमन्त्रं प्रधानकम् ।
प्रणवं विन्यसेत्पूर्वे ह्याग्नेय्यां तु नकारकम् ॥ २.३३॥

मोकारं याम्यदेशे तु भकारं नैरृते दले ।
वारुणे तु गकारं स्याद्वायव्ये तु वकारकम् ॥ २.३४॥

तेकारं सौम्यदिग्भागे ऐशान्यां सविसर्गतः ।
एवं प्रदक्षिणे नैव विन्यसेदक्षराणि तु ॥ २.३५॥

अष्टवर्ग द्वितीयन्तु पञ्चमस्वरसंयुतम् ।
सुब्रह्मण्याय तत्पश्चात् शक्तिहस्ताय तत्परम् ॥ २.३६॥

तारकारिं चतुर्थ्यन्तं तथा शरवणोद्भवम् ।
तस्याधो ऋग्यजुस्सामाथर्वणाय पदं पुनः ॥ २.३७॥

देवद्वयपदं देवसेनापति चतुर्थकम् ।
अकारश्च सुकारश्च रकारश्च कुलस्तथा ॥ २.३८॥

मर्दनाय पदं दिव्यं संहिताय पदं तथा ।
अन्तरिक्षाय तत्पश्चाद्योगाधिपतये पुनः ॥ २.३९॥

ततः कुरु कुरु पदं पश्चाच्चटचटाख्यकम् ।
ईशानन्ताय शान्ताय शान्तरूपीचतुर्थकम् ॥ २.४०॥

षष्ठीप्रियाय तस्यान्ते चतुर्थ्यन्तं शिवाननम् ।
वचद्भुवेति च पुनः सर्वज्ञानपदं तथा ॥ २.४१॥

हृदयाय पदं पश्चात् षण्मुखाय ततः परम् ।
दीपाय दीपकर्त्रे च श्रीं ह्रीं क्षं क्रुं ततः परम् ॥ २.४२॥

कुमाराय पदं पश्चात् कालाय पदमित्यपि ।
कालरूपं चतुर्थ्यन्तं सुरराजाय तत्परम् ॥ २.४३॥

नमो वर्णाश्च चत्वारश्चत्वारिंशच्छताधिकम् ।
एतच्चक्रं समालिख्य चैतान् वर्णांश्च लिख्य च ॥ २.४४॥

यः प्रीणयेन्महासेनं सर्वान् कामानवाप्नुयात् ।
अङ्गारके षष्ठियुक्ते कृष्णपक्षसमन्विते ॥ २.४५॥

शतं सहस्रमयुतं फलमाप्नोत्यसंशयः ।
विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात् ॥ २.४६॥

जयार्थी जयमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।
मालामन्त्रं गुहस्यैतत्सर्वसिद्धिप्रदायकम् ॥ २.४७॥

शारदातिलके-
तारः खङ्गीश्वरक्रमो निस्वरेणान्तरन्ततः ।
भुवनैस्सप्तवर्णास्स्युस्सुब्रह्मण्यात्मको मनुः ।
वह्निबीजेन षट्त्रिंशद्युक्तेनाङ्गक्रिया मता ॥ २.४८॥

ध्यानम् -
सिन्दूरारुणमिन्दुकान्तिवदनं इति ।
लक्षमेकं जपेन्मन्त्रं साद्ध्येन हविषाततः ॥ २.४९॥

दशांशं जुहुयादन्ते ब्राह्मणानपि भोजयेत् ।
धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे ॥ २.५०॥

पूजयेद्विधिना देवमुपचारैर्यथोचितम् ।
केसरेष्वङ्गपूजास्यात् पत्रमद्ध्ये गतानिमान् ॥ २.५१॥

जयन्तमग्निकेशान्तं कृत्तिकापुत्रसंज्ञकम् ।
हेमशूलविशालक्षवज्रधारान्यजेत् क्रमात् ॥ २.५२॥

