ज्ञानसिद्ध्यागम

विस्तारः (द्रष्टुं नोद्यम्)

IFP transcript 178 copied from a MS belonging to the GOML, Madras. No. R 16810. Although it calls itself an Aagama this text reads more like a tract with dealing a miscellenia of topics related to śaiva Yoga.

॥ ज्ञानसिद्ध्यागमः ॥

ज्ञानं राष्ट्राद्यथा ज्ञेयं ग्रामं मालाकलांशकम् ।
प्राण वाय्वंश भेदं याऽऽत्म भेदं गजोऽस्य च ॥ १ ॥

पशुपाश विधानेषु अज्ञान चोदिता ध्वजम् ।
दशनाद ध्वनिर्वाद्य शुद्धिशैवाज्ञ सम्भवम् ॥ २ ॥

इत्यर्थैः सदृशं कुर्याद्दशाङ्गस्य विधिक्रमम् ।
वेदान्त सिद्धान्त नादान्त विद्याबोधान्त ॥ ३ ॥

भेदैः समयान्तकान्तैः सच्छाम्भवान्तस्सहमुद्रिकान्तः ।
तत्वान्त साधकान्तञ्च बोधकान्तपरान्तकः ॥ ४ ॥

शिवान्तैर्मुक्तान्त भेदैः षोडशन्त इति स्थितम् ।
एकैकान्तं सदा दृश्यन्तत्सम्बन्धेन हि सिद्धिजम् ॥

मुक्त्यर्थं तद्भवेन्नित्यमेकैकं परदर्शनम् ।
तुर्यातीते परावस्था पदे तत्पर दर्शनम् ॥

उपशान्ते समावस्थे परात्पर शिवं दृशेत् ।
त्वं तत्पदे * * * * * * वेदान्त दर्शनम् ॥

॥ सिद्धान्तम्-

अथ मन्त्रस्य शुद्धेन योगाष्टाङ्गस्य निर्णयम् ।
ज्ञानज्ञेय ज्ञातृन्नान्तं मुक्तान्तेन शिवं दृशेत् ॥

सदानन्ते तथा नृत्त नृत्तन्ते शाम्भवस्य तु ।
दिव्यागमार्थेन सिद्धर्थ * * * * दर्शनम् ॥

॥ नादान्तम् ॥

मेधादि नादान्त पदे परेण शक्त्यन्तभेदैः समनान्तकान्तैः ।
अन्त्ये परा शक्ति परेषु योज्यं नादान्तमभ्यासक नित्यसिद्धिः ॥

तत्व भिन्नोदय ग्रन्थैः पुरुषार्थं प्रकाशितम् ॥

प्। २)

तच्छून्ये केवला वस्था तत्तुर्ये जीव दर्शनम् ।

शुद्ध केवल दर्शनम् ।

इत्यर्थे स्वप्रकाशस्य बोधान्तस्तत्र उच्यते ॥ २ ॥

तद्भावे सन्ततं स्थित्वा तन्नित्ये तत्प्रकाशितम् ।

॥ योगान्तम् ॥

यमाद्यष्टाङ्गयोगेन समन्तार्थस्समाधये ।
सन्ततं सततं स्थित्वाऽणिमाद्यष्टसिद्धिजम् ॥

आत्मा सिद्धान्त विशेष निष्ठा * * * * * * ।

तत्तत्पराशान्दह साधकेन सिद्ध्यर्थशुद्धमहदर्थ सिद्धम् ।

सत्यान्तम् ॥

योगेन मन्त्राननतारदृश्यैरुत्पन्ननादान्तगुणाभिधानैः ।
संयोग्य केणोदकबन्धतारैः सन्दर्शनं तत्सद सत्यवन्तम् ॥

समयान्तम् ॥

अन्येऽष्टौ करभेद कष्टसमयेऽत्यन्त मोहादृशेः
अन्यायैर्जल्पमात्रैरपरिमित कल्पा भाषान्तवेषान्तरे ॥

तत्तन्मानस भावभेद निसमै मन्त्रे परे
वेदान्तागमयेवय कान्त समयान्तस्थे पराबोधकम् ॥

शाम्भवान्तम् ॥

शाम्भवे पञ्चभेदे तन्त्रातीतेषु शाम्भविक मुद्राः ।
तन्मुद्रादृशबोधैः सत्यज्ञानप्रकाश शाम्भवेति ॥

मुद्रान्तम् ॥

मुद्रान्त नृत्तकान्तं स्वरूपान्तं तन्त्रे बोधकानन्तम् ।
तदा नन्दैर्युज्य मोक्षं तद्भावे सिद्धिप्रशाम्भव प्रकाशम् ॥

तत्वान्तम् ॥

तत्वत्रयविधानस्य यया कुण्डलिविग्रहे ।
संयोज्य बोधतत्वान्तन्तस्य लक्षणम् ॥

प्। ३)

साधकान्तम् ॥

न मरुभय सुबन्धो हि ज्वालामये सदाशुद्धे ।
हिमकर दिनकर बन्धे सिद्ध्यर्थद्वादशोदयं सत्वे ॥

वेधकान्तम् ॥

आत्मवेधकपरवेधक शिववेधकं मलं वेधकम् ।
स्वात्मबद्ध समवेधकं सुलभशान्ति स्वरूपसुखवेधकम् ॥

गात्रवेधक भेदकान्तं कलापरोदय वेधकं
साक्षिकेवलवेधकान्तगुणशाङ्करम् ॥

परम शाम्भवम् ॥

परान्तम् ॥

वान्तं ग्रन्थिरूपं ग्रन्थ्यन्तं पुरुष केवलाभावम् ।
केवल भाव परोऽहं विश्वग्रासान्तशान्त सुपरान्तम् ॥

त्वं पद शून्य पदेषु केवल रूपं परोदय व्यापकम् ।
अन्त्ये परशिवमन्य परात्परानन्दम् ॥

जीवन्तं मुक्ति परामुक्तिः शिवमुक्तित्रयात्मकम् ।
स्वरूप स्वस्वरूपेण सूक्ष्म रूपेण मोक्षवान् ॥

अति सूक्ष्म स्वरूपेण मुद्रार्थेन विमुक्ति च ।
मुक्तान्ते नृत्तनृत्तान्ते मुक्त्यर्थ भेदकम् ।

नृत्तानन्दि पदे व्याप्तं मुक्त्यन्तं मोक्ष शाम्भवम् ।
षोडशान्तमिति ख्यातं शुद्ध शैवस्य निर्णयम् ॥

देव्युवाच-

देवदेव जगन्नाथ शिवानन्द महेश्वर ।
शुद्ध शैवस्य सिद्धान्तं शुद्धशून्य प्रकाशकम् ॥

शुद्ध सन्मार्ग तत्वार्थं शुद्धवेदान्त साधनम् ।
शुद्धज्ञानमयाकारं शुद्धयोगं किमुच्यते ॥

महेश्वर उवाच-

शृणु देवि तथा प्रोक्तं सर्व शास्त्रार्थ दुर्लभम् ।
सर्ववेद * मार्थस्य यत्सारं तत्परात्परम् ॥

प्। ४)

यत्तत्वन्तत् पराकारं परबिन्दूद्भवं तथा ।
परापरादिधातान्त द्वादशं तत्व उच्यते ॥ ३१ ॥

परात्परो पत्परोपन्नापरा शक्तस्तदुद्भवम् ।
इच्छाज्ञान क्रियाशक्ति तद्भवा शक्ति रुद्भवम् ॥ ३२ ॥

ज्ञानेच्छा स्वक्रियामध्ये शिवशक्तिः सदाशिवम् ।
नादबिन्दु विभेदोक्तष्षट् तत्वं न प्रकाशितम् ॥ ३३ ॥

सदा शिवान्महेशस्य म * * द्राद्भवं तथा ।
रुद्रोत्पत्तिर्यथा विष्णुस्तदा उत्पन्न आत्मभूः ॥ ३४ ॥

सृष्टिकालविधानोक्तं सर्वतत्व प्रकाशितम् ।
ब्रह्मा विष्णुश्च रुद्रश्चेश्वरश्च सदाशिवः ॥ ३५ ॥

बिन्दुनाद द्विधा * * शिवं परपरात्परम् ।
तन्मध्ये द्रुहिणादीनाञ्चतुष्के सकलोद्भवम् ॥ ३६ ॥

सादाख्यं बिन्दु नादोक्तं सकलाकल मुच्यते ।
शिवशक्ति परस्त्रीणि परात्पर चतुर्थकम् ॥ ३७ ॥

इच्छाज्ञान क्रियात्म * * * लञ्चेति कीर्त्यते ।
परात्परं द्विधावान्तं तत्वसारं हि शोधनम् ॥ ३८ ॥

सकलं निष्कलं चैवो भयोस्त्रीणि वर्गकम् ।
त्रिवर्गगस्त्रीण मध्यस्थे आत्मविद्या शिवत्रयम् ।
षड्विंश भेदोक्तं तत् स्त्रीण्युद्भव साधनम् ॥ ३९ ॥

इच्छाज्ञान क्रिया तत्वे नवशक्तिस्तदुद्भवम् ।
शक्त्यादि स्वपरान्तानि प्रासादाग्रोद्भवं तथा ॥ ४० ॥

नव शक्तिर्विधिप्रोक्ता नवमूलागम यामलम् ।
तत् शा * * * * * ञ्चैव तत्व सिद्ध शाम्भवम् ॥ ४१ ॥

प्। ५)

शाम्भवं पञ्चमं प्रोक्तं तत्व दीक्षार्थ शोधनम् ॥ ४२ ॥

सत्यशाम्भव शुद्धाचोदग्रशाम्भवमुत्तरात् ।
अनुक्ताश्शां भवश्चेति शाम्भ * * * लक्षणम् ॥ ४३ ॥

वेदान्तार्थ नवं ज्ञानं सिद्धन्तं परमं शुभम् ।
वेदस्य विहिताचार दक्षिणाचार मुच्यते ॥ ४४ ॥

विपरीतं वाममार्गं शाक्तोऽयं शैवगोचरम् ।
इच्छा ज्ञान क्रियाशक्ति मध्ये * * * मन्तिका ॥ ४५ ॥

मन्त्रा शक्त्युद्भवं शेषं वाक् शक्त्याः पञ्चमस्तथा ।
परा परात्पराकारं शिवशक्तिस्तदुद्भवम् ॥ ४६ ॥

नादबिन्दूद्भवाकारमोङ्कारं शुद्धतत्वकम् ।
शुद्ध ज्ञान * * * * शुद्धं वा शक्तिकारणम् ॥ ४७ ॥

ज्ञानबीजं पराकारमोङ्कारं प्रभुरीश्वरम् ।
सदाख्यस्य शिवाकारं कलापञ्चम सम्भवम् ॥ ४८ ॥

अकारोकारमकार बिन्दुनादं च पञ्चसु ।
ओङ्कार सकलाकार * * * पञ्चमोद्भवम् ॥ ४९ ॥

महासूक्ष्मं नादमुत्पन्नं सूक्ष्माद्बिन्दु समुद्भवम् ।
पश्यन्ति तन्मकारोजम् उकारो मध्यमोदयम् ॥ ५० ॥

अकारोत्पन्न वैखर्या आदिवाक् पञ्चसाधनम् ।
तन्मध्येशान ईशं च रुद्र विष्ण्वात्म भूरितम् ॥ ५१ ॥

पञ्चमः सकलीशक्तिः पञ्चशन्त्युद्भवं तथा ।
सृष्ट्यादि पञ्च कृत्यर्थं ब्रह्मादेर्दैव सम्भवम् ॥ ५२ ॥

ब्रह्मणा शतकोट्यंश वैष्णवं कोटि तत्समम् ।
रुद्रभेदमनेक * * * भेदाष्टविंशतिः ॥ ५३ ॥

प्। ६)

सादाख्यं पञ्चमं प्रोक्तं नादबिन्दु चतुर्थकम् ।
इच्छा ज्ञानक्रियाशक्ति पर माया च पञ्चधा ॥ ५४ ॥

सदाशिवं नादशिवं नादान्तस्य पराशिवम् ।
मन्त्ररूपशिवं चात्मा शिवं पञ्चम तच्छिवम् ॥ ५५ ॥

निराकारं त्वत्परं च शकारं त्रिपरांशकम् ।
परान्तं परनादान्तं शिवान्तं त्रिपरात्परम् ॥ ५६ ॥

सृष्टिकाले त्रिबिन्द्वर्थे त्रिकोणाकार सम्भवम् ।
तत्स्थानं बैन्दवं तत्वं बीजत्रय समुद्भवम् ॥ ५७ ॥

नादबिन्दुस्तथाकारं बिन्दुशक्तिस्तदुद्भवम् ।
नादान्तादि धरण्यान्तं षट्त्रिंशत्तत्वरूपकम् ॥ ५८ ॥

तन्मध्ये प्रणवाकारं तद्बीजात्मोद्भवं तथा ।
त्रिकोणस्य महामध्ये चतुर्वर्णं समाश्रितम् ॥ ५९ ॥

एवं मध्यगतं बीजं कामबीजं परांशकम् ।
मुक्तिबीजमितिख्यातं सर्वमन्त्रात्मकं परम् ॥ ६० ॥

त्रिकोणबीजं त्रिधाकारे ऋग्यजुः साममुद्भवः ।
मध्यमे प्रणवोत्पन्नमधर्वे दन्तदन्तकम् ॥ ६१ ॥

तत्सर्वं कुण्डली व्याप्तं सर्वतत्वार्थ कारणम् ।
त्रिवेदं कर्म काण्डानाम् अथर्वं ज्ञानरूपकम् ॥ ६२ ॥

निदन्तं परिशिवात्मद्वयोरैक्यं परात्परम् ।
तत्सम व्रताय सिद्ध्यर्थं दशावस्था विवेधकम् ॥ ६३ ॥

तत्तत्सन्मार्ग सिद्ध्यर्थं तत्तत्सन्मार्ग साधनम् ।
तत्तद्विधा महाविद्या तच्चेदान्तविधिस्थिताम् ॥ ६४ ॥

वेदान्तं शैव सिद्धान्तं द्वयोरैक्यं शिवात्परम् ।
शुद्धशैव स्वसंवेद्यं शुद्धसन्मार्गरूपकम् ॥ ६५ ॥

प्। ७)

चतुर्वेदं यदिश्वेतं वेदम्पञ्च विभेदकम् ।
अकारादि कलापञ्च स्थाने तद्वाक् भवोद्भवम् ॥ ६६ ॥

ब्रह्माद्यैशान पर्यन्तं कलापञ्चम कारणम् ।
सद्योजातादिकं वेधाम् ईशानान्तं सदाशिवम् ॥ ६७ ॥

मूर्तिः पञ्चम मध्यस्थेऽष्टाविंशागमोद्भवम् ।
बिन्दुनादपराशक्ति शिवशक्तिस्तु पञ्चधा ॥ ६८ ॥

तन्मध्येमूल तन्त्राणाम् अष्टाविंशागमोद्भवम् ।
तत्तदाभ्यन्तरश्शक्येन्नव तन्त्रागमोद्भवम् ॥ ६९ ॥

वाग्मीवृत्तिः पञ्चमश्शक्तिर्मध्ये वेदोद्भवं तथा ।
सर्व वर्णं स्वशास्त्रार्थं बिन्दु तत्वोद्भवं तथा ॥ ७० ॥

दिव्यागम वृत्तिः ॥ तन्त्रावतारविवेकः ।
नवागम रहस्यार्थेऽष्टाविंशतोदयम् ॥ ७१ ॥

परात्परं द्वेधा शिवशक्ति समन्विता ।
बिन्दुनादकलाकारा पराशक्तिसमन्विता ।
शिवः सादाख्ययोर्भेदा मूर्ति सादाख्य सम्भवाः ॥ ७२ ॥

एवमेतत्क्रमार्थांशी विभवं तन्नवा गमम् ।
शक्त्यर्थं यामलोद्भेदं नवभेदमनेकधा ॥ ७३ ॥

शिवः शक्तिस्तथा बिन्दुः नादः सादाख्य पञ्चमम् ।
मूलाष्टविंशतिश्शास्त्रं जाताः सर्वत्र कारणम् ॥ ७४ ॥

सद्यं वाममघोरं च पुरुषैशान पञ्चमम् ।
तत्तत्प्रोक्तमतं शास्त्रं कामिकाद्यष्टविंशतिः ॥ ७५ ॥

सिद्धिन्नामागमश्शास्त्रं सारन्नमागम त्रयम् ।
कालोत्तरादिभिर्भिन्नं तन्मूलस्योप भेदकम् ॥ ७६ ॥

कामिकादिर्विभेदार्थं शतद्व्यशताधिकम् ।
वेद सारागमं शास्त्रं वेदान्तञ्चागमान्तकम् ॥ ७७ ॥

प्। ८)

मूर्तैक मूर्तिका प्रोक्तं वेदागमद्विभेदकम् ।
वाक् चतुर्वर्ण्यमध्यस्थे शास्त्रं सर्वोदितं भवेत् ॥ ७८ ॥

मूलागमाञ्च सन्मार्गं सहमार्गं शिवं गमम् ।
शिवसृष्टि पञ्चमाकारं शक्त्यागमन्तु अष्टमम् ॥ ७९ ॥

सादाख्यं पार्वती प्रोक्तं तन्त्रा वा तारयो नवः ।
देवसारं दशांशं च गणेश सारैकयो दश ॥ ८० ॥

वाम गौरवद्योर्भेदं गौतमञ्च गणेश्वरम् ।
नन्दी केशं पञ्चदशमैन्दुसारं सुषोडशम् ॥ ८१ ॥

गौरीसारागमं पञ्चामहेशासारं ततः परम् ।
अघोरसारागमं पश्चाद्विष्णुसारमतः परम् ॥ ८२ ॥

ब्रह्मसारं ततः पश्चात्ततः समयसारकम् ।
महोद्भवोद्भवं चैव रुद्रावतार सम्भवम् ॥ ८३ ॥

सौन्दर्यं सिद्धसारं च महागामन्तु षष्ठमम् ।

ख सममतम् ॥

सादाख्यं पार्वती प्रोक्तमातन्त्रावतारयो नवः ॥ ८४ ॥

देवसारं दशांशञ्च तस्माद्गौरव सम्मतम् ।
इत्यष्ट विंशतिर्भेदो मूलपादान कारणम् ॥ ८५ ॥

चतुर्विंशञ्च तद्वेति ह्यष्टाविंशो विभेदकम् ।
अन्याष्ट भेद सङ्कल्पमष्ट विद्येश्वरोदितम् ॥ ८६ ॥

एवमष्टाविंशतिर्भेदा सारं तन्त्रावतारकम् ।
सन्मार्गं सहमार्गं च मूलदिव्यागमोदितम् ॥ ८७ ॥

इदं शास्त्रं शिवोवाक्यं मूलतन्त्रावतारकम् ।
नन्दिकेशं महाप्रोक्तं किञ्चित्तन्त्रावतारकम् ॥ ८८ ॥

सहस्रदिव्यागमार्थस्य सारंसारोत्तरं शुभम् ।

प्। ९)

मूलागमन्तु सन्मार्गं सर्वमार्गं शिवागमम् ॥ ८९ ॥

शिवसृष्टिशक्तिरित्यर्थं सादाख्ये पार्वतीमतम् ।
तन्त्रावतारयोरैक्य नमः शुद्ध शैवकाः ॥ ९० ॥

शुद्ध शैवागमेऽत्यर्थं मन्य चैवान्य तन्त्रकम् ।
नन्दिकेशं परं गुह्यं योग ज्ञान प्रवर्तकम् ॥ ९१ ॥

शिवसाङ्ख्यं योगसाङ्ख्यं साङ्ख्यं भेदागमद्वयम् ।
निर्वाणसार साङ्ख्यैक ज्ञानसार द्वितीयकम् ॥ ९२ ॥

