प्। ११९४)
अथ वक्ष्ये विशेषेण प्रायश्चित्तविधिं शृणु ।
प्रायो विनाश इत्युक्तश्चित्तं सान्धार्यते तु यत् ॥ १ ॥
तद्विना न समाधानात् प्रायश्चित्तमिति स्मृतम् ।
प्रातः काले तु समये शौचमाचमनं तथा ॥ २ ॥
स्नानं चोद्धूलनं चापि प्राणायामादि संस्पृशः ।
समाहितमना भूत्वा श्रद्धाभक्ति समन्वितः ॥ ३ ॥
रागद्वेषादि निर्मुक्तः क्षमी ध्यानपरायणः ।
सम्यक् प्रत्यग्रबुद्धिस्तु प्रायश्चित्तं समाचरेत् ॥ ४ ॥
प्रादि पात्रसंशुद्धिं वक्ष्ये तत्र पृथक् पृथक् ।
वस्त्राणां शुक्ल विण्मूत्रदिग्धानां मृज्जलैरपि ॥ ५ ॥
प्। ११९५)
क्षालयित्वा पुनः क्षारैः गोमूत्रैरपि शोधयेत् ।
लेपगन्धौ च न स्यातां क्तोयेन शोधयेत् ॥ ६ ॥
अन्येषु द्रव्यजालेषु योग्येष्वेवं समाचरेत् ।
आविकक्षौमकौशेयं संशुद्धं गौरसर्षपैः ॥ ७ ॥
पट्टानामंशुकानां च श्रीफलैःशोधनं भवेत् ।
अरिष्टैः कुन्तपानान्तैः चेलवच्चर्मणामपि ॥ ८ ॥
रज्वौ च प्राशने वापि चामराणां तथैव च ।
पूर्वेषां वः कलादीनां शोधनं च भवेत्तदा ॥ ९ ॥
वस्त्रवल्लाबुपात्राणां विदलानान्तु शुद्धये ।
गोवालघर्षणं चापि विशेषात्परिकीर्तितम् ॥ १० ॥
प्। ११९६)
ताम्रकांस्यादि पात्राणां त्रिपुसीसकयोरपि ।
कुम्भस्थेन जलेनैव शुद्धिः स्यान्नन्दिकेश्वर ! ॥ ११ ॥
हैमं रूप्यं तु निर्लेपं पात्रात्तज्जलतश्शुचि ।
माणिक्यं मौक्तिकं शङ्खं प्रबालं मौक्तिकं तथा ॥ १२ ॥
पूर्ववद्वारिणा शुद्धिरित्येवं कथितं मया ।
सूतिपात्रे पिकं स्पृष्टे विष्ठामूत्रादिदूषिते ॥ १३ ॥
अग्नौ संयोगिनो येन क्षालयेच्छुद्धिमर्हति ।
तृणपाषाण काष्ठानां वलालन्दलवल्लिषु ॥ १४ ॥
जलप्रोक्षणतः शुद्धिर्विहिता नन्दिकेश्वर ! ।
उलूखले च मुसले भारवे सृक्सृवादिके ॥ १५ ॥
प्। ११९७)
उष्णतोयेन शुद्धिःस्याच्छूर्पकेरसपात्रके ।
तदावेदान्तवे चापि तत्क्षणाच्छोधनं भवेत् ॥ १६ ॥
अन्योन्योपहतानां तु गोमूत्रेण विशोधनम् ।
द्रव्याणां सहितानां तु व्रीहीणां प्रोक्षणाच्छुचिः ॥ १७ ॥
धान्यवच्छाकमूलानां फलानां शोधनं भवेत् ।
कृमिकीटपतङ्गानां स्पर्शनान्नन्दिकेश्वर ! ॥ १८ ॥
जलेन प्रोक्षणाच्छुद्धिः अस्त्रमन्त्रेण सर्वदा ।
श्ववराहखरोष्ट्राणां स्पृष्टो वै विध्वनाहके ॥ १९ ॥
लेपेऽपि स्पृष्टदेशात्तु सन्त्याज्याम्भोभिराक्षयेत् ।
मक्षिकाकेशसम्मिश्रे तुषाङ्गारकसंयुते ॥ २० ॥
प्। ११९८)
पादधूल्यादिभिश्चैव युक्तेऽप्यत्र विशेषतः ।
तत्स्पृष्टदेशमुत्कृत्य पूर्ववच्छोषयेज्जले ॥ २१ ॥
आज्याभिधारणाच्चापि भस्मना चापि शोधयेत् ।
गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः ॥ २२ ॥
प्रासमङ्गेहानां शुद्धिरेतैश्च जायते ।
अध्यापनादिकाले वा वने चोक्तमनाः शुचिः ॥ २३ ॥
भूमिस्सर्वत्र मेध्यास्यात्स्वर्णरत्नादिजन्मभूः ।
कुत्सित द्रव्य संयोगाच्छुद्धिरत्रैव चोच्यते ॥ २४ ॥
नगरग्रामगमनात् पादप्रक्षालनाच्छुचिः ।
आलये स्फुटिते भग्ने पिण्डिका चलितेऽपि वा ॥ २५ ॥
प्। ११९९)
स्फुटिते चापि भवने लिङ्गे वा प्रतिमासु वा ।
भित्तौ चित्रे पटेच्छिन्ने भिन्ने वंशतृणावृते ॥ २६ ॥
अष्टबन्धविहीने च वह्निदग्धे तथैव च ।
नदीप्रवाहभग्ने वा भग्ने वा * * * * * ॥ २७ ॥
चण्डालश्वपचान्तादिस्पृष्टे दीक्षाविहीनके ।
संस्पृष्टे कुक्कुटादीनां बभ्रूणां च विशेषतः ॥ २८ ॥
काकानां कौशिकानां च स्पृष्टौ चैव विशेषतः ।
खरोष्ट्रकोलमार्जारस्पर्शनं त्वङ्गनन्दिभिः ॥ २९ ॥
सूतिकैः प्रापतीश्चोरैः प्रतिलोमान्त्यजातिभिः ।
व्रात्यैश्च प्रेतकैश्चैवरोगजालयुतैरपि ॥ ३० ॥
प्। १२००)
न तत्स्पृष्टैश्च मूढैश्च लिङ्गादि स्पर्शने तथा ।
नित्यपूजाविहीने च आवृतार्चा विवर्जिते ॥ ३१ ॥
स्नानाभिषेकहीने वै बलिदानादिवर्जिते ।
पुष्पगन्धविहीने च धूपपाद्यैश्च वर्जिते ॥ ३२ ॥
सन्ध्यादीपविहीने तु हविर्हीने तथैव च ।
कालातीते च मन्त्राणां व्यत्यये च व्यतिक्रमे ॥ ३३ ॥
पुष्पहीने शिरोदेशे स्नपनाङ्गविहीनके ।
पवित्रारोपणे हीने दमनारोपणे तथा ॥ ३४ ॥
धृतकम्बलहीने तु शिवरात्रि विहीनके ।
आत्मार्थं यजने हीने तस्य भेदविहीनके ॥ ३५ ॥
प्। १२०१)
लङ्घने मलनिर्माल्यतपनादिषु भेदके ।
महापातक संयुक्ते पञ्चपातकसम्भवे ॥ ३६ ॥
उपवीत वियुक्ते वा नियमाचारवर्जिते ।
मन्त्राणां सङ्करे चैव चात्यैष्ट्यादि विवर्जिते ॥ ३७ ॥
श्राद्धहीने त्वशेषाणां निष्कृतिश्च विधीयते ।
स्फुटिते भिन्ने प्रासादे भवेत् कर्तृविनाशनम् ॥ ३८ ॥
पुंसानकं च कृत्वा तु प्रोक्षयेत्पञ्चगव्यकैः ।
मन्त्रन्यासादिकं सर्वं पूर्ववत्पूजयेद्गुरुः ॥ ३९ ॥
चलितायां पिण्डिकायां स्थानभ्रंशमवाप्नुयात् ।
सुस्थितं पूर्ववत्कुर्यात् सन्धयेदष्टबन्धनैः ॥ ४० ॥
प्। १२०२)
स्नपनं पञ्चगव्याद्यैः कारयेद्देशिकोत्तमः ।
पीठे तु भग्ने स्फुटिते कारयेदक्षतं पुनः ॥ ४१ ॥
स्नपनोक्तेन विधिना स्नापयेन्नन्दिकेश्वर ।
भग्ने च स्फुटिते लिङ्गे राष्ट्र नाशो न संशयः ॥ ४२ ॥
रत्नजं लोजहं वापि तंविसृज्याथ पूर्ववत् ।
लिङ्गं तु तवकं कृत्वा प्रतिष्ठां सम्यगाचरेत् ॥ ४३ ॥
स्वयम्भुलिङ्गे तल्लिङ्गवर्जनं न तु कारयेत् ।
पूर्ववत्स्नपनं कुर्यात् पञ्चगव्येन देशिकः ॥ ४४ ॥
अङ्गानां विकलं वापि तत्तदंशं तु पूरयेत् ।
सम्प्रोक्षणादि सर्वं च पूर्ववन्नन्दिकेश्वर ! ॥ ४५ ॥
प्। १२०३)
वैरिणापहृते लिङ्गे पटे वाचादिकेप्य वा ।
यजमानस्य नाशः स्याद् दुर्भिक्षं च भवेत्ततः ॥ ४६ ॥
बालालयं च सङ्कल्प्य तन्मध्ये कर्णिका न्यसेत् ।
लिङ्गार्चनान्तरस्यान्तं यत्नेन च परिग्रहेत् ॥ ४७ ॥
सम्प्रोक्षणादिकं सर्वं पूर्ववत्स्नपनं भवेत् ।
अष्टबन्धनहीने तु अनावृष्टिर्न संशयः ॥ ४८ ॥
पूर्ववद्बन्धनं कुर्यात् मूलमन्त्रं शतं जपेत् ।
प्रासादलिङ्गप्रतिमा * * चरूपगादिषु ॥ ४९ ॥
वह्निना दहनान्नं तु कालवृष्टिर्विनश्यति ।
पूर्ववत्स्नपनं कुर्याल्लिङ्गादिषु विशेषतः ॥ ५० ॥
प्। १२०४)
पटञ्चेदन्यथा कृत्वा प्रतिष्ठा पूर्ववद्भवेत् ।
चित्रं रूपविहीनं चेत् पुनश्चित्रं समालिखेत् ॥ ५१ ॥
सम्प्रोक्षणादिकं सर्वं पूर्ववत्स्नपनं भवेत् ।
चण्डालाद्यैस्तु संस्पृष्टे वैरिभिर्भयमुच्यते ॥ ५२ ॥
स्नपनं प्रोक्षणादीनि पूर्ववन्नन्दिकेश्वर ! ।
शतमावर्तयेदाशु मन्त्रं पाशुपतं गुरुः ॥ ५३ ॥
नित्यपूजाविहीने तु जनता दुःखमाप्नुयात् ।
एकसन्धिविहीनेन द्विगुणं चार्चयेत्पुनः ॥ ५४ ॥
हीने तु * * * * * हुनेत्पूर्वं सहस्रकम् ।
सन्धित्रयविहीने च पञ्चगव्येन सेचयेत् ॥ ५५ ॥
प्। १२०५)
पूजाहीने त्र्यहे तत्र स्नपनं पूर्ववद्भवेत् ।
पञ्चांहे स्नपनं कृत्वा ब्रह्माङ्गैर्होममाचरेत् ॥ ५६ ॥
पक्षहीने तु गव्येन सेचयेत्स्नपनं तथा ।
मासैकं पूजनाहीनं यदि गव्याभिषेचनम् ॥ ५७ ॥
पूर्ववत्स्नपनं कुर्यात् गन्धतोयादिभिः पुनः ।
पञ्चब्रह्म षडङ्गैश्च जुहुयान्नन्दिकेश्वर ॥ ५८ ॥
मासादूर्ध्वेर्चनाहीने सम्प्रोक्षणमथाचरेत् ।
आवृतार्चनहीने स्यात् भृत्यवर्गस्य नाशनम् ॥ ५९ ॥
तत्तन्मन्त्रमनुस्मृत्य हुनेदष्ट सहस्रकम् ।
बलिदानविहीने तु न प्रीताः सर्वदेवताः ॥ ६० ॥
प्। १२०६)
बलिमन्त्र मनुस्मृत्य जपेदष्टोत्तरं शतम् ।
स्नानतो यविहीनं चेद् अनावृष्टिर्भवेत्क्षणात् ॥ ६१ ॥
मूलमन्त्रं शतं जप्त्वा जलं तद्द्विगुणं भवेत् ।
गन्धद्रव्यविहीने तु बालानां नाशनं भवेत् ॥ ६२ ॥
हृदये नैव मन्त्रेण जपेदष्टोत्तरं शतम् ।
पाद्यादि द्रव्यहीने तु महामारी प्रवर्तते ॥ ६३ ॥
पञ्चब्रह्मषडङ्गैश्च जुहुयाच्छतमष्टकम् ।
सन्ध्यादीपविहीने तु दृष्टिरोगश्च जायते ॥ ६४ ॥
नेत्रमन्त्रं शतं जप्त्वा दीपं द्विगुणमाचरेत् ।
हविर्हीने तु दुर्भिक्षं द्विगुणं तत्तु दापयेत् ॥ ६५ ॥
प्। १२०७)
हृदयेनैव मन्त्रेण हुनेदष्ट सहस्रकम् ।
सन्ध्यातिक्रमयुक्तं चेद् वैरिभिर्भयमाविशेत् ॥ ६६ ॥
अघोरास्त्रेण जुहुयाच् छतमष्टोत्तरं गुरुः ।
स्नपनाङ्गविहीने तु महावातश्च जायते ॥ ६७ ॥
अस्त्रेणैव शतं जप्त्वा पश्चात्प्रतिनिधिं ग्रहेत् ।
अदीक्षितानां संस्पर्श लिङ्गं वा प्रतिमां तु वा ॥ ६८ ॥
देशस्य नाशनं विद्यात् पञ्चगव्येन सेचयेत् ।
