कालोदयं समासेन शृणुत्वं नन्दिकेश्वर ।
कालं ज्ञात्वा त्रिभेदैस्तु मृत्युं जयति सर्वतः ॥ १ ॥
प्। ११८२)
कालज्ञानोदयं सर्वे योगिनः शान्तचेतसः ।
आयुरादौ परीक्षेत ततो विज्ञानमाप्नुयात् ॥ २ ॥
आयुष्यरहिते मर्त्ये विज्ञानं निष्फलं भवेत् ।
तस्मात्सर्वप्रयत्नेन ज्ञात्वा कालं हि योगवित् ॥ ३ ॥
कालोत्तरं ततः कुर्याद् ध्यानधारणयोगजम् ।
काले वायुस्समाख्यातः कालः सर्वज्ञ उच्यते ॥ ४ ॥
कालो यमश्च सूर्यश्च कालस्सोमश्च देवता ।
सर्वदेवमयः कालो ज्ञात्वा कालं समभ्यसेत् ॥ ५ ॥
मेषः कर्कटकश्चैव तुला च मकरस्तथा ।
चरराशय इत्युक्ता वामनासापुटे चरेत् ॥ ६ ॥
प्। ११८३)
वृषभश्च तथा सिह्नो वृश्चिकः कुम्भ एव च ।
दक्षिणे नासिकाद्वारे चरेत्सम्यक् स्थिराख्यकाः ॥ ७ ॥
मिथुनं च तथा कन्या कोदण्डो मीन एव च ।
अस्वभाव स्वभावत्वादुभयत्रापि वै चरेत् ॥ ८ ॥
एवमभ्यासयोगेन देशिकस्योपदेशतः ।
अहन्यहनि चाभ्यासान्मृत्युं जयति पण्डितः ॥ ९ ॥
अरोगी यौवनोत्पन्नौबलीबालत्वमाप्नुयात् ।
इडाचन्द्रकलाज्ञेया पिङ्गला सूर्यसम्भवा ॥ १० ॥
वह्नेः कला सुषुम्ना स्यादहोरात्रं च रात्रितः ।
घटिकाः पञ्च पञ्चैव वामदक्षिणमेव वा ॥ ११ ॥
प्। ११८४)
विषं दक्षिणसञ्चारं वामं चामृतमेव च ।
सुषुम्ना वहते मिश्रं नाड्यां चैव पृथक् पृथक् ॥ १२ ॥
षष्टिन्यासे भवेत्प्राणः षट्प्राणैर्घटिकाः स्मृताः ।
षष्टिघटिकमहोरात्रं जीवसङ्ख्यां करोति यः ॥ १३ ॥
अयुते द्वे सहस्राणि षट्छतान्यधिकानि च ।
अहोरात्रेण चारेण श्वासचारणमेव तु ॥ १४ ॥
यथा तृणं जलूकां वै तृणानां यावदागतः ।
तद्वज्जिह्वा निरालम्बे नासाग्रे द्वादशाङ्गुले ॥ १५ ॥
हंसहंसेति चोच्छासं निश्वासं च करोत्यसौ ।
चतुरङ्गुलहानिः स्यात्तदायुर्हानिरुच्यते ॥ १६ ॥
प्। ११८५)
अष्टाङ्गुलं ततोच्छ्वासं प्राणायामं समभ्यसेत् ।
प्राणायाम विहीनश्चेन् मरणं तु विकारणात् ॥ १७ ॥
नाभिमध्ये कुटाकारं तन्मूलं नवखण्डके ।
अयनद्वयकाले तु प्रातःकाले परीक्षयेत् ॥ १८ ॥
आदौ दक्षिणपादं तु दिनपादं बहेदिति ।
ततः सव्यापसव्येन यावदस्तमितो रविः ॥ १९ ॥
भूतषट्सप्तवसवो ग्रहपङ्क्तिर्भवेत्तथा ।
पक्षमित्येव नाडीनां क्रमादस्तं शृणुष्व तत् ॥ २० ॥
षड्विवंशकरं चैव मूलभेदस्य सङ्ख्यया ।
त्रिंशत्तु वेदसङ्ख्यावै पञ्चाशद्द्वे च षष्टिकम् ॥ २१ ॥
प्। ११८६)