तत्वसारं त्रिधाभेदं देवि विघ्ने शयोर्गुहः ।
कारणं मार्गवं शुद्धं क * कण्ठं ततोऽधिकम् ॥ ९३ ॥

शैव भेदागमेऽत्यर्थं साक्षान्मोक्ष प्रवेशकम् ।
पूर्वकाण्डमिति प्रोक्तं सूक्ष्म सिद्धान्त शाम्भवम् ॥ ९४ ॥

उत्तरः काण्डयः पश्चाद्यपरं कामिकादिकम् ।
कामिकं योगजं चिन्त्यं कारणत्वजितं तथा ॥ ९५ ॥

दीप्तं सूक्ष्मं सहस्रं चांशुमान् सु प्रभेदकम् ।
विजयं चैव निश्वासं स्वायम्भुवमथानलम् ॥ ९६ ॥

वीरञ्च रौरवञ्चैव माकुटं विमलं तथा ।
चन्द्रज्ञानं च बिम्बञ्च प्रोद्गीतं ललितं तथा ॥ ९७ ॥

सिद्धं सान्तानसार्वोक्तं पारमैश्वर्यमेव च ।
किरणं वातुलं चैवाष्टा विंशति संहिताः ॥ ९८ ॥

कामिकादि तथा पञ्च सद्योजाताननोद्भवम् ।
दीप्तादिः पञ्चमो भेदः वामदेवाननोद्भवम् ॥ ९० ॥

विजयादि पञ्चमो भेदं तन्त्राघोराननोद्भवम् ।
रौरवादिस्तथा पञ्च तत्पुरुषाननोदितम् ॥ १०० ॥

प्। १०)

प्रोद्गीताद्यष्टमो भेद मीशानानाननोदितम् ।
इ * * विंशतिश्शास्त्रे रूप भेदागम क्रमम् ॥ १०१ ॥

चतुर्विंशेच्छत द्वैवा तत्तद्भेदा परिम्मिता ।
अपराष्टविंशतिर्भेदा शैवसिद्धान्तकल्पना ॥ १०२ ॥

पूर्वाष्ट विंशति प्रोक्ता चतुष्पादज्ञेय कल्पना ।
अन्यथा आगमः प्रोक्तः शिवधर्मोत्तरं द्विधा ॥ १०३ ॥

नानाचार प्रवृत्त्यर्था नाना सिद्धान्त भेदकः ।
पौष्करा योग साङ्ख्यार्थास्तत्वसाराधिभेदकाः ॥ १०४ ॥

अकेकार्थागमः सङ्ख्याश्चतुष्पादा * * * * ।
देवि कालोत्तर स्कन्दकालोत्तर द्वयोत्तराः ॥ १०५ ॥

सर्वज्ञानोत्तरः सङ्ख्या इत्यादि ज्ञान सङ्ख्यकाः ।
नाना शैव प्रवृत्त्यर्थे नाना शैवागमोदिताः ॥ १०६ ॥

अनन्तागमयोः सङ्ख्या आदि कालेश कल्पना ।
मन्त्र तन्त्र क्रिया योगात् ज्ञानं शैवार्थ निर्णयम् ॥ १०७ ॥

शैव शाक्तोद्भवं तत्वं शाक्तं शैवोद्भवं तथा ।
उभयं सम्पुटीकृत्य परा प्रासादवेधकम् ॥ १०८ ॥

प्रासाद परयोरैक्यं शाम्भ * * * * दितम् ।
शिव शक्त्यात्मकं पादं शुक्लरक्त प्रकाशकम् ॥ १०९ ॥

तदैक्यं विश्रान्ति तत्वं तद्भावं परमं पदम् ।
शैवं शाक्तमयं तत्वं तत्वातीतं परं शिवम् ॥ ११० ॥

कुलार्णवं कुलोत्तीर्णं कुलसद्भावं कुलामृतम् ।
परोत्तरागमार्थञ्च कालीकाकुलशासनम् ॥ १११ ॥

प्। ११

सिद्धामृताम्नया सिद्धिरित्यादिश्शाक्त वामजम् ।
नवयामलयोर्भेदं तत्तद्भेदमनेकधा ॥ ११२ ॥

शाक्तेयं शाम्भव * * * * * सम्बन्धकारणम् ।
त्रैविद्यान्तमिति प्रोक्तमिदं शास्त्र त्रिमेलनम् ॥ ११३ ॥

शुद्ध शैवमितिख्यातं शुद्ध शाम्भव सम्भवम् ।
प्रासाद परयोरैक्यं शुद्धशैवं द्विधा * * ॥ ११४ ॥

शाक्तेयं शाम्भवं शैवं वेदान्तमागमान्तरम् ।
नादान्तवन्न नाटान्तञ्च सक्यं द्रान्तशाम्भवम् ॥ ११५ ॥

एवं नवान्तयश्शुद्धि शुद्धशैवा प्रकाशकम् ।
सद्योन्तं प्रणवाग्रं च मुद्रान्तं तन्निसाधनम् ॥ ११६ ॥

पा * * * * * प्रोक्तं षडशस्योपभेदकम् ।
व्रतकालामुखः प्रोक्ता एकैकः पञ्चपञ्चमः ॥ ११७ ॥

भैरवस्याष्टभेदाश्च चतुष्षष्ट्योपभेदकाः ।
वामं षोडश * * * * * तद्भेदमनेकधा ॥ ११८ ॥

द्वादशं शैव भेदाश्च तद्विशेषकं शिवाद्वितिम् ।
लकुलीश्वरयोर्भेदाः पञ्चधा परिकीर्तिताः ॥ ११९ ॥

शैवान्य भेदकाष्षष्ठि सङ्ख्या सङ्ख्यागमार्थकाः ॥ १२० ॥

नाना कोट्यंश * शं मूर्तिभेदागमार्थिकम् ।
बिन्दुशक्तिर्भवेद्येवं वाग्भवं शास्त्रकल्पितम् ॥ १२१ ॥

बैन्दवः कलहश्शास्त्रा परज्ञान प्रवर्तकाः ।
शास्त्रं तत्परमं गुह्यं परात्परतर * * ॥ १२२ ॥

नानाभेदागमार्थन्तु तच्चतुष्पाद कल्पना ।
अनन्तागमयोर्मध्ये सारात् सराष्टविंशति ॥ १२३ ॥

प्। १२)

तन्मूलागम तद्भेदा नवधा मूल कल्पना ।
तत्तत्सारांश सारार्थं तन्त्रावतार शास्त्रकम् ॥ १२४ ॥

वेदागमरहस्यार्थे वेदागमान्त विस्मयम् ।
शुद्ध शैव प्रकाशार्थ शुद्ध शाम्भव सम्भवम् ॥ १२५ ॥

शुद्धशैवस्तथा सारं सारात्सारं प्रकाशितम् ।
सारात्सारतरं गुह्यं गुह्याद्गुह्यं प्रकाशितम् ॥ १२६ ॥

शाक्तस्य शाम्भवं शैवं शिव शाम्भव शाक्तकम् ।
वेदान्त सिद्धान्त विज्ञान गम्यं वेदान्त सिद्धान्त तद्ज्ञानगम्यं

द्व्यैकत्वम् ॥

वेदान्त सिद्धान्त भिन्नैरभिन्नं वेदान्त सिद्धान्त विश्रान्तिमुक्तिम् ।

शुद्धशैवस्वसिद्धान्तमिदं शास्त्रप्रवर्तकम् ।
शुद्धशून्य प्रकाशत्वं व्योमकेशं परंशिवम् ॥ १२७ ॥

शुद्धसन्मार्ग तत्वार्थं शुद्धज्ञान प्रकाशितम् ।
शुद्ध वेदान्त तत्वार्थं तत्वमस्मादि शोभनम् ॥ १२८ ॥

शुद्धज्ञान मयाकार परावरपरं गुरुम् ।
शुद्धयोगकलातीतम् उन्मन्यन्तं परं शिवम् ॥ १२९ ॥

पूर्वोक्त वासना प्रोक्तम् इदं देवि वरानने ।
शुद्ध शैव प्रवृत्त्यर्थ समाहितेति शङ्करि ॥ १३० ॥

॥ ज्ञान सिद्ध्यागमे प्रथमस्तन्त्रावतारसंहिताधिकारः समाप्तः ॥

देव्युवाच-

देव देव महादेव महायोगि महेश्वर ।
महेशान महामन्त्रि वन्द्यते त्वमहं शिवम् ॥ १ ॥

प्। १३)

अचिन्त्य ज्ञान सङ्केतं कृत्य परं परम् ।
अभाव सङ्केतमित्यर्थं प्रासाद कुर्वं सदाशिवः ॥ २ ॥

ईश्वर उवाच-

शृणु देव्यचिन्त्यार्थं शिवात्मैक्यं शिवोद्भवम् ।
पतिपाश पशुज्ञानं खण्डा खण्डा विकल्पकम् ॥ ३ ॥

शिव लक्षण विवेकः-

शिवस्य लक्षणं वक्ष्ये समासात्परमेश्वरि ।
शिवं परात्परं सूक्ष्मं निर्विकल्पं निरञ्जनम् ॥ ४ ॥

तत्वा तीतं परं दन्तु तुर्यातीतं परं शिवम् ।
नादातीतं तु नादान्तं सदानन्दं सदाशिवम् ॥ ५ ॥

अभोक्तममल ज्ञानमविनाशिकमनात्मिकम् ॥ ६ ॥

शुद्धत्वं शुद्ध सङ्केतं शुद्धात्मं स्वप्रभावितम् ।
अध्व षड्भेद सङ्केतं व्याप्तिनि व्याप्ति निर्णयम् ॥ ७ ॥

प्रासादं परमं मन्त्रं परामन्त्रं तदैक्यकम् ।
प्रासादपरयोरैक्यं रक्त शुक्लञ्च मिश्रितम् ॥ ८ ॥

रक्तं शुक्लं च मिश्रञ्च द्विविधं पादलक्षणम् ।
रक्तं त्वत्पादमेवन्तु शुक्लं मत्पादमेव च ॥ ९ ॥

रक्तशुक्ल * * * * भुक्ति मुक्त्यर्थ कारणम् ।
रक्तशुक्ल प्रभाभिन्नं शिव शक्त्यर्थकं परम् ॥ १० ॥

सान्तं षान्तद्वयोर्वर्णं बिन्दुनाद समुद्भवम् ।
आत्ममन्त्रमितिख्यातं प्रासाद परमाक्षरम् ॥ ११ ॥

॥ शिवलक्षण विवेकः समाप्तः ॥

॥ प्रासाद विवेकः ॥

प्राशब्दं स्याच्छिवज्ञानं साशब्दं गतिरुच्यते ।
दमत्स्वरूपमेवन्तु त्रिवर्णमभिधीयते ॥ १२ ॥

अध्वा सङ्केतमार्गं * * * * * स्वरूपकम् ।
वर्णकलापदं तत्वं मन्त्रो भुवन एव च ॥ १३ ॥

सर्वं कलादि संसर्गं तन्निवृत्यादि रूपकम् ।
निवृत्ति प्रतिष्ठा विद्या च शान्त्यतीतश्च पञ्चमम् ॥ १४ ॥

अत्मान्तरात्मपरं ज्ञानात्मा न स्वमूर्तकम् ।
सर्वमन्त्रतनुं प्राप्य पञ्चकृत्य शिवं कुरु ॥ १५ ॥

इच्छाज्ञान क्रियाशक्तिरिच्छायाः पञ्चकृत्यकाः ।
इच्छाज्ञानक्रियारूपम् कारणत्रयमीश्वरम् ॥ १६ ॥

पञ्चमोनाद शक्त्यर्थं कारणत्रयमादिकम् ॥ १७ ॥

बिन्दुशक्तिस्तथा पीठं नादशक्ति स्वलिङ्गकम् ।
बिन्दुनाद समात्मानं बिन्दुरेफं परात्परम् ॥ १८ ॥

परमं बिन्दुमध्यस्थे वैखर्यादिश्च तोयदम् ।
वैखरी मध्यमा चान्त्या पश्यन्ती सूक्ष्म सञ्ज्ञका ॥ १९ ॥

वैखरी श्रोत्र विषया सविकल्पा तु मध्यमा ।
निर्विकल्पां तृतीयां वाशां कारणमन्त्यमः ॥ २० ॥

प्। १५)

ज्ञान सिद्ध्यागमः ।

मध्याद्भवं सूक्ष्मं कारेकः पश्यन्ति सम्भवम् ।
उकारे मध्योत्पन्नमकारे वैखर्योदितम् ॥ २१ ॥

ग्रर्तिसंयुक्तं हङ्कारोकारमकारम् ।
बिन्दुतत्व प्रतीकाशं बैन्दवस्तत्व रूपकम् ॥ २२ ॥

बिन्दुमध्योद्भवं सूक्ष्ममकारे पश्यन्ती सम्भवम् ।
एवं वाग्वृत्ति सङ्केतं वैखर्यादि * र्णमुद्भवम् ॥ २३ ॥

उकार उकार मकार बिन्दुनादं च पञ्चमम् ।
मनो बुद्धिरहङ्कारश्चित्त * * * * * * ॥ २४ ॥

बिन्दुमध्योदितं सर्वं तत्कालं बैन्दवं तथा ।
लयकालं तटाकुटिला तन्मध्ये प्रणवोदितम् ॥ २५ ॥

ओ औ मायात्रयो बन्धं त्रिवृत्ताः कुण्डली तथा ।
तत्र कुण्डलिनी मध्ये इडापिङ्गलयोद्भवम् ॥ २६ ॥

इडा पिङ्गलयोर्मध्ये सुषुम्नानाम स्वरूपकम् ।
सुषुम्नाभ्यन्तरे सूक्ष्मै चित्र नाटिप्रवेशनम् ॥ २७ ॥

चित्रनाडिस्वमध्यस्थे प्राणापानसमन्वितः ।
प्राणापानद्वयो * * * * परमकारणम् ॥ २८ ॥

हकारं शिवरूपत्वं सकारं शक्तिरुच्यते ।
हकार सकारयोर्मध्ये बिन्दुरूपं परायणम् ॥ २९ ॥

बिन्दु मध्येगतो नादो नाद मध्ये गतः शिवः ।
शिव मध्ये गतः शान्तं शान्त्यतीतं परात्परम् ॥ ३० ॥

सर्वोदित द्विधा शक्तिर्माया कुण्डलिनी तथा ।
माया कुण्डलिनी भेदा सर्वलोकं चराचरम् ॥ ३१ ॥

प्। १६)

ग्रन्थि जन्यं कलाकालं विद्यारागेन्द्रियादयः ।
गुणधी गर्वचित्ताक्षमात्रा भूतान्य * * * ॥ ३२ ॥

कुण्डलिनी शक्ति माया कर्मानुसारिणी ।
नादबिन्द्वादिकं कार्यं तस्या इति जगत्स्थितिः ॥ ३३ ॥

कलाषोडशयोर्भेदं मूलकुण्डलिनोद्भवम् ।
कलाषोडशयोरूप चन्द्रकान्ते प्रतिष्ठितम् ॥ ३४ ॥

तत्र षोडशयोः शक्तिश्चन्द्रदेहे प्रतिष्ठितम् ।
अन्य मन्त्र कलारूपं प्रासादपरमाक्षरम् ॥ ३५ ॥

अकारश्च उकारश्च मकारोबिन्दुरेव च ।
अर्धचन्द्र निरोधी च नादो * * * * * * * * ॥ ३६

शक्तिश्च व्यापिनी चैव समना चोन्मना तथा ।
समनान्तं पाशजालमुन्मन्यन्ते परं शिवम् ॥ ३७ ॥

प्रस्थारं च विस्तारञ्च निस्थारं च क्रियोद्भवम् ।
स्थैर्यमित्यनुसन्धत्ते प्रासादे पङ्क्तिस्तु पञ्चमाः ॥ ३८ ॥

अकार स्वररूपत्वमुकारापीश रूपकम् ।
मकारं विषरूपत्वं बिन्दुरेव फकाक्षरम् परम् ॥ ३९ ॥

अर्धचन्द्रस्तथाकारं निरोधे तत्त्रिकोणकम् ।
हलबिन्दुद्वयं नादं * * * तत्प्रतीहलम् ॥ ४० ॥

हलमित्राङ्गितश्शक्ति व्यापिनी तत्र शूलकम् ।
कुब्जिका व्योमरूपी चा नन्तादि शक्ति षष्ठमाः ॥ ४१ ॥

षड्बिन्दुः चूलिकाकारं तदग्रं तु शलाकया ।
तच्छिवं निष्कलं तत्वं प्रस्थारार्थमिति स्थितम् ॥ ४२ ॥

प्। १७)

मध्ये षडवयव व्याप्तिविस्तीर्णं विस्थरक्रमम् ।
एकैक योज्ययोर्भावं निस्तारं निस्थर क्रमम् ॥ ४३ ॥

परान्तं परयोर्दृष्ट्वा स्थैर्यमित्यङ्ग भावनात्मकम् ।
तदानुसन्न्धान संवृत्ति प्रासादस्त * * * ॥ ४४ ॥

अध्वा षोढा तत्र पदवर्णमस्त्रन्तु सर्गजा ।
सर्वस्य शक्तिरूपत्वात् एते वाचक रूपकाः ॥ ४५ ॥

वाच्य रूपन्त्रिक द्वन्द्वम् एतच्छक्ति शिवात्मकम् ॥ ४६ ॥

वाच्यवाचक व्युत्पन्नं बैन्दवं मलसम्भवम् ।
आदिकारण मृद्रूपं तच्चक्रं सहकारणम् ॥ ४७ ॥

निमित्तस्य कुलालोक्त त्रियैव मृद्भाण्ड सम्भवम् ।
ततोऽवग्रन्थि मृद्रूपं कुण्डलीचक्र संस्थितम् ॥ ४८ ॥

परदेशं कुलाले * कुरुते तच्चराचरम् ।
इच्छाज्ञान क्रियाशक्तिरिति व्याप्तस्य कारणम् ॥ ४९ ॥

सृष्ट्यादिः पञ्चमं कृत्यं ब्रह्मादि * * साधकम् ।
सर्वसृष्टिमयं बिन्दु तन्मध्ये वर्णमुद्भवम् ॥ ५० ॥

अचिन्त्य कुण्डलीशक्तिर्मध्ये सर्वोदितं भवेत् ।

कृत्यर्थम् ॥

तत्वात्मबन्धय सृष्टि तद्भोक्त स्थिति साधनम् ॥ ५१ ॥

तत्वात्मनः पृथग्भावं तत्संहारं समुच्यते ।
कर्म कुर्वन्ति तत्काल स्थिरो भावं तिरोभवम् ॥ ५२ ॥

चतुर्थं कुरुते कृत्यं तदनुग्रह साधनम् ।

प्। १८)

एवं पञ्चमकृत्यर्थं पञ्चदिव्यादि संस्थितम् ॥ ५३ ॥

सूक्ष्म कृत्यं तु पञ्चैते केवलस्याग * * * ।
बोधनं शोधनं मूढं बन्धनं शंसनं तथा ॥ ५४ ॥

महासंहार काले तु कुटिलांशो ततोदितम् ।
इच्छा ज्ञान क्रियाशक्ति सङ्ग्रहं मूर्तिविग्रहम् ॥ ५५ ॥

ज्ञान रूपं शिवाकारं * * रूपन्तु शक्तयः ।
ज्ञानक्रिया समं तत्वं तत्सादाख्य स्वरूपकम् ॥ ५६ ॥

ज्ञानशून्यं क्रियाधिक्यं महेशस्तत्व विग्रहम् ।
क्रिया नूनं योगसिद्धं शुद्ध विद्यार्थ शङ्करम् ॥ ५७ ॥

इच्छाधिके क्रमं विष्णुः ब्रह्मणस्तत्व मुच्यते ।
तस्मादिच्छादयो भेदं ब्रह्म विष्णु स्वरूपकम् ॥ ५८ ॥