पवित्रारोपणे हीने परचक्राद्भयं भवेत् ॥ ६९ ॥
स्नपनं पूर्ववत्कुर्यात् सर्वसिद्धि समृद्धये ।
उक्तमासे तु तदृक्षे चोत्सवं न कृतं यदि ॥ ७० ॥
प्। १२०८)
पुनरुत्सवकं कुर्यान् मूलमन्त्रं शतं हुनेत् ।
परार्थमेवं युक्तं तद् आत्मार्थे शुद्धिरुच्यते ॥ ७१ ॥
आत्मार्थे च परार्थे च व्यामिश्रं च शृणु क्रमात् ।
राजचोरभयादौ च देहे व्याध्यादि बाधिते ॥ ७२ ॥
देवाग्नि गुरुकार्येषु नित्यहानिर्नदोषभाक् ।
विरक्तस्य गृहस्थस्य प्रायश्चित्तं द्विधा भवेत् ॥ ७३ ॥
गृहस्थाद्द्विगुणं प्रोक्तं नैष्ठिके च विशेषतः ।
आषोडशान्तं बालः स्याद् अशीत्यादिशतान्तकम् ॥ ७४ ॥
स्थविरश्च भवेदेवं प्रायश्चित्तं तयोर्नहि ।
रोगार्ताश्च स्त्रियश्चापि प्रायश्चित्तार्धयोग्यकाः ॥ ७५ ॥
प्। १२०९)
तत्रापि च परिक्लेशान् ज्ञात्वार्धार्धं च कारयेत् ।
स्वयं कर्तुमशक्तश्चेद् अन्येन द्विगुणं भवेत् ॥ ७६ ॥
देशकालाद्यवस्थाभिर ज्ञानभक्तिक्रियादिभिः ।
पुण्यक्षेत्रस्य देशं स्यात् गुरुदीक्षार्णदेशकाः ॥ ७७ ॥
विषुवायन पूर्वादि * * * काल एव वा ।
राष्ट्रदोषभयं चैव रिक्तव्याध्यादिरेव च ॥ ७८ ॥
एवमाद्याह्यवस्थाश्च अलभ्या इति कीर्तिताः ।
देशिकस्तु विचार्यैव कारयेत्तदनन्तरम् ॥ ७९ ॥
शैवाचाराविरोधेन यथा दृष्टं यथा श्रुतम् ।
गुरुभिः कल्पितं यत्तु तद्वतिश्चात्र दोषकृत् ॥ ८० ॥
प्। १२१०)
गृहस्थस्यापि दानं च पूजां रात्रौ विवर्जयेत् ।
चन्द्रोपरागविषुवपुण्यकालायनेषु च ॥ ८१ ॥
रात्रौ च यजनादौ च कर्तव्यं बहुसिद्धिदम् ।
अन्यकाले गृहस्थस्य रात्र्यर्चा दोषमावहेत् ॥ ८२ ॥
शतमष्टोत्तरं वापि गायत्र्या जपमाचरेत् ।
रात्रौ पूजादिना चैव नैष्ठिकस्यापि सर्वदा ॥ ८३ ॥
एकस्यापि विलोपे तु सद्योजातशतं जपेत् ।
द्विसन्ध्यालोपके चैव त्रिशतं जपमुच्यते ॥ ८४ ॥
कामतश्च भवेत्सर्वमुपवासं चरेत्क्रमात् ।
एककालार्चने हीने जपेद्घोरसहस्रकम् ॥ ८५ ॥
प्। १२११)
कामतस्सोपवासं स्याद् * * * द्वित्रिकालकम् ।
एकाहमेवं सञ्जप्य द्वितीये वासरेऽपि च ॥ ८६ ॥
सहस्रं वर्धयेन्नन्दिन् त्रिदिने त्रिशतोत्तरम् ।
एवं तु वर्धयेद्धीमान् दिनं प्रति दिनं प्रति ॥ ८७ ॥
पक्षपूजाविहीने तु बहुरूपायुतद्वयम् ।
वर्धयेत्प्रतिमासं तु द्विशतोत्तरवृद्धितः ॥ ८८ ॥
चोरमूषिककाशादिश्वानवानरकादिभिः ।
सर्पमत्स्यादिभिश्चैव ग्रहे नष्टे तथैव च ॥ ८९ ॥
दग्धे बिलादिलग्ने तु दृष्टे चात्मार्थलिङ्गके ।
एकाहमुपवासं च पश्चान्नक्ताशनी भवेत् ॥ ९० ॥
प्। १२१२)
अघोरं लक्षं सञ्जप्याद् द्वि * * * गकान्तरम् ।
गुरुणादत्तं लिङ्गं च ज्येष्ठेनापि तथैव च ॥ ९१ ॥
अन्यलिङ्गं तु सङ्गृह्य पूर्ववद्विधिना यजेत् ।
एवं च पिण्डिकानां तु प्रतिष्ठाप्याथ पूजयेत् ॥ ९२ ॥
लुलितेमङ्ग सहस्र द्विगुणात्परिवर्तने ।
लाक्षान्बन्धुच्यते शुद्धिस्त्रीचतुर्लुठिते युतात् ॥ ९३ ॥
गण्डूककलशाद्यादिताडनायुश्चतद्वयम् ।
अयुतं मदपाते तु च्युतमानमनन्तरम् ॥ ९४ ॥
मृदुप्रदेशसाधारे * ता * लयुतं तथा ।
अच्छिन्ने च निराधारे द्विगुणं बहुरूपकम् ॥ ९५ ॥
प्। १२१३)
अष्टतालाच्च्युते लिङ्गे विशीर्णे वा कलाशया ।
कामात्तु वेधने चापि प्रायश्चित्तं ततो नहि ॥ ९६ ॥
प्रासादं सर्वमेवं स्यात् प्रायश्चित्तोऽथ विद्यते ।
महापापविनाशे तु बहुरूपं प्रशस्यते ॥ ९७ ॥
कामतो लुठितं चैव पातनं तु विशीर्णकम् ।
न तस्य प्रायश्चित्तं वै महापातकिनस्तु वै ॥ ९८ ॥
पादस्पृष्टे तु लिङ्गे तु स्पृष्टे श्लेष्महतेऽपि वा ।
अघोरद्व्ययुतं चैव त्र्ययुतं च जपेत्पुनः ॥ ९९ ॥
द्विजात्यदीक्षित स्पर्शे लिङ्गे जप्यं चतुश्शतम् ।
बाह्यस्पर्शे तु साहस्रं प्रतिलोमे तु लक्षकम् ॥ १०० ॥
प्। १२१४)
काकादिवर्ग संस्पृष्टेऽप्ययुतद्वयमुच्यते ।
कपालैर्भरन्नैश्चैव परमार्गसमन्वितैः ॥ १०१ ॥
महाव्रतयुतैश्चैव स्पृष्टे लिङ्गे चतुश्शतम् ।
स्पृष्टे पाशुपतैश्चापि चतुश्शतमथो जपेत् ॥ १०२ ॥
लिङ्गं च वेदिकां चापि विभज्य स्थापनं यदि ।
लक्षं तु बहुरूपेण जपं कुर्याद्विशुद्धये ॥ १०३ ॥
आत्मार्थे च परार्थे च लिङ्गं वै संयुतं यदि ।
राजादिभिश्चतुष्पादैर्घोरैश्चैवादिवातमे ॥ १०४ ॥
सन्त्यज्य तत्वदेवाङ्गं जप्त्वाघोरं दशायुतम् ।
अन्यलिङ्गं प्रतिष्ठाप्य पूजयेन्नन्दिकेश्वर ॥ १०५ ॥
प्। १२१५)
अग्निकुण्डे तु संस्थाप्य दक्षिणाभिरतस्य च ।
निर्वाणमुपगच्छेत एकरात्रमुपोषितः ॥ १०६ ॥
सहस्रं बहुरूपं तु जपेद्वै तस्य शान्तये ।
त्रिरात्रं दशसाहस्रं जपाच्छुद्धिश्च जायते ॥ १०७ ॥
न पूजितं त्रिसन्ध्यं तु तथैकादशिकात्रयम् ।
विशुद्धिं तेन चाप्नोति स्नानहीनतां जपेत् ॥ १०८ ॥
देवेप्य पूजिते पूर्वे गुरौ वह्नौ च भकिततः ।
बलिदानविहीनेऽपि मूलमष्टशतं जपेत् ॥ १०९ ॥
नियमस्य व्रतस्यापि क्रियायाश्च विलोपनम् ।
अष्टोत्तरशतं जप्यं गायत्रीं च विशेषतः ॥ ११० ॥
प्। १२१६)
चतुर्दश्यथके पर्वे नित्यपूजाविहीनके ।
चतुगुणं भवेत्तन्तु प्रायश्चित्ताद्विशुध्यति ॥ १११ ॥
ग्रहणे विषुवे चैव न कृतं पूजनं यदि ।
अघोरमयुतद्वन्द्वं जपेत्तस्य विशुद्धये ॥ ११२ ॥
शिवरात्रि विहीने तु मूलं लक्षजपं ततः ।
तद्दिने सन्धिहीने तु चाष्टकृत्वो जपं भवेत् ॥ ११३ ॥
पूर्वं पवित्रं कार्यं स्यान् मध्ये चैव न कारयेत् ।
अघोरं लघुयुग्मं च जप्त्वा चान्द्रायणं जपेत् ॥ ११४ ॥
शिवनिन्दागुरोर्निन्दा ज्ञानिनिन्दा तथैव च ।
देवस्वहरणे युक्तो गुरुद्रव्यविनाशनः ॥ ११५ ॥
प्। १२१७)
तद्द्रव्यहर्ता सुरापी च गणभक्ता तथैव च ।
कृतघ्नो ज्येष्ठबाधा वा दशैतेऽत्यन्तपापिनः ॥ ११६ ॥
मरणान्तावधेश्शुद्धिस्तेषां तत्रापि लक्ष्यते ।
शिवनिन्दारतस्यैव चान्द्रायणयुगं चरेत् ॥ ११७ ॥
शिवमन्त्रं जपेल्लक्षदशकं च विशुद्धये ।
गुरुनिन्दारतो वापि गुर्वनुग्रह पूर्वतः ॥ ११८ ॥
चान्द्रायणद्वयं कुर्याद् बहुमन्त्रेण पूर्ववत् ।
शिवज्ञानस्य निन्दायां पूर्ववन्नन्दिकेश्वर ॥ ११९ ॥
देवस्वहर्ता तद्द्रव्यं द्विगुणं तस्य दापयेत् ।
चान्द्रायणजपादीनि पूर्ववत्कारयेत्क्रमात् ॥ १२० ॥
प्। १२१८)
गुरुद्रव्यविनाशे तु तस्मै द्विगुणितं ददेत् ।
चान्द्रायणद्वयं कुर्यात् पूर्ववज्जपमुच्यते ॥ १२१ ॥
प्रीत्या गुरोश्च शिष्याय यद्दत्तं तत्सुखावहम् ।
सुरापस्य विशुद्धिस्तु कालान्तेन न विद्यते ॥ १२२ ॥
सुरां तप्त्वाग्निवर्णाभां पाययेन्मरणं ध्रुवम् ।
तेन शुद्धिस्तु विहिता गुणतत्तर विद्यते ॥ १२३ ॥
त्रिलक्षं शिवमन्त्रं च चान्द्रायणमथाष्टकम् ।
आचरेद्येन शुद्धिः स्यात् प्रमादाद्यदि तस्य तु ॥ १२४ ॥
कृतघ्नो ज्येष्ठ बाली च गुरुनिन्दासमं भवेत् ।
गुरुतल्पगतस्यापि गुरोरग्रे प्रिये रतः ॥ १२५ ॥
प्। १२१९)
तस्याग्रेऽप्यन्तकोपी वा स्वर्णस्तेये तथैव च ।
एते वै पञ्चकास्तेऽपि महापापसमन्विताः ॥ १२६ ॥
गुरुतल्पाभिगमनी लिङ्गं स्वं शस्त्रतो हरेत् ।
तालपत्रयुतो गच्छेद् दक्षिणां ककुभं प्रति ॥ १२७ ॥
मरणान्ते च गमनं तेन शुद्धिर्भविष्यति ।
पुरस्ताद्देशिकस्यापि तथैवाप्रियवादकम् ॥ १२८ ॥
जिह्वायाश्च्छेदनं कुर्यात्तेनैव मरणं भवेत् ।
अथवानुग्रहात्तस्य गुरोश्शुद्धिर्विधीयते ॥ १२९ ॥
गुरुनाम जपेन्नित्यं मौनी तज्ज्ञानतत्परः ।
एनमामरणात्कुर्यात् तेन तस्यापि शुद्धिभाक् ॥ १३० ॥
प्। १२२०)
तद्वज्ज्येष्ठप्रिये युक्तं चान्द्रायण समन्वितः ।
मौनी देहं त्यजेत्पश्चात् तेन शुद्धिश्च जायते ॥ १३१ ॥
विप्रादि जाति स्मरणं नैष्ठिके वचनं यदि ।
शिवनिन्दासमं ज्ञेयमघोरं लक्षकं जपेत् ॥ १३२ ॥
विण्मूत्र शुक्लसम्पर्काच्छरीरं न च शुद्धियुक् ।
तद्वाणव मायोत्थतथर्माद्यशुपासनात् ॥ १३३ ॥
ज्ञानिनो यदि तल्लोपादशुचित्वं प्रपद्यते ।
शिवानुभूताध्ययनादानन्दाच्छुद्धिमाप्नुयात् ॥ १३४ ॥
तपोवनादि संयुक्तः प्रायश्चित्तं समाचरेत् ।
सुमहत्पातुकाद्यन्ते चोपपाता व सानिकम् ॥ १३५ ॥
प्। १२२१)
विलोक्य व्रतकृच्छ्रादि तीर्थक्षेत्रादिवेशनम् ।
अग्रेऽपि चोग्रतपसा चाल्पे चाल्पे च वैभवम् ॥ १३६ ॥
तपः कृच्छ्रादयोप्युक्तास्तप्तकृच्छ्रास्तथैव च ।