पूर्वादि दिग्दग्दलाग्रेषु देवसेनापतिं पुनः ।
विद्यां मेधां ततो वज्र कोणस्थं शक्तिकुक्कुटौ ॥ २.५३॥

मयूरं द्विपमभ्यर्च्य बाह्ये लोकेश्वरान्यजेत् ।
अस्त्राणि तेषामन्ते स्युस्सुब्रह्मण्यार्चनेरिता ॥ २.५४॥

दृक्सङ्ख्यान् भक्ष्यभोज्याद्यैः षष्ठ्यां सम्प्रीणयेद्विभुम् ।
पूजयेद्देवता भक्त्या कुमारान् ब्रह्मचारिणः ॥ २.५५॥

सन्तानं विजयं वीर्यं रक्षामायुः श्रियं यशः ।
प्रदद्यात् साधकस्याशु सुब्रह्मण्यस्सुरार्चितः ॥ २.५६॥

ॐ वचद्भुवे नमः ।
॥ इति शारदातिलके ॥

नारायणीये-
तारं वचन्नाभिजले शिवयोनियुते ततः ।
मन्त्रदेवो गुहश्शक्तिः कुक्कुटाब्जाभयान्दधत् ॥ २.५७॥

रक्तो रक्तांशुको मुक्ता प्रचुराकल्पभूषितः ।
कलाङ्गन्यासवत्तेन कर्णिकायां यजेदमुम् ॥ २.५८॥

तारं वचदिति-
ॐ वचद्भुवे नमः ।
॥ इति मालामन्त्रः ॥

अथ षडक्षरन्यासः-
मूर्ध्यास्ये हृदये नाभौ गुह्ये पादद्वये न्यसेत् ।
ॐ वं हृदयाय नमः; ॐ चं शिरसे स्वाहा ।
ॐ भुं शिखायै वषट्; ॐ वें कवचाय हुम् ।
ॐ नं नेत्रत्रयाय वौषट्; ॐ मः अस्त्राय फट् ।
इति षडक्षरन्यासः ।

अस्य श्री वचद्भूमहामन्त्रस्य सनत्कुमार ऋषिः ब्रह्माविश्वामित्रो
वा, गायत्री छन्दः उष्णिग्वा, गुहो देवता । अक्षरलक्षजपे विनियोगः ।
प्रथमावृत्तौ ॥ पुरश्चरणमङ्गैः ॥

द्वतीयावृत्तौ ॥ जयन्ताय नमः; अग्निकेशाय नमः;
कृत्तिकापुत्राय नमः; भूतपतये नमः; सेनान्ये नमः;
गुहाय नमः; हिरण्यशूलाय नमः; विशालाक्षाय नमः ॥

तृतीयावृत्तौ ॥ पत्रेषु - देवसेना पतये नमः; विद्यायै नमः;
मेधायै नमः; वज्राय नमः; शक्तये नमः; कुक्कुटाय नमः ।
मयूराय नमः । द्विपाय नमः; इति पूर्वादिदिक्षु आग्नेयादिकोणेषु च ॥

चतुर्थावृत्तौ ॥ पुनः इन्द्राय नमः इत्याद्यष्टदिक्पालान् ॥

पञ्चमावृत्तौ ॥ वज्राय नमः ॥ इत्यादिदशायुधानि ॥

मयूरगायत्री -
शुक्लापाङ्गाय विद्महे पक्षिराजाय धीमहि ।
तन्नोमयूरः प्रचोदयात् ॥

गजगायत्री -
श्वेतवर्णाय विद्महे वक्रतुण्डाय धीमहि ।
तन्नोगजः प्रचोदयात् ॥

स्कन्दमन्त्रास्समाख्याता मूर्तिध्यानान्यथ श‍ृणु ॥ २.५९॥

अथ षोडशमूर्तिध्यानभेदाः-
ज्ञानशक्तिधरः स्कन्दो देवसेनापतिस्तथा ।
सुब्रह्मण्यो गजारूढः शरकाननसम्भवः ॥ २.६०॥