रुद्रो विष्णुर्विधानोक्तं कल्पभोगाधिकारकम् ।
बिन्दुशक्तिस्तथामध्ये मायाशक्ति समुद्भवम् ॥ ५९ ॥

मायाशक्ति मध्ये * * * * शक्तिस्तदुद्भवम् ।
काम्यशक्तिस्व मध्यस्थे मायेयं च तदुद्भवम् ॥ ६० ॥

चतुर्मलं तथा भेद्यं तत्तिरोधाधिकं भवेत् ।
एवं पञ्चमलः शक्त्याः पाशबन्धस्तदुच्यते ॥ ६१ ॥

एवं विग्रह कृत्यर्थमेवं सत्कृत्य निर्णयम् ।
देवदेव महेशान महायोगी महेश्वर ॥ ६२ ॥

यन्मन्त्रंसार सङ्ग्राह्यं तन्मन्त्राकारमुच्यते ।

शङ्कर उवाच-

बिन्दुषष्ठ्यादिनादेन स्वनादे बिन्दु सम्भवम् ॥ ६३ ॥

तद्रूपं प्रणवाकारं पञ्च * * र्ण संस्थितम् ।

प्। १९)

ओमित्येकाक्षरं ब्रह्म परमात्म स्वविग्रहम् ॥ ६४ ॥

ओङ्कारं शिवरूपत्वं तद्भेदं पञ्चमत्रयम् ।
मूलकुण्दलिनी व्याप्तमात्म मन्त्रस्ववर्णकम् ॥ ६५ ॥

हंस विद्यामहाविद्या प्रासाद परया सह ।
प्रासादपर * * * * * शक्तिस्वविग्रहम् ॥ ६६ ॥

प्रासादपरयोरैक्यं शाम्भवं शिवसम्भवम् ।
बिन्दुभिद्यदि नादेन सनादः खेन विद्यते ॥ ६७ ॥

बिन्दुनाद कलारूपं शिवशक्तिस्व विग्रहम् ।
आधारं मानसं * * * * धेयं परं शिवम् ॥ ६८ ॥

बिन्दुराधार पीठं च नादलिङ्गं समाचरेत् ।
बिन्दुभिद्यं सदाकारभगांशं शक्तिविग्रहम् ॥ ६९ ॥

त्रिकोण मध्ये हौकारं धर्महंसौ हरिं शिवम् ।
हंसे बिन्दुगतोनादे हंसमार्गे * * * * ॥ ७० ॥

नादं लिङ्गमिति प्राहुः बिन्दुपीठम् उदाहृतम् ।
बिन्दुमध्ये गतोनादो नाद मध्येगतः शिवः ॥ ७१ ॥

शिवमध्यगतः शक्तिः शक्ति मध्ये स्वयं शिवम् ।
परहंस प्रभेदं च हकारहौकार इत्यपि ॥ ७२ ॥

हंसः परमहंसञ्च द्विधा हंस प्रभेधकम् ।
अहं पृथिव्या अहमापः अहमीश्वरमेव हि ॥ ७३ ॥

अहं पृथिव्या अहं तेजो अहं हरिः ।
अहमाकाश सद्भूतम् अहमात्मा अहं परा ॥ ७४ ॥

हकारं ब्रह्मरूपत्वम् उकारं विष्णुरूपकम् ।

प्। २०)

मकारं रुद्ररूपत्वं बिन्दुरीश्वरमेव हि ॥ ७५ ॥

नादं सदाशिवं प्रोक्तं नादातीतं परं शिवम् ।
परतत्वं परं ज्ञेयं परामुक्ति स्वरूपकम् ॥ ७६ ॥

हकारं निष्कलोपेतं सकारं सकलं भवेत् ।
हकारं शिवरूपत्वं सकारं शक्तिरुच्यते ॥ ७७ ॥

हकारः सूर्य इत्यर्थः सकारश्चन्द्र इत्यपि ।
इकारः पावको रूप इति ज्योतित्रयोदितम् ॥ ७८ ॥

हकारो कारयोर्मध्ये बिन्दुरूपमुदाहृतम् ।
बिन्दुमध्यगतोनादं नाद मध्यगतः शिवः ॥ ७९ ॥

बिन्दुभिट्याति नादेन सनादेः खेन भिद्यते ।
शिव मध्यगतं तत्वं तत्वमध्ये परात्परम् ॥ ८० ॥

परं परात्परं सूक्ष्मं परामुक्ति परिग्रहम् ।
व्योमाकारं महाशून्यं तुर्यातीतं परं शिवम् ॥ ८१ ॥

तुर्यातीतं चरं स्थानं परव्योम प्रकाशितम् ।
तुर्यातीतं पराकारम् ओमिति ज्योतिरूपकम् ॥ ८२ ॥

बालवृद्धः सगारूपमाद्यन्त रहित * * ।
ज्ञानयोगक्रियाबीजं क्रियाकर्मान्यवर्णकम् ॥ ८३ ॥

ओङ्कारं परमात्मानं पराशक्ति प्रकाशितम् ।
तस्मात् ज्ञानमयं ब्रह्ममोमिति ज्योतिरूपकम् ॥ ८४ ॥

ओङ्कारोदात्तानुदात्त स्वरितः कुटिलस्वरः ।
ध्वनिरन्तर्गत ज्योतिः ज्योतिरन्तर्गतं मनः ॥ ८५ ॥

मनस्यान्तर्गतो बुद्धिरन्तर्गतो मम ।
ममान्तर्गत * चित्तश्चित्तमन्तर्गतात्मनः ॥ ८६ ॥

प्। २१)

आत्मान्तर्गतो कालः कालमन्तर्गतः कला ।
कालान्तर्गतयो नादनादान्त * * * परा ॥ ८७ ॥

परान्तर्गतयो ज्ञान ज्ञानमन्तर्गतः शिवः ।
सर्वान्तर्गतयाद्ब्रह्म तद्ब्रह्म तत्परात्परम् ॥ ८८ ॥

एवमन्तर्गतस्यार्थ हौ ॐ त्रीणि गुरुद्भवः ।
योगाष्टाङ्ग प्रकारोक्तमोङ्कारं परमाक्षरम् ॥ ८९ ॥

सप्तव्याहृति गायत्र्या सावित्री प्रकृता कृतिम् ।
षडङ्गाश्चतुर्वेदा स्मृति त्यागं ततो मयम् ॥ ९० ॥

मा * * * * * * * * * * * त्म
विवेकः
नानान्त्योत्पन्नय प्राप्तं तन्मायामयीमयम् ।

मायान्त स्थात्मकं बद्धं पाशं पञ्चममाचरेत् ।
पाशं शोधन जीवात्मा पशुतच्छोधनः पराः ॥ ९१ ॥

परा प्रणव संशोध्यम् ओङ्कारान्तं गुरोः परम् ।
गुरोरन्यत् परं नास्ति गुरोरन्यत् शिवं न हि ॥ ९२ ॥

॥ प्रणव विवेकः समाप्तः ॥

॥ अथ लिङ्गोद्भव विवेकः ॥

प्रणवं बिन्दुनादोक्तं कुटिलाकारमुद्भवम् ।
कुटिला * स्वशक्त्यर्थमुदितां कुरवः शिवम् ॥ ९३ ॥

बिन्दुनाद कलाकारं प्रणवं तल्लिङ्गमाचरेत् ।
नादान्तस्य कलापाशमुन्मन्यन्तं तदाधिकम् ॥ ९४ ॥

समनान्तं पाशजालमुन्मन्यन्तं परं शिवम् ।
शुद्धाध्वा वुन्मनीर्यन्तन्तदन्तं चरणोदितम् ॥ ९५ ॥

प्। २२)

काल भुवन वर्णञ्च मन्त्राध्वा च पदाध्व च ।
तत्वाध्वा इति विज्ञेया षडध्वा सादाख्यरूपकम् ॥ ९६ ॥

कलाध्वा वायवं प्रोक्तं भुवनं रोममेव च ।
त्वग्वर्णा च * * शोणिपदाध्वा च नाड्यः शिराः ॥ ९७ ॥

षड्विंशत्तत्व खण्डोक्तं धातुरूपं सदाशिवम् ।
तद्भेद प्राणयश्शक्ति तत्परा शक्तिरुच्यते ॥ ९८ ॥

शिवमात्म स्वरूपस्थमिदं सादाख्यमुद्भवम् ।
पञ्चकृत्याधिकारस्थं जगद्योनिं सदाशिवम् ॥ ९९ ॥

परमं बीजमध्यस्थे त्रिकोणरेखा स्तनादयः ।
त्रिकोणाकार मध्यस्थे भगाङ्गं लिङ्गमाचरेत् ॥ १०० ॥

भगमध्ये स्थितं लिङ्गं लिङ्ग मध्ये स्थितं भगम् ।
सदाशिवासनं लिङ्गं लिङ्गासनं तु पीठिका ॥ १०१ ॥

पीठिकासन भ्रूमध्ये देशिका ध्यानमासनम् ।
एवं ध्यात्वा तु मनसा पराशक्तिस्तु विन्यसेत् ॥ १०२ ॥

पञ्चभेदन्तु सादाख्यं तद्भेदं षोडशोद्भवम् ।
अष्टाविंशं महेशोक्तन्नटराजं प्रधानकम् ॥ १०३ ॥

परेच्छया शिवसादाख्यं तदादिः पञ्चमोद्भवम् ।
महेश विष्णुरुद्रादि पञ्चभूतस्तु पञ्चमम् ॥ १०४ ॥

सर्वं सादाख्यमुत्पन्नं कारणत्रयमाचरेत् ।
मूर्ता मूर्तिः कर्ममूर्तिः शिव * ?ख्य पञ्चमम् ॥ १०५ ॥

रुद्रोत्पन्न गणेशस्तत्स्वभेदं षोडशं तथा ।
रुद्रोत्पन्न विशाखश्च षट्भेदैक स्वसङ्ग्रहम् ॥ १०६ ॥

प्। २३)

देवासुरा नराशक्ति ऋषिभ्यः किन्नरादिकम् ।
सर्वं रुद्रेशरोमस्य मध्योत्पन्नमसङ्ख्यया ॥ १०७ ॥

ब्रह्मादि शिवतत्वान्त दशसादाख्य सम्भवम् ।
वेधाः पश्चिमभागे तु हृषीकेशोत्तरस्तथा ॥ १०८ ॥

अघोर दक्षिणे भागं पुरुषं पूर्वयोदितम् ।
ईशानस्थानमीशानं दृष्ट्वा मध्यमयोदितम् ॥ १०९ ॥

मध्यमाग्रस्तथा बिन्दुनादं रेखाग्रयश्शिवम् ।
शिवमध्यन्तु शक्त्यर्थमेतत् सादाख्यमुद्भवम् ॥ ११० ॥

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिणेत्रम् ।
शूलं वज्रं खड्गं परशुमभयदं वाम दक्ष भागे वहन्तम् ॥ १११ ॥

नासगं पाशं च घण्टां मलनकरयुतं साङ्कुशं वामभागे ।
नानालङ्कारयुक्तं स्फटिकमणिनिभं सौम्यसादाख्य तत्वम् ॥ ११२ ॥

देवीशिर दक्षिणोत्तर सुपादं गोमुख पादान्तकृतवारि भुजयुक्तम् ।
योनिगत मध्य मधु संस्थित लिङ्ग स्थापित सदाशिव-

मनोन्मनि स्वरूपम् । मनश्शक्तिक विज्ञेय उन्मनः परमः शिवः ॥ १३ ॥

मन उन्मन सम्बन्धान्मनोन्मन्यभिधीयते ॥ ११४ ॥

वामाद्यष्ट शक्तीनां मध्यतेजो मनोन्मनी ।
मनोन्मनि ग मध्यस्थो सादाख्यं लिङ्गमध्यमम् ॥ ११५ ॥

शिवशक्ति स्थितं लिङ्गं जगद्योन्युद्भवस्तथा ।
नवज्ञाङ्ग पद्माङ्गं न चक्राङ्गञ्च? गत्त्रयम् ॥ ११६ ॥

लिङ्गांशञ्च भगांशञ्च तस्मान्माहेश्वराज्जगत् ।
मूलाधारं चतुष्पत्रं तन्मध्ये वशषस्सजम् ॥ ११७ ॥

प्। २४)

तन्मध्ये कुटिलाकारं त्रिकोणाकार सम्भवम् ।
नाडी मूलावृताङ्काभि कुण्डली हंसनिस्वना ॥ ११८ ॥

कुण्डल्याकार मध्यस्थे प्राणं प्रणवसम्भवम् ।
प्रणवत्रयमध्यस्थं व्योमाकारं पराक्रमम् ॥ ११९ ॥

पराक्रमं परोत्पन्नं परं सर्वत्र कारणम् ।
चिद्घनं मेघतद्व्याप्तं नित्यं सद्योतित प्रभम् ॥ १२० ॥

सर्वात्म कारणं शम्भुर्विभुश्शर्वस्व साक्षिकम् ।
शम्भोः शिवपरं सूक्ष्मं सर्वव्यापकमीश्वरम् ॥ १२१ ॥

सर्व वर्णं तथा मन्त्रं मन्त्रमूर्तिमनेकधा ।
सर्वकोटि महामन्त्रं सप्तकोट्यंशि कारणम् ॥ १२२ ॥

विज्ञानस्याष्ट विद्येशं मन्त्रमूर्ति प्रधानकम् ।
सप्तकोटि महामन्त्रं चित्तव्याकुल कारणम् ॥ १२३ ॥

एकेन सहजं मन्त्रं तुर्यातीते परं शिवम् ।
नादबिन्दु द्विधाकारं त्रिधावाक् पञ्चमोद्भवम् ॥ १२४ ॥

कुटिली कुण्डलीस्तारं बैन्दवैशानमीश्वरम् ।
रुद्रविज्ञान काष्टांशम् इच्छाज्ञानक्रियात्मकम् ॥ १२५ ॥

आणवं माययाकाम्यं पावे?पञ्च तिरोभवम् ।
स्थूल सूक्ष्म महान् प्राणा व्यक्ता पञ्चम कञ्चुकाः ॥ १२६ ॥

जीवामेच्छादिषु त्रिंशत् षट्त्रिंशत्तत्वकारणम् ।
कारणं कृत्य मूलस्थं माया कुण्डलिनोद्भवम् ॥ १२७ ॥

सर्व तत्वं मयाख्यातं सर्वात्म सृष्टिकारणम् ।
अचिन्त्यं तत्परा शक्तिश्चिन्त्यमाया विकल्पकम् ॥ १२८ ॥

प्। २५)

अचिन्त्याचिन्त्ययः साक्षिरात्मरूपं परात्परम् ।
सर्वमन्त्रमयं तारन्ताररिश्वादयोदितम् ॥ १२९ ॥

ओमिति ज्योतिरूप ज्योतिरूपस्थं सत्यमुक्तम् ।
आसिकाबन्धनं शैवं नासिकाबन्धनं न च ॥ १३० ॥

न यनो नियमश्चैव स्वयमोमिति पश्यतः ।

॥ अर्थितत्व सङ्ग्रह विवेकः ॥

क्षित्यादि कुटिलान्तानि षट्त्रिंशत्तत्वरूपकम् ॥ १३१ ॥

शिवेच्छया कुटिलोत्पन्नं नादतत्व प्रधानकम् ।
नादमध्योदितं बिन्दु शिवशक्त्यर्थनामकम् ॥ १३२ ॥

ज्ञानक्रिया समुत्पन्नं शिवशक्ति स्वरूपकम् ।
ज्ञानक्रियोऽत यस्तत्वं तत्सादाख्य स्वरूपकम् ॥ १३३ ॥

ज्ञाननून क्रियाधिक्यं महेशस्तत्व विग्रहः ।
योगेच्छया क्रियान्यून शुद्धविद्याप्रकाशितम् ॥ १३४ ॥

शुद्ध विद्येश सादाख्यं बिन्दुनादाश्च पञ्चधा ।
शिवतत्वमिति प्रोक्तं बैन्दवस्तत्र कारणम् ॥ १३५ ॥

बिन्दुशक्तोद्भवं माया मोहिन्यो मोहकारणम् ।
अरूपं नित्यैक रूपस्थं व्याप्त्यन्तं स्वनविग्रहम् ॥ १३६ ॥

मायोद्भवस्तथा * * त्रिकृत्यर्थं त्रिभेदकम् ।
कालस्योत्पन्ननियति यत्कर्मं तत्सुनिश्चियम् ॥ १३७ ॥

कालो नियतिरुत्पन्न माणविस्तत्र शोधनम् ।
किञ्चिदिच्छा क्रियाज्ञान स्वात्ममध्ये प्रकाशितम् ॥ १३८ ॥

कारणत्वे तथा विद्या नाना ज्ञानोद्भवात्मकम् ।

प्। २६)

रागा परिमिताशार्थं विद्या तत्वेति षष्ठमम् ॥ १३९ ॥

मूल प्रकृति विकृति कलातत्वोद्भवं तथा ।
त्रिगुणत्वोन्नतत्काल गुणत्वं प्रकृति स्थितम् ॥ १४० ॥

इन्द्रिय ग्र * * * रसाने पुरुष तत्वकम् ।
विषयग्राह्यैन्द्रियः कालेनात्मं पुर्यष्टकं तथा ॥ १४१ ॥

माया व्यक्तं तदव्यक्तं तद्व्यक्तं तन्महानिति ।
तत्वन्त्वहित यस्तत्वस्तच्चित्तं करणादिकम् ॥ १४२ ॥

अ * * * गुणोत्वञ्च त्रिधाभेदस्तथोच्यते ॥ १४३ ॥

सात्विके तैजसा हन्ताराजसे वैखरी तथा ।
तमसे भूतातिकन्तु तस्माद्भुज त्रयोदितम् ॥ १४४ ॥

तन्मध्ये तैजसाहन्ता मध्ये मानसमुद्भवम् ।
ज्ञानक * * याकारं वैखर्याहनयोद्भवम् ॥ १४५ ॥

शब्दादिः पञ्चमो भेदं भूताहन्तान्ततोद्भवम् ।
शब्दादिः पञ्चतन्मात्रे आकाशादि समुद्भवम् ॥ १४६ ॥

आकाशाद्वायुरुत्पन्नं वायव्येदं मनोभवम् ।
दहने जलवुत्पन्न जले मेदिनिरुद्भवम् ॥ १४७ ॥

चतुरमार्ध चन्द्रञ्च त्रिकोण षट्कोणवृत्तयः ।
पृथिव्यादि स्वरूपोक्तं बुद्धिमत्कारणोद्भवम् ॥ १४८ ॥

स्वर्णः श्वेतारुणः कृष्णं धूम्रं प्रव्याधि रूपकम् ॥ १४९ ॥

ब्रह्मा विष्णुस्तथा रुद्रमीशमीशान कारणम् ।
भूत भेदमिदं प्रोक्तं तज्जन्यं तत्र कारणम् ॥ १५१ ॥

प्। २७)

पृथिव्यप्तेजोवायुराकाशं भूतपञ्चमम् ।
श्रोत्रं त्वक् चक्षुर्जिह्वा च प्राणञ्चैव तु पञ्चमम् ॥ १५२ ॥

वाक्पाणिपादपायुरुपस्थञ्चैव तु पञ्चमम् ॥ १५३ ॥

वचनागमनादान विसर्गानन्द पञ्चमम् ।
तदन्यं पञ्चदश्यर्थं शब्दादिः पञ्चविंशतिः ॥ १५४ ॥

मनोबुद्धिरहङ्कार चित्तज्ञेत्रज्ञ पञ्चमम् ।
एवन्तु पञ्चविंशार्थमात्म तत्वं प्रकीर्तितम् ॥ १५५ ॥

रागो नियति विद्या च कला कालश्च मोहिनी ।
विद्या तत्वमिति प्रोक्तं षष्ठमं परिकीर्तितम् ॥ १५६ ॥