अतिकृच्छ्रं तृतीयं स्यात्परा कश्चित्स्वरूपकम् ॥ १३७ ॥
चान्द्रायणशतं पश्चात् क्रमात्कृच्छ्रादिकं शृणु ।
त्रिरात्रमेकभुक्तिस्तु त्रिदिनं वोपवासनम् ॥ १३८ ॥
कृच्छ्रमेव समाख्यातं प्राजापत्यमिति स्मृतम् ।
उष्णाम्बु त्रिदिनं पीत्वा क्षीरभोजी जितेन्द्रियः ॥ १३९ ॥
सोष्ण्यमाज्यं त्र्यहं वाद्य त्रिदिनं केवलोदकम् ।
तप्त कृच्छ्र इति ख्यातमतिकृच्छ्रमथोच्यते ॥ १४० ॥
प्। १२२२)
एकविंशतिनक्षत्रं त्रिपक्षं क्षीरभोजनम् ।
अतिकृच्छ्रस्समाख्यातः पराकस्त्विह कथ्यते ॥ १४१ ॥
द्वादशाहो निराहारः पराकाख्य इति स्मृतः ।
मासार्धं ग्रासवृद्धिः स्याच्छुक्ले कृष्णेऽवभासयेत् ॥ १४२ ॥
चान्द्रायणं यवामर्धं पिपीलाख्यं ततः परम् ।
मासार्धं ग्रासमासेस्याध्रासंशुक्ले च वर्धयेत् ॥ १४३ ॥
चान्द्रायणमिति प्रोक्तं जलेनैव जलात्मकम् ।
सायमाद्यन्तयोरह्वः सायं प्रातश्च मध्यमे ॥ १४४ ॥
चरिष्णुरुपवासं च जलं भुक्तं चतुष्टयम् ।
मध्यमस्त्वितयं वाथ तदर्धं नादमेव वा ॥ १४५ ॥
प्। १२२३)
उपवासस्समाख्यातो गङ्गादीनां हि तीर्थकम् ।
व्रतं वै ब्रह्मचर्यादि भोजनं तत्र कथ्यते ॥ १४६ ॥
हविष्यं च मितग्रासं भिक्षान्नं क्षीरभोजनम् ।
शकं यावकपिण्याकं कन्दमूलपलाशनम् ॥ १४७ ॥
वाय्वादिरं निराहारम् एवमादि समाचरेत् ।
यस्मिन्विधिनिषेधोवा नास्ति कर्मण्यनुष्ठिते ॥ १४८ ॥
तस्मिन्पुण्यं च पापं च नेति शास्त्रार्थ निश्चयः ।
प्रायश्चित्ते हुतादीनां शान्तिं सद्यस्समाचरेत् ॥ १४९ ॥
दिनपक्षार्क्षलग्नादीन् प्रेक्षणं चैव कारयेत् ।
सद्यः कृतं रत्नगर्भप्रायश्चित्तं न शस्यते ॥ १५० ॥
प्। १२२४)
मध्यं सप्तदिनादूर्ध्वं पक्षाहादथवा भवेत् ।
मासावसानकं यत्तु हीनं तथैश्चर ॥ १५१ ॥
आत्मार्थे च गुणं प्रोक्तं प्रायश्चित्तविधौ तदा ॥ १५२ ॥
स्वाहान्तं होमकाले च जपकाले नमोन्तकम् ।
स्वाहान्ते भगवत् क्षोभवंशपदं पुनः ॥ १५३ ॥
पश्चादनन्तरं पापी शतम्मन्त्रान्तरं तु वा ॥ १५४ ॥
सञ्जप्य जपकाले तु होमकाले विशेषतः ।
पूर्णाहुतिं च जुहुयाद् विधिना नन्दिकेश्वर ॥ १५५ ॥
प्। १२२५)
एकत्रिपञ्चसप्ताहान्न * * * * सप्तकैः ।
पक्षत्रिसप्तनक्षत्रे अविच्छिन्ना यतस्ततः ॥ १५६ ॥
लक्षजापे तु कर्तव्यमधिके वर्धयेत्पुनः ।
आत्मार्थलिङ्गमन्येन पूजितं वा स्वयं पुनः ॥ १५७ ॥
प्रायश्चित्तं तु कर्तव्यं शास्त्रोक्तेन जपादिना ।
नैष्ठिकोपि हरिद्रां च ताम्बूलं यदि सेवते ॥ १५८ ॥
दिनं प्रति सहस्रं वै दक्षिणं तु जपेत्क्रमात् ।
सप्ताहादूर्ध्वमेवं स्यात्कृच्छ्रमेकं चरेत्सुधीः ॥ १५९ ॥
नैष्ठिकः शिविका डोलातुरङ्गाद्यधिरोहणात् ।
अघोरं तु सहस्रं स्याद्दिनं प्रतिदिनं प्रति ॥ १६० ॥
प्। १२२६)
व्याध्यादौरोहणाद्धूद्यो न दोषाय कदाचन ।
शिवद्रोहे गुरुद्रोहे ज्ञानिनिन्दादिनि व्रते ॥ १६१ ॥
रौरवादिक्रिये चैव तत्तद्भेदे तथैव च ।
अष्टाविंशति कोटीनां नरकेप्यतिदारुणे ॥ १६२ ॥
आजन्मतारको नित्यं व्याधितो भवति ध्रुवम् ।
सुमहत्पातंशकृथमे तत्कालार्धं तु पीड्यते ॥ १६३ ॥
तद्दशांशं तु कालः स्यात् * * * * दि पञ्चके ।
तत्समे तु तदर्धं स्यान्निरये वसतिस्सदा ॥ १६४ ॥
मृगपक्ष्यादिहननेप्युपपातकसम्भवे ।
प्। १२२७)
तत्समे तु तदर्धं वै नरकीपीडनं भवेत् ।
तस्मात्सर्वप्रयत्नेन पातकादीन्विसर्जयेत् ॥ १६६ ॥
पुनर्जन्म न विद्येत दीक्षितस्य विशेषतः ।
पापान्नरकसम्प्राप्तिस्तस्मात्पापं न कारयेत् ॥ १६७ ॥
शान्तिके पौष्टिके वापि प्रायश्चित्तादिके जपे ।
वश्यं पूर्वमुखं चैव दक्षिणं चाभिचारकम् ॥ १६८ ॥
धनदं पश्चिमं विद्याद् उत्तरं शान्तिदं भवेत् ।
उष्णीषं कञ्चुकीनाशो मुक्तकेशोदलावृतः ॥ १६९ ॥
अपवित्रकरोऽशुद्धो * * * नं जपेत्क्वचित् ।
जृम्भानिष्ठीवनं चैव क्षुतमर्दन तन्त्रिका ॥ १७० ॥
प्। १२२८)
नीचान्त्य दर्शनं चैव वर्जयेज्जपकर्मणि ।
आचमनं भवेत्तेषां स्मरेद्वामामुमान्वितम् ॥ १७१ ॥
नक्षत्राणि च पश्येद्वा कुर्याद्वा प्राणयामकम् ।
रथ्यायामशिवे स्थाने चान्धकारे विशेषतः ।
पादौ प्रसार्य न जपेत् कुक्कुटासनको नवः ॥ १७३ ॥
यानशय्यादिरूढो वा चित्तव्याकुलसम्भवः ।
सुशक्तश्चेत्सर्वमेव शक्तयश्शक्तितो जपेत् ॥ १७४ ॥
आदौ योगे भवेदन्ते पल्लवस्सम्पुटद्वयोः ।
ग्रथनोन्तरितः प्रोक्ता विदर्भो द्व्यन्तरीकृतः ॥ १७५ ॥
प्। १२२९)
मध्याद्यन्तचरोयः स्यात्साध्यनामा * * * * ।
तम्भनं रोधने विद्यादाकृष्टौ स्याद्द्विदर्भनम् ॥ १७६ ॥
उच्चाटे मारणे कार्यः पल्लवश्च विशेषतः ।
अनिर्दिष्टमसञ्ज्ञं च यत्कृतं तद्वृथा भवेत् ॥ १७७ ॥
यमुद्दिश्य कृतं कर्म तस्य सिद्धिदमुच्यते ।
मोक्षे प्रायश्चित्तेषु सप्तत्तुषु जपं भवेत् ॥ १७८ ॥
ग्रीष्मे उद्वेषणं कुर्याद् वर्षासूच्चाटनं भवेत् ।
मारणं शिशिरे कुर्यात् तथान्यानि वसन्तके ॥ १७९ ॥
पूर्वाह्ने शान्तिकं प्रोक्तं मध्याह्ने तु जयार्थकम् ।
उच्चाटनं पराह्ने स्यान् मध्याह्ने शैशिरं तु वा ॥ १८० ॥
प्। १२३०)
हेमन्ते कर्मपूर्वाह्ने मध्याह्नेऽपि प्रशस्यते ।
अर्धयाम्मोत्तरे काले हेमन्ते कर्म शस्यते ॥ १८१ ॥
अर्धयामोत्तरे यामे अपराह्ने तु * मकम् ।
चारदं चार्धरात्रे स्याद् वासन्तं सार्धवाधके ॥ १८२ ॥
शान्तिस्सर्वत्र श * * * * * * * * * * ।
॥ चिन्त्यः समाप्तः ॥
प्। १२३१)
योगजमहोत्सवः
अथ वक्ष्ये विशेषेण शिवोत्सवविधिक्रमम् ।
सर्वदोषनिवृत्त्यर्थं सर्वलोक सुखावहम् ॥ १ ॥
सर्वदेव प्रियार्थं स्यात् सर्वप्राणि सुखावहम् ।
राष्ट्रस्य सस्यफलदं भुक्तिमुक्ति फलप्रदम् ॥ २ ॥
राज्ञां च विजयस्यार्थं सर्वरक्षार्थ साधनम् ।
उत्सवं कॢप्तभेदं च पुष्कलं विजयान्वितम् ॥ ३ ॥
स * * * त्युच्यते वाचा * * शब्दभाषितम् ।
उद्भूतसृष्टिकारित्वाद् उत्सवः कथितः क्रमात् ॥ ४ ॥
प्रतिष्ठोत्सवविधिश्चैव मासोत्सव विधिक्रमः ।
अमावास्यां समारभ्य मासोत्सवं तथैव च ॥ ५ ॥
प्। १२३२)
वसन्तोत्सव विधिं चैव पुष्यमासेष्विदं तथा ।
चैत्रमासे त्रयोदश्यां मासनक्षत्रमेव च ॥ ६ ॥
वैशाखे तु विशाखान्तं वसन्तोत्सवमेव च ।
सर्वमासे तु कर्तव्यं महोत्सवविधिक्रमः ॥ ७ ॥
निश्चित्यमासनक्षत्रे कथितमुत्सवं तथा ।
षोडशं सर्वरक्षार्थं चैत्रं द्वादशकं तथा ॥ ८ ॥
सौख्यं नवदिनं प्रोक्तं सप्ताहं श्रीकरं भवेत् ।
पार्थिवं पञ्चदिनं चैव द्व्यहं वृद्धिकरं तथा ॥ ९ ॥
एकाहं शिवमेवोक्तम् उत्सवं कारयेद्बुधः ।
सप्तविंशति नक्षत्रं ध्वजारोहण पूर्वकम् ॥ १० ॥
प्। १२३३)
भेरीमादौ समारभ्य अष्टादशदिनं भवेत् ।
अङ्कुरार्पणकं पूर्वं ध्वजं पश्चात्समर्चयेत् ॥ ११ ॥
भेरीं तु ताडनं कुर्याद् अस्त्रदेवार्चनं भवेत् ।
सर्वेषामुत्सवं कुर्यात् पूर्वं वृषभमर्चयेत् ॥ १२ ॥
तद्दिनात्पूर्वरात्रौ तु वृषयागं समाचरेत् ।
प्रतिष्ठादिक्रमेणैव मण्डपं तु प्रकल्पयेत् ॥ १३ ॥
ध्वजस्य लक्षणं चैव कार्पासं सितमेव च ।
द्वादशं दशहस्तं स्यान्नवहस्तमथापि वा ॥ १४ ॥
ध्वजस्य पञ्चभागं स्याच्छिखरं हस्तमेव च ।
हस्तार्धं पुच्छमेवोक्तं त्रिपुच्छं तु द्विपुच्छकम् ॥ १५ ॥
प्। १२३४)
तत्पटं पञ्चधा भज्य मध्यभागे वृषं लिखेत् ।
ऊर्ध्वे तस्य लक्ष्मीं चैव अधो भागे तु कुम्भकैः ॥ १६ ॥
तदूर्ध्वे अस्त्रदेवः स्यात्तदूर्ध्वेच्छत्र चामरे ।
पार्श्वे तु दीप एवोक्त अथवा कुरमेव वा ॥ १७ ॥
धूपघण्टामिति प्रोक्तं पूर्णकुम्भैरलङ्कृतम् ।
श्वेतं रक्तं तथा पुष्पं सर्वालङ्कारमेव च ॥ १८ ॥
वृषभं श्वेतवर्णं च सर्वसिद्धिं प्रकारयेत् ।
काम्याद्धरहवर्णेन आभिचारं तु * * कम् ॥ १९ ॥
स्मभवशयनं चैवं वृषभं तु लिखेद्बुधः ।
कृते तदुक्तवर्णानां वालापीतेन शोभितम् ॥ २० ॥
प्। १२३५)
नेत्रं तु कृष्णवर्णं च रक्तं नीलं तु मिश्रकम् ।
सर्वाभरण संयुक्तं सर्वपुष्पैरलङ्कृतम् ॥ २१ ॥
शिवाग्रे मण्डपं धौतं गोमयालेपनं तथा ।
दर्भमालां समावेष्ट्य मुक्तादामप्रलम्बितम् ॥ २२ ॥
तन्मध्ये स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ।
तदर्धं तण्डुलैः कुर्यात् तदर्धं तु तिलैरपि ॥ २३ ॥
