८०

॥ ॐ शिवाय नमः ॥

पद्ममूलेन चैकेन नालजं पत्रपुष्पकम् ।
तथा च लिङ्गेनैकेन उत्सवो जायते क्रमात् ॥ १ ॥

लिङ्गं वै पद्ममूलं तु पद्मनालं ध्वजं स्मृतम् ।
पत्रं चैव महेशादि कुम्भादि कुसुमं स्मृतम् ॥ २ ॥

नाडीत्रयं तु लिङ्गे स्यादालीनं तु शिवोत्सवे ।
महेशादिषु कुम्भेषु ध्वजेषु च विशेषतः ॥ ३ ॥

प्। १३०४)

अग्नौ घृतादि होतव्यं तृप्तिं प्राप्य घटे शिवम् ।
मन्त्रैः कुम्भैः शिवं पूज्य लिङ्गे तृप्तं सदाशिवम् ॥ ४ ॥

अबुद्धिर्बुद्धिपूर्वस्तु दीक्षा तु द्विविधा भवेत् ।
अबुद्धि पूर्वसंस्कारदीक्षाभेदं चतुष्टयम् ॥ ५ ॥

कर्षणादि प्रतिष्ठान्तं प्रतिष्ठाद्यर्चनान्तकम् ।
अर्चनादुत्सवान्तं तु प्रायश्चित्तं चतुष्टयम् ॥ ६ ॥

कर्षणादि प्रतिष्ठान्तं समयं परिकीर्तितम् ।
विशेषमर्चनं काम्यं नित्यं नैमित्तिकं विदुः ॥ ७ ॥

उत्सवध्वजशुद्धिस्स्यात्तीर्थान्तमभिषेचनम् ।
तदङ्गकर्महीनं तु प्रायश्चित्तमिति स्मृतम् ॥ ८ ॥

प्। १३०५)

समयस्नान पर्यन्तं ज्ञानपूर्त्तिपवित्रकम् ।
ध्वजारोहादितीर्थान्तं दशकार्यमिदं भवेत् ॥ ९ ॥

एतानि दशभेदानि त्रिपदार्थस्य युज्यते ।
बीजाङ्कुरार्पणं चैव ध्वजारोहणमेव च ॥ १० ॥

तत्वरूपमिदं सर्वं तस्मिन्विन्यासदर्शनम् ।
यागदीक्षाध्वशुद्धिःस्याद्वृषारूढात्मरूपकम् ॥ ११ ॥

आत्मदृश्यं रथीयानं कृष्णगन्धात्मशोधनम् ।
दीपावलोकनं चैव शिवरूपमिति स्मृतम् ॥ १२ ॥

तीर्थं तु दर्शनं विद्याद् योगं कुम्भाभिषेचनम् ।

प्। १३०६)

शक्तियात्रा महेशस्य शिवभोगमिति स्मृतम् ॥ १३ ॥

एवं तु दशकार्याणि दीक्षाचोत्सवमुच्यते ।
ध्वजदण्डः पतिर्ज्ञेयो ध्वजस्थितवृषः पशुः ॥ १४ ॥

इच्छाज्ञानक्रियाशक्तिर्यष्टित्रयमिदं भवेत् ॥ १५ ॥

यष्टिदण्डस्तु नादः स्याद् बलयं बिन्दुरेव च ।
उत्सवस्य तु कर्तृत्वं ध्वजारोहणमुच्यते ॥ १६ ॥

ॐ तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ।
तन्नः शिवः प्रचोदयात् * * * * * * * * ॥ १७ ॥

प्। १३०७)

ॐ सप्तजिह्वाय विद्महे हव्यवाहाय धीमहि ।
तन्नो अग्निः प्रचोदयात् * * * * * * * * ॥ १८ ॥

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् * * * * * * * * ॥ १९ ॥

ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् * * * * * * * * ॥ २० ॥

ॐ हंसारूढाय विद्महे कूर्चहस्ताय धीमहि ।
तन्नो ब्रह्मा प्रचोदयात् * * * * * * * * ॥ २१ ॥

ॐ गणाम्बिकाय विद्महे उमाशक्ती च धीमहि ।
तन्नो देवी प्रचोदयात् * * * * * * * * ॥ २२ ॥

ॐ वक्रतुण्डाय विद्महे शूर्पकर्णाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् * * * * * * * * ॥ २३ ॥

प्। १३०८)

ॐ धनुर्धराय विद्महे सर्वसिद्धी च धीमहि ।
तन्नो धरा प्रचोदयात् * * * * * * * * ॥ २४ ॥

ॐ महादेव्यै च विद्महे रुद्रपत्न्यै च धीमहि ।
तन्नो गौरी प्रचोदयात् * * * * * * * * ॥ २५ ॥