शुद्धविद्येश सादाख्यः शिवशक्तिस्तु पञ्चमाः ।
शिवतत्वमिति प्रोक्तं शुद्धाशुद्धञ्च मिश्रितम् ॥ १५७ ॥

आत्मतत्वं हृदायान्तं विद्यातत्वं भ्रुवान्तकम् ।
शिवतत्वं शिखान्तस्थं तत्वन्नात्रमिति स्थितम् ॥ १५८ ॥

सर्वतत्वं कलातीतं पराशक्ति प्रभेदकम् ।

॥ ज्ञान सिद्ध्यागमे द्वितीयः शिवलक्षणाधिकारः समाप्तः ॥

प्रथमस्तन्त्राधिकारार्थः द्वितीयः शिवलक्षणम् ।
मन्त्र तत्वप्रसादार्थं शिवसादाख्य सम्भवम् ॥ १ ॥

इत्थमधिकार सङ्ग्रह विवेकम् ॥

देव्युवाच-

देव देव जगन्नाथ शिवशूलिन् महेश्वर ।
आत्मवर्गं किमुत्पन्नः शृणु देवि वरानने ॥ २ ॥

पृथिव्यादि शिवान्तानि षट्त्रिंशत् तत्वसाधनम् ।

प्। २८)

तन्मध्ये बिन्दु तत्वार्थे त्रिकोणे गुणसम्भवम् ॥ ३ ॥

तदग्रोभयकोणैश्च विज्ञानादि त्रिसाधनम् ।
बिन्दुभि वृतिनादेन तत्काले त्रीण्यणूद्भवम् ॥ ४ ॥

अनादिकाले त्रयात्मानं शक्तिभेदोदयं भवेत् ।
सकल सृष्टिकाले तु तत्तत्तत्वोदितं भवेत् ॥ ५ ॥

षट्त्रिंशत् सूक्ष्म तत्वार्थ परापा शक्तिरुद्भवम् ।
विषसम्बन्धिनीशक्तिस्तथात्मान माहितम् ॥ ६ ॥

तदौषधं निरुध्येति तस्मात् ज्ञानोद्भवात्मकम् ।
ज्ञानोद्भवन्तु तत्कालं शिवसायुज्य शाम्भवम् ॥ ७ ॥

शिवं प्रकाशितं कालं शिवसायुज्य सम्भवम् ।
शिवे प्रकाशमात्रस्थे मलपाश तमोहरम् ॥ ८ ॥

निर्मलीभावमात्मार्थं निर्मलात्मा विधीयते ।

शिवदर्शनम्-

भूतसृष्टिः भवेज्जन्म बोध दृष्टि भवे * * ॥ ९ ॥

अविज्ञानस्याणवं देहं मायादेहं तथात्मकम् ।
काम्यं सकलदेहश्च शु * * * * देहिनः ॥ १० ॥

शिवदेह मुमुक्षुत्वमन्यं बन्धस्थितं भवेत् ।
अनादिकाले त्रिधात्मानं कुटिलाः कुण्डलिनो स्थितम् ॥ ११ ॥

बिन्दुशक्तिर्विभेदांशे बैन्दवं भावमाचरेत् ।
तत्काले मल सम्बन्धं तत्सृष्ट्यादिस्ततोदितम् ॥ १२ ॥

विज्ञानात्मा चतुर्थञ्च प्रलयात्मा त्रिभेदकम् ।
सकलात्मा त्रिभेदं च तस्मात्त्रैयादशं विधम् ॥ १३ ॥

प्। २९)

विज्ञानो निर्मलात्मानम् अज्ञाने मन्त्रविद्येशं विज्ञानान्नव
विज्ञानमूढार्थं प्रलयद्विमलोद्भवम् ॥ १४ ॥

प्रलयार्णव विज्ञानं प्रलयः सकलत्रयम् ।
बन्ध चिन्मुक्तविद्वैधा समचित् सकलत्रयम् ॥ १५ ॥

एवं त्रेधात्मभेदोक्तं तत्पूर्वानादिकोदितम् ।
सकलात्मान्तरात्मान जीवात्मा परमात्मकम् ॥ १६ ॥

भूतात्मानं गुणात्मानं मन्यत्मा सप्तम स्मृतम् ।
सर्वात्मा कर्मभेदोक्तं जाला भावा तनूदितम् ॥ १७ ॥

शिवशक्तिस्तथा लीला मध्ये तत्वात्म सम्भवम् ।
शिव * * * * * * * म्बातीतं परात्परम् ॥ १८ ॥

परात्परा तत्परा शक्तिः सम्भ्वः सकलो हितः ।
विज्ञानोमन्त्र विद्येशं प्रधानान्तादिरष्टमम् ॥ १९ ॥

अनन्तः सूक्ष्मकश्चैव शिवोक्तमन्त्रिणेत्रकम् ।
एक नेत्रैक रुद्राश्च श्रीखण्डिश्च शिखण्डिनिः ॥ २० ॥

एवं विद्याष्टकेशानां रौद्ररूपं त्रिणेत्रकम् ।
सप्त कोटिमहामन्त्रमष्टविद्येश्वरोदितम् ॥ २१ ॥

सप्तकोटि महामन्त्रं विद्येशं सप्तकोट्यकम् ।

प्। ३०)

माया देवाणव * * * * * * * * * * ।
२३ ॥

क्रोधेशं मण्डलेशश्च वीरभद्रं कपालिनम् ।
इत्यादि भेदसंयुक्तं रुद्रत्वं प्रलयाजलम् ॥ २४ ॥

अथ सकल भेदोक्तं नरस्सुर गणादिकम् ।
असुरादित्य भूतादिर्यो * * * * * स्तरम् ॥ २५ ॥

एवं त्रिधात्म भेदोक्तं नवतत्वेत्यकारणम् ।
विज्ञानेश्वर भेदोक्तं प्रलया सादाख्यपञ्चमाः ॥ २६ ॥

महेश रुद्रस्तथा विष्णुर्वेधाग्रं मूर्तयो नव ।
इच्छाज्ञान क्रियामाया परावैन्दव तारकाः ॥ २७ ॥

कुटिलाः कुण्डली भेदा नवमं प्राधान्यशक्तयः ।
नवमं प्राधान्यं * * * * * द्वै बन्धकारणाम् ॥ २८ ॥

मलः शक्त्यर्थ भिन्नात्मा कारणत्रय सम्भवात् ।
कुण्डली कलहार्थस्य भेदनात् * * * * * ॥ २९ ॥

शे भवाः ।
अनादि पाशमित्याहुरेताः पाशसमालकाः ॥ ३० ॥

आणवादिषु पञ्चैते वेधां सम्बन्धमुच्यते ।
आणवादि चतुर्भेदाः तत्र भेदा नारायणं स्थितम् ॥ ३१ ॥

आणवा * * * दैश्च रुद्र सम्बन्ध उच्यते ।
आणवादि त्रिभेदं च महेश्वरं पाश उच्यते ॥ ३२ ॥

आणवैशान सम्बन्धं * * * * * * * * ।
आणवान्त शिवं तत्वं बिन्दुनाद कलात्मकम् ॥ ३३ ॥

आणवः सहितः पूर्वैः पश्चात्तन्न्यून साधके ।

प्। ३१)

शिवशक्तिस्तथा प्रोक्तं निर्मलं गुरुरूपकम् ।
समलं तत्व विस्तीर्णं * * * * * * * * ॥ ३४ ॥

शून्यकम् ।
समलासम सम्बन्धं त्रिविधात्मार्थ कारणम् ॥ ३५ ॥

अनादि मल सम्बन्धात् किञ्चिद्ज्ञोऽणुमयोदितम् ।
अनादि मल मुक्तत्वात् सर्वज्ञो तौ ततः शिवः ॥ ३६ ॥

आत्म तत्वं चतुर्विंशत् ब्रह्मा तत्राधिदैवतम् ।
विद्यात् पुरुष तत्सप्त विष्णुस्तत्राधि दैवतम् ॥ ३७ ॥

शुद्ध विद्यार्थ रुद्राणां कार्तावीशं महेश्वरम् ।
सादाख्येशान कर्तार नादबिन्दूत्थ कर्तृकम् ॥ ३८ ॥

शिवशक्तिस्तथा प्रोक्तं * * तत्वस्तयोदितम् ।
सर्वात्म लक्षणैर्युक्तं पाशबन्धः स्थितः पशुः ।
मोहिका मूर्च्छिका माया त्रि * * * * वस्थिता ॥ ३९ ॥

शुद्ध केवलभेदोक्तः शुद्धात्मा स्वप्रकाशकः ।
एतावस्थाश्चतुर्भि श्चतुरात्मा स्वप्रकाशकाः ॥ ४० ॥

स्थूलकं पञ्च कृत्यर्थं सूक्ष्मं पञ्चमकृत्यकम् ।
अनुग्राह्ये पञ्चकृत्यर्थं पञ्चादश्यांश कृत्यकम् ।
सकलात्मस्थूल कृत्यर्थं सूक्ष्मं प्रलय विज्ञकम् ॥ ४१ ॥

जागृजाग्रादयः पञ्चानुग्राह्याः कृत्यरूपकम् ।
तच्छुद्धात्म समाध्यर्थमात्मावस्थेति कल्पितम् ॥ ४२ ॥

पञ्चावस्थाप्रकर्तव्यं * * * * * साधनम् ॥ ४३ ॥

विज्ञान प्रलयश्चैव सकलः शुद्धाणुभिश्च तु ।
तदवस्था प्रकर्तव्यं केवलः सकलो मलः ॥ ४४ ॥

अनादिकलोदितावस्थाः केवलं व्योमकारणम् ।

प्। ३२)

सृष्टिकालोद्भवाऽवस्था माया च सकलाञ्चियाः ॥ ४५ ॥

मुक्तिकालोद्भवाऽवस्था जाग्रतीतमयं स्थिताः ।

देव्युवाच-

शूलपाणे महादेव आत्मबन्धं किमुच्यते ॥ ४६ ॥

ईश्वर उवाच-

अनादिमलदोषस्वात् त्रिधात्मा बन्धसम्भवम् ।
देहिनं केव * * * देहं नास्ति कुतोऽज्ञता ॥ ४७ ॥

अचिन्मात्रात्मकं दोषं किमनादि सुबन्धनम् ।
ताम्रे पैशाच इत्येव सुमलोबन्धितः पशुः ॥ ४८ ॥

त्रिमलं द्विमलैकश्च निर्मलात्माश्चरुद्भवम् ।
अथाऽनादि मलः पुंसां पशुत्वं परिकीर्तितम् ॥ ४९ ॥

तुष कम्बुक विज्ञेयो माया बीजाङ्कुरस्य तत् ।
मलपाकस्वकाले तु पुण्यपाक समन्वितम् ॥ ५० ॥

तन्मात्रे ज्ञानशक्त्यर्थं तदात्मार्थन्तु सम्भवम् ।
ज्ञाने स्वेच्छा मृति * * * * * गुरुवन्दनम् ॥ ५१ ॥

गुरुकारुण्यमात्रेण सिद्धिमुक्तिर्भवेन्नृणाम् ।

॥ ज्ञानसिद्ध्यागमे तृतीयोऽऽत्मलक्षणाधिकारः स्माप्तः ॥

देव्युवाच-

महेशः परमेशान अथपाशं किमुच्यते ।

ईश्वर उवाच-

पाशं पञ्चमलोबन्धं पाशबन्ध स्वभावितम् ।
अत्यन्तमविनाशस्य प्रागुक्तस्याविकारिणः ॥ २ ॥

प्। ३३)

क * * * * संयोगे विभोरपि महेश्वरात् ।
अशक्तस्यावतो नास्य सामर्थ्यात् कर्मयोमुने ॥ ३ ॥

पशुत्वरुद्ध चिच्छक्तेः स्वातन्त्र्यं नव शोधितम् ।
कर्मचिद्रहितं तस्मात् * जन्तु * वपेक्षते ॥ ४ ॥

मायाद्यवनि पर्यन्ते तत्व भूतात्म वर्त्मनि ।
भुक्ते नाऽत्र स्थितान् भोगान् भोगैकरसिकः पुमान् ॥ ५ ॥

भोगभुक् सर्वकर्माणि पाशशक्त्यात्मकं परम् ।
तद्भिन्नात्मकं * * * * * न्ते कोदयं भवेत् ।
आणवादि मलो बन्धं केवलावस्थितं कुरु ॥ ६ ॥

केवलं तुर्यातीतं शुद्धा शुद्धदयं तथा ।
मायामलस्वसम्बन्धं तुर्यावस्थात्मनोदितम् ॥ ७ ॥

कः * * बन्धयो वस्था सुषुप्तार्थ स्वकल्पितम् ।
मायेयं स्वप्नावस्थाः तिरोधाजाग्र सम्भवा ॥ ८ ॥

एतत् पञ्चमलावस्था स्वमूढादितकल्पितः ।
तुर्यात्मप्राण सम्बन्धं सुप्ताप्राण * * * * ॥ ९ ॥

शब्दादिर्वचनादिश्च प्राणादशमद्विधाः ।
मनादिः पञ्चकरणा स्वप्नार्थैः पञ्चविंशता ॥ १० ॥

एतद्विंशति पञ्चैव वागादि श्रोत्रमादिकम् ।
एतत्त्रिंशति * * जातो वा जाग्र विनिर्दिशेत् ॥ ११ ॥

जाग्रादि पञ्चमावस्था स्थूलं सूक्ष्म सुसूक्ष्मकम् ।
आदि सूक्ष्म महासूक्ष्मम् एवं पञ्चभि लक्षणम् ॥ १२ ॥

योगावस्था मलावस्था द्विद्विधा नामकल्पना ।
एवं * * स्थिता बन्धं बन्धान्तैः मुक्तिसम्भवम् ॥ १३ ॥

बन्धमुक्तिर्विकल्पोऽयं पशुपाशैः प्रवर्तकम् ।

॥ ज्ञान सिद्ध्यागमे चतुर्थः पाशलक्षणाधिकारः समाप्तः ॥

देव्युवाच-

जगदुत्पन्न शान्त्यर्थात् जगन्नाथ शिवात्परात् ।
अवस्था भेदन्तु यत्प्रोक्तं किं पुनोच्चारणं तथा ॥ १ ॥

ईश्वरः-

शृणु देवि महेशानि शाम्भवी शाङ्करी तथा ।
आ * * * सम्बन्धैः अवस्था भेदादिनी कथा ॥ २ ॥

पूर्वोक्त सहजावस्थाः पञ्चावस्थाः प्रकीर्तिताः ।
जाग्रत्स्वप्न सुषुप्तिश्च तुर्यातीतश्च पञ्चमाः ॥ ३ ॥

फलकण्ठ हृदन्नाभो मूलावस्था न पञ्चमम् ।
एकैक स्थान गम्यन्ते नास्ति नास्ति स्वचेतनम् ॥ ४ ॥

आत्म तत्व स्थितावस्था पञ्चमाधार पञ्चमाः ।
चतुर्देशेन्द्रियावस्थाः पञ्चधाष्टक पञ्चधा ॥ ५ ॥

इन्द्रियाव स्थितः पञ्चकेव * * * * दिका ।
मोहिकादि त्रिभेदाश्चाध्वावस्थश्च पञ्चमाः ॥ ६ ॥

जाग्रत्स्वप्न सुषुप्ताश्च तुर्यश्चैकश्चतुर्थकाः ।
एवावस्थान्तरो भेदा जाग्रातीतैक रूपकाः ॥ ७ ॥

गुणसम्बन्धा तृतीयश्च पञ्चावस्थैक भेदिकाः ।
सर्वावस्थापि निर्मुक्तं तुर्यातीतं परं शिवम् ॥ ८ ॥

ज्ञानकर्मेन्द्रिय विषैः जाग्रस्थं पञ्चविंशतिः ।
शब्दादिर्वचनादिश्च करुणात् स्वप्न * * * ॥ ९ ॥

चतुर्दशस्तथा मध्ये बुध्यादि त्रिसुषुप्तयः ।
अहन्ता चित्त संस्थाप्य तुर्यावस्था प्रकल्पिता ॥ १० ॥

चित्तवृत्तलयं तुर्यातीतमेवन्तु पञ्चमम् ।
आत्म तत्व व्यवर्थार्थिमेवं लक्षणमुच्यते ॥ ११ ॥

प्। ३५)

शब्दादिर्वचनान्तं च मनाव्याप्त जाग्रुचम् ।
अत्यन्त करणोवृत्ति स्वप्नोऽवस्था विधीयते ॥ १२ ॥

अहन्ता चिद्विधा सुप्तिचित्रमात्रामतुर्यकः ।
चित्त कृष्ण कृतातीतं करणावस्थापितं स्थितम् ॥ १३ ॥

शब्द स्पर्शस्वरूपं च * * * * * * * * ।

मनोदुःस्वप्न तत्वानामवस्था बुध्यानि सुषुप्तिकः ।
अहन्ता तुर्यसम्भिन्न एका अष्टामहोदकाः ॥ १५ ॥

शब्दादिः पञ्चमो जाग्रं शब्दादिश्च स्वप्नकम् ।
शब्दादित्रितयः सुषुप्ति शब्दादिश्च द्वितीयकम् ॥ १६ ॥

शब्दादिशून्यः तथा तत्वमेवमिन्द्रिय पञ्चमम् ।
केवलादि त्रित्रिभेदोक्तं केवलः सकलोमलः ॥ १७ ॥

अचेतने * * * * * * * * * * * *

तत्वहीनो कलाहीनो कर्महीनो न तन्त्रिकम् ।
न चेच्छा ज्ञानहीनश्चैवं लक्षण केवलम् ॥ १८ ॥

सकलावस्था प्रभेदं तत्वसम्बन्धकारणम् ।
रूपभेगेन्द्रिय प्राप्तं कारक त्रय सम्भवम् ॥ १९ ॥

सर्वयोनिस्तथा जातं सर्वकर्म स्थिताङ्कुरम् ॥ २० ॥

एवं लक्षण सम्बन्धं सकलात्म प्रकल्पितम् ।
नरकैः स्वर्गभूलोकैः * * * * * * * ॥ २१ ॥

ज्ञानशक्तिस्तथा कारं ज्ञानाचार्य शरीरकम् ॥ २२ ॥

कुरुकारुण्य मात्रेण शुभ्रावस्था प्रकाशितम् ।
जाग्रातीतं सु शुद्ध्यर्थमुक्तावस्था स्थितं परम् ॥ २३ ॥

तत्सम्बन्ध वशीकाले जीवन्मुक्ति प्रकाशितम् ।
केवलादि त्रिभेदोक्त * * त्रीणि समुद्भवम् ॥ २४ ॥

प्। ३६)

मोहिता मूर्च्छिका माया कर * * * * * कम् ।
योगावस्था प्रभेदोक्त * * * * * * * * ॥ २५ ॥

पूर्वोक्त पञ्चमाचारमाधारा वस्थितोद्भवम् ।
अवस्था भेद तत्वस्याधिकारो जाग्रन्नदादिकम् ॥ २६ ॥

जाग्रान्य चिन्तिता स्वप्ना तात्विकान्त सुषुप्तिकम् ।
तच्चैतन्योदितं तुर्यं तुर्यस्तुर्यः पने दितः ॥ २७ ॥

सुषुप्ति भावप्रकाशं यत् जाग्रार्थं समुच्चरन् ॥ २८ ॥

तत् किञ्चिद्भावना स्वप्नाभावा भाव * * * * ।

तुर्य जाग्रेन्द्रियं यच्छून्यं तत्स्वप्नः कारणोलयः ।
तुर्य सुप्तिस्तथा माया * * * * * * * * ॥ ३० ॥

अवस्थान्ता वस्थितो भेदा * * * * * * * ।

सम्बन्धो तद्गुण स्वप्नवकारस्तमस त्रिकम् ।
गुण सम्बन्धिका शून्यं तत्तु तत्व प्रकाशकः ॥ ३२ ॥