तन्मध्ये नलिनं लिख्य मध्यमे वृषभध्वजम् ।
तदग्रे स्थण्डिलं कुर्यात् नेत्र भन्तु स्थापयेत् ॥ २४ ॥
अभितोष्टघटान्न्यस्त्वा पूजयेत्पूर्ववत्क्रमात् ।
मध्ये वृषभमावाह्य गन्धपुष्पैस्समर्चितम् ॥ २५ ॥
प्। १२३६)
परितोऽष्टघटान्न्यस्त्वा स्वस्वबीजेन विन्यसेत् ।
इक्षुं च गोपतिं चैव शङ्कुकर्णं तथैव च ॥ २६ ॥
तीक्ष्णशृङ्गं तथानन्दिं वृषभं लजं तथा ।
महोदरोष्टमश्चैव स्वस्वनाम्ना प्रपूजयेत् ॥ २७ ॥
वृषगायत्रिमन्त्रेण वृषकुम्भं न्यसेत्क्रमात् ।
तदग्रे स्थण्डिलं कुर्यात्सितैस्सिकतमेव च ॥ २८ ॥
चतुरश्रासनं कुर्याद्धस्तमात्रेण देशिकः ।
प्राच्य सूत्रं त्रिसूत्रं स्यादुदक्सूत्रं तथैव च ॥ २९ ॥
ब्रह्मजज्ञानमन्त्रेण मध्यरेखां समालिखेत् ।
नाके सुपर्णमन्त्रेण दक्षिणेषु लिखेद्बुधः ॥ ३० ॥
प्। १२३७)
आप्यायस्वेति मन्त्रेण उत्तरे तु समालिखेत् ।
योरुद्र इति मन्त्रेण उदक् सूत्रं तथैव च ॥ ३१ ॥
इदं विष्ण्विति मन्त्रेण पूर्वे रेखां समालिखेत् ।
इन्द्रं विश्वेति मन्त्रेण पश्चिमे तु समालिखेत् ॥ ३२ ॥
शिवाम्भसा तु सम्प्रोक्ष्य कूर्चं प्रादेश पूजयेत् ।
वागीश्वरं तु वागीशीम् आसनं तु प्रपूजयेत् ॥ ३३ ॥
तदग्रे वह्निं संस्थाप्य होमं कृत्वा विचक्षणः ।
पूर्ववच्चाग्नि संस्कारं पूजयेद्वृषभं गुरुः ॥ ३४ ॥
ब्रह्माणं दक्षिणेऽभ्यर्च्य उत्तरे विष्णुमेव च ।
परिस्तरणे दद्याद् दर्भादीनि परिस्तरेत् ॥ ३५ ॥
प्। १२३८)
प्रोक्षणीमूर्ध्वतः स्थाप्य अधः प्रणीतापात्रकम् ।
आज्यस्थालीं तथा स्थाप्य चरुस्थालीं तु स्थापयेत् ॥ ३६ ॥
प्रणीतां प्रोक्षणीं चैव आज्यस्थाली मधोमुखम् ।
सृक्सृवाभिमुखे स्थाप्य स्थापयेत्तु अधोमुखम् ॥ ३७ ॥
प्रादेशमात्रसमिधा परिधित्रयमेव च ।
समिधाद्वयपूर्वे तु * * * * * * * * ॥ ३८ ॥
इन्धनं तत्र कुर्वीत वह्निं प्रजालयेत्क्रमात् ।
आहुति त्रितयं कुर्याद् व्याहृत्या जुहुयात्क्रमात् ॥ ३९ ॥
पञ्चब्रह्म षडङ्गेन जुहुयात्तु क्रमात्सुधीः ।
वृषगायत्रिमन्त्रेण तत्र होमत्रयं हुनेत् ॥ ४० ॥
प्। १२३९)
समिधस्सद्यमन्त्रेण आज्यं वामेन होमयेत् ।
चरुन्त्वघोरमन्त्रेण लाजं तत्पुरुषेण तु ॥ ४१ ॥
तिलमीशान मन्त्रेण सर्षपं कवचेन तु ।
आढकं मुद्गमाषाणां तथैव जुहुयात्क्रमात् ॥ ४२ ॥
शिवमन्त्रेण जुहुयात् प्रत्येकं तु दशाहुतीः ।
होमान्ते वृषकुम्भः स्याद्वृषकुम्भस्तु मूर्तिमान् ॥ ४३ ॥
तदग्रे भेरीदेवः स्यात् स्थण्डिलेन प्रकल्पयेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च अधिदेवाः प्रकीर्तिताः ॥ ४४ ॥
गन्धं पुष्पं च धूपं च दीपं चैव निवेद्यकम् ।
अर्चयेद्भेरिदेवं स्याद् आचार्यस्ताडयेत्क्रमात् ॥ ४५ ॥
प्। १२४०)
आहूय वाद्यकान्पश्चात् शुद्धपारशिवस्तथा ।
अङ्गपूर्ण समायुक्तं शक्त्या सहितमेव च ॥ ४६ ॥
शक्तिहीनं विना कुर्याद् वर्जयेत्तु विचक्षणः ।
नन्दिकेश्वरमावाह्य वाद्यान्हृदय सम्पदम् ॥ ४७ ॥
यजनं धूपदीपं स्यात् पुष्पं हस्ते निधापयेत् ।
तत्पुष्पं निक्षिपेद्भेर्यां समतालं तु वाद्यकान् ॥ ४८ ॥
सप्ततालमिदं प्रोक्तमाचार्यः शिष्य एव वा ।
अस्त्रदेवं समभ्यर्च्य मध्यपत्रे तु रुद्रकम् ॥ ४९ ॥
ब्रह्माणं दक्षिणे पत्रे वामपत्रे जनार्दनम् ।
गौरीं च मध्यकूले तु सरस्वतीं दक्षिणे तथा ॥ ५० ॥
प्। १२४१)
लक्ष्मीं च वामपत्रे तु मध्ये गङ्गां च योजयेत् ।
गणेशं पालिकामध्ये स्कन्दं दण्डाग्र एव च ॥ ५१ ॥
अनन्तादिशि खण्ड्यन्तं पालिकोपरि विन्यसेत् ।
क्षेत्रपालं तथैशान्यां दण्डमध्ये तु शास्तु च ॥ ५२ ॥
चन्द्रसूर्यादिनक्षत्रं दण्डमध्ये तु पूजयेत् ।
चण्डेशं दण्डमूले तु सर्वदेवे च सङ्ग्रहे ॥ ५३ ॥
सर्वदेवं समावाह्य अस्त्रेणैव समाचरेत् ।
धूपदीप समायुक्तं सर्वदेव निवेद्यकम् ॥ ५४ ॥
अस्त्रदेवं च लिङ्गं च बलिपात्रं तथैव च ।
प्रतिश्चन्द्रधरं चैव वृषध्वजसहैव च ॥ ५५ ॥
प्। १२४२)
ग्रामप्रदक्षिणं कुर्याद् बलिदेवान्समर्चयेत् ।
दिनदैवतमावाह्य पीठाग्रे वा ध्वजाग्रके ॥ ५६ ॥
प्रथमं विघ्नरात्रं स्याद् पैशाचं तु द्वितीयकम् ।
तृतीयं ब्रह्मरात्रं स्याद् गन्धर्वं तु चतुर्थकम् ॥ ५७ ॥
पञ्चमं भूतरात्रं स्यात् षष्ठं वै गुहरात्रकम् ।
सप्तमम् ऋषिरात्रं स्याद् अष्टमं नागरात्रकम् ॥ ५८ ॥
नवमं चेन्द्ररात्रं स्याद् दशमं विष्णुरात्रकम् ।
एकादशं रुद्ररात्रं द्वादशं शिवरात्रकम् ॥ ५९ ॥
गणरात्रं त्रयोदश्यां चतुर्दशं राक्षसं तथा ।
पञ्चादशं शास्तुरात्रं शक्तिरात्रं च षोडश ॥ ६० ॥
प्। १२४३)
विघ्नादिशिवपर्यन्तं पैतृकोत्सवमेव च ।
विघ्नादि चेन्द्रपर्यन्तं सौख्यमुत्सवमेव च ॥ ६१ ॥
विघ्नादि ऋषिरात्रान्तं सप्ताहमुत्सवं भवेत् ।
विघ्नादि भूतपर्यन्तं पार्थिवोत्सवमेव च ॥ ६२ ॥
विघ्नादि ऋषिरात्रान्तं सप्ताहमुत्सवं भवेत् ।
विघ्नादि भूतपर्यन्तं पार्थिवोत्सवमेव च ॥ ६३ ॥
विघ्नादि ब्रह्मपर्यन्तं सात्विकोत्सवमेव च ।
प्रथमं गणपते रात्रमुत्सवादिति सम्भवेत् ॥ ६४ ॥
प्रथमं विघ्नराजं तु अपूपं तिलचूर्णकम् ।
शुद्धान्नं तु निवेद्यं स्याद्विघ्नरात्रौ बलिं क्षिपेत् ॥ ६५ ॥
प्। १२४४)
शुद्धान्नं कृसरान्नं च माषयुक्तं दधिप्लुतम् ।
द्वितीयेऽहनि दातव्यं पैशाचं मन्त्रमुच्चरन् ॥ ६६ ॥
शुद्धान्नं बृहती सर्पिर्दधिक्षीरं तु मिश्रकम् ।
तृतीयेऽहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् ॥ ६७ ॥
कृसरान्नं लड्डुकं सर्पिः कदलीगुलसंयुतम् ।
चतुर्थेऽहनि दातव्यं गान्धर्वं मन्त्रमुच्चरन् ॥ ६८ ॥
मुद्गान्नं गुलसंयुक्तं मधुक्षीरं घृतं तथा ।
पञ्चमेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् ॥ ६९ ॥
पायसान्नं घृतं चैव कदलीगुलसंयुतम् ।
षष्ठेऽहनि प्रदातव्यं स्कन्दमन्त्रमनुस्मरन् ॥ ७० ॥
प्। १२४५)
शुद्धान्नं घृतसंयुक्तं बृहतीफलमेव च ।
सप्तमेऽहनि दातव्यम् ऋषिमन्त्रमनुस्मरन् ॥ ७१ ॥
षिष्ठमाषमधूसर्पिरिक्षुमिश्रमिति स्मृतम् ।
अष्टमेऽहनि दातव्यं नागमन्त्रमनुस्मरन् ॥ ७२ ॥
शुद्धान्नं सघृतं क्षीरं पनसाम्रफलं तथा ।
नवमेऽहनि दातव्यं मनुमन्त्रमनुस्मरन् ॥ ७३ ॥
शुद्धान्नं दधि संयुक्तं गुलखण्ड समन्वितम् ।
कदलीपनसं चाम्रं नालिकेरफलान्वितम् ॥ ७४ ॥
दशमेऽहनि दातव्यं विष्णुमन्त्रमनुस्मरन् ।
माषान्नं घृतसंयुक्तं क्षीरं च गुलखण्डकम् ॥ ७५ ॥
प्। १२४६)
एकादशबलिं कुर्याद् रुद्रमन्त्रमनुस्मरन् ।
शुद्धान्नं दधिसंयुक्तं बृहती मूलसंयुतम् ॥ ७६ ॥
द्वादशेऽहनि दातव्यं शिवमन्त्रमनुस्मरन् ।
कृसरान्नं घृतं सर्पिर मधुक्षीरफलं तथा ॥ ७७ ॥
त्रयोदशेऽह्नि दातव्यं गणानां मन्त्रमुच्चरन् ।
मुद्गान्नं माषसंयुक्तं गुलं क्षीरं घृतं तथा ॥ ७८ ॥
चतुर्दशेऽह्निदातव्यं राक्षसं मन्त्रमुच्चरन् ।
पायसं घृतसंयुक्तं गुलखण्डसमन्वितम् ॥ ७९ ॥
पञ्चादशेऽह्नि दातव्यं शास्तृमन्त्रमनुस्मरन् ।
शुद्धान्नं लड्डुकं सर्पिः कदलीकारवल्लिका ॥ ८० ॥
प्। १२४७)
वल्लीमूलं तथा कन्दं गुलक्षीरं घृतं तथा ।
षोडशेऽहनि दातव्यं शक्तिमन्त्रमनुस्मरन् ॥ ८१ ॥
दिनदैवतमावाह्य नित्यमेवं बलिक्रमम् ।
ब्रह्माद्यैशानपर्यन्तं लोकपालबलिं क्षिपेत् ॥ ८२ ॥
शुद्धान्नं घृतसंयुक्तं दधिक्षीरं तु मिश्रकम् ।
पश्चिमद्वारहर्म्ये तु वास्तुभूतबलिः क्रमात् ॥ ८३ ॥
ब्रह्मादिनिरृत्यन्तं वारुणादिप्रदक्षिणम् ।
एवं बलिक्रमं कुर्यान् नित्यमेव बलिं क्षिपेत् ॥ ८४ ॥
तद्द्वारे बलिं निक्षिप्य वृषभं तत्र पश्चिमम् ।
ज्येष्ठादि विघ्नपर्यन्तं स्वस्वनाम्ना बलिं क्षिपेत् ॥ ८५ ॥
प्। १२४८)
दिनदैवतमावाह्य पीठाग्रे तु बलिं क्षिपेत् ।
ध्वजादिबलिपीठान्तं सर्वमेव बलिं क्षिपेत् ॥ ८६ ॥
सर्वदेवालयाग्रे तु ग्रामद्वारे बलिं क्षिपेत् ।
कूपे चैव महामोटीं दुर्गादेवीं बलिं क्षिपेत् ।
श्मशाने सुन्दरीं चैव देवकोष्ठं बलिं क्षिपेत् ॥ ८८ ॥
तत्तत्स्वनाममन्त्रेण बलिक्षेपविधिं शृणु ।
ग्रामप्रदक्षिणं कुर्यान्महापीठे बलिं क्षिपेत् ॥ ८९ ॥
लिङ्गस्य तु महापीठे अन्नलिङ्गं विसर्जयेत् ।
जले तु भूतकं कुर्याद् विसृजेदन्न लिङ्गकम् ॥ ९० ॥
प्। १२४९)