ॐ तीक्ष्णशृङ्गाय विद्महे वेदपादाय धीमहि ।
तन्नो वृषभः प्रचोदयात् * * * * * * * * ॥ २६ ॥

ॐ सर्वशक्ती च विद्महे सप्तरूपाय धीमहि ।
तन्नो मातॄः प्रचोदयात् * * * * * * * * ॥ २७ ॥

ॐ तद्विशाखाय विद्महे बाणहस्ताय धीमहि ।
तन्नः स्कन्दः प्रचोदयात् * * * * * * * * ॥ २८ ॥

ॐ फलप्रदाय विद्महे पापहन्त्री च धीमहि ।
तन्नो ज्येष्ठा प्रचोदयात् * * * * * * * * ॥ २९ ॥

प्। १३०९)

ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि ।
तन्नो दुर्गि प्रचोदयात् * * * * * * * * ॥ ३० ॥

ॐ अश्वध्वजाय विद्महे पद्महस्ताय धीमहि ।
तन्नः सूर्यः प्रचोदयात् * * * * * * * * ॥ ३१ ॥

ॐ झषध्वजाय विद्महे पद्महस्ताय धीमहि ।
तन्नो वीरः प्रचोदयात् * * * * * * * * ॥ ३२ ॥

ॐ हंसध्वजाय विद्महे * हस्वाय धीमहि ।
तन्नो ब्राह्मी प्रचोदयात् * * * * * * * * ॥ ३३ ॥

ॐ वृषभध्वजाय विद्महे हस्ताय धीमहि ।
तन्नश्शङ्करि प्रचोदयात् * * * * * * * * ॥ ३४ ॥

ॐ मयूरध्वजाय विद्महे शक्तिहस्वाय धीमहि ।
तन्नः कौमारी प्रचोदयात् * * * * * * * * ॥ ३५ ॥

प्। १३१०)

ॐ चक्रध्वजाय विद्महे शङ्खहस्ताय धीमहि ।
तन्नो वैष्णवी प्रचोदयात् * * * * * * * * ॥ ३६ ॥

ॐ महिषध्वजाय विद्महे दण्डहस्ताय धीमहि ।
तन्नो वाराही प्रचोदयात् * * * * * * * * ॥ ३७ ॥

ॐ गजध्वजाय विद्महे वज्रहस्ताय धीमहि ।
तन्नो इन्द्राणी प्रचोदयात् * * * * * * * * ॥ ३८ ॥

ॐ पाशहस्ताय विद्महे शूलहस्ताय धीमहि ।
तन्नश्चामुण्डी प्रचोदयेत् * * * * * * * * ॥ ३९ ॥

ॐ शूलहस्ताय विद्महे श्वानवाहाय धीमहि ।
तन्नो भैरवः प्रचोदयात् * * * * * * * * ॥ ४० ॥

ॐ पक्षिराजाय विद्महे शुक्लापाङ्गाय धीमहि ।
तन्नो मयूरः प्रचोदयात् * * * * * * * * ॥ ४१ ॥

प्। १३११)

महासेनाय विद्महे षडाननाय धीमहि ।
तन्नः स्कन्दः प्रचोदयात् * * * * * * * * ॥ ४२ ॥

ॐ श्वेतवर्णाय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो गजेन्द्रः प्रचोदयात् * * * * * * * * ॥ ४३ ॥

ॐ वेत्रहस्ताय विद्महे टङ्कहस्ताय धीमहि ।
तन्नो नन्दी प्रचोदयात् * * * * * * * * ॥ ४४ ॥

ॐ टङ्कहस्ताय विद्महे शिवचिह्नाय धीमहि ।
तन्नश्चण्डः प्रचोदयात् * * * * * * * * ॥ ४५ ॥

ॐ उत्पलहस्ताय विद्महे गौरी चिह्नाय धीमहि ।
तन्नश्चण्डी प्रचोदयात् * * * * * * * * ॥ ४६ ॥

ॐ चित्रहस्ताय विद्महे पक्षहंसाय धीमहि ।
तन्नो हंसः प्रचोदयात् * * * * * * * * ॥ ४७ ॥

प्। १३१२)

ॐ सर्पराजाय विद्महे नागराजाय धीमहि ।
तन्नोऽनन्तः प्रचोदयात् * * * * * * * * ॥ ४८ ॥

ॐ व्योमव्योमाय विद्महे सूक्ष्मसूक्ष्माय धीमहि ।
तन्नो रुद्रः प्रचोदयात् * * * * * * * * ॥ ४९ ॥