अवस्था भेदमिदं कृत्वा तज्जयं योगसाधनम् ।
जाग्रत्स्वप्न द्विधावस्था मायादिः पञ्चमो जयः ॥ ३३ ॥

ध्यान योगाज्जयं सिद्धि सुप्तिकारस्तमिस्रकम् ।
समाधिस्तुर्य जयम् * * * * * * * * * ॥ ३४

तुर्यातीतं जयं कुर्या * * * * * * * * ।
तुर्यातीतं परं तत्वं तुर्यातीतं परात्परम् ॥ ३५ ॥

शुद्धावस्थास्तदन्यन्तु परजीव परोद्भवम् ।

॥ पञ्चावस्थाधिकारः समाप्तः ॥

देव्युवाच-

शिवेश रुद्र ईशान महादेव महेश्वर ।
अवस्था पञ्चमो भेदमात्मबन्धं किमुच्यते ॥ १ ॥

ईश्वर उवाच-

अवस्था परिमितं प्रोक्तं शृणु देवि वरानने ।
अवस्थामष्टोत्तर * * * * * * * * * ॥ २ ॥

अवस्था भेदः देश विवेकः ॥

केवलः सकलश्शुद्धावस्थाय त्रिविध मोहिकाः ।
चातुर्थकन्तु तुर्याश्च जाग्रातीतञ्च स्वप्नकाः ॥ ३ ॥

तुर्यजाग्रमतीतञ्च जाग्रतुर्यं सुबोधनम् ।
अवस्थाष्टोत्तरशतं शुद्धावस्था दशाधिकम् ।
परावस्था त्रिभेदाञ्च अवस्थान्तर षोडश ॥ ४ ॥

कारणाः पञ्चमावस्थाऽऽधारस्थाप्य पञ्चमाः ।
गुणसम्बन्धकारश्चकर * * * पञ्चमाः ॥ ५ ॥

मायावस्था महामूर्च्छा समना उन्मना तथा ।
समानान्ताः पाशजाल उन्मन्यन्ते परश्शिवम् ॥ ६ ॥

शिवावस्था परावस्थाऽऽत्मावस्था तृतीयम् ॥ ७ ॥

पुर्यष्टकं चतुर्थानि महोग्रान्तोन्न सुप्तिका ।
दर्शनानि त्रिभेदानि समावस्था समाधयः ॥ ८ ॥

अव्यक्तं परम व्यक्तं मशशून्य स्त्रियोद्भवाः ॥ ९ ॥

सर्वावस्था विशेषोक्तं पञ्चावस्या प्रभेदकम् ।

पञ्चविंशस्तु पञ्चानां पूर्वोक्तविधिना तथा ।
सर्वशून्यो महायोग्यावस्था गर्भा व्यवस्थिता ॥ ११ ॥

भूतावस्था मलावस्था स्थूलसूक्ष्म द्विपञ्चमाः ॥ १२ ॥

सर्वावस्था विनिर्मुक्तं स्वयमात्मस्वरूपकम् ।
सर्वावस्था विनिर्मुक्तं तुर्यातीतं परं शिवम् ॥ १३ ॥

प्। ३८)

तुर्यातीतं परं तत्व सर्वतत्वार्थ * * * ।

एकमेवं निरालम्बो एकावस्थानमुन्मनी ।
सर्वावस्था विनिर्मुक्ता सर्वचिन्ता विवर्जिता ॥ १५ ॥

मौनमुद्रा स्थिता येन शिवयोगी तथा भवेत् ।
ग्राह्या ग्राहक संवृत्तिः सामान्यं सर्वदेहिनाम् ॥ १६ ॥

योगिनान्त विशेषोऽयं सम्बन्धे स्थापनाशनाः ।
सर्वावस्थाजयं शुद्धं योगाष्टाङ्गा न्यसेत्क्रमात् ॥ १७ ॥

अवस्थातीतं परातत्वं तत्वातीतं परं शिवम् ।
अवस्था भेदाधिकारः समाप्तः ॥

देव्युवाच -

ज्ञानतत्वप्रकाशाय सर्वतत्वाधिकेश्वरः ।
ज्ञानभेदं ज्ञानगुणं ज्ञानरूपं ततोद्भवम् ॥ १८ ॥

ज्ञानाचार्य अनाचार्य शिष्याशिष्यस्य लक्षणम् ।
ज्ञान निर्णय तत्वार्थं दशभेदं किमुच्यते ॥ १९ ॥

शङ्कर उवाच-

शब्दज्ञानञ्च तत्वं च नानासमय दर्शनम् ।

चिन्मात्रञ्चापि शैवे हि शैवभेद प्रमाणतः ।
पापात्तु पापना ज्ञानं पाषण्ड ज्ञानरूपकम् ।
समलामल विज्ञान द्व्यैता वुभौ समौ ॥ २१ ॥

शाम्भव ज्ञान सङ्केता सिद्धान्तश्रवणस्तथा ।
निग्रथ ज्ञानिमूढं च नानासाङ्ख्या प्रभेदका ॥ २२ ॥

सङ्कल्पञ्च विकल्पं च बोधनाः शोधनायिता ।
प्रकाशा प्रकाश भेदाञ्चाष्टा * * * कल्पनाः ॥ २३ ॥

शब्दार्थ लक्षणाभासा शब्दज्ञानि स्वलक्षणम् ।
तत्वापरिमिताभ्यासं तत्वज्ञान प्रवर्तकाः ॥ २४ ॥

प्। ३९)

नानासमयखण्डार्थ ज्ञात्रा समय लक्षणम् ।

समय विवेकः-

शैवं शिवाद्वित द्वैधा शिव सम्मेलनं त्रयम् ॥ २५

चतुर्थं पाशुपर्यन्तं पञ्चमन्तु महाव्रतम् ।
षष्ठं कालामुखं चैव सप्तमं भैरवं तथा ॥ २६ ॥

अष्ठमं वामभेदार्थं सम * * * * भवेत् ॥ २७ ॥

न्यायं वैशेषिकं चैव बौद्धं माषञ्चकं तथा ।
लोकायितञ्च साङ्ख्यं च मीमांसं वैष्ण्वं तथा ॥ २८ ॥

एवमष्टाबहिर्भेदं बाह्याभ्यन्तर षोडशम् ।
भेदाभेदो भय ज्ञान मायावादि प्रधानकम् ॥ २९ ॥

मन्त्रयन्त्रञ्च तन्त्राश्च तर्कामार्ताण्ड वादिनम् ।
आनन्दावस्थितं शान्तं शान्त्यतीतं परात्परम् ॥ ३० ॥

प्रारब्ध कर्म पादाश्चान्या न्यौषधवादिनः ।
अष्टपादमिदं प्रोक्तं * * * चतुर्विंशतिः ॥ ३१ ॥

तीर्थशास्त्रं प्रमाणञ्च अर्चनाध्यार्थ पञ्चमा ।
ब्राह्म्याभ्यन्तरयोर्भेदाः सङ्कल्पाः षट्प्रभेदकाः ॥ ३२ ॥

अथाश्रम चतुर्भेदा षोडश * * यास्तथा ।
ब्रह्मवद्वाद वादीवत्व तत्ववादिस्तु शून्यकम् ॥ ३३ ॥

एवं पञ्चशिवोत्पन्नं श्रुत्यागमान्य तन्त्रजम् ।
अष्टाविंशत् प्रभेदोक्तमर्थमाया कुण्डलिनोद्भवम् ॥ ३४ ॥

वेदान्त तत्व विज्ञान * * * तस्य साधनम् ।
वेदार्थ समयं ज्ञानं तत् ज्ञानं परमं पदम् ॥ ३५ ॥

त्रैधाद्वैधकयोर्भेदा सम्यक् ज्ञान प्रवर्तकाः ।
जीवात्मा परमात्मा च द्वै * * * स्थितं भवेत् ॥ ३६ ॥

स्वरूपे कान्तविश्रान्ति वेदान्तस्य च दर्शनम् ।

प्। ४०)

सत्यज्ञानमनन्तं चानन्तं ब्रह्मरूपिणम् ॥ ३७ ॥

आनन्दा वस्थितं शान्तं शान्त्यतीतं परात्परम् ।
नानाशास्त्र विकल्पार्था * * * * कलोद्भवम् ॥ ३८ ॥

नानाशास्त्रार्थमेकार्थं दृष्ट्वा खण्ड स्थितं भवेत् ।
चतुष्षष्टि कलाभ्यासं कलाज्ञानं विचक्षणम् ॥ ३९ ॥

अष्टाङ्गयोगमभ्यासमन्ययोगमनेकजः ।

चिदचिद्भावना ज्ञानं व्याक्ताव्यक्त स्थितं भवेत् ।
पाषाणावस्थितो मोक्षपाषण्डा ज्ञानकल्पना ॥ ४१ ॥

समलं सकली भावममलं निष्कलं तथा ।
द्वैधा द्वैधादिकं ज्ञानं दासोऽहं सोऽहमाश्रितम् ॥ ४२ ॥

द्विधा मिश्रो भयज्ञानं शम्भुसम्बन्ध शाम्भवम् ।
पाशं पाशपतात्यर्थ ज्ञानसिद्धान्त दर्शनम् ॥ ४३ ॥

गूढ ज्ञानादि गुपितं मूल ज्ञानादि मूढनम् ।
साङ्ख्य भेदमनेकाश्च प्रकृतौ विकृतौ द्विधा ॥ ४४ ॥

पुरुष सङ्ख्याश्च चतुर्थैः सुरसाङ्ख्यकाः ।
निरीशः पञ्चमञ्चैव योगसाङ्ख्यन्तु षष्ठमम् ॥ ४५ ॥

अन्या परिमिदं साङ्ख्यं साङ्ख्य ज्ञानमिति स्थितिः ।
सङ्कल्पं कल्पना ज्ञानं विकल्पं तत्कुरं मदम् ॥ ४६ ॥

बोधनात्मा प्रकाशस्थं बोधनं व्योमदर्शनम् ।
प्रकाशं त्रैलोक्य सहजं प्रकाशं मनोहरम् ॥ ४७ ॥

इत्यष्टा विंशति ज्ञानं तदन्तं शुद्धशैवकम् ।
पशुपाशहरे ज्ञान मुमुक्षो मुक्तिगोचरम् ॥ ४८ ॥

पाश ज्ञानं पशुबन्धमेवं ज्ञानोद्भवस्थलम् ॥ ४९ ॥

प्। ४१)

आचाअर्य लक्षण विवेकः ।

आचार्य लक्षणं वक्ष्ये समाहित महेश्वर ।
सवर्ण ज्ञानवान् बद्ध सत्यवादी दयापरः ॥ १ ॥

नाना शास्त्रविचारार्थ नाना सिद्धन्त दर्शनम् ।
ज्ञानयोग क्रियाचर्या प्रवर्तक निवर्तकः ॥ २ ॥

भिन्ना भिन्नस्व सिद्धान्तरभिन्नः शाश्वत दर्शनम् ।
सर्वावयव संयुक्तं सर्वाभरणभूषितम् ।
सर्वज्ञत्व समर्थञ्च * * * ज्ञान तत्परः ॥ ३ ॥

एवं लक्षण संयुक्तः सदाचार्यः सलक्षणः ।
शिवोऽहं भावना ज्ञान शिवहस्तापकेश्वरः ॥ ४ ॥

ज्ञान क्रिया क्रियाचार्यश्चतुर्दीक्षाधिकेश्वरम् ॥ ५ ॥

अनाचार्य लक्षणविवेकः ॥

कामक्रोधमदाल्लोभा मोहमात्सर्य सम्भवम् ।
अहन्ताश्च विकल्पाश्च * * * त्रयसङ्गमाः ॥ ६ ॥

नानाशास्त्रानभ्यास नाना योगमनभ्यसः ।

कृष्ण वर्णमनाचार्य विकटाक्ष विरोधकम् ।
असम्प्रदाय शुद्धायाऽभक्ष्य परदूषणः ॥ ८ ॥

तत्वज्ञानमनभ्यास आत्मज्ञान विवर्जितः ।
शिवज्ञानं नवाभ्यास शिवद्रोह * * * * ॥ ९ ॥

प्। ४२)

अविश्वास अकारुण्याति भ्रान्तस्य लक्षणम् ।

सच्छिष्य लक्षण विवेकः ॥

सत्यशौचात्मकाः शुद्धाः कामक्रोधादि वर्जितः ।
शान्तिर्दान्ति युपर्युक्ति स्वपक्षा पेक्षा चतुष्टयः ॥ ११ ॥

एवं साधनसंयुक्त गुर्वाज्ञां परिपालनः ।
समयाचारं पराचारं लोकाचारं च वर्जितः ॥

त्रयेषण परित्यज्य मानाभिमान वर्जितः ।
अहोरात्राचार्य सेव्य सुमनः सुमुखस्थितः ॥

आचार्य कल्पन ज्ञान निष्ठोपाय विशिष्ठकः ।
पञ्चपातक कुत्स्यार्थमूढ संसर्ग वर्जितः ॥

सन्तानं शास्त्र विधिमाने कान्तः सहसा सह ।
इत्यादि लक्षणैर्युक्तं सच्छिष्यस्तस्य लक्षणम् ॥

असच्छिष्य विवेकः ॥

अशान्तः शास्त्र सहश्चादिमूढादि सम्भवः ।
क्रूरो विकल्पकोऽङ्गुष्ठ रोहादि * * * * * ॥

दुःशील लक्षणो दुष्टदुराचारा दुर्भाषिकः ।
दुर्मना दुर्मुखा दुष्टा गुण इत्यर्थः सम्भवाः ॥

गुरुद्रोह शिवद्रोह शास्त्रस्वसमय द्रुहः ।
सन्तानद्रोह इत्यर्थं विषयं परिपालनः ॥

एवमादि गुणैर्युक्तं दुःशीललस्यस्य लक्षणम् ॥

ज्ञान निर्णय विवेकः ॥

पाश ज्ञानं पशुज्ञानं पतिज्ञानं त्रिधोत्तमम् ॥

सत्य भानु भव ज्ञानमेवं ज्ञानोत्तमाष्टमम् ॥

प्। ४३)

तद्वेतान्तस्य सिद्धान्त मध्ये संस्थितं भवेत् ॥

ज्ञानं द्विविधमाख्यातं परं वाचा परं स्मृतम् ।
परञ्चैवाव बोधाख्यं परमं शास्त्रमुत्तमम् ॥

ज्ञान लक्षणाकार पटलः समाप्तः ॥

देव्युवाच-

शिवानन्द जगन्नाथ शिवयोगी महेश्वरः ।
सदाचार्थस्य भेदार्थं दीक्षा * * * * * * ॥

शुद्ध शैवस्य सिद्धान्तं वेदान्त ज्ञान गोचरम् ।
द्वे भिन्ना भिन्न सङ्केतं शुद्धज्ञान प्रवेशकम् ॥

शुद्धसायुज्य सन्मार्गं शुद्धा शुद्ध प्रवर्तकम् ।
पशुपाशक्षयं योगज्ञानरूपं परं गुरुः ॥

गुह्याद्गुह्यस्य सिद्धान्तमेवं द्वादश भेदकम् ।
किं प्रकारेण कर्तव्यं तत्तल्लक्षणमुच्यते ॥

ईश्वर उवाच-

शृणु प्रश्नं महादेवि सर्वार्थ सङ्ग्रहम् ।
द्वादश प्रश्न तत्वार्थं गुह्याद्गुह्यं शृणुस्तथा ॥

सदाचार्य गुरुस्वामी त्रिविधं तत्र कल्पना ।
आचार्यो बाल्य शिक्षार्थं मन्त्रस्तन्त्र धनं गुरुः ॥

उपदेश क्रमस्त्वेवं तत्स्वामिस्तु विधीयते ।
अन्यं दिव्यं च सिद्धिञ्चोपाय त्रिविधो गुरुः ॥

दिव्यं मानस सम्बोधो स्वशिवस्योपकारकम् ।
सिद्धं सन्दर्शनो भेदं शास्त्रकालान्तर स्थितम् ॥

सेवका वृत्तिकालान्ते पक्वमस्य भवं शिवम् ।
तत् * * * स्त्रदीक्षार्थे बोधकुर्वत्यजायकः ॥

प्। ४४)

विज्ञान प्रलयश्चैव सकलत्रैधाधिकारिकाः ।
परः शिवकटा * * बैन्दव ज्ञान कल्पनाः ॥

वाच्यवाचक सम्भिन्ना त्रैधात्मा बोधसम्भवाः ।
त्रिधा शिष्यः त्रिधाचार्यः त्रिधात्वं बोधनादृशम् ॥

एवमाचार्य सिद्धार्थं सदाचार्य प्रवर्तकम् ।
सद्बोधं सद्गुरुर्युक्तं सदानन्दात्म सम्भवम् ॥

॥ इत्याचार्यविवेकः ॥

चतुष्पादा नानासमय कल्पनाः ।
पशुजा * * * दीक्षा वैदिकः शैवमामकाः ॥

अनेक शाम्भयो दीक्षाऽन्यतन्त्रान्य दीक्षिताः ।
अष्टपादादयो * * * * ज्ञान स्वदीक्षया ॥

अष्टसिद्ध्यर्थयो दीक्षाऽष्ट ग्राह्य गुणाधिकाः ।
एवमादि प्रभेदार्थ लोकमध्ये तु कल्पनाः ॥

समयं च विशेषञ्च निर्वाणं शाम्भवं तथा ।
अभिषेकासीनय स्थाप्य षड्भेदं शैवकारणम् ॥

ज्ञानयोगक्रिया त्रीण्या त्रिषट्कं पूर्वोक्त दीक्षया ।
सिद्धमार्ग प्रभेदार्थ नाना दृश्य स्वदीक्षिताः ॥

चाक्षुषी स्पर्शदीक्षा च वाचकी मानसी तथा ।
शास्त्रे च योगदीक्षा च हन्ता * * * नेकथा ॥

दीयते ज्ञान सम्भवं क्षीयते च मलत्रयम् ।
दीयते क्षीयते चैव दीक्षा शब्द इहोच्यते ॥

तस्मात्पाश पशुत्वर्त्थं मलपञ्चकमोचनम् ।
दीक्षा शब्दस्य कर्तव्यं तञ्जीवात्म शिवैक्यकम् ।
शुद्धशैवस्व सिद्धान्तं शैवभेदं किमुच्यते ॥

अनादि शैवमादिञ्च मिश्रमं च त्रिधाय च ।

प्। ४५)

गुरुशैव चतुर्थन्तु पञ्चमान्तर भेदकम् ।
महाशैवः षष्ठ भेद भेद शैवं तु सप्तमम् ॥

अभेद शै * * विद्यात् योगशैवन्नवं तथा ।
ज्ञान शैवं दशं विद्यादूर्ध्व शैव एकादशम् ॥

द्वादशमाज्ञशैवं तु ननु शैवं त्रयोदशम् ।
अर्थ शैवं चतुर्दश्यां तत्वशैव * * * * ॥

षोडशं शुद्धशैवं च शैवभेदमिति स्थितम् ।
पशुपाश पतिज्ञानं शैवभेदार्थ निर्णयम् ॥

वेदान्तं शैव सिद्धान्त योगान्तं नादमन्तकम् ।
बोधान्तं तत्र पञ्चान्तं शुद्ध शैव सुदर्शनम् ॥

तत्राव स्थितं शान्तं शुद्धशैव प्रवर्तकम् ॥

॥ शैवविवेकः समाप्तः ॥

अथ शृणुष्व वेदान्त सर्वशास्त्र स्वसारकम् ।
जीवात्मा परमात्मा च द्वयोरैक्यं * * * * ॥

सत्य ज्ञानमनन्तं चानन्दं तत्स्वरूपकम् ।
एकवाक्ये बहुशास्त्रोदयकं न प्रकाशकम् ॥

ऋग्यजुः सामाथर्वाणः कर्मकाण्डोद्भवं स्थिताः ।
वेदान्तस्तु महावाक्य जीवन्मुक्त प्रकाशकम् ॥

