००

Source: TW

मानसतरङ्गिणीकृत्

It is a late compilation clearly influenced by the saiddhAntika-vidhi (already present in aghorashiva deshika’s subrahmaNya manual): e.g., mention of siddhAntapustaka and use of pa~nchabrahma-s as done by saiddhAntika-s. However, it draws from much earlier kaumAra material found in other tantra-s.

विस्तारः (द्रष्टुं नोद्यम्)

The content within the ( ) at the end of a line
contains footnote / variation. The content
within [ ] pertains to additional information.

The book kumAratantram was edited by E.M. Kandaswami Sarma. Lord Ishvara revealed the nectar of Kumara Tantram to Kaushika Mahamuni. Composed of 3523 verses, the Kumara Tantram is a part of Shrimal Lalitagamabheda scripture which in turn is part of the ocean of Shaivagama. The Kumara Tantram gives detailed methods in the worship of our beloved Lord Subrahmanyam Swami.

The following are observations and possible variations:
When drawing up the vargas (groups) of the mantrodhara as per verse 2.3, the eight groups may be
(1) अ to अः,
(2) क to ङ,
(3) च to ञ,
(4) ट to ण,
(5) त to न,
(6) प to म,
(7) य to श
(8) ष to क्ष - this is likely with ळ .
First group contains sixteen vowels अ to अः. Second group onwards, each varga has five syllables. Thus, the eight groups are formed of all syllables from अ to क्ष .

Based on the above grouping, the third alphabet of the eighth varga is ह and as given in verse 2.18 the beeja akshara of ह्रीं is formed. Hence, the mantra ॐ देवसेनायै नमः । (14) may be ॐ ह्रीं देवसेनायै नमः । (14) along with the beeja akshara of ह्रीं.

As given in verse 2.23, the first akshara of the name with bindu is to be added. Hence, instead of ॐ यं वायवे नमः , the variation may be ॐ वं वायवे नमः . Similarly, as given in verse 2.26 instead of ॐ यं पूतायै नमः the variation may be ॐ पं पूतायै नमः.
These are observations through Academic study.
— Preeti