अशीतिश्शतसङ्ख्या वै व्युत्क्रमोक्तस्समाःसमाः ।
दिनार्धं च दिनं चैव द्विदिनं त्रिदिनं तथा ॥ २२ ॥
चतुर्दिनं भवेद्देवं वर्मणां पञ्चविंशतिः ।
भानुसङ्ख्या दशाब्दंस्यादष्टमं परिकीर्तितम् ॥ २३ ॥
चतुष्टयाब्दमेवं स्याद् अत ऊर्ध्वं शृणु क्रमात् ।
दीपनं च महागी स्याद् दशाह्ने वर्तितं यदि ॥ २४ ॥
पञ्चदशदिनं तद्वद् वत्यरात्रि च यैककम् ।
षड्विंशदिनलोपंस्यासप्तविंशद्दिने पुनः ॥ २५ ॥
अष्टाविंशद्दिनानां च वाहाञ्चैवायुरेव च ।
त्रिंशदेकत्रिंशत्त्रिंशद्दिनैस्तथैव च ॥ २६ ॥
प्। ११८७)
भावं दिनं चरेद्वायुदशसप्त * * मकम् ।
चतुष्टयं च त्रिदिनं द्विदिनं दिनमात्रकम् ॥ २७ ॥
एवं वायोः परीक्षा तु कालेन सममुच्यते ।
पाध्ववह्निरतश्चाथो दण्डस्पृकचेथरा भवेत् ॥ २८ ॥
पार्श्वे वायुश्च मध्ये तु गमनं वायुमृच्छति ।
कुम्भाहो तु चतुष्टिस्याल्ललाटे चाञ्जलिर्भवेत् ॥ २९ ॥
तत्पद्ममुपलाकारं दर्शनाज्जीवनं महत् ।
प्रतिपदादि सङ्गम्य पूर्वपक्षोपरिस्थिता ॥ ३० ॥
यत्र रेखाखिलं कस्यात् तद्दिने मरणं भवेत् ।
छाया न विष्ठा तत्रैव मरणं भवति ध्रुवम् ॥ ३१ ॥
प्। ११८८)
धूमावलोकने चापि वह्निरूपं तथैव च ।
त्रिमासान्मरणं गच्छेन्निश्चयं नन्दिकेश्वर ॥ ३२ ॥
भूतं चतुस्त्रये द्वे च एकमासं तथैव च ।
इष्टसङ्क्रमकाले तु सूर्यबिम्बनिरीक्षणात् ॥ ३३ ॥
लक्ष्यं तत्वविलक्षितेन मनसा शुद्धेन भावेन दक्षं
दक्षिणपश्चिमोत्तरपुरे षट्त्रिद्विमानैकतः ।
छिद्रं पश्यति मध्यमे दशदिनं धूमाकुलं पञ्चमं चैवं
कालमनाकुलेन मनसा योगीश्वरो लोकयेत् ॥ ३४ ॥
कृष्णश्चेन्मासमात्रं वै चार्धे वै चार्धमासकम् ।
पतितश्चेत्सप्तदिनं शून्यात्सप्तदिनं भवेत् ॥ ३५ ॥
प्। ११८९)
रवीन्दुपरिवेषं तु सूर्यबिम्बनिरीक्षणम् ।
अनेकभेदमासानां नक्षत्र पतनाद्यहम् ॥ ३६ ॥
बवृक्सं च तदर्धं च निर्धूमादेकमासतः ।
दिद्धूमास्तेकमासं च मण्डलानिं च चैकतः ॥ ३७ ॥
हेमरूपाश्च पञ्चम्ये अग्निपादाष्टमङ्गलैः ।
प्रत्यादित्यप्रभाश्च प्रत्यादित्यद्वयं तथा ॥ ३८ ॥
ज्योतिर्मण्डलमेकं च कृष्णाकाशोक्ततद्घितम् ।
भूमिधूमाद्दहाहं च भूमिघोषैस्त्रयं तथा ॥ ३९ ॥
पुम्भावाच्चतते दृष्ट्वा मर्ते आदित्यदर्शनम् ।
शिरोनूनादेकवर्षं सर्वन्यूना तदर्धतः ॥ ४० ॥
प्। ११९०)
छायाभूमास्त्रयस्त्रिंशद्द्विविहीनं पञ्चविंशतिः ।
कुब्जे नरश्चतुर्विंशत् शिरोनासा तदर्धकम् ॥ ४१ ॥