पुराणं भारतं शास्त्रं समयां तत्ववृत्तिकम् ॥

मन्त्रशास्त्रं कथाशास्त्रं पश्वशास्त्रं विमोहितम् ।
वेदान्तं शैवसिद्धान्त शिवशास्त्रं सिद्धमुक्तिदम् ॥

तन्महावाक्य शिरसा त्रैय्याः पादात्रिधाय च ।
त्रियक्ष शबलादेहा त्रिलक्षण समुद्भवः ॥

प्। ४६)

त्रिधा जाग्रत्रिधास्वप्नं त्रिधासुप्तिं त्रितुर्यकम् ।
त्रिपद त्रिपदार्थाय * त्म ज्योति स्वरूपकम् ॥

इत्यादि लक्षणैर्युक्तं तत्वमस्येति रूपकम् ।
बोधामृत सुराकारं समयातीत गोचरम् ॥

अकारोकारमकार शिरस्त्रि प्रणवांश्च * ।
शिव जीव परयोरैक्यं त्रिपादी लक्षलक्षणाः ॥

शबला परिमितं भेदं तन्मध्ये षोडशोत्तमम् ।
जीवं पर गिरामुक्ति सव्याप्यस्तत्रलक्षणम् ॥

आत्मजाग्रं परोजाग्रं शिवजाग्रं त्रिजाग्रकम् ।
आत्मस्वप्नं परस्वप्नं शिवस्वप्नं त्रिस्वप्नकम् ॥

आत्म सुप्तिपरं सुप्तिं शिवसुप्तं त्रिसुप्तकम् ।
आत्मतुर्यं परे तुर्यं शिवतुर्यं त्रितुर्यकम् ।
एवं द्वादशधा भिन्नं दशावस्थाः प्रकीर्तिताः ॥

जागृजाग्रं जाग्रत्स्वप्नं जागृसुप्ति तृतीयकम् ।
जाग्रं तुर्यं चतुर्थञ्च तत्काल परपञ्चमम् ॥

परव्योमं षष्ठमं चैव परावस्था तु सप्तमम् ।
विश्वग्रासाष्टमञ्चैवोपशान्तो नवस्तथा ॥

शिव सृष्टा दशञ्चैव वाक्यावस्था दशेरिति ।
त्वं पदं तत्वपदं द्वेधा असित्रैध इति पदाः ॥

आत्मार्थञ्च परार्थञ्च शिवार्थञ्च त्रिधार्थकाः ।
स्वविश्वं तेजसं प्रोक्तज्ञ त्रिधावस्था तृतीयकाः ॥

आदिशक्तिः पराशक्तिः शिवशक्तिः त्रिशक्तयः ।
एतल्लक्षण संयुक्तं वेदान्तार्थ विधिक्रमम् ॥

प्। ४७)

जीवन्मुक्ति परोमुक्ति शिवमुक्ति तृतीयकम् ।

भिन्नाभिन्न विवेकः-

शिवोहम स्मीति सिद्धान्तं सोऽहमस्मिश्रुतान्तकम् ।
वेदार्थसार सङ्ग्राह्यन्नवतत्वोदिता गमम् ॥

तस्माद्वेदान्त सद्बोधं शैवसिद्धान्त दर्शनम् ।
मायाकुण्डलिनी मध्येऽणुः प्राप्य द्विभिन्नकम् ॥

आत्मकेवल सम्बोध जीवात्मस्वप्रकाशकम् ।
जाग्र तुर्यसुसम्बोधं श्रुत्यन्तात्म स्वरूपकम् ॥

अवस्था भेदं तथा दानं मलातीतं स्वमात्मनम् ।
वेदागम द्विभिन्ना भिन्नञ्चात्म स्वरूपकम् ॥

वै भिन्नाभिन्न सम्बन्धः स्वरूपं चैतन्यरूपकम् ।
अभिन्नमात्म स्वरूपस्थं भिन्नं प्रकृतिरुच्यते ॥

वाक्यार्थं प्रणवार्थञ्च मुद्रार्थं तत्र दर्शनम् ।
स्नानुभूत्यर्थ सम्बोद्य शुद्ध ज्ञान प्रवेशकम् ॥

शुद्धज्ञान प्रकाशार्थं शुद्ध सायुज्य सम्भवम् ।
तत्वत्रय विकल्पार्थं शुद्धाशुद्ध द्विमिश्रकम् ॥

वेदान्तार्थं प्रबोधार्थे स्वानुभूति प्रकाशकम् ।
तस्मान्महावाक्यभावं पशुपाशद्विमोचनम् ॥

अष्टाङ्गांशुरिति सङ्ग्रहान्तं हि योगज्ञान द्विसङ्घटम् ।
सर्वावस्था विनिर्मुक्तं गुरुरूपं परात्परम् ॥

गुह्यां शाम्भव तद्वैधा गुह्याद्गुह्यं गुरोः परम् ।
पूर्वोक्त द्वादशार्थस्य विचारश्चेति शङ्करि ॥

॥ सङ्ग्रहाधिकारः समाप्तः ॥

प्। ४८)

देव्युवाच-

परमेश महेशान परात्परपरः शिवः ।
सिद्धान्तमार्ग सम्बोधं किं प्रकाअरं तदुच्यते ॥

ईश्वर उवाच-

शृणु देवि महाभागे शैवसिद्धान्त लक्षणम् ।
पाशं पाशुपति ज्ञेयं त्रिपदार्थं त्रिनिर्णयम् ॥

पाशं पाशुपतिर्मध्ये त्रित्रिधाय तु दीक्षयः ॥

नवमः सिद्धान्ताधिकारः ॥

तस्माद्दशविधो दीक्षा पशुपाश पतिक्रमात् ।
प्रथमं तत्वरूपाणि द्वितीयं तत्वदर्शकम् ॥

तृतीयं तत्व शुद्ध्यर्थं चतुर्थमात्मरूपकम् ।
पञ्चममाहश्यन्तु षष्ठमात्मशोधनम् ॥

सर्वतत्वश्चतुर्भेद मायाकुण्डलिनोद्भवम् ।
पूर्वोक्तस्य स्व कर्तव्यं तत्वत्रय विशेषतः ॥

तत्वरूपमितिस्तत्र तत्वं दर्शनभावनम् ।
तत्वशुद्धि पृथग्रूप कर्मभावं तत्वशून्य स्थितं कुरु ॥

अरूपा वर्णचैतन्यमविकारान्तगोचरम् ।
अभिन्ना भिन्न यच्छून्य इत्यर्थमात्मरूपकम् ॥

अपि कारोत्पन्न यत् प्रज्ञा तत्तत्वन्नाणुरूपकम् ।
तद्व्याप्तं चेतसोरूपं तत्सर्वं स्वप्रकाशकम् ॥

तद्व्योम सम्भवत्यर्थः तदवस्थात्म शोधनम् ।
रूपारूपं द्विधा शून्यं तुर्यातीतं परं शिवम् ॥

तत्वदं परमं स्थाणु तत्वातीतं परं शिवम् ।

अथ शिव दर्शन विवेकः -

अणोरणीयान् महतो महीयान्नात्माऽस्य जन्तोर्निहितो गुहायाम् ।

प्। ४९)

उपाधिशून्य स्वयमात्ममध्ये प्रकाश तद्ज्ञप्ति परानुभावः ॥

स्वजीवपरयोरैक्यं शिवयोगं शिवोद्भवम् ।
दशावस्था युतिक्रान्तं परावस्था विमर्शनम् ॥

स्वरूपं सत्यादिगुणं वाक्यलक्षणशोधनम् ।
सत्यानन्दं महाज्योति शिवभोगानु भूतिकम् ॥

॥ सिद्धान्त दर्शनाधिकारः समाप्तः ॥

देव्युवाच-

देवदेव जगन्नाथ शिवशूलिन् महेश्वर ।
दशावस्था प्रसिद्ध्यर्थं जीवन्मुक्ति प्रयत्नकम् ॥

स्व जीवपरयोरैक्यं किमुपायं तदुच्यते ।
अतिगुह्यं महागुह्यं शुद्ध ज्ञानं शृणु प्रिये ॥

दीक्षाचार विवेकः-

शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ।
दीर्घदण्ड नमस्कारं निर्लज्जा गुरुसन्निधौ ॥

पश्चात्वेकन्तु तत्प्रोक्तं शिवहस्त स्थिरं शिवम् ।
करुणा दर्शनीभावात् पुण्यपापद्वयं हरिम् ॥

श्रीपदं शिर धाराः च सोऽहमस्तीति भावनात् ।
जीवन्मुक्ति परोमुक्तिः शिवमुक्तिस्तु सम्भवम् ॥

शिवोऽहमस्तीति सञ्चिन्त्य शिवज्ञानं प्रकाशितम् ।
शिवज्ञानं महाज्ञानं सोऽहमस्मीति भावितम् ॥

सोऽहं भावं श्रुतीत्याहुः दासोऽहं समयोद्भवम् ।
सोऽहमस्तीति सिद्धान्तं शुद्धान्तं शुद्ध जैवजम् ॥

देहो देवालयः साक्षात् जीवोदेवः सदाशिवः ॥

प्। ५०)

त्यजेद ज्ञान निर्माल्यं सोऽहमस्मीति पूजयेत् ।
ज्ञानदीक्षा स्वरूपस्थं ज्ञानशक्ति प्रकाशकम् ॥

ज्ञानशक्ति प्रकाशार्थे तमः शक्तिपृथग्भवम् ।
तमःशक्ति पृथग्भावे जीवन्मुक्ति प्रकाशकम् ॥

जीवन्मुक्ति प्रकाशार्थे परोमोक्षस्थितं भवेत् ।

देव्युवाच-

देवदेव महेशान करुणाकर शङ्कर ।
शिवोऽहमस्तीति कं प्राप्यं किं प्राप्यं शाम्भवोदयम् ॥

ईश्वर उवाच-

शाम्भवी शाङ्करी गौरी शृणु देवि वरानने ।
षट्त्रिंशत्तत्व इत्यर्थेऽऽत्म रूपं प्रकाशितम् ॥

धातुरूप स्थितं देहं स्वरूपो देह उच्यते ।
पुर्यष्टक स्थितं सूक्ष्मं प्रकृति त्रीणि देहजम् ॥

प्राणदेहं ततः पश्चात् त्वठान्मोहिनि देहजम् ।
पञ्चकञ्चु कयोर्देहं परित्यज्याद्य देहकम् ॥

पञ्चभूत स्थितं देहं धातुरूपं प्रकल्पितम् ।
रसरुधिर मांसास्थि मेदामज्जाश्च शुक्लकम् ॥

सप्तधातुं परित्यज्य श्रोत्रमाद परित्यजम् ।
वागादि पञ्चमत्याज्यं शब्दः पञ्चमं त्यजेत् ॥

वचनादिः पञ्चमत्याज्यं शब्दादिः पुरुषपञ्चकम् ।
एतत्सर्वं परित्यज्य जागृजाग्रमिति स्थितम् ॥

विद्यातत्वं परित्यज्य जागृ जाग्रमिति स्थितम् ।
विद्या तत्वं परित्यज्य जागृस्वप्नं स्थितं भवेत् ॥

शिवतत्वं परित्यज्य मायामोहिनि सम्भवम् ।
तज्जाग्रस्सुप्तयोर्भावं साक्षिः पुरुष तत्वकम् ॥

प्। ५१)

पुरुषार्थं परित्यज्य केवलातीत सम्भवम् ।
गुरुकारुण्यमात्रेण पृथग्भावमलोदयम् ।
अतितुर्य प्रकाशार्थ जीवे चैतन्य रूपकम् ॥

जागृ जाग्रादिकादि गावस्था तिरोधायिमलस्थिताः ।
तिरोधाज्जागृजाग्रे च मार्येयं जागृ भुक्पदाः ।
जाग्रत्सुप्तिं भवेत्काम्य तत्तुर्ये मोहिनी जया ॥

जग्रतीताणवं बन्धं तत्त्याज्यम् आत्मनोहितम् ।
जागृजाग्रस्थितं ब्रह्मा जाग्रत्स्वप्न स्थितो हरिः ॥

जाग्रत्सुप्ति स्थित्ं रुद्रे तमसा मोहिनी तथा ।
जाग्रतुर्य स्थिते जन्तु जाग्रातीतं सदाशिवम् ।
तद्बन्धं बिन्दुशक्त्यर्थमनवद्याव सम्भवम् ॥

जाग्रतुर्यं तथा प्रोक्तं जीवात्मस्तत्र दर्शनम् ।
तुर्यात्म सम्भवं त्वं पदञ्चात्म * * * ॥

उपाधि शून्य जीवात्मा त्वं पदार्थस्य शुद्धिमान् ।
तत्सर्वं देहयोर्व्याप्तं जगदेतच्चराचरम् ॥

बोधादृष्ट प्रकाशार्थं भूतदृष्टि विनाशनम् ।
सर्वार्थ भावना प्रोक्तम् आत्मतुर्यं प्रकाशकम् ॥

बोधस्य दूषणं व्याप्तं पशुत्वस्य प्रकाशकम् ।
तुर्यभावात् चिदं यस्तु जागृभावात् तमांशकम् ।
उभयोर्मेलनं तस्य पुरुषार्थस्य कल्पना ॥

एकविंशतिधा ग्राह्यावस्थाः पुरुषतत्वकः ।
त्रिखण्ड जीव ब्रह्मार्थे एकीभाव स्थितं न हि ॥

तस्मात् संशत प्राज्ञा तदात्मपर संस्थितः ॥

प्। ५२)

तत्काल परनामानि तत्पशुत्वस्य कारणम् ।
तत्प्रज्ञाभाव संसिद्धं शुद्धकेवल संस्थितम् ॥

परमे व्योम तत्वार्थं जीवन्मुक्ति प्रकाशकम् ।
तत्प्रकाश स्वचैतन्यं परमात्मा व्यवस्थितः ॥

परावस्था प्रकाशस्तु समस्तातीत गोचरम् ।
आकाश शरीरं ब्रह्म तुर्यातीतं परं शिवम् ॥

अणुर्महत्व तत्वाप्त जीवात्मा गुहयोदितम् ।
एतदर्थं तदर्थं च तत्परं परमं पदम् ॥

विश्वग्रासं परं गुह्यं सर्वात्म शिवमुद्भवम् ।
सत्सर्व * * * युक्तं तच्छून्यं शान्तिसम्भवम् ॥

तच्छिवा वस्थितं शान्तं शान्त्यतीतं परात्परम् ।
उपशान्तिज्ञ तत्प्राप्तं परजीवैक्य साधनम् ॥

आत्मा परशिवश्चेति त्रिपदार्थ त्रिचेतना ।
त्रिश्न्यो * * * सम्भिन्नात्वन्तदस्येति सम्भवम् ॥

त्वमस्थि तुर्ये त्वज्जीवं तस्मिन् तुर्यपरात्परम् ॥

द्वयोरैक्ये तु सम्प्राप्ते परापरपरः शिवः ।
काम्य * * * * * * * * सादिश्शण त्रिधा ॥

त्वं तदध्येति तन्मध्ये मोचनं शुद्धमात्मना ।
आत्म शुद्ध्यर्थयोर्मुक्तमत्यर्थं तत्परात्परम् ॥

त्वमसि किमसावाति तदसि त्वं तदस्य च ।
त्व मध्येति यो वाक्यं सोह * * * * भावितम् ॥

सोऽहमस्मीर्यमस्यास्मि तदस्मि परं पदम् ।
त्वामे वासि मामेव सिन्त्वदसीत्येति भिन्नता ॥

भिन्नभिन्नद्वया भिन्न भिन्नन्तु त्रैविधाप्रोक्ता ॥

प्। ५३)

या * * * दन्तत्वात् त्वावत्स्वात्मरूरूपमाम् ।
शिव परमानन्दस्सन्तदनुभवं शुद्ध सिद्धसम्मासम् ॥

यात्मत्वं पदव्याप्ता त्रिधात्म तदनुवस्थिता ।
त्रिधात्मासि पदं प्राप्ता नवात्म भेदमधिष्ठिता ॥

जहल्लक्षणाजहल्लक्षणा जहदजहल्लक्षणात्रिधा ॥

त्रिपदाः शुद्धि तद्ज्ञेया त्रिपदार्थः शुद्ध्यस्तथा ।
त्रिपदः शुद्ध्य ज्ञेया त्रिपदार्थे स्वशोधनम् ॥

मञ्चाः क्रोशन्ति गङ्गायां घोष इति वसति व ।
तस्मान्मू * * * यः प्रोक्तं ज्ञाता न द्वय कारणम् ॥

तत्तन्मध्ये स्थितः पुंसां घोषयन्ति स्थितं कुरु ।
एतद्विशेषणैर्युक्तं सर्वदेह स्थितं गुरुः ॥

तस्मान्मूढ तमं पुंसो वाचा धीत्वान्य बोधकः ।
यथा कर्म स्थितोदेही कुर्याद्देहं न कुर्यकः ॥

इदं प्रोक्तस्तथा ब्रह्मा शोधनं लक्षणा जहत् ।
श्रोणो स्वस्थिष्ठति श्वेतो धावतीत्यर्थका जवा ॥

तथै * * * बोधार्या प्रकाशेनात्मबोधकम् ।
एतद्भावन्तु सायुज्यं पशुपत्येक संस्थितम् ॥

सोऽहन्दे वदत्तेति तज्जहाजह लक्षणाः ।
त्रिदेशैः कः पुमान् व्याप्तमात्रभेद स्वदर्शनम् ॥

एवं तत्त्रिपदाश्शुद्धा लक्षणार्थं तदुच्यते ।
शिवानन्द महादेवी सत्य ज्ञानमनन्तकम् ।
अनन्तं तत्स्मित ज्ञप्तो तत्स्वरूप प्रकाशितम् ॥

प्। ५४)

सत्यजानमनन्तं चनन्तञ्च मरुद्भवम् ।
सत्यात्मतत् * * ज्ञानशिवोनन्द त्रिधागुणाः ।
आनन्दः शक्तयो योज्य तत्प्राप्तं सद्गुरोः परम् ॥

स्वरूपं तत्र रूपञ्च गुणत्रय विभूतकः ।
एतस्य तु प्रकारार्थं सत्यादिगुण सम्पदम् ॥

रूपं गन्धं गुणं शोभस्तथा उद्भवमुत्पलम् ।
तथैवेत्यादि तद्भेदं स्वरूपस्तस्य उद्भवम् ॥

ज्ञानज्ञेय ज्ञातृकान्त त्रिपदार्थे समुच्यते ।
तस्मात् स्वरूपं सर्वत्र प्रकाशानन्द विग्रहम् ॥

तत् * * * परो मुक्तं शिव जीवैक्य सम्भवः ।
सदा ध्यायन्तु सम्प्राप्तं शिवसायुज्यमाप्नुयात् ॥

वाक्य निर्णयम् ।

त्वमसि तदसि द्वैधा त्वन्तदस्य त्रिधाय च ।
तदञ्चयत तत्प्राप्तं तत्वमस्येति उद्भवम् ॥

उपाधि निर्णयम्-

कार्योपाधिरयं जीवः कारणोपाधिरीश्वरम् ।
कार्यकारणतां हित्वा पूर्णबोधो विशिष्यते ॥

पूर्ण शून्यम्-

अन्तः पूर्णो बहिः पूर्णो मध्ये पूर्णो निरामयः ।
अन्तः शून्यो बहिः शून्यो मध्ये शून्यो निरामयः ॥

वाक्य दूषणम् ॥

तत्वन्नत्वन्नासि नाहन्नास्ति नास्तीति नास्ति च ।
नैव शून्यन् नाप्यशून्यमेव मेवेति यद्भवम् ।
दासोऽहमिति सम्मोहं मोहमेव परिभ्रमम् ॥

प्। ५५)