कार्तिकेयः कुमारश्च षण्मुखस्तारकान्तकः ।
सेनानीर्ब्रह्मशास्ता च वल्लीकल्याणसुन्दरः ॥ २.६१॥

बालश्च क्रौञ्चभेत्ता च शिखिवाहन एव च ।
एतानि स्वामिनामानि षोडश प्रत्यहं नरः ॥ २.६२॥

यः पठेत्सर्वपापेभ्योः स मुच्येत महामुने ।
एतेषां प्रतिरूपाणां ध्यानभेदमथोच्यते ॥ २.६३॥

(१) अथ शक्तिधरस्वामिध्यानम् -
एकास्यं द्विभुजं वामे वज्रं दक्षिणजे करे ।
इच्छाज्ञानक्रियाशक्तिरूपं शक्तिधरं भजे ॥ २.६४॥

(२) स्कन्दस्वामिध्यानम् -
कल्पद्रुमं प्रणमतां कमलारुणाभं
स्कन्दं भुजद्वयमनामयमेकवक्त्रम् ।
कात्यायनीसुतमहं कटिबद्धदाम
कौपीनदण्डधरदक्षिणहस्तमीडे ॥

(३) सेनापतिध्यानम् -
नौम्यादित्यप्रदीप्तं द्विदशनयनकं षण्मुखं मन्दहासं
वामाङ्के सुस्थितायास्सरसिरुहधृतालिङ्गितायाः प्रियायाः ।
उत्तुङ्गोरुस्तनाग्रे विहितकरतलं भीतिखेटादिशूल-
ह्रादिन्युद्दीप्तशक्तीष्वसनवनगदाकुक्कुटाब्जेषु हस्तम् ॥

(४) सुब्रह्मण्यस्वामिध्यानम्-
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभि-
र्दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्ज्वलं (रक्ताङ्गरागांशुकं)
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥

अन्यच्च-
एकवक्त्रं द्विदोर्दण्डं कटिबद्धाभयान्वितम् ।
तरुणारुणसङ्काशं सुब्रह्मण्यमुपास्महे ॥

(५) गजवाहनस्वामिध्यानम्-
एकाननं द्विनयनं वरकुक्कुटौ च
वामद्वये निशितशक्त्यभयद्वयं च ।
बिभ्राणमीश्वरसुतं तपनायुताभं
नित्यं नमामि गजवाहनमिष्टसिद्ध्यै ॥

(६) शरवणभवस्वामिध्यानम्-
शक्तिं घण्टां ध्वजसरसिजे कुक्कुटं पाशदण्डौ
टङ्कं बाणं वरदमभयदं कार्मुकं चोद्वहन्तम् ।
पीतं सौम्यं द्विदशनयनं देवसङघैरुपास्यं
सद्भिः पूज्यं शरवणभवं षण्मुखं भावयामि ॥

(७) कार्तिकेयस्वामिध्यानम्-
वरदकुलिशखेटं वामहस्तत्रये च
दधतमभयशक्तिं खण्डमन्यत्त्रये च ।
तरुणरविसमाभं साधुभिः पूज्यमानं
कमलवदनषट्कं कार्तिकेयं नमामि ॥

(८) कुमारस्वामिध्यानम्-
सव्यद्वये निशितशक्त्यसिमादधानं
वामद्वयेऽभिमतकुक्कुटखेटकं त्वाम् । (खेटकं च)
वल्लीपतिं विबुधलोचनपूर्णचन्द्रं
कल्याणदाननिरतं कलये कुमारम् ॥

(९) षण्मुखस्वामिध्यानम्-
वन्दे सिन्दूरकान्तिं शरविपिनभवं श्रीमयूराधिरूढं
षड्वक्त्रं देवसैन्यं मधुरिपुतनयावल्लभं द्वादशाक्षम् ।
शक्तिं बाणं कृपाणं ध्वजमपि च गदां चाभयं सव्यहस्तैः
चापं वज्रं सरोजं कटकमपि वरं शूलमन्यैर्दधानम् ॥