आवाहनबलिं चैव उद्वासनबलिं तथा ।
त्रिंशद्बलिक्रमं कुर्यात् षोडशं दिनमेव च ॥ ९१ ॥
चतुर्विंशद्बलिं कुर्याद् द्वादशं दिनमेव च ।
अष्टादशबलिं कुर्यात् सौम्यमेवं विधीयते ॥ ९२ ॥
मनुना कौशिकं चैव एकाहे तु प्रदापयेत् ।
बलिसङ्ख्या इति प्रोक्ता उत्सवस्य विधिं शृणु ॥ ९३ ॥
उत्सवं कारयेद्धीमान् पुण्यनक्षत्र एव च ।
प्रतिष्ठाद्युत्सवे हीने यथेष्टं मासमानयेत् ॥ ९४ ॥
राजजन्मन्यनक्षत्रे सुखप्रीतिकराय च ।
द्वाहापीठं * * * * प्रसादुर्धूढमेव च ॥ ९५ ॥
प्। १२५०)
व्याप्तलिङ्गविदीर्याणि यजेदुत्सवमेव च ।
प्रतिष्ठाशिखरं हीनम् उत्सवं वर्जयेत्ततः ॥ ९६ ॥
अङ्गोपाङ्गं च प्रत्यङ्गं परिवारसमन्वितम् ।
प्रासादद्वार * * * * * मेवमिहोच्यते ॥ ९७ ॥
हीने तु उत्सवं हीने वर्जयेत्तु विचक्षणः ।
प्रारभ्यमुत्सवे हीने यथेष्टं मासि मानयेत् ॥ ९८ ॥
आहसं सहसा कृत्वा पश्चादुत्सवमाचरेत् ।
कालातीतादिदोषेण शान्तिहोमं समाचरेत् ॥ ९९ ॥
राजक्षोभे न कर्तव्यम् उत्सवं हीनमेव च ।
राजराष्ट्रे सुखं प्राप्ते पुनरुत्सवमाचरेत् ॥ १०० ॥
प्। १२५१)
पूर्वोत्सवविहीने च यथेष्टं मासि मानयेत् ।
प्रायश्चित्तविधिं कुर्याच्छान्तिहोमं समाचरेत् ।
मासनक्षत्र तीर्थान्तम् आर्द्रान्तमुत्सवं परम् ॥ १०२ ॥
ग्रामनक्षत्र तीर्थान्तं प्रतिष्ठानक्षत्रमेव च ।
राजजन्मन्यनक्षत्रे यजमानवशाद्बुधः ॥ १०३ ॥
चान्द्रमित्युक्तनक्षत्रं सौरमानं च तीर्थकम् ।
तत्काले तीर्थमारभ्य सङ्क्रमं सम्भवेत्सुधीः ॥ १०४ ॥
गुरुशुक्रास्तमे चैव तन्मासमुत्सवं कुरु ।
प्रतिमां वर्जनात्पश्चाद् ऋज्यवं कारयेद्बुधः ॥ १०५ ॥
प्। १२५२)
सर्वमासेषु कर्तव्यमुत्सवं कारयेत्क्रमात् ।
नित्यं नैमित्तिकं काम्यमुत्सवं त्रिविधं भवेत् ॥ १०६ ॥
नित्यं नित्योत्सवं कुर्यान्नैमित्तिकं विशेषतः ।
यथेष्ठं काम्यमित्युक्तम् उत्सवं त्रिविधं भवेत् ॥ १०७ ॥
नित्योत्सवं ततः कुर्यात् नैमित्तिकमहोत्सवम् ।
इष्टमासेषु काम्यार्थमुत्सवं कारयेद्बुधः ॥ १०८ ॥
नित्योत्सवं विनायत्र महोत्सवं विसर्जयेत् ।
ध्वजारोहण * * तु वर्जयेत्तु विचक्षणः ॥ १०९ ॥
यजमानेच्छया कुर्याद् यथेष्टं मासि मानयेत् ।
ध्वजे ध्वजं न कर्तव्यं कर्तव्यं वृषभध्वजम् ॥ ११० ॥
प्। १२५३)
विष्णुकल्याणदं प्रोक्तं शिवयागं समाचरेत् ।
देवयागं च कुर्वीत विष्णुयागं विनाशयेत् ॥ १११ ॥
देवानामपि कल्याणं नृपादीनां न कारयेत् ।
ग्रामे च नगरे चैव पत्तने राजधानिके ॥ ११२ ॥
सर्वदेवोत्सवं कुर्याद् एकस्मिन्नेव वस्तुनि ।
हरि * * * * * स्यात् हरिपृष्ठं तु शोभनम् ॥ ११३ ॥
सर्वदेवोत्सवं कुर्याद् एकवास्तु बलिक्रमम् ।
उत्सवं कारयेद्धीमान् पुण्यमासे तु पूर्वकम् ॥ ११४ ॥
माघमासे तु माघान्तं फाल्गुन्यां चोत्तरान्तकम् ।
चैत्रमासे तु चित्रान्तं विशाखे वैशाख एव च ॥ ११५ ॥
प्। १२५४)
मूलान्तं ज्येष्ठमासे तु कृष्णाष्टम्यन्तमुत्सवम् ।
आषाढे पूर्वनक्षत्रे श्रावणे वैष्णवान्तकम् ॥ ११६ ॥
शुक्लपक्षे तृतीयेषु रोहिण्यन्तं प्रकल्पयेत् ।
पूर्णे तु मासनक्षत्रे समुद्रस्नानमुत्तमम् ॥ ११७ ॥
पूर्वाषाढान्तं भाद्रे तु अश्वान्तमश्वमासके ।
कार्तिके कृत्तिकान्तं वा आर्द्रान्तमुत्सवं परम् ॥ ११८ ॥
विपुलं चान्द्रमासे तु सौरमासप्रशस्तिकम् ।
सर्वोत्सवं च ऋक्षे तु सौरं सौख्यान्तमेव च ॥ ११९ ॥
आरम्भं त्रिविधं तेषां कौतुकं बन्धपूर्वकम् ।
भेरीताडनपूर्वं च अङ्कुरार्पणपूर्वकम् ॥ १२० ॥
प्। १२५५)
अङ्कुरं वृषयागं तु वृषभान्तं प्रतिष्ठितम् ।
उत्सवाङ्कुरं द्वितीयं तु तीर्थाङ्कुरं तृतीयकम् ॥ १२१ ॥
सर्वेषामुत्सवं कुर्याद् अङ्कुरं द्विविधं भवेत् ।
नयनं मोक्षणं चैव जलाधिवासनं विना ॥ १२२ ॥
आचार्यः शिल्पिहस्तेन नयनोन्मीलनं कुरु ।
शालितण्डुल तन्मध्ये वृषकुम्भान्तमेव च ॥ १२३ ॥
अष्टदिक्कलशेनैव उक्षादीन्कलशे न्यसेत् ।
पुण्याहं वाचयेत्तत्र होमं कुर्याद्विशेषतः ॥ १२४ ॥
हेमसूच्या प्रकारन्तु सुमुहूर्ते विचक्षणः ।
मधुसर्पिस्तथा कुर्यान् नेत्रं तु स्पर्शनं तथा ॥ १२५ ॥
प्। १२५६)
धूपदीपं तथा कुर्याद्धान्यदर्शन सम्भवेत् ।
दर्पणे अभिषेकं तु मुद्गान्नं तु निवेदयेत् ॥ १२६ ॥
शिल्पिं विसर्जनं कुर्याद्गोमयालेपनं तथा ।
मण्डपे समलं कृत्य मध्ये स्थण्डिलमेव च ॥ १२७ ॥
नलिनं च लिखेत्तत्र मध्ये वृषभकुम्भकम् ।
अभितः कलशानष्टौ उक्षादीन्क्रमशो न्यसेत् ॥ १२८ ॥
हैमं तु नखदूर्वं च स्थण्डिलं तत्र कारयेत् ।
होमान्ते नयनोन्मीलं मधुसर्पिश्च लोचनम् ॥ १२९ ॥
दर्शयेद्द्रव्य संयुक्तम् अभिषेकं दर्पणं तथा ।
दर्पणं जलाधिवासं च प्रतिष्ठां कारयेद्बुधः ॥ १३० ॥
प्। १२५७)
शिवाग्रे मण्डपं कुर्याद्गोमयालेपनं तथा ।
मण्टपे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ १३१ ॥
तन्मध्ये नलिनं कृत्वा स्थापयेद्वृषभध्वजम् ।
कौतुकं बन्धयेद्धीमान्स्वर्णं रजतसूत्रकम् ॥ १३२ ॥
अथवा कार्पाससूत्रं स्याद्बन्धयेद्वृषशृङ्गके ।
पुण्याहं वाचयेत्तत्र कौतुकं बन्धयेत्क्रमात् ॥ १३३ ॥
त्रियम्बकेन मन्त्रेण रक्षासूत्रं तु बन्धयेत् ।
शयनं स्थण्डिलं कुर्यात् तदग्रे वृषकुम्भके ॥ १३४ ॥
अभितः कलशानष्टौ उक्षादीन्क्रमशो न्यसेत् ।
तदग्रे अग्निं संस्थाप्य होमयेत्पूर्ववद्गुरुः ॥ १३५ ॥
प्। १२५८)
तदग्रे भेरीदेवं स्यात् स्थण्डिलं तत्र कारयेत् ।
पश्चिमे अस्त्रदेवं तु शालिभिः स्थण्डिलं क्रमात् ॥ १३६ ॥
लाजपुष्पैरलङ्कृत्यदर्भमालासमन्वितम् ।
अग्निकार्योक्तमार्गेण होमयेत्तु विचक्षणः ॥ १३७ ॥
प्रोक्षणीं प्रणीता पात्रम् आज्यस्थालीं तु विन्यसेत् ।
उत्तरे आसनं कल्प्य अधोमुखं तु साधयेत् ॥ १३८ ॥
प्रोक्षणीपात्रमादाय तोयं कुशाक्षतैर्युतः ।
प्रादेशकूर्चसहितं त्रिःस्पर्शनजलं तथा ॥ १३९ ॥
आज्यस्थालीं प्रणीतां च ऊर्ध्वमुखान्तमेव च ।
प्रोक्षयेत्प्रोक्षणीं चैव प्रोक्षणीस्थजलं तथा ॥ १४० ॥
प्। १२५९)
प्रणीतां च जलं पूर्य कुशपुष्पाक्षतैर्युतः ।
जनार्दनं समावाह्य उत्तरे स्थाप्यमेव च ॥ १४१ ॥
दक्षिणे तु जले ब्रह्मकूर्चं पुष्पाक्षतान्वितम् ।
अग्निसंस्कार मेवं तु आज्यसंस्कारमेव च ॥ १४२ ॥
आज्यस्थालीं घृतं पूर्यं कूर्चं प्रादेशमात्रतः ।
प्रादेशे स्पर्शनं कुर्याद्विसर्जयेदग्निमेव च ॥ १४३ ॥
दर्भाग्निं प्रदक्षिणं कुर्यादाज्य संस्कारमेव च ।
एवं संस्कारमेवं तु यथोक्तं पूर्वमेव च ॥ १४४ ॥
समिदाज्यचरून्लाजान् माषशालि यवांस्तथा ।
तिलसर्षपमुद्गानि गुलखण्डं दश स्मृताः ॥ १४५ ॥
प्। १२६०)
परिस्तरणदर्भाणां परिधित्रंयमेव च ।
ऊर्ध्वं तु समिधा कृत्वा परिषेचमनन्तरम् ॥ १४६ ॥
अग्निसंस्कारमेवं तु आज्य संस्कारमेव च ।
समिधा सद्यमन्त्रेण आज्यं वामेन हूयते ॥ १४७ ॥
अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु ।
तिलमीशानमन्त्रेण सर्षपं कवचेन तु ॥ १४८ ॥
मुद्गमाष यवांश्चैव शिवमन्त्रेण हूयते ।
वृषमूलं च गायत्रीं शतमष्टोत्तरं शतम् ॥ १४९ ॥
द्रव्यान्ते व्याहृतिं हुत्वा स्विष्टमग्नेति मन्त्रतः ।
जयादि रभ्याधानं च राष्ट्रभृच्च हुनेत्क्रमात् ॥ १५० ॥
प्। १२६१)
पूर्णाहुतिं च शिरसा अग्निबीजमनुस्मरन् ।
ताम्बूलं दापयेत्कुर्यान् मूर्तिं वृषभ कुम्भके ॥ १५१ ॥
मन्त्रन्यासं ततः कुर्याद् वृषमूलेन मन्त्रवित् ।
भेरीघोषं ततः कुर्यादावाहनमथोच्यते ॥ १५२ ॥
आहूयवाद्यकान्पश्चात् शुद्धपारशिवाः स्मृताः ।
दीक्षितानां तु सर्वेषाम् आचार्यस्ताडयेत्क्रमात् ॥ १५३ ॥
नववस्त्रोत्तरीयं च यज्ञोपवीतमेव च ।
सर्वाभरण संयुक्तं सर्वपुष्पैरलङ्कृतम् ॥ १५४ ॥
पुष्पाञ्जलिसमायुक्तं भेरीघोष समन्वितम् ।
ताडयेन्नवतालं स्यादाचार्यः शिष्य एव च ॥ १५५ ॥
प्। १२६२)
अस्त्रदेवं तु सम्पूज्य देवतावाहनं भवेत् ।
शिवादि चण्डपर्यन्तम् आवाहनविधिं कुरु ॥ १५६ ॥
हविर्निवेदयेद्धीमान् सर्वदेवं निवेदयेत् ।
बलिपात्र समायुक्तमन्नलिङ्गास्त्रमेव च ॥ १५७ ॥
ध्वजं चण्डेश्वरं चैव ग्रामप्रदक्षिणं तथा ।
वृषयन्त्रं समादाय ध्वजपं बन्धयेत्क्रमात् ॥ १५८ ॥