अहमेव परिभ्रान्तः तस्मात्त्रीणि परित्यजेत् ॥

स्वानुभूतिः ॥

मूक स्वप्नमिति निरतिशया नन्दमात्मविज्ञानं तत्सम्प्रदाय सिद्धम् ।
शान्ततजात प्रकाशसद्भाव सम्प्रदायाधिकारस्समाप्तः ॥

देव्युवाच-

सिवप्रकाश शिवानन्द शिवयोगमहेश्वर ।
ज्ञानाचारे वरारोहे सर्वाचार विवर्जितम् ॥ १ ॥

शास्त्राचारं कथं चैव कर्माचार विवर्जितम् ।
समयाचारेण किं कार्यं लोकाचारेण किं भवाः ॥ २ ॥

सर्वाचार विनिर्मुक्तं स्वयमाचारमाप्नुयात् ।
नाऽत्र पूजा नमस्कारो न जपो ध्यानमेव च ॥ ३ ॥

गो दोष मिषु पादं वा नयनोन्मीलमात्रकम् ।
सकृत्परपदे युक्तं न पुनर्भावमाप्नुयात् ॥ ४ ॥

ज्ञानि निष्ठस्व निष्ठार्थं सत्यनिष्ठा स्वरूपकम् ।
ज्ञान ज्ञेय स्वरूपस्थं सन्तन्त चिन्त्यमौक्तिकम् ॥ ५ ॥

चितादित्यो हृदाकाशे प्रतिभाति निरञ्जनम् ।
नाऽस्तिमेति न चोदेति कथं सन्ध्यामुपास्महे ॥ ६ ॥

उदकेन विनासन्ध्या जपेहोमैर्विना तपः ॥

प्। ५६)

शास्त्रं कोटि कोट्यत्वं शिवज्ञानानन्द दर्शनम् ।
स्वानुभूत्या महात्मानं सदाभावं विचिन्तितम् ॥ ८ ॥

अप्रमेय परापूजाऽनिच्छा परमं पदम् ॥ ९ ॥

विदुषां परमं ध्यानं न ससो वृत्ति शून्यकम् ।
मौनमन्त्र जपः साक्षान्निष्क्रिया सत्क्रियाय च ॥ १० ॥

सनका * * * * * * * * * प्रबोधकम् ॥
ज्ञानदीक्षा स्वयं वेद्यं सत्यमानञ्च मुद्रया ॥ ११ ॥

मुद्रार्थ विवेकः-

मित्रैः साध्यमसु प्रियै स्थितिपति स्वामिन्नदूरे वधु
काचित्कोनु तपैषु नायक इति प्रीत्याऽनुयुक्ता जनैः ।
प्रत्येकं दपस्पतिं विहाय सकले सन्नेषु शक्रे शिरः
कम्भं मौनमसे पदात्मदयिते ज्ञानार्थये तादृशी ॥ १२ ॥

ज्ञानसायुज्यमाप्नोति शुद्धात्म शिवसङ्गमम् ।
तद्ज्ञानं शक्ति सामर्थ्यं शिव * * * * * * ॥ १३ ॥

देव्युवाच-

देवदेव जगन्नाथ शिवः शूलीमहेश्वरः ।
सर्वानन्दमयं मुक्तं स्वानुभूतिस्थितं भवेत् ॥ १४ ॥

ईश्वर उवाच-

चलं चित्त चलं जीवं चलं भूतञ्च भौतिकम् ।
अचला चिन्त्यकानन्दं मौनमुद्रास्थितोद्भवम् ॥ १५ ॥

कर्मक्षय विपाकः

अनेक भाविकं कर्म दग्धबीजमिवाणुभिः ।
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥ १६ ॥

प्। ५७)

पूर्व संसिद्धिदं कर्म-

घटायां घट निष्पत्तौ यथा चक्रं भ्रमत्यपि ।
पूर्व संस्कार संसिद्धं तं काव तद्दीक्षाक्रमम् ॥ १७ ॥

भग्नेव घटे यथा दीपस्सर्वतः सम्प्रकाशते ।
देहे पाते तथा चात्मा भाति सर्वत्र सर्वदा ॥ १८ ॥

योग ज्ञानं शिव ज्ञानं शिवं सर्वत्र कारणम् ।
शिवं शान्तं जगद्योनिं शिवमुक्ति प्रकाशकम् ॥ १९ ॥

गुरुः पिता गुरुर्माता गुरुर्भ्राता गुरुः सुहृत् ।
गुरोस्तु न परं किञ्चिदित्याह परमेश्वरः ॥ २० ॥

न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् ।
शिवसाधन यश्शिवशासशासनयश्शिव साशासनयः ॥ २१ ॥

प्रसं प्रदाधिकारः समाप्तः ॥

देव्युवाच-

देवदेव परानन्द शिवश्शूली महेश्वर ।
योग * * * * * र्थं किं प्रकारं तदुच्यते ॥ १ ॥

महेश्वर उवाच-

महेशि देवदेवेशि शृणुदेवि वरानने ।
योग सिद्धि प्रबोधन्तूपदेश क्रमं तथा ॥ २ ॥

योगसिद्धि प्रबोधन्तूपदेश क्रमं तथा ।
उपदेश क्रमं ह्येवं योग सिद्धस्य बोधकम् ॥ ३ ॥

योगमष्टाङ्ग तद्भेदं बाह्वार्थानामनन्तकम् ।

योगभेदः-

यमश्च द्विधमाप्रोक्तमासनं त्रिविधं परम् ॥ ४ ॥

प्राणायाम चतुर्थन्तु प्रत्याहारञ्च पञ्चकम् ।
धारणा ध्यान सङ्केतं समाध्यष्टाङ्ग उच्यते ॥ ५ ॥

स्वाधारञ्च निराधारं पाशयोगं तृतीयकम् ॥

प्। ५८)

योगोपरिमितं शास्त्रे सारात् * * * * * * ।
योगेन सिद्ध्यत्यर्थं हि ज्ञानेन ह्युक्तिरुच्यते ॥ ६ ॥

योगभेदः-

यमं दशविधं यमं दशविधं भवेत् ।
आसना परिमिदं तञ्च तन्मध्ये दशमुत्तमम् ॥ ७ ॥

प्राणायाम प्रभेदार्थश्चतुर्थं पूरकादिकम् ।
प्रत्याहारञ्च पञ्चैते धारणाः पञ्चमं भवेत् ॥ ८ ॥

अष्टाविंशति ध्यानं च मध्ये पञ्चम उत्तमम् ।
एकं समाधिरित्युक्तं तन्मध्ये परमं पदम् ॥ ९ ॥

यमं दशविधं प्रोक्तं शुद्धं कारुण्य सम्भवम् ।
अल्पाहारमितिश्शान्तं सर्वार्थ समचिन्त्यकम् ॥ १० ॥

सत्यञ्च दृढचित्तं च ब्रह्माचार्यं तदष्टमम् ।
न येयु न च * * * यमं दशविधं तथा ॥ ११ ॥

एकैकं तु यथा प्रोक्तं सूक्ष्मात् सूक्ष्मतरं तथा ।
यमं दशविधं प्रोक्तं शृणु देवि वरानने ।
तपञ्जपयोगश्चैव स दोषाऽस्ति कदाचन ॥ १२ ॥

शिववृत्तं तत्वसिद्धः साधकः शिवपूजकः ।
मतिर्लज्जा तथा प्रोक्ता आसनं दशमं शृणु ॥ १३ ॥

पत्रं गोमुख पद्मं च सिंह स्वस्ति कदाचन ।

पञ्चकम् ॥

वीरं सुखास निमुक्तं मयूरं दण्डासनं तथा ॥ १४ ॥

प्राणायामं चतुर्थञ्च शृणु देवि वरानने ।
पूरकं रेचकं चैव कुम्भकं त्रासनं तथा ॥ १५ ॥

एकैक वायुमापूर्य मात्रा दीर्घं तदुच्यते ।
प्रत्याहार प्रभेदार्थं शृणु देवि वरानने ॥ १६ ॥

प्। ५९)

जितेन्द्रियोपाधिशून्या चैतन्यो भावसम्भवः ।
ज्ञानचक्षुः प्रकाशश्च * * * * * मूढकम् ॥ १७ ॥

एवं पञ्च मयं प्रोक्तं तत्प्रत्याहारमुच्यते ।
धारणं पञ्चका प्रोक्तं शृणु पार्वतिमत् प्रिये ॥ १८ ॥

मूलं लिङ्गेन नाभ्यन्तं हृदयं गलपञ्चकम् ।
नासिका भ्रूशिखामार्गे मरुन्नादोद्भव ध्वनिम् ॥ १९ ॥

प्रभेद सोऽष्ट भेदन्तु शिखादिं पञ्चमोत्तमम् ।
अन्यथा धारणं प्रोक्तं पृथिव्यादिकमेककम् ॥ २० ॥

तत्तज्जात क्रमाद्योज्यं दिवौ ग्रन्थिस्तदुज्यकम् ।
ग्रन्थात्मपदे योज्यं तत्परो योज्यधारणम् ॥ २१ ॥

एवमष्टमधो भेदं धारणा सूक्ष्म मुच्यते ।
महेशी मायया देवि * * * * * * * णुः ॥ २२ ॥

निवृत्त्यादि कलापञ्च ध्यानं पञ्चात्मको भवम् ।
आधारं च निराधारं न साधारं न धारकम् ॥ २३ ॥

ऊर्ध्वाधार प्रविश्यार्थं पराशक्ति प्रकाशकम् ।
रूपारूप विदध्यानं रूपारूप द्विभावनम् ॥ २४ ॥

सत्यध्यानं समाध्यर्थं बोधध्यानं प्रबोधनम् ।
जितेन्द्रियम् इन्द्रियध्यानं शक्त्या ध्यानमनन्तरः ॥ २५ ॥

वीर ध्यानं पर ध्यानं रक्त शुक्ल द्विमिश्रकम् ।
बोध बोधस्व बोध * परध्यानं परोदितम् ॥ २६ ॥

शिवध्यानात्म भावोक्ता ध्यानयोगमिदं तथा ।
इन्द्रियस्य पदध्यानं पराबोध शिवस्य तु ॥ २७ ॥

एवं * * * * युक्तं न ध्यानं व्यापकं शिवम् ।

प्। ६०)

समाधिर्योग सम्प्रोक्तं शृणु देवि महेश्वरि ॥ २८ ॥

समाधिः समतावस्था जीवात्म परमात्मयोः ।
तमतांश समाध्यर्थं जीवन्मुक्ति पदं परम् ॥ २९ ॥

जीवत्व परयोरैक्यं वेदान्त ज्ञान सङ्गमम् ।
वेदान्तार्थ मयं ज्ञानं सिद्धान्तं परमं शुभम् ॥ ३० ॥

देवस्य विहिताचारं दक्षिणाचारमुच्यते ।
विपरीतं वाममन्त्रं शक्त्या ध्यान समाश्रितम् ॥ ३१ ॥

॥ अष्टाङ्ग योगपटलः ॥

अष्टाविंशस्तु ज्ञानांशमेव * * * * * * ।
एवं शैव क्रियाभेदं चतुष्पादोद्भवाश्रयम् ॥

चर्यादि ब्रह्मचर्यादि सिद्धान्ताश्रममुच्यते ।
ऊर्ध्वशैवं महाशैवं मनादि शैवादि शैवकम् ॥

भेदा भेद द्वयं शैवगुण शैव * * * * ।
अध्व शैवं क्रियाशैवमवान्तरं योगशैवकम् ॥

ज्ञानशैवं शिवः शैव शैव भेदञ्चतुर्दशम् ।
शुद्धशैवं तथा मुख्यञ्चतुष्पादा प्रवर्तकम् ॥

ज्ञानज्ञेय द्विधा ज्ञातुर्भावं साक्षान्निवर्तकम् ।
पञ्चान्त * * * * * * * * ज्ञानसाधकम् ॥

वेदान्तं शैव सिद्धान्तं नादान्तं बोधमन्तकम् ।
योगान्तं पञ्चमान्तस्तु सर्वशास्त्रात्तु सारजम् ॥

सिद्धिमुक्तिस्तथा प्रोक्तः साधनं ज्ञान साधनम् ।
शुद्ध शैव * * * * शाभवं शाश्वतम् शुभम् ॥

सर्व शास्त्रार्थ सारार्थः सङ्ग्राह्यं शुद्धशैवकम् ॥

प्। ६१)

शुद्धशैव स्वमुक्त्यर्थं शुद्धमुक्तिस्व गोचरम् ।
नानासमय भेदार्थं नानामुक्ति स्वभावकम् ॥

नानायोग प्रभेदार्थं नाना सिद्धिप्रवेशनम् ॥

पद * * * * * क्ताः मुक्तारूपा स्वमुक्तिकाः ।
अपिकारस्तथा * * एवं नानात्म मुक्तिकाः ॥

तन्मध्ये सिद्धिमुक्तिश्च शुद्धमुक्तिश्चतुर्द्वयम् ।
शुद्ध शैव स्वसिद्ध्यर्थं शाम्भवी मुद्रिकान्तकम् ॥

शाम्भवं * * * * * * क्षात् योग्यस्व वेधनम् ।
सत्य साम्भव शुद्धाय उग्रशाम्भवमुत्तरा ॥

अनुत्तरः शाम्भवश्चेति शाम्भवं ज्ञान पञ्चकम् ।
शाम्भवी खेचरी ज्ञानमुद्रा त्रितय शाम्भवम् ॥

अष्ट शाम्भव संवेद्यं शुद्धशैवार्थ निर्णयम् ।
योग शाम्भव त * * * * * * * भेदकम् ॥

नाना विध शास्त्रार्थै * * * * * * * * * ।
अष्टक ज्ञान भेदोक्तं शुद्धशैवस्व शाम्भवम् ।
शैवमार्गे महासिद्धिरन्यं पाशुपतादिकम् ॥

कलाध्वा मध्यमो भागो पञ्चाध्वा * * मोद्भवम् ।
पाशं पशुपति ज्ञेयं शैव सिद्धान्त साधनम् ॥

ज्ञानयोग क्रियाचर्या शैवाश्रम विभेदकाः ।
नाना वेदागमाद्यर्थं नानाशास्त्रार्थ दर्शनम् ॥

नानाशब्द प्रवाहार्थं बैन्दवः कलहोदितम् ।
नानाशब्द प्रवाहार्थं बैन्दवः कलहोदितम् ॥

बैन्दवं कुटिल * * बिन्दुनादोदयोदितम् ।
बैन्दवस्तत्व * * * * * * * कलोदितम् ॥

प्। ६२)

बिन्दुनाद कलामध्ये अकारोकारयोदितम् ।
अकरोकारमकारं च बिन्दुनादं च पञ्चमम् ॥

कलाध्वा मध्यमो भागो पञ्चा * * वमुद्भवम् ।
अकारो वैखरी जातमुकारे मध्यमोदितम् ॥

मकारे पश्यन्ती जातं बिन्द्वौ सूक्ष्मस्ततोदितम् ।
नादान्त सूक्ष्म वाग्जातं वाक्पञ्चम लोदितम् ।
वाग्भवं वेदशास्त्रार्थं वैखरी वर्ण उद्भवः ॥

वैखरी श्रोत्र विज्ञेया * * कल्पा तु मध्यमाः ।
निर्विकल्पा तृतीयाया आसाङ्कारण मध्यमाः ॥

महासूक्ष्मा च रूपार्थ इति वाक् पञ्चमोद्भवः ।
अकारो ब्राह्मणो जातमकारो वैष्णवोद्भवम् ।
मकारो रुद्रांश वर्णन्तु बिन्दुरीशोद्भवस्तथा ॥

नादः सदाशिव इति नादादि पृथिव्यन्तकम् ।
त्रिंशत्तत्व द्विसम्भिन्नं कुटिलाशक्तिरुद्भवम् ॥

कुटिलं कुण्डली व्याप्तं कुण्डली प्रणवोदितम् ।
यातु कुण्डलिनी शक्तिर्माया कर्मानुसारतः ॥

मकारः सामनादांशं बिन्द्वाधर्वणमुद्भवम् ॥

वेदान्त्योङ्कार नादान्ते ज्ञानरत्नं तथोद्भवम् ।
सर्वमोङ्कारमुत्पन्नमोमिति ज्योतिरूपकम् ॥

निवृत्ति कलांश रूपप्रतिष्ठा भावोदितोपमम् ।
बिन्द्वान्तं तटिदाकारं शान्तिदीपक समोपमम् ॥

प्। ६३)

शुद्धस्फटिक सङ्काशं शक्त्यन्त तपसोपमम् ।
निवृत्त्यादि कलारूपाऽकारादि कलोदिता ॥

अकारादि कलामध्ये वाचा पञ्चमदेवता ।
अकारादि कलारूपं हौकार * * * * * ॥

चतुर्दश स्वरोपेतं बिन्दुनाद समन्वितम् ॥

एवं पञ्चकलाप्रोक्तं मूलमन्त्रं तदुच्यते ॥

हकारश्च उकारश्च मकारो बिन्दुरेव च ।
अर्धचन्द्रो निरोधी च नादो नादान्त एव च ॥

शक्तिश्च व्यापिनी चैव समना चोन्मना तथा ।
समनान्तं पाशजालम् उन्मन्यन्तं परं शिवम् ॥

उन्मन्यन्ते परा तत्वा तदन्तं शिव मुच्यते ।
कलाषोडश विज्ञेयं प्रासादं परमाक्षरम् ।
प्रासादयेति प्रासादं प्रासादं शिवमन्त्रकम् ॥

दमत्स्वरूपमेवन्तु त्रिवर्णमभिधीयते ॥

कला षोडशयोर्भेदं पञ्चकस्य कलमयम् ।
कला पञ्चम मध्यस्थे पञ्चाध्व उद्भवं तथा ॥

अकारे तत्वमुत्पन्नम् उकारे भुवनोद्भ्वम् ।
मकारे पदमुत्पन्नं बिन्द्वे वर्ण स्थितोदितम् ॥

नादेमन्त्रोद्भवं ज्ञेयं जगत्यर्थं ततोदितम् ।
हकारादि कलामध्ये पृथिव्यादि समुद्भवम् ।
पृथिव्यादि कुटिलान्तं षट्त्रिंशत्तत्वमुद्भवम् ॥

आत्मविद्या शिवत्वं च * * * * * * दकम् ।
श्रोत्रत्वक् चक्षुर्जिह्वा च ज्ञान इन्द्रिय पञ्चमम् ॥

प्। ६४)

वाक्पाणि पायूपस्थं कर्मेन्द्रिय पञ्चमम् ।
शब्दस्पर्शरूपं च रसगन्धं च पञ्चमम् ॥

वचनागम नादानां विसर्गानन्द पञ्चमम् ।
मनोबुद्धिरहङ्कारश्चित्त क्षेत्रज्ञ पञ्चकम् ॥

आत्मतत्वमिति ज्ञेयं भाग्यखण्डमशुद्धकम् ।
मायाकालं च नियतिः कला विद्यारागषष्ठमम् ॥

अशैव खण्डमित्युक्तं शुद्धाशुद्ध विमिश्रमम् ।
शुद्धविद्येश सादाख्यं बिन्दुनादान्त पञ्चमम् ॥

शिवतत्वमिति ज्ञेयं प्रेरखण्डं तदुच्यते ॥

शिवतत्वं शुद्ध तत्वार्थं तत्त्वातीतं समात्मनम् ।
तत्त्वातीतं परं शक्ति तत्वातीतं परं शिवम् ॥

तत्वार्थं कुण्डली व्याप्तं जगदुत्पत्ति कारणम् ।
कुटिलेच्छादितं भिन्नं तच्छक्ति तत्व विग्रहम् ॥

सर्वतत्वमयं व्याप्तं पाशतत्वार्थ कारणम् ।
तत्वतीतं पराशक्ति तत्वातीतं परं शिवम् ॥