चतुर्दिवसमध्ये च सूर्यरूपं जपेत्परम् ।
दीपधूमात्सपञ्चम्ये सहदीपार्धपक्षतः ॥ ४२ ॥
अभावात्सप्तकं चैव कालरात्रिश्च पञ्चमम् ।
अर्धं च नवमं चैव मृत्युपा * श्रयं तथा ॥ ४३ ॥
एकमूर्धाबह्वरोस्त्रयोदशे मृत्युरेव च ।
तस्त्रस्थानेह्निमीशाश्च चत्वारि मरणं भवेत् ॥ ४४ ॥
कृष्णबिन्दुश्च दृश्येत मासान्मृत्युमवाप्नुयात् ।
गलस्थानमिम * * * दिनैर्मरणं भवेत् ॥ ४५ ॥
प्। ११९१)
कर्णमध्ये कृष्णबिन्दुः अर्धमासान्मरिष्यते ।
श्रोत्रपाश्वे तु कृष्णश्चेत् पञ्चाशद्दिवसान्मृतिः ॥ ४६ ॥
श्रोत्रपाश्वं च कृष्णं स्याद्विंशाहान्मरणं भवेत् ।
दन्ते कृष्णं च दृश्येत मासान्मृत्युमवाप्नुयात् ॥ ४७ ॥
कृष्णबिन्दुश्च तत्रास्ति पञ्चविंशद्दिनान्मृतिः ।
तन्मूलं कृष्णवर्णं स्यादष्टविंशत्यहान्मृतिः ॥ ४८ ॥
कृष्णं तु रसनाग्रं वै चत्वारिंशद्दिनं भवेत् ।
कदाचित्कण्डूय * * बुद्बुदाकार शर्तनात् ॥ ४९ ॥
त्रिंशद्दिनं च जीवेत तवाचोभिश्च कृष्णयुक् ।
त्रिंशद्दिनात्तु मरणं कथितं नन्दिकेश्वर ॥ ५० ॥
प्। ११९२)
कृष्णं नखालि हीमाञ्चे चतुर्दशदिनान्मृतिः ।
पदमध्ये च खिन्नं चे * * * मृत्युमाप्नुयात् ॥ ५१ ॥
तयोः पार्श्वे च कृष्णं चेत्सप्तविंशद्विवान्मृतिः ।
पादे विषं च कण्डूश्चेत् षड्वारान्मरणं भवेत् ॥ ५२ ॥
तत्र रेखा च कृष्णा च दशाहान्मृत्युमाप्नुयात् ।
मुखं शोभाविहीनं चेत् * * * मृतिमृच्छति ॥ ५३ ॥
जानुर्जङ्घा च कृष्णा चेत्त्रयस्त्रिंशद्दिनान्मृतिः ।
रेखादिवर्षमेतद्धि दृष्टिकर्णद्विविंशतिः ॥ ५४ ॥
मूर्ध्नि कृष्णनिमीलञ्चेत् त्र्यहान्मरणं भवेत् ।
एतत्कालमहाज्ञानं श्रुत्वैतदु * * * कः ॥ ५५ ॥
प्। ११९३)
क्षिप्रेकोपरतारेथा रपाङ्गे चलते तथा ।
शब्दस्तोयनिधौ भीममपिश्वासस्य नेधनः ॥ ५६ ॥
अब्दे तद्दलकोदर्धसमयेमासे तदर्धे तथा ।
पञ्चाहे दिवसेऽह्नि जीवहरणं विद्या * तैः ॥ ५७ ॥
लवादिप्रलयान्तं तु कालमेवं निरीक्षयेत् ।
नलिनीपद्मसंहत्याः सूक्ष्मसूच्यभिवेधने ॥ ५८ ॥
दले दले तु यः कालः स कालो लववाचकः ।
लवैस्त्रुटिः स्यात्त्रिंशद्भिः कल * वत्थितं विदुः ॥ ५९ ॥
काष्ठा तावत्कलाज्ञेया तावत्काष्ठा निमेषकः ।
त्रिंशत्कलामुहूर्तं स्यादित्येवं चापि पञ्चमम् ॥ ६० ॥
एवं कालं विदित्वा तु कालपञ्चकमभ्यसेत् ।
इत्यचिन्त्य विश्वसादाख्ये कालोदयविधिः अशीतितमः पटलः ॥