Proofread by Preeti N Bhandare pnbhandare at gmail.com

कुमारतन्त्रम्
ॐ सुब्रह्मण्याय नमः ।

अनुक्रमणिका

१. प्रथमः पटलः - कौशिकप्रश्ने तन्त्रावतारक्रम ।
२. द्वितीयः पाटलः - मन्त्रोद्धार विधिः ।
३. तृतीयः पटलः - शौचाचमनविधिः ।
४. चतुर्थः पटलः - स्नानानुष्ठानविधिः ।
५. पञ्चमः पटलः - नित्यपूजाविधिः ।
६. षष्ठः पटलः - नैवेद्यविधिः ।
७. सप्तमः पटलः - अग्निकार्यविधिः ।
८. अष्टमः पटलः - नित्योत्सवविधिः ।
९. नवमः पटलः - कुण्डलक्षण ।
१०. दशमः पटलः - मण्डल विधिः ।
११. एकादशः पटलः - दीक्षाविधिः ।
१२. द्वादशः पटलः - स्नपनविधिः ।
१३. त्रयोदशः पटलः - स्कन्दोत्सवविधिः ।
१४. चतुर्दशः पटलः - प्रायश्चित्तविधिः ।
१५. पञ्चदशः पटलः - जीर्णोद्धारविधिः ।
१६. षोडशः पटलः - वास्तुहोमविधिः ।
१७. सप्तदशः पटलः - शान्तिहोमविधिः ।
१८. अष्टादशः पटलः - दिशाहोमविधिः ।
१९. एकोनविंशः पटलः - मूर्तिहोमविधिः ।
२०. विंशः पटलः - पञ्चगव्यविधिः ।
२१. एकविंशः पटल - पञ्चामृतविधिः ।
२२. द्वाविंशः पटलः - बालस्थापनविधिः ।
२३. त्रयोविंशः पटलः - सम्प्रोक्षणविधिः ।
२४. चतुर्विंशः पटलः - प्रतिमालक्षणविधिः ।
२५. पञ्चविंशः पटलः - शूलस्थापनविधिः ।
२६. षड्विंशः पटलः - अचलस्थापनविधिः ।
२७. सप्तविंशः पटलः - चलबेरप्रतिष्ठाविधिः ।
२८. अष्टाविंशः पटलः - शक्त्यस्त्रस्थापनविधिः ।
२९. एकोनत्रिंशः पटलः - गर्भन्यासविधिः ।
३०. त्रिंशः पटलः - आद्येष्टकाविधिः ।
३१. एकत्रिंशः पटलः - प्रासादलक्षणविधिः ।
३२. द्वात्रिंशः पटलः - मूर्ध्नेष्टिकाविधिः ।
३३. त्रयस्त्रिंशः पटलः - प्राकारलक्षणविधिः ।
३४. चतुस्त्रिंशः पटलः - परिवारविधिः ।
३५. पञ्चत्रिंशः पटलः - करणलक्षणविधिः ।
३६. षट्त्रिंशः पटलः - पादुकाप्रोक्षणविधिः ।
३७. सप्तत्रिंशः पटलः - आत्मार्थयजनविधिः ।
३८. अष्टत्रिंशः पटलः - तैलाभ्यङ्गविधिः ।
३९. एकोनचत्वारिंशः पटलः - मासपूजाविधिः ।
४०. चत्वारिंशत्पटलः - अङ्कुरार्पणविधिः ।
४१. एकचत्वारिंशत्पटलः - महावल्लीदेवसेनास्थापनविधिः ।
४२. द्विचत्वारिंशत्पटलः - सुमित्रस्थापनविधिः ।
४३. त्रिचत्वारिंशत्पटलः - गजस्थापनविधिः ।
४४. चतुश्चत्वारिंशत्पटलः - रथप्रतिष्ठाविधिः ।
४५. पञ्चचत्वारिंशत्पटलः - महाभिषेकविधिः ।
४६. षट्चत्वारिंशत्पटलः - स्कन्दकलान्यासविधिः ।
४७. सप्तचत्वारिंशत्पटलः - मातृकान्यासविधिः ।
४८. अष्टचत्वारिंशत्पटलः - सुब्रह्मण्यकवचविधिः ।
४९. एकोनपञ्चाशत्पटलः - प्रदक्षिणनमस्कारविधिः ।
५०. पञ्चाशत्पटलः - आचार्यलक्षणविधिः ।
५१. एकपञ्चाशत्पटलः - सायरक्षाविधिः ।

आमुखं

निजशक्तिभित्तिनिर्मित-
निखिलजगज्जालचित्रनिकुरुम्बः ।
स जयति शिवः परात्मा
निखिलागमसारसर्वस्वम् ॥

अयि भोः विपश्चिदपश्चिमाः आगमाभिज्ञाः सज्जनाः । विज्ञातमेव हि भवतां यत्किल परमकारुणिको विश्ववन्द्यः सकलकल्याणगुणगणैकनिलयो भगवान् पशुपतिः लोकाननुजिघृक्षुः स्वयं प्रश्नोत्तरैर्वाक्यैः तन्त्रापराभिधमागमं समवतारयत्, यच्च कल्पभेदेन प्रवाहानादिविधया अविच्छेदेनानुवर्तमानं, प्राचीनार्वाचीनतन्त्रज्ञपरम्परया सातिशयं परिपोषितं, प्रतिसंस्कृतं, प्रचारितं, प्रसारितं सत् चरीवर्ति इति ।
आगतं पञ्चवक्त्रात्तु गतं च गिरिजानने ।
मतं च वासुदेवस्य तस्मादागममुच्यते ॥

गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ।
प्रश्नोत्तरपदैर्वाक्यैः तन्त्रं समवतारयत् ॥