कला पञ्चममध्यस्थे पाशः पञ्च मलोदितम् ।
पाशवो बद्ध्य पाशः पाशबन्धस्तथा पशुः ॥

पाशेन पशवो बद्धाः कारणं परमेश्वरः ।
पतिर्नाम इति ज्ञातं पाशाभावेन यः पशुः ॥

कालावसानात् शक्त्यर्थे तिष्ठन् बोधात् विमुक्तः ॥

एवं शाश्वत शैवार्थमेवं सिद्धान्तगोचरम् ।
मूलादि द्वादन्तार्थैः संयोज्यं परमाक्षरम् ॥

तन्निराधार योगांशं स्वाधारं नव भावितम् ।
परायोग्यां परामिश्रमन्वे योग्यं पृथक् तथा ॥

योगभेदमिति प्रोक्तं तत्त्रिभेद इति स्थितिः ।

कलायोगम् -

अकारे मनसोत्पन्नमुकारे बुद्धिरुद्भवम् ॥

प्। ६५)

उकारे हा त्रयोत्पन्नं बिन्द्वौ चित्तस्तदुद्भवम् ।
नादे पुराणमुत्पन्नं नादान्ते शक्तिरुद्भवम् ॥

शक्त्यन्ते शिवमुत्पन्नं तदन्ते परमं पदम् ।
कलापन्न महाभागे जगदुत्पत्ति कारणम् ॥

कलातीतं परातीतं परातीतं परं शिवम् ॥

॥ तन्त्रावतार पटलः ॥

अष्टभेदं स्वसिद्ध्यर्थं शृणुदेवि वरानने ।
अष्टभेद प्रभेदार्थे नाना सिद्धिसमुद्भवम् ॥

अणिमा महिमा चैव लघिमा गरिमा तथा ।
प्राप्य प्राकाम्यमीशित्वञ्च शिवत्वं कामरूपकम् ॥

निर्मितस्व समर्थार्थ साधकः सिद्धिसम्भवम् ।
उद्गतश्वासमात्रार्थं विषमाजात नाशनम् ॥

अणिमदि प्रसिद्ध्यर्थम् अष्टैश्वर्यं यथा तथा ॥

वायुमापूर्य संसिद्धिरन्यथा द्वादशोद्भवम् ।
कुण्डली मध्यम स्थाने कृपाकारं त्रिकोणकम् ॥

तन्मध्यस्थे चतुर्मात्रा हंसो स्वरति नासिकः ।
मार्गेण गम्यतां वायुर्जरामरण कारणम् ॥

हंसं परमहंसं न हंसं सोऽहं यथा * * ।

उद्गत श्वासयोर्नाशं निर्गतश्वास सिद्धिजम् ।
सन्ततं निर्गतश्वासं मन्त्रयोगस्व साधकम् ॥

सन्ततं निश्वासभावं साधयेद्द्वादशाब्दजम् ।
अन्यथा द्वादशाः सिद्धिरेकैकाब्दस्ततोदितम् ॥

प्रथमार्थाद्व्य व्याधिर्द्वितीयो जनवर्जितम् ।
तृतीयस्सर्व नाशास्त्रय चतुर्थे वाक्यार्थ सिद्धिजम् ॥

पञ्चमे पुराण श्रवण षष्ठ्यातीतन्तु नागतः ॥

प्। ६६)

सप्तमे चण्डवेगार्थमष्टमे मरणानि च ।
नवमोनन्द कायस्थं दशं भू त्याग सम्भवम् ॥

एकादशं तथारुद्रा द्वादशद्योगमिष्यति ।
एवं द्वादश सिद्ध्यर्थं वायुमापूर्य उद्भवम् ॥

वायुमापूर्य मार्गस्थे नाना सिद्धिसमुद्भवम् ।
इडा पिङ्गलयोर्मध्ये तन्मध्ये नाद सम्भवम् ॥

नाद * * * * * * * * न्तं परमः शिवः ।
शिवमध्ये गतश्शक्ति शक्तिमध्यगतः शिवः ॥

हकारं शिवरूपत्वं सकारं शक्तिरुच्यते ।
हकार सकार योर्मध्ये हंसमनूदितम् ॥

हंसमार्गस्वयं शक्तिनीलवर्णनिभं तथा ।
सोऽहं शस शरन्तत्र निश्वासो छ्वास तद्विधा ॥

सर्वनाडि स्वमध्यस्थे सुषुम्ना नाड्युत्तमं भवेत् ।
सुषुम्ना मूलाग्र मध्यस्थे मण्डलत्रय संयुतः ॥

मण्डलत्रय मध्यस्थे ज्योतीरूपं परामयम् ।
परा वा समया सिद्धिर्जरा मरण नाशनम् ॥

हातो विसर्जनैर्युक्तः पराविद्यामयं तथा ।
कारचञ्चु पुरीकारं शोष्यमाणा निलात्मकम् ॥

सदाभावं विशेषार्थं जरामरण नाशनम् ।
पराविद्या महाविद्या मूलविद्या समस्तथा ॥

परामूलं समाश्रित्य सङ्घटी कृत्यार्थसिद्धिजः ।
आधार प्राणसंवेद्यमात्ममन्त्र स्वगोचरम् ॥

आधारं षष्ठमं भेदं निराधारं परं शिवम् ॥

आधार लक्षणम्-

प्। ६७)

आधारे लिङ्गनाभौ हृदय सरसिजे तालुमूले ललटे
द्वेवक्त्रे षोडशारे द्विशत दशदले युते द्वादशार्धे चतुष्के ।
वासान्ते बालमध्ये सफकठ सहिते संविर्गेह लक्षे मध्ये हंसं स्वदीप्तं
सकलं कलयुतं वर्णरूप प्रकाशम् ॥

सर्व वर्णस्व मध्यस्थे हंसमात्मन्ततोदितम् ।
हंसं सर्वत्र वर्णानाम् आदि मध्यान्त रूपकम् ॥

एकं वर्ण स्वरूपं चैक मुद्रार्थ खेचरी ।
एकं देव परब्रह्म एकं शक्तिपरामयम् ॥

एकविंशत् सहस्राणि षट्शतं तत्र कारणम् ।
हंसमार्ग महोरात्रन्नासिमार्गे गमिष्यति ॥

त्रीण्यं शैकांश भोगन्तु तथापूरित मायुकम् ।
निश्वासोश्वास सम्बन्धमेक प्राणावसानकम् ॥

वायुगम्यं यथा नाश तथा गम्यं स्वसिजम् ।
गम्यन्ते वरणावस्था अगम्यं सिद्धिरुत्तमम् ।
मूलमन्त्र प्रतीकाश मूल कुण्डलिनोदयम् ॥

तन्मध्येहंसमुद्योगं तन्मध्ये बिन्दु संस्थितम् ।
अकारोकारमकारं च क्रियाकुण्डलिनोदयम् ॥

कुण्डलीत्रय मध्यस्थे सोमसूर्याग्नि सम्भवम् ।
सोमसूर्याग्निमध्यस्थं सृष्टि स्थित्यन्तकारणम् ॥

नादमार्गं तथा शक्ति ज्ञानान्तं तच्छिवोदयम् ।
शिवोऽहमस्य प्रकारं सोऽहमस्मिन् समाश्रितम् ॥

सोऽहम्मार्ग सुषुम्नो हि प्रकाशे साधकोत्तमः ॥

प्। ६८)

ऋद्धि सिद्धिर्भविष्यन्ति सोऽहम्भावं समाचरेत् ।
मूलारविन्द मध्यस्थे हकारं वह्नि मण्डलम् ॥

वह्नि ज्वाला प्रतीकाशं हंस हौवर्णमुद्भवम् ।
मूलास्मि नाभिचक्रान्तं सान्तवर्णस्ततोदितम् ॥

नाभ्यादि हृदयान्तं च उकार ज्योतिरूपकम् ।

जिह्वादि नासिका मध्याहदान्तं बिन्दुरूपकम् ।
भ्रुवादि मध्यगान्तं च नाभिस्थानं विशेष्यकम् ॥

मस्तकादि शिखान्तं च नादान्त स्थानमाचरेत् ।
तदूर्ध्वे परमाशक्तिस्तदूर्ध्वे परमः शिवः ॥

आधारादि शिखान्तस्थे द्वे धनं मन्त्रशोधनम् ।
शिखाग्रे द्वादशाङ्गुल्ये शिवं सूक्ष्म परोदितम् ॥

प्रासाद परया विद्या साधकः साधकोत्तमः ।
प्रासाद परसङ्घट्टं नवाधारस्तु शोभनम् ॥

नवाधारस्य * * * * * * * * दर्शनम् ।
प्रासाद परयोर्विद्या सर्वसिद्धिस्ततोदितम् ।

॥ इत्यष्टसिद्धिपटलः समाप्तः ॥

अतः परं प्रवक्ष्यामि मूर्त्यंश स्वविधानकम् ।
बिन्दुमध्यगतोनादं नादमध्यगतः शिवः ॥

नादलिङ्गमिति प्रोक्तं बिन्दुपीठमिति स्थितम् ।
बिन्दुनाद समाश्रेयं भगलिङ्गद्वयोदितम् ।
भगस्यान्तर्गतं लिङ्गं लिङ्गस्यान्तर्गतं भवम् ॥

भगलिङ्ग समाश्रेयं शिवशक्तिद्वि सङ्गमम् ।
भगमध्ये स्थितं लिङ्गं लिङ्गमध्ये स्थितं * * ।

प्। ६९)

एवं ध्यात्वा तु मनसा पराशक्तिस्तु विन्यसेत् ।
न यज्ञाङ्गं न पद्माङ्गं न चक्राङ्गं जगत्त्रयम् ॥

लिङ्गाङ्गं च जगत्सर्वं तस्मान्माहेश्वरं जगत् ।
देवीशर दक्षिणोत्तर सुपाद गोमुख पदान्त कृतवारि भुजयुक्तम् ।
योनिगतमध्यमयसंस्थितं लिङ्गं स्थापित सदाशिवं मनोन्मनि स्वरूपम्

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रम् ।
शूलं वज्रं च खड्गं परशु * * * * * न्तम् ॥

नागं पाशं च वर्णामनल करयुतं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं कोऽपि सादाशिवाख्यम् ॥

पञ्चवक्त्रं पञ्चवर्ण पञ्चदिग्देवतावयम् ।
दशपञ्चक नेत्रांशं दशहस्तदशायुतम् ॥

दशकर्ण समायुक्तमेवं सादाख्यरूपकम् ।
सादाख्यं पञ्चभेदांशं सर्वं बिन्दूद्भवं तथा ॥

कर्मकर्तृ स्वमूर्तिञ्च मूर्तिसादाख्य भेदकम् ।
शिवसादाख्य * * * * र्म भागैः प्रवर्तकम् ।

ईशान स्फटिक नं यत् कुङ्कुमाभं मुखं पूर्वं तत्पुरुषं
यदञ्जननिभं याम्यं च घोराननम् ।

औदीच्यं विलसज्जपाकसदृशं वक्त्रं तु वामं भवेत्
सद्योजातमुखं तु पश्चिममदां गोक्षीर तुल्यप्रभम् ॥

एवं सादाख्यरूप स्वमनोन्मनि सहितः शिवम् ।
वामाद्यष्टमशक्तीनां मध्यतेजो मनोन्मनीम् ॥

प्। ७०)

नवशक्तिक विज्ञेयमुन्मनः परमः शिवः ।
मन उन्मन सम्बन्धान्मनोन्यभिधीयते ॥

तन्म* * * * * * न्तर्मध्ये भोगसाधनम् ॥

तन्मध्ये रिद्धि सिद्ध्यर्थं तन्मध्ये मुक्तिवेधकम् ।
तन्मध्ये सर्वमूर्त्यर्थं तस्मात् सर्वत्र कारणम् ।
हकारोकार लिङ्गञ्च सर्वलिङ्गमयं तथा ॥

मकारं विद्यामयं प्रोक्तं लिङ्गसूत्र प्रधानकम् ।
लिङ्गसूत्रं सुषुम्नांशं प्रासादगमनं तथा ॥

बिन्दु पीठं च शक्तिञ्च नादलिङ्गं शिवस्तथा ।
बिन्दुनाद समांशस्तु प्रणवाक्षर रूपकम् ॥

प्रणवमक्षरं प्रोक्तं बिन्दुनाद नस्य शिखान्तस्थे बिन्दुनादोत्किरीटम् ।

बिन्दुनाद कलाकारं सर्वमन्त्रात्म रूपकम् ।
बिन्दुनाद कलाभेदं सोमसूर्याग्निरूपकम् ॥

बिन्दुनाद कलाकारमिच्छज्ञान क्रियात्मकम् ।
बिन्दुभिद्य त्रिकोणांशं * ण्डवं तत्त्वरूपकम् ॥

रुद्रैशेशान तत्वानि साधनं बैन्दवोद्भवम् ।
त्रिकोणं त्रिपुराकारं वाक् कर्म मुक्तिरुद्भवम् ॥

तन्मध्ये न परा शक्तिः तन्मध्ये त्रिपुरं तथा ।
वाग्भव स्वर्ण * * * * * शाण क्रिया तथा ॥

मुक्तिस्फटिक सौत्मेति त्रिपुरा शक्तिकारणम् ।
पञ्चमूर्ति स्वरूपस्थं पञ्चशक्ति स्वरूपकम् ।
पञ्चपाशमल प्रोक्तं शुद्ध तत्वार्थ पञ्चमम् ॥

प्। ७१)

पञ्च सामाख्य सम्भिन्नं पञ्च * * * * * * ।
पञ्चमाग्नि विधिप्रोक्तं पञ्चकस्य कलामयम् ।
पञ्चकृत्यस्तथाकारं पञ्चवाग्वृत्तिकारणम् ॥

पञ्चमाक्षर सम्भिन्नं सर्वं बैन्दवमुद्भवम् ।
अर्धं वा षट् कति प्रोक्तं सर्वपञ्च कलामयम् ॥

विज्ञानादि त्रिधात्मानं * * * * * कारणम् ।
सागरश्शिकरादीनि तरङ्गाद्योदयं लयम् ।
तथैव बैन्दवाकारे सर्वतत्वोदितं लयम् ॥

खेचरी भूचरी शक्तिः शक्ति दृग्गोचरी तथा ।
व्योम वामेश्वरी शक्तिः पञ्चमं बैन्दवोदितम् ॥

खे * * * * न्तिर्भूचरीर्य परा * * तथा ।
दिक्शरी तन्दिशा शक्तिगोचरी मन्त्रभूमिकाः ॥

इच्छा ज्ञान क्रियामाया परा पञ्चाथ देवताः ।
अकारोकार मकारं च बिन्दुनाद कलात्मिकाः ॥

बिन्दु तत्वोदितं सर्वं सृष्टिकाले प्रकाशितम् ।
तत्सर्वं कुटिला तत्वे * * * * * * * * ॥

इडा पिङ्गलयोर्मध्ये कुण्डल्याकार सम्भवम् ।
कुण्डलीत्रय मध्यस्थं ज्योतीरूपं परात्परम् ॥

देहमस्य स्ववर्णानां मातृका शक्तिरुद्भवम् ।
मातृकाशक्ति विज्ञेयं सर्वशास्त्रार्थ निर्णयम् ॥

ओङ्कारमक्षरं ब्रह्म कलारूपं तरात्परम् ।
ओमिति सर्व बोधार्थमोमिति सर्वकारणम् ।
जातसूतकमुत्पन्न मन्त्रान्ते * * सूतकम् ॥

प्। ७२)

उभयोरपि दोषं स्यात् तत्सर्वं निष्फलं भवेत् ।
ओङ्कारादि नमोन्तं च सर्वमन्त्रान्विशेषतः ॥

उच्चारेत्यजनार्थञ्च मन्त्रशुद्धिरुदाहृतम् ।
ओङ्कार ज्ञानवर्णन्तु वर्णान्यं कर्मरूपकम् ।
तस्माच्छ्रेष्ठमयं बोधं परमात्म प्रकाशकम् ॥

मूल मध्यञ्च सूक्ष्मं च त्रिविधं तारभेदकम् ।
पञ्चप्रणव सम्बन्धं पञ्चतत्वकलामयम् ॥

पञ्चतत्व कलाभेदैः पञ्चाक्षर समुद्भवम् ।
प्रणवादि यकारान्तं पञ्चाक्षर षडक्षरम् ॥

पञ्चाक्षर तत्प्रणवेन युक्तं षडक्षरं मन्त्रमुदीरयन्ती ।
षडक्षरं मन्त्रमुदीरितानां षडध्व भावादिति तल्लयार्था ॥

षडध्व मार्गभेदन्तु क्रियाशैव विधिक्रमम् ।
आत्मकर्मार्थ दुर्मार्गसेव्या भोज्यं तथा कुरु ॥

अध्वा इत्यर्थ यत्काले तत्काले कर्मनाशनम् ।
वर्णकलाभेदं तत्वं मन्त्रो भुवन एव च ॥

द्विप त्रितय सङ्ग्राह्यं वाच्यवाचकयोर्लयम् ।
वाच्यवाचक तद्रूप शिवशक्ति पदोद्भवम् ।
शिवः शक्तिपदं व्याप्तं शुक्लरक्त प्रकाशकम् ॥

रक्त शुक्लं द्विविधं द्विविधं पादलक्षणम् ।

रक्तशुक्लञ्च मिश्रञ्च समोद्योगं शिवं परम् ।
तत्तच्छुक्लद्विमध्यस्थे ऋद्धिसिद्धि द्वयोर्मिथः ।
वृथा दीक्षा वृथा ज्ञानं वृथा योगं वृथा जपः ॥

प्। ७३)

शिवशक्ति स्वरूपेण शैवं शाक्तं मयोदितम् ।
शिव सम्बन्धयश्शक्ति शक्ति सम्बन्धयश्शिवः ॥

षड्वक्त्रैशान सम्बन्धं षट्शक्ति प्राभवोद्भवम् ।
षट्शक्ति प्रभवाकारे शैवादिस्समयोदितम् ॥

शै * * * मुखोत्पन्नं याम्ये कालामुखं तथा ।
पश्चात् पाशुपतञ्चैवमुत्तरे तु महाव्रतम् ।
तदूर्ध्वे भैरवं प्रोक्तं पाताले वाममुच्यते ॥

पातालशक्ति सम्बन्धं तदूर्ध्वे परमं पदम् ।
दिशाशक्तिर्दशप्रोक्तं दिक्चरी भेदकोदयम् ॥

दिक्चरी शक्तिमध्यर्थे दिक्पालाष्टमयोदितम् ।
ग्रन्थिजन्यं कलाकाल विद्यापरं चन्द्रमातरम् ॥

गुणधीगर्व चित्ताक्षि मात्राभूतान्यनु क्रमात् ।
पूर्वे त्रिपुरा देवि आग्ने त्रैव पुरी मतः ॥

उद * भोगहस्तं स्यान्महालक्षन्तु नैर्-ऋते ।
पश्चिमे कुब्जिका शक्तिर्वायव्येऽपि च चण्डिके ॥

उत्तरे काल सङ्कर्षि ऐशान्यं सिद्धिसामरी ।
पातालो दन्त शक्त्यर्थः परादूर्ध्वं दिशा भवेत् ॥
एतच्छक्तिमयं विश्वं विश्वातीतं परं शिवम् ॥

शिवशक्ति द्विमध्यस्थे नादबिन्दुस्ततोदितम् ।
नाद बिन्दु द्विमध्यस्थे पञ्चसादाख्यमुद्भवम् ॥

पञ्चसादाख्य मध्यस्थेऽष्टाविद्येश्वरोदितम् ।
अष्टविद्येश्वरो मध्ये रुद्र * * * * दितम् ॥

रुद्रभेदैः स्व मध्यस्थे षट्कोटि विष्णुरुद्भवम् ।
षट्कोटि विष्णु मध्यस्थे शतकोटि ब्रह्मणोद्भवम् ॥