(१०) तारकारिस्वामिध्यानं
वरदमङ्कुशध्वजे च कटकौ चापवज्र-
मभयपाशचक्रखड्गमुसलशक्तिमन्वहम् ।
द्विदशपाणिभिर्दधानमरुणकोटिसन्निभं
भजत तारकारिमत्र भवविनाशकारणम् ॥

(११) सेनापतिस्वामिध्यानम्-
अभयमसिरथाङ्गं चाङ्कुशं शक्तिशूलं
वरदकुलिशपाशं पद्मदण्डौ गदां च ।
दधतमुभयपक्षद्वादशायामहस्तै-
र्द्विदशकमलनेत्रं देवसेनान्यमीडे ॥

(१२) ब्रह्मशास्तृध्यानम्-
वामे करे च युगले वरकुण्डिके च
सव्येऽक्षसूत्रमभयं दधतं विशाखम् ।
वल्ल्यायुतं वनजलोचनमेकवक्त्रं
वन्दामहे वनजसम्भवशासितारम् ॥

(१३) वल्लीकल्याणसुन्दरस्वामिध्यानम्-
हस्तद्वन्द्वेऽक्षमालामभयमपि धृतं कुण्डिकां श्रोणिबन्धं
सव्ये वामे निषण्णः श्रवधृतविधिनाहूयमानेन युक्तम् ।
सर्वालङ्कारयुक्तं जलकलशधृता विष्णुना चारुणाभं
वल्लीकल्याणमूर्तिं सकलसुरगणैः स्तूयमानं प्रपद्ये ॥

(१४) बालस्वामिध्यानम्-
पद्मसव्यकटिसंयुतवामं
पद्मकान्तिनिभमेकमुखं च ।
बालवृद्धिकरमीश्वरसूनुं
बालमुन्नतभुजं प्रणतोऽस्मि ॥

अन्यच्च-
एकवक्त्रं द्विनयनं पद्मद्वयकरद्वयम् ।
विप्रप्रियकरं वन्दे बालरूपं रविप्रभम् ॥

(१५) क्रौञ्चभेदनस्वामिध्यानं -
अभयशितकृपाणौ शक्तिबाणौ च सव्ये
वरदकुलिशचापं खेटके चान्यहस्ते ।
दधतममरसेनानायकं चाष्टबाहुं
कमलवदनषट्कं क्रौञ्चभेत्तारमीडे ॥

(१६) शिखिवाहनस्वामिध्यानं
विद्रुमप्रभमेकमुखं विभुं वज्रशक्तिवरदाभयपाणिम् ।
देवलोकरिपुघ्नमविघ्नदं नौमि रुद्रभवं शिखिवाहम् ॥

॥ इति षोडशमूर्तिध्यानभेदाः ॥

दाडिमीपुष्पसङ्काशं गुञ्जाभं कुङ्कुमाकृतिम् ।
षड्वक्त्रसहितं देवं द्वादशाक्षं सुयौवनम् ॥ २.६५॥

चतुर्भुजमुदाराङ्गं यज्ञसूत्रेण संयुतम् ।
वरदाभयसंयुक्तं कमण्डल्वक्षधारिणम् ॥ २.६६॥

नक्रकुण्डलसंयुक्तं करण्डमकुटोज्ज्वलम् ।
हारकेयूरकटकं कटिसूत्रैर्विभूषितम् ॥ २.६७॥

रत्नविद्रुमभूषाढ्यं नववीरसमायुतम् ।
पादनूपुरसंयुक्तं सर्वाभरणभूषितम् ॥ २.६८॥

सर्वलक्षणसंयुक्तं कुमारं शङ्करात्मजम् ।
महावल्लीदेवसेनायुक्तं सुरगणप्रियम् ॥ २.६९॥

इत्थं रूपं यजेन्नित्यं सर्वलोकहितावहम् ।
चतुर्भुजं बालवेषं स्कन्दं कनकसप्रभम् ।
शक्तिकुक्कुटहस्तं च वरदाभयसंयुतम् ॥ २.७०॥