इति महास्वच्छन्दतन्त्रे आगमनिरुक्तिपूर्वकं तन्त्रागमयोरनर्थान्तरमभ्यधायि । आसमन्तात् गमयति अभेदेन विमृशति पारमेशं स्वरूपमिति कृत्वा परशक्तिरेवागमः, तत्प्रतिपादकस्तु शब्दसन्दर्भः तदुपायत्वात् शास्त्रस्य,'' इति स्वच्छन्दोद्योते आगमपदस्य अर्थं विवृण्वन्, ईश्वरस्वरूपप्रतिपादकशब्दराशिरिति प्रकटीकृतम् । आगच्छन्ति बुद्धिमारोहन्ति यस्मात् अभ्युदयनिःश्रेयसोपायाः स आगमः’’ इति वाचस्पतिमिश्राः तत्त्ववैशारद्यामवोचन् । इदमागमशास्त्रं नित्यमनादि, वेदमूलत्वात् ।

न जात्वकर्तृकं कश्चिदागमं प्रतिपद्यते ।
बीजं सर्वागमापाये त्रय्येवादौ व्यवस्थिता ॥

इति वैय्याकरणतल्लजभर्तृहरिणा आगमानां प्रवाहानादित्वप्रतिपादनेन
नित्यत्वमनुमोदितम् ।
``तानि पूर्वागमेषु विच्छिन्नेषु अन्येषु प्रणेतृषु आगमान्तरानुसन्धाने बीजवदवतिष्ठन्ते । तान्येव बीजान्यासाद्य पुनः प्रणेतृभिरागमा निबध्यन्ते इति प्रवाहानादित्वं सिद्धमिति नागमा अप्रमाणम्’’ इति वाक्यपदीयटीकाकाराः ग्रन्थकाराशयं विशदीचक्रुः ।

पञ्चवक्त्रोद्गतत्वोक्त्या आगमस्य नित्यतायाः न क्षतिः ।
श्रीकण्ठाचार्यैः शास्त्रयोनित्वाधिकरणे वेदानां ईश्वरप्रणीतत्वेऽपि नित्यत्वस्याविरुद्धता सुष्ठु उपपादिता । तद्दत्रापि । प्रलये वेदानां परमेश्वरबुद्धिगोचर तयैवानुवृत्तिः, सर्गादौ तु तेषां परश्रवणगो चरतया वैखरीवृत्तिविशिष्टत्वेन परमेश्वरप्रणीतत्वं इत्युभयमप्यविरोधेनोपपद्यते'' इति शिवार्कमणिदीपिकाकाराः अप्पय्यदीक्षिताः असन्दिग्धमभ्यवदन् ॥ मैवं, तत्पूर्वपूर्वक्रममनुसरता शम्भुना निर्मितास्ताः साक्षादेव प्रमाणं स हि भवति ततो नैव कस्यापि हानिः’’ इति नयमणिमालाकारवचनं श्रीकण्ठाशयं विशदयद्विजृम्भते ।

``अहमेव पशूनामधिपतिरसानीति तस्मात् रुद्रः पशूनामधिपतिः’’
इति त्रिपुरभेदनशुल्करूपेण स्वयंवृतपशुपतिकस्य,
अष्टादशानामेतासां विद्यानां भिन्नवर्त्मनाम् ।
आदिकर्ता कविःसाक्षाच्छूलपाणिरिति श्रुतिः ॥

सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः ।
अघोरः सामवेदस्तु पुरुषोऽथर्व उच्यते ।
ईशानश्च सुरश्रेष्ठः सर्वविद्यात्मकः स्मृतः ॥