सन्धि दैवतमावाह्य दिनदेव समन्वितम् ।
अन्तर्बलिक्रमं पूर्वयागान्ते वा बलिं क्षिपेत् ॥ १५९ ॥
दिनदैवतमावाह्य पीठाग्रे वा बलिं क्षिपेत् ।
सर्वमभ्यर्चयेद्धीमान् पश्चाद्वास्तु बलिं क्षिपेत् ॥ १६० ॥
प्। १२६३)
यन्त्रपीठं समादाय रत्नजं लोहजं तथा ।
अथवा दारुजं पीठं तालमान प्रमाणतः ॥ १६१ ॥
अथवा कदलीपत्रे वास्तुबाह्यबलिं क्षिपेत् ।
ग्रामप्रदक्षिणं कृत्वा महापीठबलिं क्षिपेत् ॥ १६२ ॥
अन्नलिङ्गस्य मूर्तीनां जले वापि बलिं क्षिपेत् ।
ध्वजपटं स्थालिकां चैव दण्डमूले तु संस्थितम् ॥ १६३ ॥
दण्डलक्षणमेवोक्तं दारुजं वाथ कारयेत् ।
आसनं खादिरं चैव बिल्वचम्पकमेव च ॥ १६४ ॥
देवदारुक संयुक्तं व्याघ्रवृक्ष समन्वितम् ।
मधूकमर्जुनं चैव कृष्णवृक्ष समन्वितम् ॥ १६५ ॥
प्। १२६४)
मुनिवृक्षसमुत्पन्नं क्रमुकं वेणुदण्डकम् ।
वक्रं भिन्नं च सुषिरं कृमिकोटरवर्जितम् ॥ १६६ ॥
अन्तस्सारं पुमानेवं बहिस्सारं तु शक्तिकम् ।
स्थूप्यन्तं वागलान्तं वा वृषस्थल समं तु वा ॥ १६७ ॥
तद्बाह्यं च समं वापि गोपुरस्य समं तु वा ।
त्रयस्त्रिंशति वा हस्तं पञ्चविंशति हस्तकम् ॥ १६८ ॥
ध्वजहस्तमपि प्रोक्तं दण्डायामं विधीयते ।
क्षीरवृक्षं तु सङ्ग्राह्य यष्टिं कृत्वा विचक्षणः ॥ १६९ ॥
चतुस्तालप्रमाणेन त्रितालं च समन्वितम् ।
अग्न्यङ्गुलघनं प्रोक्तं चतुराकृत्यलं कृतिम् ॥ १७० ॥
प्। १२६५)
सुषिरद्वयसंयुक्तम् अर्धचन्द्रसमन्वितम् ।
उपदण्डप्रमाणेन वेणुदण्डं विधीयते ॥ १७१ ॥
नवतालेन तत्कुर्यात् सप्ततालं तु मध्यमम् ।
षट्तालं पञ्चतालं च कन्यसम् उपदण्डकम् ॥ १७२ ॥
अयसा वलयं वापि बन्धयेदुपदण्डकम् ।
कार्पाससूत्रं रज्जुं च वलयद्विगुणं भवेत् ॥ १७३ ॥
कनिष्ठाङ्गुलि प्रमाणं तु दण्डमूलं समाश्रितम् ।
भूमि सम्प्रोक्षणं कुर्याद् यष्टिबन्धन संयुतम् ॥ १७४ ॥
दण्डं तु स्थापनं कुर्यात् शालितण्डुल कूर्चकम् ।
रत्नजं रजतं चैव कूर्मासनं तु लोहजम् ॥ १७५ ॥
प्। १२६६)
पञ्चलोहसमायुक्तं दण्डमूले तु योजयेत् ।
त्रिहस्तं तु प्रमाणेन द्विहस्तं वा नयेत्क्रमात् ॥ १७६ ॥
पुण्याहं वाचयेत्तत्र सुमुहूर्ते विचक्षणः ।
वेदिकालक्षणं प्रोक्तं * * भेदनिका तथा ॥ १७७ ॥
अथवा मृदं सङ्ग्राह्य त्रिमेखलसमन्वितम् ।
हस्तद्वयं तु विस्तारम् उत्सेधं हस्तमात्रकम् ॥ १७८ ॥
रत्निमात्र समुत्सेधं मुष्ठिमात्रमथापि वा ।
विस्तारात्तुसमुत्सेधं हस्तमात्रमथोत्तमः ॥ १७९ ॥
चतुविंशाङ्गुलं हस्तं मात्राङ्गुलेन कारयेत् ।
वेदिकालक्षणं प्रोक्तं दण्डमूले विचक्षणः ॥ १८० ॥
प्। १२६७)
शिल्पिं विसर्जयेद्धीमान्गोमयालेपनं ततः ।
कौतुकं बन्धयेद्धीमान् दण्डमध्ये सुबन्धनम् ॥ १८१ ॥
विनायकं पूजयेत्तत्र पुण्याहं वाचयेत्तदा ।
आयसं वलयं रज्जुद्विगुणं मूलमाश्रिता ॥ १८२ ॥
दर्भमालासमायुक्तं पुष्पमाल्यैश्च शोभितम् ।
ध्वजं च बन्धयेद्धीमान्किङ्किणी पुष्प शोभितम् ॥ १८३ ॥
वृषकुम्भश्च मूर्तिः स्याद्धूपदीप समन्वितः ।
सुमुहूर्ते तु यः कुर्याद् ध्वजारोहणमेव च ॥ १८४ ॥
कार्पासकेन संयुक्तं सन्धयेत्तु दृढं बुधः ।
विपरीतं च रोहणं प्रायश्चित्तं विधीयते ॥ १८५ ॥
प्। १२६८)
शान्तिहोमं ततः कुर्यात् पुनस्सन्धानमाचरेत् ।
सर्वदेवान्समावाह्य दण्डमूले तु योजयेत् ॥ १८६ ॥
लोकपालान्समभ्यर्च्य दिग्देवान्बन्धयेत्क्रमात् ।
नृत्तगीतसमायुक्तं सर्वघोष समन्वितम् ॥ १८७ ॥
मुद्गान्नं तु निवेद्यं स्यात् पायसान्नं निवेदयेत् ।
बल्यन्नं तु ततः कुर्यात् दिग्विदिक्षु च एव हि ॥ १८८ ॥
गर्भोत्पत्तिसमायुक्तं धृतमाङ्गल्यदापयेत् ।
अमङ्गल्य कन्यका चैव अपस्मारो दृढं बुधः ॥ १८९ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
शिवाग्रे मण्टपं कुर्याद् गोमयेनोपलेपयेत् ॥ १९० ॥
प्। १२६९)
उमास्कन्दान्तमेवं स्यात् कौतुकं बन्धयेत्क्रमात् ।
सुवर्णं रजतं वाथ अथ कार्पासमेव च ॥ १९१ ॥
त्रियम्बलेन मन्त्रेण रक्षाबन्धन कर्मणि ।
स्थलिके स्थण्डिलं चैव तन्मध्ये तन्तुरक्षकम् ॥ १९२ ॥
परिचारक हस्तेन प्राकारेति प्रदक्षिणम् ।
नववस्त्र समायुक्तं तूर्यघोष समन्वितम् ॥ १९३ ॥
तस्याग्रेण स्थितं कुर्यात् पुण्याहं वाचयेत्ततः ।
त्रियम्बकेन मन्त्रेण रक्षासूत्रं सुबन्धयेत् ॥ १९४ ॥
उमासहितमेवोक्तं चन्द्रशेखरमेव वा ।
पुष्पमालां ततः कुर्यात् कूटं वा मण्टपं तु वा ॥ १९५ ॥
प्। १२७०)
ऐन्द्रे वा पावके वापि यमे वा राक्षसेऽपि वा ।
वायौ सोमे तथैशान्यां यागमण्टपमेव च ॥ १९६ ॥
मण्टपं समलङ्कृत्य तस्यान्तर्वेदिकां कुरु ।
रत्निमात्र समुत्सेधं दर्पणोदरसन्निभम् ॥ १९७ ॥
हस्तद्वितयविस्तारमुपवेदीसमायुतम् ।
नवाग्निरुत्तमश्चैव पञ्चाग्निर्मध्यमो भवेत् ॥ १९८ ॥
एकाग्निरधमश्चैव वृत्तं वा चतुरश्रकम् ।
एकाग्निं वाथ कुर्वीत पूर्वपश्चिममेव वा ॥ १९९ ॥
यद्द्वाराभिमुखं लिङ्गं तद्द्वारं कुम्भपूजनम् ।
तदग्रे अग्निकुण्डं वा होमयेत्तु विचक्षणः ॥ २०० ॥
प्। १२७१)
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा ।
चतुस्तम्भसमायुक्तं चतुर्द्वारसमायुतम् ॥ २०१ ॥
युगतोरण संयुक्तं दर्भमाला समन्वितम् ।
गात्रवेष्टन संयुक्तं पताका ध्वजमेव च ॥ २०२ ॥
वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ।
तदर्धं तण्डुलैः प्रोक्तं तदर्धं तु तिलैरपि ॥ २०३ ॥
तन्मध्ये नलिनं लिख्य अष्टपत्रं सकर्णिकम् ।
मध्ये सदाशिवं कुम्भं वर्धनीं तु तथोत्तरे ॥ २०४ ॥
अष्टविद्येश्वराश्चैते तत्तत्स्वनाममन्त्रकैः ।
द्वारकुम्भं समादाय पूर्वादीशान्तमर्चयेत् ॥ २०५ ॥
प्। १२७२)
प्राकुम्भमग्निकुम्भं वा निरृति त्रयमेव च ।
वारुण्यभूते तथैव वायुसोमे युगान्तं च त्रिकुम्भमीशे ॥ २०६ ॥
तत्तत्स्वनाममन्त्रेण द्वारकुम्भं समर्चयेत् ।
सर्वदेवं समावाह्य गन्धपुष्पादिनार्चयेत् ॥ २०७ ॥
धूपदीप समायुक्तं होमं कृत्वा विचक्षणः ।
पुण्याहं वाचयेत्तत्र कौतुकं बन्धयेत्क्रमात् ॥ २०८ ॥
कौतुकं त्वग्निकुण्डे तु प्रति प्रति विशेषतः ।
कुण्डसंस्कारमेवोक्तम् अग्निं प्रज्वाल्यमेव च ॥ २०९ ॥
अग्निकार्यविधिः प्रोक्तः प्रतिकुण्डं तु होमयेत् ।
आचार्यः शिष्यसंयुक्तो होमं कुर्याद्विचक्षणः ॥ २१० ॥
प्। १२७३)
पालाशौदुम्बरं चैव अपामार्गं नृपस्य तु ।
बिल्वं च खदिरं चैव न्यग्रोधं वह्निमेव च ॥ २११ ॥
वैकङ्कतं च काश्मीरं समिधस्समुदाहृताः ।
परिस्तरणदर्भाणां परिधित्रयमेव च ॥ २१२ ॥
पूर्वे ऊर्ध्वं च समिधां द्वयं विष्ठरमेव च ।
ब्रह्माणं दक्षिणेऽभ्यर्य्च उत्तरे तु जनार्दनम् ॥ २१३ ॥
परिषेचन पात्रैश्च प्रोक्षणी पात्रमेव च ।
प्रणीता पात्रमादाय पूजयेच्च जनार्दनम् ॥ २१४ ॥
आज्यसंस्कारमेवोक्तं स्वाहासहितमेव च ।
होमान्ते तद्बलिं कुर्यान् मेखलोपरि विन्यसेत् ॥ २१५ ॥
प्। १२७४)
तत्तत्स्वनाममन्त्रेण लोकपालबलिं क्षिपेत् ।
बहिर्बलिविधिं कुर्याद् अन्तर्बलिमथाचरेत् ॥ २१६ ॥
कुण्डपार्श्वे पावके च अन्तर्बलिं क्षिपेत्ततः ।
प्रथममष्टनागं च द्वितीयं द्वादशादिकम् ॥ २१७ ॥
नानादिग्बलिं निक्षिप्य पूर्णाहुतिमथाचरेत् ।
अग्निमन्त्रमनुस्मृत्य स्वाहेति च नियोजयेत् ॥ २१८ ॥
अग्निमूर्तिं समावाह्य कुम्भमध्ये सुयोजयेत् ।
हविर्निवेदयेत्तत्र सर्वदेवं निवेद्यकम् ॥ २१९ ॥
होमान्ते भेरिघोषः स्यात्सप्ततालविधिर्भवेत् ।
आहूयवाद्यकान्पश्चाद् आचार्यः शिष्य एव च ॥ २२० ॥
प्। १२७५)
यागान्ते भेरिघोषः स्याद् वास्तुदेवबलिं क्षिपेत् ।
प्रथममन्तर्बलिं कुर्याद् द्वितीयं दिनदेवता ॥ २२१ ॥
ध्वजादिबलिपीठान्तं बलिभोज्यक्रमं शृणु ।
उमास्कन्देश्वरं देवं ग्रामप्रदक्षिणं तथा ॥ २२२ ॥
तथे वा शिबिकायां वा स्थापयेद्देवमेव च ।
शङ्खघोष समायुक्तं ब्रह्मघोष समन्वितम् ॥ २२३ ॥
सर्ववाद्य समायुक्तं स्तोत्रमङ्गलवाचकैः ।
छत्रं च चामरं चैव व्यजनं ध्वजमेव च ॥ २२४ ॥
सर्वदेव समायुक्तं यन्त्रदीपमनन्तरम् ।
सर्वभक्तजनानां तु नृपतिब्रह्ममेव च ॥ २२५ ॥
प्। १२७६)
आचार्यं दक्षिणे पार्श्वे नृपतिर्वामपार्श्वके ।
रुद्रकन्यकय युक्तं गान्धर्वं तु शिवाग्रके ॥ २२६ ॥