ॐ तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि ।
तन्नः शिवः प्रचोदयात् * * * * * * * * ॥ ५० ॥

ॐ श्रीं पशुं हुं फट् पाशुपतास्त्राय नमः ।

ॐ हः अस्त्राय फट् । शिवास्त्रम् ।
ॐ प्रस्फुर प्रस्फुर घोरघोरतरतनुरूप चटचट ॥ ५८ ॥

प्रचट प्रचट कुह कुह वमवम बन्धय बन्धय ।
घातय घातय । इत्यघोरास्त्रम् ॥ ५९ ॥

प्। १३१३)

ॐ श्रीं पशुं हुम्फट् * * पाशुपतास्त्राय नमः ।
इति पाशुपतास्त्रम् * * * * * * * * * ॥ ६० ॥

ॐ आम् ईम् ऊं रुद्रस्थितशृङ्खले ॐ सर्वतो भद्रे ।
कटिरुद्रवचनविधारि रक्षमां प्रत्यङ्गिरेधाम ॥ ६१ ॥

धाम ज्योतिर्ज्योतिस्सुवस्सुवः भूपते नमोऽस्तु ।
स्वाहा । इति प्रत्यङ्गिरास्त्रम् * * * * * * * ॥ ६२ ॥

ॐ हौं शिवाय नमः । ॐ हौं सदाशिवाय नमः ।
ॐ हां महेश्वरायनमः । ॐ ह्लीं हं विष्णवे नमः ॥ ६३ ॥

ॐ ह्यां ब्रह्मणे नमः । ॐ ह्रां ह्रीं सह शिव सूर्याय नमः ।
ॐ गं गां गौं गणपतये नमः । ॐ सौं शरवणभवषण्मुखाय
नमः ॥ ६४ ॥

प्। १३१४)

ॐ तुम्बुरु तुम्बुरु आनन्द ताण्डवेश्वराय नमः ।
ॐ श्रीं ह्रीं वीरभद्राय नमः । ॐ जुंसः ॐ ॥ ६५ ॥

ह्रीं वं कुरु कुरु वटुकाय आपदुद्धारणाय नमः ।
ॐ हंसः शिवाय नमः । इत्यात्मपञ्चाक्षरम् ॥ ६६ ॥

ओन्नमस्त्र्यक्षरं ॐ ह्रीं ह्रां महीं व्योमव्यापिने नमः ।
इति शाम्बरम् इं क्ष्म्रम् इति मुख्यां
फट् ह्लां ह्लां ह्लां तिशरणम् ॥ ६७ ॥

व्र शिरसे स्वाहा ओ दीक्षुकृत्
क्षुरिकाबीजं ॐ षं हां हीं हूं व्योमव्यापिने
हुम्फट् । इति द्वादशाक्षरम् ॥ ६८ ॥

प्रशान्त प्रणवपुरुष्टुतम् औं जुं सम् ।
ह्रीं विद्यां गास्त्राय नमः ॥ ६९ ॥

प्। १३१५)

ॐ ह्रीं वं पराशक्तिमय्यै नमः ।
ॐ ह्रीं भुवनेश्वर्यै नमः ॥ ७० ॥

ॐ ह्रीं मनोन्मन्यै नमः ।
ॐ श्रीं महागौर्यै नमः ॥ ७१ ॥

ॐ श्रीं ह्रीम् उमादेव्यै नमः ।
ॐ ऐं क्लीं सरस्वत्यै नमः ॥ ७२ ॥

ॐ श्रीं कमलवासिन्यै नमः ।
ॐ रं वं यं सं त्रं हम् अमृतेश्वराय नमः ॥ ७३ ॥

हौं सिद्धप्रासादमाह । हौं कलाप्रासादमाह ।
ह्रीं कमलाकृत प्रासादमाह । हां क्षमण प्रासादमाह ॥ ७४ ॥

प्। १३१६)

हम् अन्नस्थप्रासादमाह ।
हृं सृं क्ष्मृम् ऌं वृं श्रं त्रम् ऊं कण्ठेर्ण्य प्रासादमाह ॥ ७५ ॥

आत्मतत्वप्रासादमाह * * * * * * * ।
औम् आदित्य प्रासादमाह * * * * * * * ॥ ७६ ॥

आं सः आत्मप्रासादमाह * * * * * * * ।
ॐ हां हौं शिवायनमः । प्रासादपञ्चाक्षरम् ॥ ७७ ॥

नमश्शिवाय इति स्थूलसूक्ष्मम् * * * * * ।
स्थूलं नमश्शिवाय सूक्ष्मं नमोऽन्तं शिवाय इति सिद्धः ॥ ७८ ॥

प * * * * * * * * मिदं समाप्तमासीत् ॥