इत्याद्यार्षेयवचनानुमोदितस्य वेद-वेदाङ्ग -तदुपबृंहणसमस्तविद्यात्मकस्य जगदवनैकजागरूकस्य परमेश्वरस्य सद्योजातवामदेवाघोरतत्पुरुषेशान-मुखपञ्चकनिर्गलितकामिक-योगज-कारण-प्रसृत-अजित-दीप्त- अंशुमत्सुप्र-भेद-विजय-निःश्वास-स्वायम्भुव-अनल-वीर-रौरव मुकुट-विमल-चन्द्रज्ञान-बिम्ब-प्रोद्गीत-ललित-सिद्ध-सन्तान- किरण-वातुल-सूक्ष्म-सहस्र-सर्वोत्तर पारमेश्वराभिधानां ज्ञानविज्ञानात्मकैहिकामुष्मिकाभ्युदयनि श्रेयसोयपाय- वर्णनपरसदाशिवाभिन्नविभिन्नदेवतोद्देश्यसाङ्गोपाङ्गपूजा क्रियाविधिप्रयोगप्रकाशकात्मकागमप्रभेदानां प्रामाण्ये, को वा सचेताःसन्देग्धि ।

सदाशिवसमुदीरितानां अष्टाविंशत्यागमभेदानां स्वरूपं कामिके तन्त्रान्तरेषु च विस्तरेण प्रतिपादितम् ।

श्रीमदभिनवगुप्ताचार्यैस्तन्त्रालोके शैवागमस्याष्टाविंशतिप्रभेदत्वमुल्लिखितम्-
``दशाष्टादश वस्वष्टभिन्नं यच्छासनं विभोः’’ इति ॥

सर्वतन्त्रस्वतन्त्रैः श्रीमदप्पय्यदीक्षितैः शिवार्चनचन्द्रिकायां-
स्त्रोतस्यूर्ध्वे भवेज्ज्ञानं शिवरुद्राभिधं द्विधा ।
कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः ॥

अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः ॥ इत्यादिना शैवागमस्याष्टाविंशतिविधा विवृता ।

श्रीमद्भिः भास्कराचार्यैः सौभाग्यभास्करे त्रिपुरसुन्दरीवर्णन-व्याजेन कामिकप्रभेदानामागमानां नामनिर्देशः कृतः-
कामिकं पादकमलं योगजं गुल्फयोर्युगम् ।
पादद्वयाङ्गुलीरूपे कारणप्रसृताह्वये ॥

अजिता जानुनोर्युग्मं दीप्तमूरुद्वयं विभोः ।
पृष्ठभागेंशुमानस्य नाभिः श्रीसुप्रभेदकम् ॥

विजयं जठरं प्राहुः निःश्वासं हृदयात्मकम् ।
स्वायम्भुवं स्तनद्वन्द्वं अनलं लोचनत्रयम् ॥

वीरागमः कण्ठदेशो रुरुतन्त्रं श्रुतिद्वयम् ।
मुकुटं मुकुटं तन्त्रं बाहवो विमलागमः ॥

चन्द्रो ज्ञानमुरः प्रोक्तं बिम्बं वदनपङ्कजम् ।
प्रोद्गीततन्त्रं रसना ललितं गण्डयोर्युगम् ॥

सिद्ध ललाटफलकं सन्तानं कुण्डलद्वयम् ।
किरणं रत्नभूषा स्यात् वातुलं वसनात्मकम् ॥

अङ्गोपाङ्गानि रोमाणि तन्त्राण्यन्यानि कृत्स्नशः ।
एवं तन्त्रात्मकं रूपं महादेव्या विचिन्तयेत् ॥ इति

अष्टाविंशत्यागमान्यतमललितागमान्तर्गतं प्रकृतं कौमारं तन्त्रम् । ललितागमस्य ललितं ललितात्तरं कोमार'' मिति त्रया भेदाः उक्ताः । ईश्वरः स्वविद्यागुरोः कुमारस्य पूजा क्रियाविधिप्रतिपादकं तन्त्रं साञ्जलिबन्धं पृष्टवते कौशिकायोपदिदेश । तन्त्रेऽस्मिन् उक्तम्- ईश्वर उवाच- यत्त्वया चोदितं तन्त्रं तत्प्रवक्ष्यामि कौशिक । कुमारतन्त्रमधुना नित्यं नैमित्तिकं ततः ॥ इति कामिके आगमोत्पत्तौ, उत्तरकामिके गोत्रनिर्णयपटले, कारणे प्रश्नपटले च कुमारतन्त्रोल्लेखः कृतः । मन्त्रभेदा भवेदत्र क्रियाभेदो न विद्यते ।
अष्टाविंशतितन्त्रेष्वप्यनुक्तं सङ्ग्रहेद्बुधः’’ ॥