ग्राम प्रदक्षिणं कुर्याद् आस्थानं मण्टपं तथा ।
पाद्यमाचमनं चार्ध्यं धूपदीप समन्वितम् ॥ २२७ ॥
आरात्रिमर्चयेद्धीमान् भस्मं तु पातयेद्बुधः ।
दर्पणं चामरं चैव व्यजनं छत्रमेव च ॥ २२८ ॥
भस्मं तु दापयेत्पश्चान् नृपभक्तजनान्वितः ।
नालिकेर समायुक्तं कदलीफल संयुतम् ॥ २२९ ॥
अभिमन्त्रित ताम्बूलं ताम्बूलं तु निवेदयेत् ।
तद्दिनं तु समारभ्य यज्ञं सप्तदिनं भवेत् ॥ २३० ॥
प्। १२७७)
तद्दिनात्सप्तदिवसे तैलाभ्यञ्जन कर्मणि ।
आस्थान मण्डपं कुर्याद् गोमयालेपिते शुभे ॥ २३१ ॥
स्थण्डिलं तत्र कुर्वीत अष्टद्रोणैश्च शालिभिः ।
तन्मध्ये तु घृतं स्थाप्य दूर्वाक्षत समायुतम् ॥ २३२ ॥
पुण्याहं वाचयित्वा तु घृतं शिरोर्पणमेव हि ।
दूर्वाक्षत समायुक्तम् ऊद्धू * * * * बुधः ॥ २३३ ॥
अस्त्रभेर्यादि संयुक्तं तैलाभ्यञ्जनकं तथा ।
स्नपनं कारयित्वा तु पञ्चाशत्पञ्चविंशतिः ॥ २३४ ॥
शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् ।
मुक्ताभरण संयुक्तं श्वेतचन्दनलेपितम् ॥ २३५ ॥
प्। १२७८)
बहुनैवेद्य संयुक्तम् उपदंश समन्वितम् ।
ताम्बूलं तु निवेद्यं स्याद्धूपदीप समन्वितम् ॥ २३६ ॥
आरात्रिमर्चयेत्कुर्यात् भस्मं तु दापयेद्बुधः ।
ग्रामप्रदक्षिणं कुर्यात् प्रवेशे दीपदापनम् ॥ २३७ ॥
काले काले विशेषेण बहिर्होमं समाचरेत् ।
पश्चाद्धोमबलिं कुर्यात् अस्त्रराज समन्वितम् ॥ २३८ ॥
अन्नलिङ्गबलिं चैव चन्द्रशेखरमेव च ।
रात्रौ बलिं ततः कुर्यात् सर्वेषां बलिमाचरेत् ॥ २३९ ॥
ग्रामप्रदक्षिणं कुर्यात् त्प्रविशेदालयं प्रति ।
अष्टमे वा नवाहे वा गन्धोत्सव विधिक्रमम् ॥ २४० ॥
प्। १२७९)
तद्दिनस्य तृतीये वा द्वितीये वाङ्कुरार्पणम् ।
तद्दिनात्पूर्वरात्रौ तु कौतुकं मङ्गलं कुरु ॥ २४१ ॥
गीतं च ललितं चैव भुजङ्गत्रासमेव च ।
एकनृत्तसमायुक्तं स्नपनं तत्र कारयेत् ॥ २४२ ॥
शिवाग्रेमण्टपं कुर्याद् आस्थानं मण्टपं तथा ।
गोमयालेपिते शुद्धे स्थण्डिलं परिकल्पयेत् ॥ २४३ ॥
अष्टद्रोणैश्च शालीनां तदर्धं तण्डुलं तथा ।
तदर्धं तिलसंयुक्तं देवाग्रे स्थण्डिलं तथा ॥ २४४ ॥
दर्भैः पुष्पैः परिस्तीर्यं लाजपुष्पैश्च शोभितः ।
तन्मध्ये तु त्रिपादीनां ब्रह्मजज्ञानमन्त्रतः ॥ २४५ ॥
प्। १२८०)
नाके सुपर्णमन्त्रेण दक्षिणे सूत्रमेव च ।
आप्याय स्वेति मन्त्रेण उत्तरे रेखयेत्क्रमात् ॥ २४६ ॥
यो रुद्र इति मन्त्रेण उदक्सूत्रं तथैव च ।
इदं विष्ण्वितिमन्त्रेण प्रतीच्यां रेखयेत्क्रमात् ॥ २४७ ॥
इदं विश्वेति मन्त्रेण पूर्वरेखां समालिखेत् ।
तन्मध्ये स्थापितं कुर्यात् प्रदक्षिण मथाचरेत् ॥ २४८ ॥
वागीश्वरं वागीशीं तन्मन्त्रैरर्चयेत्क्रमात् ।
तत्पुरो ह्यासनं कल्प्य प्रणीतां प्रोक्षणीं तथा ॥ २४९ ॥
आज्यस्थालीं सृक्सृवं च साधयेत्तु विशेषतः ।
समित्त्रय समायुक्तं परिधित्रयमेव च ॥ २५० ॥
प्। १२८१)
प्रोक्षणी पात्रमादाय जलेनापूरयेत्क्रमात् ।
कुशपुष्पाक्षतैर्युक्तं प्रोक्षणीं साधयेत्ततः ॥ २५१ ॥
प्रणीतापात्रमादाय तोयपुष्पाक्षतैर्युतम् ।
उत्तरे चैव सङ्कल्प्य जनार्दनं समर्चयेत् ॥ २५२ ॥
आज्यस्थालीं घृतं * * त्रिंशत्स्पर्शनकूर्चकम् ।
कूर्चग्रन्थिं विसृज्याथ अग्निमध्ये स्थितं ताः ॥ २५३ ॥
तथा संस्कारदर्भाणाम् अग्निं प्रदक्षिणं तथा ।
व्याहृतिं जुहुयात्पश्चाद् ब्रह्मजज्ञानमन्त्रकैः ॥ २५४ ॥
परिस्तरण दर्भाणां परिधित्रयमेव च ।
पूर्वे विष्ठरं सङ्कल्प्य समिदाहुतिमाचरेत् ॥ २५५ ॥
प्। १२८२)
समिधा सद्यमन्त्रेण आज्यं वामेन होमयेत् ।
अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु ॥ २५६ ॥
तिलमीशानमन्त्रेण सर्षपं कवचेन तु ।
मुद्गमाषं च शालीनां नेत्रमन्त्रेण हूयते ॥ २५७ ॥
पायसं गुलखण्डं च शिवमन्त्रेण हूयते ।
प्रति प्रति तथा कुर्यात् प्रत्येकं तु दशाहुतीः ॥ २५८ ॥
शिवगायत्रि मन्त्रेण तत्तदष्टोत्तरं हुनेत् ।
द्रव्यान्ते व्याहृतिं हुत्वा दशहुत्वा समाचरेत् ॥ २५९ ॥
पूर्णाहुतिं च शिरसा अग्निबीजमनुस्मरन् ।
होमान्ते कौतुकं कुर्यात् पुनः पुण्याहमाचरेत् ॥ २६० ॥
प्। १२८३)
त्रियम्बकेन मन्त्रेण कौतुकं तु नटेश्वरम् ।
शक्तेस्तु वामहस्ते तु कौतुकं बन्धयेत्सुधीः ॥ २६१ ॥
कौतुकं त्वस्त्रदेवानां मृदपाद्ये तु कौतुकम् ।
धूपदीपसमायुक्तमारात्रिमर्चयेद्बुधः ॥ २६२ ॥
सुमुहूर्ते विशेषेण बन्धयेत्कौतुकं हृदा ।
ब्राह्मणान्भोजयेत्तत्र चतुर्वेदसमन्वितान् ॥ २६३ ॥
नृत्तगीतं च वाद्यं च पुराणकथनं क्रमात् ।
अपूपं निवेदयेद्धीमान् बहुनैवेद्यसंयुतम् ॥ २६४ ॥
निवेदयेत्ततो मन्त्री ताम्बूलं तु निवेदयेत् ।
धूपदीपसमायुक्तमारात्रिकमथाचरेत् ॥ २६५ ॥
प्। १२८४)
छत्रं च चामरं चैव दर्पणं दर्शयेत्क्रमात् ।
भस्मशेषं च नृपतिर्भक्तानां दापयेत्सुधीः ॥ २६६ ॥
नववस्त्रैरलङ्कृत्य कौतुकं पूर्ववत्क्रमात् ।
सर्वाभरण संयुक्तं मुक्ताभरणभूषितम् ॥ २६७ ॥
श्वेतपुष्पैरलङ्कृत्य श्वेतचन्दनलेपितम् ।
नीलोत्पलसमं पुष्पं न भवेत्तु भविष्यति ॥ २६८ ॥
तण्डुलं च समायुक्तं प्रभावसमन्वितम् ।
हर्म्यप्रदक्षिणं कुर्याद् आस्थानं मण्टपं स्थितम् ॥ २६९ ॥
धूपदीपसमायुक्तं नीराञ्जनं विशेषतः ।
भस्मं तु दापयेत्पश्चाच् छत्रचामरदर्शनम् ॥ २७० ॥
प्। १२८५)
नृपतेश्च जनानां च शेषं भस्म तु दापयेत् ।
प्रातःकाले समारभ्य गन्धोत्सव विधिक्रमम् ॥ २७१ ॥
आचार्यः स्नानमेवं तु प्रतिमास्नानमाचरेत् ।
चित्रवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् ॥ २७२ ॥
कस्तूरीं चैव कर्पूरं कृष्णगन्धं तु मिश्रितम् ।
शङ्खदुन्दुभिनिर्घोषैः स्तोत्रमङ्गलवाचकैः ॥ २७३ ॥
ग्रामप्रदक्षिणं कुर्यात् प्रविश्यास्थान मन्टपम् ।
देवसन्निधिसम्प्राप्ते होमं कृत्वा विशेषतः ॥ २७४ ॥
पूर्ववदग्निं संस्थाप्य अग्निकार्योक्तमाचरेत् ।
पुण्याहं कारयेद्धीमान् होमं कृत्वा विचक्षणः ॥ २७५ ॥
प्। १२८६)
सर्वगन्धसमायुक्तं कृष्णगन्ध प्रधानकम् ।
होमान्ते कृष्णगन्धेन लेपयेत्तु नटेश्वरम् ॥ २७६ ॥
शक्तौ गन्धं समुत्प्राप्य सुमुहूर्ते विचक्षणः ।
ब्राह्मणान्भोजयेत्तत्र स्वस्तिसूक्तसमन्वितम् ॥ २७७ ॥
अस्त्रदेवं सुभेरीं च मृदवाद्ये तु गन्धकम् ।
मूलबेरं सुगन्धं स्यात् परिवार समन्वितम् ॥ २७८ ॥
यागेश्वरस्य देवानां कृष्णगन्धं तु दापयेत् ।
चतुर्वेद प्रवक्तॄणां द्विजानां भोजयेत्क्रमात् ॥ २७९ ॥
शुद्धनृत्तं विशेषेण गीतवाद्य समन्वितम् ।
गोदर्शमशुभं प्राप्य कन्यादर्शन सम्भवम् ॥ २८० ॥
प्। १२८७)
भेरीं तु ताडनं कृत्वा आचार्य हस्तमेव च ।
गन्धद्वारेति मन्त्रेण ताडयेत्तु विचक्षणः ॥ २८१ ॥
आहूय वाद्यकान्पश्चात् हस्ते पुष्पं तु निक्षिपेत् ।
पुष्पाञ्जलिर्नमस्कृत्वा वाद्यकान्ताडयेत्क्रमात् ॥ २८२ ॥
सप्ततालविधिः प्रोक्त आचार्यः शिष्य एव च ।
नन्दिमन्त्रं समुच्चार्यं मृदवाद्यं तु ताडयेत् ॥ २८३ ॥
आचार्यस्ताडयेत्पश्चाद् वाद्यकास्तदनन्तरम् ।
झल्लरीमुखं चैव पटहं मर्दलं तथा ॥ २८४ ॥
महानाट्यसमायुक्तं महाघोष समन्वितम् ।
सप्ततालं ततः कुर्यान् महानाट्यं तथैव च ॥ २८५ ॥
प्। १२८८)
देवदेवं नमस्कृत्वा पाद्याचमनमेव च ।
धूपदीप समायुक्तं नीराजनं विशेषतः ॥ २८६ ॥
भस्मं तु दापयेत्पश्चाद् दर्पणं दर्शयेत्क्रमात् ।
छत्रं च चामरं चैव व्यजनं च क्रमात्सुधीः ॥ २८७ ॥
शेषभस्म समायुक्तं भूपतिं च विशेषतः ।
सर्वभक्तजनानां तु सर्वेषां गन्धमेव च ॥ २८८ ॥
महाहविर्निवेद्यं स्यात् ताम्बूलं तु निवेदयेत् ।
धूपदीप समायुक्तमारात्रिमर्चयेत्क्रमात् ॥ २८९ ॥
सर्वपुष्पैरलङ्कृत्य सर्वघोष समन्वितम् ।
शङ्खनाद समायुक्तं दुन्दुभीमर्दलान्वितम् ॥ २९० ॥
प्। १२८९)
पुष्पप्रभा समायुक्तं चित्रप्रभा समन्वितम् ।
रथे वा शिबिकायां वा चित्रदीप समन्वितम् ॥ २९१ ॥
सप्ताग्रहं ततः कुर्यात् प्रविश्यास्थानमण्टपम् ।
पाद्यमाचमनं चार्घ्यं धूपदीप समन्वितम् ॥ २९२ ॥
नीराजनं ततः कुर्याद् भस्म तु दापयेत्क्रमात् ।
नालिकेरसमायुक्तं कदलीपनसं तथा ॥ २९३ ॥
ताम्बूलं दापयित्वा तु दर्पणं दर्शयेत्क्रमात् ।