विद्रुमनिभद्विदशहस्त रविनेत्र
शक्तिशरखड्गमभयध्वजगदां च ।
वामकरचापकुलिशाब्जवरशूल
खेटधर सव्यकर षण्मुख नमस्ते ॥ २.७१॥

द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः ।
पद्मधृत्सव्यपाणिश्च इतरः पद्मधृत्करः ॥ २.७२॥

बालरूपः प्रतिष्ठायां ग्रामस्यैवाभिवृद्धये ।
द्विहस्तो यज्ञसूत्राढ्यास्सशिखस्सत्रिमेखलः ॥ २.७३॥

कौपीनदण्डधृत्सव्यपाणिः कट्याश्रितः परः ।
स्थापयेद्दैवतं स्कन्दं पर्वतेषु वनादिषु ॥ २.७४॥

चतुर्भुजस्त्रिणेत्रश्च कर्णयोः पत्रकुण्डलः ।
नक्रकुण्डलयुक्तो वा समीपे शक्तिकाद्वयः ॥ २.७५॥

दक्षिणे वामहस्ते च साक्षमाला कमण्डलुः ।
वरदाभयसंयुक्तः कटिसूत्रेण भूषितः ॥ २.७६॥

मयूरवाहसंयुक्तोप्यथवा युक्तसामजः ।
शक्तिभ्यां च युतो वाऽपि तयोर्लक्षणमुच्यते ॥ २.७७॥

द्विनेत्रे द्विभुजे शान्ते पद्मधारकरावुभौ ।
लम्बमानकरे चैव श्यामा रक्तसमप्रभे ॥ २.७८॥

महावल्लीदेवसेना सर्वाङ्गमतिसुन्दरे ।
इत्थं लक्षणसंयुक्तो ग्रामे वा नगरेऽपि वा ॥ २.७९॥

षडाननो द्विषड्बाहुरर्कश्रोत्रेक्षणान्वितः ।
द्विषट्कर्णेक्षणैर्युक्तप्रतिमौलिभिरन्वितः ॥ २.८०॥

सशक्तिस्साभयस्सासिस्साक्षमालस्सकुक्कुटः ।
सखेटकस्त्वयं स्थाप्यो वृद्धये पत्तनादिके ॥ २.८१॥

रक्ताम्बरसमायुक्तो बालचन्द्रसमप्रभः ।
करण्डमकुटोपेतो हस्तद्वादशकस्तु वा ॥ २.८२॥

शक्तिं च मुसलं खड्गं चक्रपाशाभये वहन् ।
दक्षिणे दक्षिणे वज्रं कार्मुकं खेटकं तथा ॥ २.८३॥

मयूरं वा ध्वजं वाऽपि साङकुशं वरमावहन् ।
सोमपीथी मयूरस्थः शक्तिद्वयसमायुतम् ।
ग्रामादौ स्थापनीयोऽयं प्रासादादौ तु सिद्धये ॥ २.८४॥

षड्वक्त्रं शिखिवाहनं त्रिनयनं रक्ताम्बरालङ्कृतं
शक्तिं चर्म च खड्गशूलविशिखाभीतिं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं तथा
ध्यायेदीप्सितसिद्धिदं शशिधरं स्कन्दं सुराराधितम् ॥

लोकालोकान्धकारप्रतिहतकिरणैर्भानुकोटिप्रकाशं
भूमिन्यस्तैककोटिष्वसनमपि शरं लम्बमानोर्ध्वकायम् ।
हस्ताभ्यां चेतराभ्यां धृतमथ कुलिशं शक्तिमम्भोरुहाक्षं
सर्वालङ्कारयुक्तं भजत सुरपुरीपालकं बाहुलेयम् ॥ (भजत सुरपरिपालकं)

॥ इति श्रीकुमारतन्त्रे मन्त्रोद्धारविधिर्नामद्वितीयः पटलः ॥