इति प्रश्नपटलान्त्यवचनात् ज्ञायते कुमारपूजाक्रियाविधिप्रतिपादकेष्वागमान्तरेष्वनुक्ता विशेषविधय एवात्र सङ्गृहीताः इति ।

तन्त्रमिदं प्रश्नमन्त्रोद्धारशौचाचमनस्नानानुष्ठान-
नित्यपूजानैवेद्याग्निकार्यनित्योत्सवकुण्डलक्षणमण्डलगुहदीक्षा-
स्नपनस्कन्दोत्सव- प्रायश्चित्ताद्येकपञ्चाशत्पटलविभक्तं कुमारस्य पूजा क्रियाविधिमुपदिशति ।

इदञ्च तन्त्रं ग्रन्थलिप्यां मुद्रितपूर्वमपि इदानीं अप्राप्यं वर्तते । ग्रन्थलिपिमुद्रणात औत्तराणां तान्त्रिकाणां अप्रवेशं पर्यालोच्य,देवनागरीलिप्यां मुद्रणाय प्रयत्न आदृतः ।

तन्त्रमिदं प्राचीनं तालपत्रलिखितं ग्रन्थलिप्यां एकं कागजलिखितं आन्ध्रलिप्यां एकं, ग्रन्थलिप्यां मुद्रितं एकं इति आहत्य ग्रन्थत्रयेण संवाद्य संशोध्य अपेक्षितपाठभेदपुरस्सरं देवनागरीलिप्यां मुद्रितं भवत्समक्षमुपहारीकृतम् ।

जीर्णालयोद्धरणधर्मतोऽपि गरीयसि अत्र विलुप्तप्रबन्धपुनरुज्जीवने श्रमसाध्ये व्यवसाये प्रवृत्तानां वार्धवयमप्यनादृत्य अविरतोद्यमानां दाक्षिणात्यार्चकसङ्घसञ्चालकानां श्रीस्वामिनाथशिवाचार्याणां महीयानयं संरभः आगमिकानां अभिज्ञानां प्रशंसापात्रतामावहति ।

कोशसंवादे, संशोधने, पाठभेदनिर्णये च सोत्सुकं दत्तावधानाः मम सुहृदः श्रीमत्परमेश्वरनामानः आगमिकैः नूनं बहुमानार्हाः । अत्यन्तजागरूकतयैतद्ग्रन्थसम्पादने कृतपरिश्रमाणां श्रीकन्दस्वामिशिवाचार्याणामाद्योऽयमुद्योगः स्तुत्यो विद्वदादरणीयश्च ।

इदं ग्रन्थरत्नं तत्र तत्र अपेक्षितानां मन्त्रभागानां विवरणपुरस्सरं, आगमान्तरसंवादसहितं प्रयोगविशेषाणां विवेचनपूर्वकं मुद्रालक्ष्यनिर्देशेन साकं सम्मुद्र्य प्रकाशयितव्यमिति सङ्कल्पितमासीत् । किन्तु श्रेयांसि बहुविध्नानि इति रीत्या पदे पदे विध्नवाहुल्यात् आगमिकानामाकाङ्क्षापूर्ति मनसि निधाय प्रकाशने अविलम्ब आदृतः । यथासङ्कल्पितं चेदं तन्त्रं प्रकाशमेष्यतीति विश्वसिमि ।
इत्थं
विद्वज्जनविधेयः
के। वि। शेषाद्रिनाथशर्मा
साहित्य -आयुर्वेदशिरोमणिः
साहित्याचार्यः
३१-१-१९७५
संस्कृतकल शाला, मद्रपुरी ।


ॐ शिवाभ्यां नमः ।
॥ अथ कुमारतन्त्रम् ॥