कैलासशिखरे रम्ये भूतसन्धैर्निषेविते ।
सिद्धगन्धर्वसङ्गीते विचित्रकुसुमोज्ज्वले ॥ १.१॥
देवर्षियक्षगन्धर्वदिव्यस्त्रीगणसेविते ।
तत्रासीनं महादेवं स्फुरति स्फाटिके स्थले ॥ १.२॥
देवं त्रिलोचनं नत्वा प्राञ्जलिः कौशिको मुनिः ।
प्रसीद देवदेवेश प्रसीद वृषभध्वज ॥ १.३॥
प्रसीद परमेशान भव सर्वज्ञ शङ्कर । (परमेशान भर्ग)
प्रसीद मे विरूपाक्ष प्रसीद वृषसञ्चर ॥ १.४॥
प्रसीद मन्मथाराते कालकाल प्रसीद मे ।
प्रसीद गौरीरमण गङ्गाधर महेश्वर ॥ १.५॥
प्रसीद विश्वदेवेश प्रसीद स्कन्दवत्सल ।
स्तुत्वैवं परया भक्त्या पर्यपृच्छन् महातपाः ॥ १.६॥
कुमारतन्त्रं भगवन् श्रोतुं कौतूहलं हि मे ।
कारणाख्यं महातन्त्रं ग्रन्थकोटिप्रविस्तरम् ॥ १.७॥
बह्मणे यत् पुरा प्रोक्तं त्वया सर्वविदा मुदा ।
तस्मिंस्तन्त्रे समाख्यातं कौमारं तन्त्रमीश्वरम् ॥ १.८॥
तत् तन्त्रमखिलं देव विस्तरेण वद प्रभो ।
ईश्वर उवाच-
यत् त्वया चोदितं तन्त्रं तत् प्रवक्ष्यामि कौशिक ॥ १.९॥
कुमारतन्त्रमधुना नित्यं नैमित्तिकं ततः।
काम्यं च त्रिविधं प्रोक्तं राजराष्ट्राभिवृद्धये ॥ १.१०॥
तन्त्रसङ्करदोषेण राजराष्ट्रं विनश्यति ।
तस्मात् कुमारतन्त्रोक्तमार्गेणैव गुहं यजेत् ॥ १.११॥
मन्त्रोद्धारविधिं पूर्वं शौचमाचमनं ततः ।
स्नानानुष्ठानमार्गं च सुब्रह्मण्यार्चनाविधिम् ॥ १.१२॥
नैवेद्यं चाग्निकार्यं च नित्योत्सवविधिं ततः ।
कुण्डानां लक्षणं चैव मण्डलस्य तु लक्षणम् ॥ १.१३॥
गुहदीक्षाविधानं च स्नापनानां तु लक्षणम् । (स्नपनस्य च लक्षणम्)
स्कन्दोत्सवविधिं चैव प्रायश्चित्तविधानकम् ॥ १.१४॥
जीर्णोद्धारविधिं चैव वास्तुहोमक्रमं ततः ।
शान्तिहोमविधानं च दिशाहोमविधिं पुनः ॥ १.१५॥
मूर्तिहोमविधानं च पञ्चगव्यविधिं ततः ।
पञ्चामृतविधिं चैव बालस्थापनमार्गकम् ॥ १.१६॥
सम्प्रोक्षणविधिं चैव प्रतिमालक्षणं ततः ।
दारुशूलप्रतिष्ठां च सर्वबेरप्रतिष्ठिकाम् ॥ १.१७॥
चलबेरप्रतिष्ठां च गुहास्त्रस्य प्रतिष्ठिकाम् ।
गर्भन्यासविधानं च तथैव प्रथमेष्टिकाम् ॥ १.१८॥
प्रासादलक्षणं चैव ततो मूर्ध्नेष्टिकाविधिम् ।
प्राकारलक्षणं चैव परिवारविधिं ततः ॥ १.१९॥
लक्षणं कारणानां तु पादुकाप्रोक्षणं ततः ।
आत्मार्थयजनं चैव तैलाभ्यङ्गविधिं ततः ॥ १.२०॥
मासपूजाविधिं पश्चादङ्कुरार्पणमार्गकम् ।
महावल्लीदेवसेनास्थापनस्य विधिं ततः ॥ १.२१॥
सुमित्रस्थापनं चैव गजस्थापनमार्गकम् ।
रथप्रतिष्ठिकां चैवाप्यभिषेकविधिं ततः ॥ १.२२॥
ततः स्कन्दकलान्यासं श्रीसुब्रह्मण्यमातृकाम् ।
श्रीसुब्रह्मण्यकवचं प्रदक्षिणनमस्क्रियाम् ॥ १.२३॥
आचार्यलक्षणं चैव सायं रक्षाविधिं ततः ।
शय्यागृहप्रवेशं च प्रवक्ष्यामि यथाक्रमम् ॥ १.२४॥
मन्त्रभेदो भवेदत्र क्रियाभेदो न विद्यते ।
अष्टाविंशतितन्त्रेष्वप्यनुक्तं सङ्ग्रहेद् बुधः ॥ १.२५॥
इति श्री कुमारतन्त्रे कौशिकप्रश्ने तन्त्रावतारक्रमो नाम प्रथमः पटलः ।