छत्रं च चामरं कुर्यात् गीतवाद्य समन्वितम् ॥ २९४ ॥
स्नपनं कारयित्वा तु पञ्चाशत्पञ्चविंशतिः ।
स्नपनं कारयित्वा तु पूर्ववत्परिकल्पयेत् ॥ २९५ ॥
प्। १२९०)
लाजचूर्णं शकृच्चूर्णं मृदं ग्राह्य तु बुद्धिमान् ।
अभिषेकं प्रकुर्वीत स्नपनं कारयेत्क्रमात् ॥ २९६ ॥
पुण्याहं वाचयेत्तत्र वेदध्वनि समायुतम् ।
शुक्लवस्त्रपरीधानं श्वेतमाल्यानुलेपनम् ॥ २९७ ॥
श्वेतचन्दन संयुक्तं कर्पूरं चैव मिश्रितम् ।
श्वेतयज्ञोपवीतं च श्वेतवस्त्रोत्तरीयकम् ॥ २९८ ॥
हविर्निवेदयेत् धीमान् ताम्बूलं तत्र कारयेत् ।
शिबिकायां ततः कुर्यात् प्राकारे तु प्रदक्षिणम् ॥ २९९ ॥
शिवाग्रे मण्टपं कुर्याद् आस्थानं मण्टपं तथा ।
धूपदीप समायुक्तम् आरात्रिक समन्वितम् ॥ ३०० ॥
प्। १२९१)
पैशाचनृत्तसंयुक्तं महानाटकमेव च ।
प्रातःकाले समारभ्य चित्रवस्त्रोत्तरीयकम् ॥ ३०१ ॥
सर्वाभरण संयुक्तं सर्वमङ्गलभूषितम् ।
सर्वमङ्गलवाद्यं च शङ्खकाहलमेव च ॥ ३०२ ॥
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ।
आस्थान मण्टपे स्थित्वा धूपदीपसमन्वितम् ॥ ३०३ ॥
आरात्रिमर्चयित्वा तु भस्म दत्वा विशेषतः ।
दर्पणं चामरं चैव व्यजनं च नयेत्क्रमात् ॥ ३०४ ॥
शेषभस्म ततः कुर्यान् नृपतिश्च विशेषतः ।
सर्वभक्तजनानां च भस्म दत्वा च दापयेत् ॥ ३०५ ॥
प्। १२९२)
नालिकेरसमायुक्तं पनसं कदलीफलम् ।
स्नानं कृत्वा यथान्यायं हविर्निवेदयेत्ततः ॥ ३०६ ॥
मृगयात्रां समारभ्य पूर्वरात्राधिवासयेत् ।
त्रिपुरघ्नप्रतिमां कुर्यात् कल्याणसुन्दरं तथा ॥ ३०७ ॥
वाजियन्त्राः स्थितान्ते तु राजयन्त्रं गजस्थिताः ।
कारुकैर्विद्यदृच्छं वा केचित्काले शिवोत्सवम् ॥ ३०८ ॥
केचित्खड्गधराश्चैव केचित्परशुधारिणः ।
परिधाय ययुस्सर्वे धनुर्धरास्तथैव च ॥ ३०९ ॥
युद्धारम्भे तथा सर्वे शीघ्रं गच्छेत्समाकुलम् ।
मृगपक्षिवराहाश्च मयूराः कुक्कुटास्तथा ॥ ३१० ॥
प्। १२९३)
मुक्तालङ्कार संयुक्तं वनयात्रा समन्वितम् ।
हेलाविलासकथितं गच्छेद्भक्तजनैर्युतम् ॥ ३११ ॥
गौरीं चण्डेश्वरं चैव महाकालं वृषं तथा ।
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं सह ॥ ३१२ ॥
प्रदोषसमये काले तीर्थाधिवासनं भवेत् ।
शिवाग्रे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ ३१३ ॥
तन्मध्ये नलिनं कुर्यात् त्रिपादीं तत्र विन्यसेत् ।
शालिकातण्डुलैः पूर्य तन्मध्ये कुम्भकं हृदा ॥ ३१४ ॥
उमास्कन्देश्वरं चैव अस्त्रदेव समन्वितम् ।
भेरीदेवं समभ्यर्च्य चण्डेशप्रतिमां तथा ॥ ३१५ ॥
प्। १२९४)
कौतुकं बन्धयेद्धीमान् उमास्कन्देश्वरं तथा ।
पुण्याहं पूर्ववत्कुर्यात् कौतुकं बन्धयेद्धृदा ॥ ३१६ ॥
त्रियम्बकेन मन्त्रेण रक्षासूत्रं सुबन्धयेत् ।
अस्त्रं तु कौतुकं कुर्याद्भेर्यां कौतुकबन्धनम् ॥ ३१७ ॥
नदीतटक उदकौ अस्त्रतीर्थसमन्वितम् ।
सर्वदेवं समावाह्य सप्ततन्तुं समापयेत् ॥ ३१८ ॥
स्थण्डिलं तत्र कुर्वीत कुम्भं तु स्थापयेत्क्रमात् ।
पुण्याहं वाचयेत्तत्र गन्धपुष्प समन्वितम् ॥ ३१९ ॥
सप्ततालविधिं कुर्याद् आचार्यः शिष्यसंयुतः ।
स्नानं कृत्वास्त्र तत्वज्ञः सर्वभक्तजनैस्सह ॥ ३२० ॥
प्। १२९५)
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ।
तीर्थाधिवासनं कृत्वा महातीर्थं ततः शृणु ॥ ३२१ ॥
प्रातःकाले समारभ्य अमृतस्नानमुत्तमम् ।
प्रातस्सङ्गमकाले तु यागान्ते वा बलिक्रमम् ॥ ३२२ ॥
ग्रामप्रदक्षिणं कुर्याद् उमास्कन्देश्वरं तथा ।
आस्थानमण्टपे स्थित्वा धूपदीप समन्वितम् ॥ ३२३ ॥
चूर्णोत्सवं ततः कुर्यान् मण्टपाग्रे विशेषतः ।
गोमयालेपिते शुद्धे श्वेतवर्णैरलङ्कृतम् ॥ ३२४ ॥
तन्मध्ये स्थलिकां कुर्याल्लूखलं मुसलेन तु ।
लूखलं ब्रह्मदैवत्यं मुसलं विष्णुदैवतम् ॥ ३२५ ॥
प्। १२९६)
वस्त्रं दूर्वासमायुक्तं तत्र पुष्पैः परिस्तरेत् ।
रजनीद्रोण संयुक्तं लूखलं पूर्णमेव च ॥ ३२६ ॥
रुद्रकन्यकया युक्तं स्नानं कृत्वा विशेषतः ।
त्रिपुण्ट्रभस्मसंयुक्तं श्वेतवस्त्रैरलङ्कृतम् ॥ ३२७ ॥
धूपदीपसमायुक्तं पुष्पं कूर्च उपन्यसेत् ।
लूखलं तु नमस्कृत्य रजनीचूर्णमेव च ॥ ३२८ ॥
शङ्खघोषसमायुक्तं सर्ववाद्यसमन्वितम् ।
रजनीं लूखलं पूर्य देवसन्निधि संयुतम् ॥ ३२९ ॥
कुशलाजाक्षतैःपुष्पं कूर्चं तत्रैव विन्यसेत् ।
मङ्गलाङ्कुरमावृत्य सुमुहूर्ते विचक्षणः ॥ ३३० ॥
प्। १२९७)
पुण्याहं वाचयेत्तत्र तैलं शिरोर्पणं ततः ।
मूलबेरं च परितो तैलाभ्यञ्जन कर्मणि ॥ ३३१ ॥
उमास्कन्देश्वरं चैव अस्त्रं भेर्यां च तैलकम् ।
दूर्वाङ्कुराक्षतैर्मूर्ध्नि अर्चयित्वा विशेषतः ॥ ३३२ ॥
धूपदीपसमायुक्तमारात्रिक समन्वितम् ।
भक्ष्यभोज्यविशेषेण ताम्बूलं तत्र कारयेत् ॥ ३३३ ॥
दर्पणं दर्शयेत्तत्र चामरं व्यजनं तथा ।
ब्राह्मणान्भोजयेत्तत्र चतुर्वेदसमन्वितान् ॥ ३३४ ॥
प्रतिमामस्त्रदेवानां रजनीचूर्णमस्तके ।
तैलारम्भे तु सहसा चूर्णं कृत्वा विचक्षणः ॥ ३३५ ॥
प्। १२९८)
तैलं च चूर्णपात्रं च अस्त्रदेव समन्वितम् ।
शङ्खघोष समायुक्तं वास्तुदेवबलिक्रमः ॥ ३३६ ॥
प्राकारेणावृतं कुम्भैः पूर्णं गच्छेत्समाकुलम् ।
भूपतिं तैलसंयुक्तं महासेना समन्वितम् ॥ ३३७ ॥
गायकैर्वाद्यनृत्तं वा गणिकाभिस्समन्वितम् ।
तदीतीरे तटाके वा तीर्थं च स महेश्वरम् ॥ ३३८ ॥
स्थण्डिलं तत्र कुर्वीत विधिपूर्वं विशेषतः ।
पुण्याहं वाचयेत्तत्र गन्धपुष्पसमन्वितम् ॥ ३३९ ॥
परिस्तरेण दर्भाणाम् अर्चयेत्कलशं तथा ।
सर्वदेवं समावाह्य सर्वतीर्थ समन्वितम् ॥ ३४० ॥
प्। १२९९)
सप्ततालविधिः प्रोक्त आचार्यः शिष्य एव च ।
अस्त्रेण सर्वभक्तानां सहस्नानं विधीयते ॥ ३४१ ॥
ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति ।
मूलदेवस्य स्नपनं प्रतिमा स्नपनं तथा ॥ ३४२ ॥
यागेशं पूजयेत्तत्र पूर्णाहुतिं समाचरेत् ।
शिवकुम्भं ततोद्धृत्य आचार्यः परिचारकैः ॥ ३४३ ॥
ग्रामप्रदक्षिणं कुर्याच् छिवाग्रे मण्टपं तथा ।
पुण्याहं वाचयेत्तत्र अभिषेकं च कारयेत् ॥ ३४४ ॥
यागेश्वरस्य देवानां पीठबाह्ये प्रदक्षिणम् ।
स्नपनं तत्र कुर्वीत वस्त्रेणालङ्कृतं शुभम् ॥ ३४५ ॥
प्। १३००)
उमास्कन्देश्वरं चैव स्नपनं तत्र कारयेत् ।
अष्टोत्तर शतं श्रेष्ठं पञ्चाशत्पञ्चविंशतिः ॥ ३४६ ॥
देवाग्रे स्थण्डिलं कृत्वा अष्टद्रोणैश्च शालिभिः ।
पुण्याहं वाचयेत्तत्र स्नपनं स्नानमाचरेत् ॥ ३४७ ॥
शुद्धवस्त्रपरीधानं श्वेतमाल्यसुशोभितम् ।
हविर्निवेद्य संयुक्तं ताम्बूलं तत्र कारयेत् ॥ ३४८ ॥
धूपदीपं समारोप्य नीराजनं विशेषतः ।
मौनव्रतधरास्सर्वे ग्रामप्रदक्षिणं तथा ॥ ३४९ ॥
लाजं पुष्पं गृहीत्वा तु ब्राह्मणान्स्वस्ति वाचकैः ।
आलयं तु प्रविश्याथ आचार्यः पूजयेत्ततः ॥ ३५० ॥
प्। १३०१)
यागोपकारसम्भारवस्त्रहेमाङ्गुलीयकैः ।
ब्राह्मणान्भोजयेत्तत्र भक्तानां परिचारकैः ॥ ३५१ ॥
ध्वजदेवं समभ्यर्च्य मुद्गान्नं तु निवेदयेत् ।
अवरोहं तु कुर्वीत शङ्खकाहलमर्दलैः ॥ ३५२ ॥
भेरीघोष समायुक्तं सर्वालङ्कारमेव च ।
प्राकारं तु प्रदक्षिण्य चण्डयागं समाचरेत् ॥ ३५३ ॥
चण्डेशं स्नानसंयुक्तं वस्त्रैराभरणैर्युतम् ।
चण्डाग्रे होमसंयुक्तम् अग्निकार्यं समाचरेत् ॥ ३५४ ॥
होमाग्रे तु बलिं दद्यात् ताम्बूलं तु निवेदयेत् ।
धूपदीपसमायुक्तम् अर्चयित्वा विशेषतः ॥ ३५५ ॥
प्। १३०२)
अन्नलिङ्गसमायुक्तं बलिपात्रसमन्वितम् ।
अस्त्रदेवं समादाय मौनं बलिं समाचरेत् ॥ ३५६ ॥
मौनव्रतधरास्सर्वे बलिदेवान्विसर्जयेत् ।
दीपहीनं तथा कुर्या प्रभानाथं तु घोषयेत् ॥ ३५७ ॥
ग्रामप्रदक्षिणं कृत्वा महापीठेबलिं क्षिपेत् ।
पादप्रक्षालनं कुर्यात् प्रविशेदालयं तथा ॥ ३५८ ॥
गौरीयागमहं वक्ष्ये पूर्वरात्रेऽधिवासयेत् ।
सायेचोत्सवमारभ्य उमास्कन्देश्वरं तथा ॥ ३५९ ॥
ग्राम प्रदक्षिणं कुर्याद् भक्तोत्सवमथाचरेत् ।
सर्वलोकसुखं पुण्यं सर्वराष्ट्रविवर्धनम् ॥ ३६० ॥
प्। १३०३)
सर्वदारिद्र्यशमनं राज्ञां विजयवर्धनम् ।
भोगमोक्षफलं चैव उत्सवः कथितः क्रमात् ॥ ३६१ ॥
इति योगजे उत्सव विधिपटलः